Friday, December 26, 2025

अरण्यकाण्ड - Araṇyakāṇḍa (भाग - १ ;;; Part – 1)

 

अरण्यकाण्ड - Arayakāṇḍa (भाग - ;;; Part – 1)

 

Sarga number as per Ramayana

Shlokas extracted

No. of shlokas

Cumulative number of shlokas in this Kanda

1

प्रविश्य तु महारण्यं दण्डकारण्यमात्मवान् |
ददर्श रामो दुर्धर्षस्तापसाश्रममण्डलम् || १||

कुशचीरपरिक्षिप्तं ब्राह्म्या लक्ष्म्या समावृतम् |
यथा प्रदीप्तं दुर्धर्शं गगने सूर्यमण्डलम् || २||

शरण्यं सर्वभूतानां सुसमृष्टाजिरं सदा |
पूजितं चोपनृत्तं च नित्यमप्सरसां गणैः || ३||

विशालैरग्निशरणैः स्रुग्भाण्डैरजिनैः कुशैः |
समिद्भिस्तोयकलशैः फलमूलैश्च शोभितम् || ४||

आरण्यैश्च महावृक्षैः पुण्यैः स्वादुफलैर्वृतम् |
बलिहोमार्चितं पुण्यं ब्रह्मघोषनिनादितम् || ५||

पुष्पैर्वन्यैः परिक्षिप्तं पद्मिन्या च सपद्मया |
फलमूलाशनैर्दान्तैश्चीरकृष्णाजिनाम्बरैः || ६||

सूर्यवैश्वानराभैश्च पुराणैर्मुनिभिर्वृतम् |
पुण्यैश नियताहारैः शोभितं परमर्षिभिः || ७||

तद्ब्रह्मभवनप्रख्यं ब्रह्मघोषनिनादितम् |
ब्रह्मविद्भिर्महाभागैर्ब्राह्मणैरुपशोभितम् || ८||

तद्दृष्ट्वा राघवः श्रीमांस्तापसाश्रममण्डलम् |
अभ्यगच्छन्महातेजा विज्यं कृत्वा महद्धनुः || ९||

दिव्यज्ञानोपपन्नास्ते रामं दृष्ट्वा महर्षयः |
अभ्यगच्छंस्तदा प्रीता वैदेहीं च यशस्विनीम् || १०||

ते तं सोममिवोद्यन्तं दृष्ट्वा वै धर्मचारिणः |
मङ्गलानि प्रयुञ्जानाः प्रत्यगृह्णन्दृढव्रताः || ११||

रूपसंहननं लक्ष्मीं सौकुमार्यं सुवेषताम् |
ददृशुर्विस्मिताकारा रामस्य वनवासिनः || १२||

वैदेहीं लक्ष्मणं रामं नेत्रैरनिमिषैरिव |
आश्चर्यभूतान्ददृशुः सर्वे ते वनचारिणः || १३||

अत्रैनं हि महाभागाः सर्वभूतहिते रताः |
अतिथिं पर्णशालायां राघवं संन्यवेशयन् || १४||

ततो रामस्य सत्कृत्य विधिना पावकोपमाः |
आजह्रुस्ते महाभागाः सलिलं धर्मचारिणः || १५||

मूलं पुष्पं फलं वन्यमाश्रमं च महात्मनः |
निवेदयीत्वा धर्मज्ञास्ततः प्राञ्जलयोऽब्रुवन् || १६||

धर्मपालो जनस्यास्य शरण्यश्च महायशाः |
पूजनीयश्च मान्यश्च राजा दण्डधरो गुरुः || १७||

इन्द्रस्यैव चतुर्भागः प्रजा रक्षति राघव |
राजा तस्माद्वनान्भोगान्भुङ्क्ते लोकनमस्कृतः || १८||

ते वयं भवता रक्ष्या भवद्विषयवासिनः |
नगरस्थो वनस्थो वा त्वं नो राजा जनेश्वरः || १९||

न्यस्तदण्डा वयं राजञ्जितक्रोधा जितेन्द्रियाः |
रक्षितव्यास्त्वया शश्वद्गर्भभूतास्तपोधनाः || २०||

एवमुक्त्वा फलैर्मूलैः पुष्पैर्वन्यैश्च राघवम् |
अन्यैश्च विविधाहारैः सलक्ष्मणमपूजयन् || २१||

तथान्ये तापसाः सिद्धा रामं वैश्वानरोपमाः |
न्यायवृत्ता यथान्यायं तर्पयामासुरीश्वरम् || २२||

22

22

Shri Rama, Seetha, and Lakshmana enter the great Dandaka Forest and adore the eminent sages, who are in penance and hermitages in that forest.  The sages extend required hospitality to them.

2

कृतातिथ्योऽथ रामस्तु सूर्यस्योदयनं प्रति |
आमन्त्र्य स मुनीन्सर्वान्वनमेवान्वगाहत || १||

नानामृगगणाकीर्णं शार्दूलवृकसेवितम् |
ध्वस्तवृक्षलतागुल्मं दुर्दर्श सलिलाशयम् || २||

निष्कूजनानाशकुनि झिल्लिका गणनादितम् |
लक्ष्मणानुगतो रामो वनमध्यं ददर्श ह || ३||

वनमध्ये तु काकुत्स्थस्तस्मिन्घोरमृगायुते |
ददर्श गिरिशृङ्गाभं पुरुषादं महास्वनम् || ४||

गभीराक्षं महावक्त्रं विकटं विषमोदरम् |
बीभत्सं विषमं दीर्घं विकृतं घोरदर्शनम् || ५||

वसानं चर्मवैयाघ्रं वसार्द्रं रुधिरोक्षितम् |
त्रासनं सर्वभूतानां व्यादितास्यमिवान्तकम् || ६||

त्रीन्सिंहांश्चतुरो व्याघ्रान्द्वौ वृकौ पृषतान्दश |
सविषाणं वसादिग्धं गजस्य च शिरो महत् || ७||

अवसज्यायसे शूले विनदन्तं महास्वनम् |
स रामो लक्ष्मणं चैव सीतां दृष्ट्वा च मैथिलीम् || ८||

अभ्यधावत्सुसङ्क्रुद्धः प्रजाः काल इवान्तकः |
स कृत्वा भैरवं नादं चालयन्निव मेदिनीम् || ९||

अङ्गेनादाय वैदेहीमपक्रम्य ततोऽब्रवीत् |
युवां जटाचीरधरौ सभार्यौ क्षीणजीवितौ || १०||

प्रविष्टौ दण्डकारण्यं शरचापासिधारिणौ |
कथं तापसयोर्वां च वासः प्रमदया सह || ११||

अधर्मचारिणौ पापौ कौ युवां मुनिदूषकौ |
अहं वनमिदं दुर्गं विराघो नाम राक्षसः || १२||

चरामि सायुधो नित्यमृषिमांसानि भक्षयन् |
इयं नारी वरारोहा मम भर्या भविष्यति |
युवयोः पापयोश्चाहं पास्यामि रुधिरं मृधे || १३||

तस्यैवं ब्रुवतो धृष्टं विराधस्य दुरात्मनः |
श्रुत्वा सगर्वितं वाक्यं सम्भ्रान्ता जनकात्मजा |
सीता प्रावेपतोद्वेगात्प्रवाते कदली यथा || १४||

तां दृष्ट्वा राघवः सीतां विराधाङ्कगतां शुभाम् |
अब्रवील्लक्ष्मणं वाक्यं मुखेन परिशुष्यता || १५||

पश्य सौम्य नरेन्द्रस्य जनकस्यात्मसम्भवाम् |
मम भार्यां शुभाचारां विराधाङ्के प्रवेशिताम् |
अत्यन्त सुखसंवृद्धां राजपुत्रीं यशस्विनीम् || १६||

यदभिप्रेतमस्मासु प्रियं वर वृतं च यत् |
कैकेय्यास्तु सुसंवृत्तं क्षिप्रमद्यैव लक्ष्मण || १७||

या न तुष्यति राज्येन पुत्रार्थे दीर्घदर्शिनी |
ययाहं सर्वभूतानां हितः प्रस्थापितो वनम् |
अद्येदानीं सकामा सा या माता मम मध्यमा || १८||

परस्पर्शात्तु वैदेह्या न दुःखतरमस्ति मे |
पितुर्विनाशात्सौमित्रे स्वराज्यहरणात्तथा || १९||

इति ब्रुवति काकुत्स्थे बाष्पशोकपरिप्लुते |
अब्रवील्लक्ष्मणः क्रुद्धो रुद्धो नाग इव श्वसन् || २०||

अनाथ इव भूतानां नाथस्त्वं वासवोपमः |
मया प्रेष्येण काकुत्स्थ किमर्थं परितप्स्यसे || २१||

शरेण निहतस्याद्य मया क्रुद्धेन रक्षसः |
विराधस्य गतासोर्हि मही पास्यति शोणितम् || २२||

राज्यकामे मम क्रोधो भरते यो बभूव ह |
तं विराधे विमोक्ष्यामि वज्री वज्रमिवाचले || २३||

मम भुजबलवेगवेगितः
पततु शरोऽस्य महान्महोरसि |
व्यपनयतु तनोश्च जीवितं
पततु ततश्च महीं विघूर्णितः || २४||

24

46

Viradha, a demon confronts Shri Rama and others and tries to abduct Seetha.

3

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

  

4

अथोवाच पुनर्वाक्यं विराधः पूरयन्वनम् |
आत्मानं पृच्छते ब्रूतं कौ युवां क्व गमिष्यथः || १||

तमुवाच ततो रामो राक्षसं ज्वलिताननम् |
पृच्छन्तं सुमहातेजा इक्ष्वाकुकुलमात्मनः || २||

क्षत्रियो वृत्तसम्पन्नौ विद्धि नौ वनगोचरौ |
त्वां तु वेदितुमिच्छावः कस्त्वं चरसि दण्डकान् || ३||

तमुवाच विराधस्तु रामं सत्यपराक्रमम् |
हन्त वक्ष्यामि ते राजन्निबोध मम राघव || ४||

पुत्रः किल जयस्याहं माता मम शतह्रदा |
विराध इति मामाहुः पृथिव्यां सर्वराक्षसाः || ५||

तपसा चापि मे प्राप्ता ब्रह्मणो हि प्रसादजा |
शस्त्रेणावध्यता लोकेऽच्छेद्याभेद्यत्वमेव च || ६||

उत्सृज्य प्रमदामेनामनपेक्षौ यथागतम् |
त्वरमाणौ पालयेथां न वां जीवितमाददे || ७||

तं रामः प्रत्युवाचेदं कोपसंरक्तलोचनः |
राक्षसं विकृताकारं विराधं पापचेतसं || ८||

क्षुद्र धिक्त्वां तु हीनार्थं मृत्युमन्वेषसे ध्रुवम् |
रणे सम्प्राप्स्यसे तिष्ठ न मे जीवन्गमिष्यसि || ९||

ततः सज्यं धनुः कृत्वा रामः सुनिशिताञ्शरान् |
सुशीघ्रमभिसन्धाय राक्षसं निजघान ह || १०||

धनुषा ज्यागुणवता सप्तबाणान्मुमोच ह |
रुक्मपुङ्खान्महावेगान्सुपर्णानिलतुल्यगान् || ११||

ते शरीरं विराधस्य भित्त्वा बर्हिणवाससः |
निपेतुः शोणितादिग्धा धरण्यां पावकोपमाः || १२||

स विनद्य महानादं शूलं शक्रध्वजोपमम् |
प्रगृह्याशोभत तदा व्यात्तानन इवान्तकः || १३||

तच्छूलं वज्रसङ्काशं गगने ज्वलनोपमम् |
द्वाभ्यां शराभ्यां चिच्छेद रामः शस्त्रभृतां वरः || १४||

तस्य रौद्रस्य सौमित्रिर्बाहुं सव्यं बभञ्ज ह |
रामस्तु दक्षिणं बाहुं तरसा तस्य रक्षसः || १५||

स भग्नबाहुः संविग्नो निपपाताशु राक्षसः |
धरण्यां मेघसङ्काशो वज्रभिन्न इवाचलः || १६||

तं प्रेक्ष्य रामः सुभृशमवध्यमचलोपमम्।

भयेष्वभयदश्श्रीमानिदं वचनमब्रवीत् || १७||

कुञ्जरस्येव रौद्रस्य राक्षसस्यास्य लक्ष्मण।

वनेऽस्मिन् सुमहच्छ्वभ्रं खन्यतां रौदकर्मणः|| १८||

इत्युक्त्वा लक्ष्मणं रामः प्रदरः खन्यतामिति।

तस्थौ विराधमाक्रम्य कण्ठे पादेन वीर्यवान् || १९||

ततः खनित्रमादाय लक्ष्मणश्श्वभ्रमुत्तमम्।
अखनत्पार्श्वतस्तस्य विराधस्य महात्मनः|| २०||
तं मुक्तकण्ठमुत्क्षिप्य शङ्कुकर्णं महास्वनम् |
विराधं प्राक्षिपच्छ्वभ्रे नदन्तं भैरवस्वनम् || २१||

अवध्यतां प्रेक्ष्य महासुरस्य तौ शितेन शस्त्रेण तदा नरर्षभौ।

समर्थ्य चात्यर्थविशारदावुभौ बिले विराधस्य वधं प्रचक्रतुः|| २२||

ततस्तु तौ काञ्चनचित्रकार्मुकौ
निहत्य रक्षः परिगृह्य मैथिलीम् |
विजह्रतुस्तौ मुदितौ महावने
दिवि स्थितौ चन्द्रदिवाकराविव || २३||

23

69

When queried as to their antecedents, Shri Rama and Lakshmana narrate about themselves to Viradha. Later the demon declares that he cannot be killed by any weapon, and a fight ensues in which they shower arrows on him. Viradha, leaving Seeta, carries Shri Rama and Lakshmana away from Seetha.

Lakshmana severs the left arm of that demon, while Shri Rama cut off the right arm of that demon. When his arms are mutiliated that demon fainted, and fell onto ground. Though they battered that demon with their fists, hands and feet, and with many arrows, he is not killed.

Then, Shri Rama placed his foot on the throat of Viradha, and ordered Lakshmana to dig a big pit enough to bury the demon. Then, on taking a digging tool Lakshmana dug a deep pit and they both raised that Viradha, with all their might and hurled him into the pit and buried Viradha in the pit of the earth.

5

हत्वा तु तं भीमबलं विराधं राक्षसं वने |
ततः सीतां परिष्वज्य समाश्वास्य च वीर्यवान् || १||
अब्रवील्लक्ष्मणां रामो भ्रातरं दीप्ततेजसं |

कष्टं वनमिदं दुर्गं न च स्मो वनगोचराः || २||
अभिगच्छामहे शीघ्रं शरभङ्गं तपोधनम् |

आश्रमं शरभङ्गस्य राघवोऽभिजगाम ह || ३||

तस्य देवप्रभावस्य तपसा भावितात्मनः |
समीपे शरभङ्गस्य ददर्श महदद्भुतम् || ४||

विभ्राजमानं वपुषा सूर्यवैश्वानरोपमम् |
असंस्पृशन्तं वसुधां ददर्श विबुधेश्वरम् || ५||

सुप्रभाभरणं देवं विरजोऽम्बरधारिणम् |
तद्विधैरेव बहुभिः पूज्यमानं महात्मभिः || ६||

हरिभिर्वाजिभिर्युक्तमन्तरिक्षगतं रथम् |
ददर्शादूरतस्तस्य तरुणादित्यसंनिभम् || ७||

पाण्डुराभ्रघनप्रख्यं चन्द्रमण्डलसंनिभम् |
अपश्यद्विमलं छत्रं चित्रमाल्योपशोभितम् || ८||

चामरव्यजने चाग्र्ये रुक्मदण्डे महाधने |
गृहीते वननारीभ्यां धूयमाने च मूर्धनि || ९||

गन्धर्वामरसिद्धाश्च बहवः परमर्षयः |
अन्तरिक्षगतं देवं वाग्भिरग्र्याभिरीडिरे || १०||

दृष्ट्वा शतक्रतुं तत्र रामो लक्ष्मणमब्रवीत् |
ये हयाः पुरुहूतस्य पुरा शक्रस्य नः श्रुताः |
अन्तरिक्षगता दिव्यास्त इमे हरयो ध्रुवम् || ११||

इमे च पुरुषव्याघ्र ये तिष्ठन्त्यभितो रथम् |
शतं शतं कुण्डलिनो युवानः खड्गपाणयः || १२||

उरोदेशेषु सर्वेषां हारा ज्वलनसंनिभाः |
रूपं बिभ्रति सौमित्रे पञ्चविंशतिवार्षिकम् || १३||

एतद्धि किल देवानां वयो भवति नित्यदा |
यथेमे पुरुषव्याघ्रा दृश्यन्ते प्रियदर्शनाः || १४||

इहैव सह वैदेह्या मुहूर्तं तिष्ठ लक्ष्मण |
यावज्जनाम्यहं व्यक्तं क एष द्युतिमान्रथे || १५||

तमेवमुक्त्वा सौमित्रिमिहैव स्थीयताम् इति |
अभिचक्राम काकुत्स्थः शरभङ्गाश्रमं प्रति || १६||

ततः समभिगच्छन्तं प्रेक्ष्य रामं शचीपतिः |
शरभङ्गमनुज्ञाप्य विबुधानिदमब्रवीत् || १७||

इहोपयात्यसौ रामो यावन्मां नाभिभाषते |
निष्ठां नयत तावत्तु ततो मां द्रष्टुमर्हति || १८||

जितवन्तं कृतार्थं च द्रष्टाहमचिरादिमम् |
कर्म ह्यनेन कर्तव्यं महदन्यैः सुदुष्करम् || १९||

इति वज्री तमामन्त्र्य मानयित्वा च तापसं |
रथेन हरियुक्तेन ययौ दिवमरिन्दमः || २०||

प्रयाते तु सहस्राक्षे राघवः सपरिच्छदः |
अग्निहोत्रमुपासीनं शरभङ्गमुपागमत् || २१||

तस्य पादौ च सङ्गृह्य रामः सीता च लक्ष्मणः |
निषेदुस्तदनुज्ञाता लब्धवासा निमन्त्रिताः || २२||

ततः शक्रोपयानं तु पर्यपृच्छत्स राघवः |
शरभङ्गश्च तत्सर्वं राघवाय न्यवेदयत् || २३||

मामेष वरदो राम ब्रह्मलोकं निनीषति |
जितमुग्रेण तपसा दुष्प्रापमकृतात्मभिः || २४||

अहं ज्ञात्वा नरव्याघ्र वर्तमानमदूरतः |
ब्रह्मलोकं न गच्छामि त्वामदृष्ट्वा प्रियातिथिम् || २५||

समागम्य गमिष्यामि त्रिदिवं देवसेवितम् |
अक्षया नरशार्दूल जिता लोका मया शुभाः |
ब्राह्म्याश्च नाकपृष्ठ्याश्च प्रतिगृह्णीष्व मामकान् || २६||

एवमुक्तो नरव्याघ्रः सर्वशास्त्रविशारदः |
ऋषिणा शरभङ्गेन राघवो वाक्यमब्रवीत् || २७||

अहमेवाहरिष्यामि सर्वाँल्लोकान्महामुने |
आवासं त्वहमिच्छामि प्रदिष्टमिह कानने || २८||

राघवेणैवमुक्तस्तु शक्रतुल्यबलेन वै |
शरभङ्गो महाप्राज्ञः पुनरेवाब्रवीद्वचः || २९||

सुतीक्ष्णमभिगच्छ त्वं शुचौ देशे तपस्विनम् |
रमणीये वनोद्देशे स ते वासं विधास्यति || ३०||

एष पन्था नरव्याघ्र मुहूर्तं पश्य तात माम् |
यावज्जहामि गात्राणि जीर्णं त्वचमिवोरगः || ३१||

ततोऽग्निं स समाधाय हुत्वा चाज्येन मन्त्रवित् |
शरभङ्गो महातेजाः प्रविवेश हुताशनम् || ३२||

तस्य रोमाणि केशांश्च ददाहाग्निर्महात्मनः |
जीर्णं त्वचं तथास्थीनि यच्च मांसं च शोणितम् || ३३||

स च पावकसङ्काशः कुमारः समपद्यत |
उत्थायाग्निचयात्तस्माच्छरभङ्गो व्यरोचत || ३४||

स लोकानाहिताग्नीनामृषीणां च महात्मनाम् |
देवानां च व्यतिक्रम्य ब्रह्मलोकं व्यरोहत || ३५||

35

104

Then they proceed to Sage Sharabhanga’ ashrama, where they get a glimpse of Indra. After seeing Shri Rama, Seetha and Lakshmana, and also providing directions to their journey, that Sage enters the yogic fire and ascends to Brahma's abode.

इत्यार्षे श्री रामायणे अरण्यकाण्डे प्रथम: भाग:

 

Introduction to Arayakāṇḍa

Arayakāṇḍa Part-2

 

No comments:

Post a Comment