युद्धकाण्ड - Yuddhakāṇḍa (भाग - ३० ;;; Part – 30)
|
Sarga
number as per Ramayana |
Shlokas
extracted |
No. of shlokas |
Cumulative number of shlokas in this
Kanda |
|
131 |
शिरस्यञ्जलिमादाय कैकेयीनन्दिवर्धनः | पूजिता मामिका माता दत्तं राज्यमिदं मम | धुरमेकाकिना न्यस्तामृषभेण बलीयसा | वारिवेगेन महता भिन्नः सेतुरिव क्षरन् | गतिं
खर इवाश्वस्य हंसस्येव च वायसः | यथा
च रोपितो वृक्षो जातश्चान्तर्निवेशने | शीर्येत पुष्पितो भूत्वा न फलानि प्रदर्शयेत् | एषोपमा महाबाहो त्वमर्थं वेत्तुमर्हसि | जगदद्याभिषिक्तं त्वामनुपश्यतु सर्वतः | तूर्यसङ्घातनिर्घोषैः काञ्चीनूपुरनिस्वनैः | यावदावर्तते चक्रं यावती च वसुन्धरा | भरतस्य वचः श्रुत्वा रामः परपुरञ्जयः | ततः
शत्रुघ्नवचनान्निपुणाः श्मश्रुवर्धकाः | पूर्वं तु भरते स्नाते लक्ष्मणे च महाबले | विशोधितजटः स्नातश्चित्रमाल्यानुलेपनः | प्रतिकर्म च रामस्य कारयामास वीर्यवान् | प्रतिकर्म च सीतायाः सर्वा दशरथस्त्रियः | ततो
राघवपत्नीनां सर्वासामेव शोभनम् | ततः
शत्रुघ्नवचनात्सुमन्त्रो नाम सारथिः | अर्कमण्डलसङ्काशं दिव्यं दृष्ट्वा रथं स्थितम् | अयोध्यायां तु सचिवा राज्ञो दशरथस्य ये | मन्त्रयन्रामवृद्ध्यर्थं वृत्त्यर्थं नगरस्य च | इति
ते मन्त्रिणः सर्वे सन्दिश्य तु पुरोहितम् | हरियुक्तं सहस्राक्षो रथमिन्द्र इवानघः | जग्राह भरतो रश्मीञ्शत्रुघ्नश्छत्रमाददे | श्वेतं च वालव्यजनं सुग्रीवो वानरेश्वरः | ऋषिसङ्घैर्तदाकाशे देवैश्च समरुद्गणैः | ततः
शत्रुञ्जयं नाम कुञ्जरं पर्वतोपमम् | नवनागसहस्राणि ययुरास्थाय वानराः | शङ्खशब्दप्रणादैश्च दुन्दुभीनां च निस्वनैः | ददृशुस्ते समायान्तं राघवं सपुरःसरम् | ते
वर्धयित्वा काकुत्स्थं रामेण प्रतिनन्दिताः | अमात्यैर्ब्राह्मणैश्चैव तथा प्रकृतिभिर्वृतः | स
पुरोगामिभिस्तूर्यैस्तालस्वस्तिकपाणिभिः | अक्षतं जातरूपं च गावः कन्यास्तथा द्विजाः | सख्यं
च रामः सुग्रीवे प्रभावं चानिलात्मजे | द्युतिमानेतदाख्याय रामो वानरसंवृतः | ततो
ह्यभ्युच्छ्रयन्पौराः पताकास्ते गृहे गृहे | पितुर्भवनमासाद्य प्रविश्य च महात्मनः | अथाब्रवीद्राजपुत्रो भरतं धर्मिणां वरम् | यच्च
मद्भवनं श्रेष्ठं साशोकवनिकं महत् | तस्य
तद्वचनं श्रुत्वा भरतः सत्यविक्रमः | ततस्तैलप्रदीपांश्च पर्यङ्कास्तरणानि च | उवाच
च महातेजाः सुग्रीवं राघवानुजः | सौवर्णान्वानरेन्द्राणां चतुर्णां चतुरो घटान् | यथा
प्रत्यूषसमये चतुर्णां सागराम्भसाम् | एवमुक्ता महात्मानो वानरा वारणोपमाः | जाम्बवांश्च हनूमांश्च वेगदर्शी च वानरः | पूर्वात्समुद्रात्कलशं जलपूर्णमथानयत् | ऋषभो
दक्षिणात्तूर्णं समुद्राज्जलमाहरत् || ५०|| रक्तचन्दनकर्पूरैः संवृतं काञ्चनं घटम् | रत्नकुम्भेन महता शीतं मारुतविक्रमः | अभिषेकाय रामस्य शत्रुघ्नः सचिवैः सह | ततः
स प्रयतो वृद्धो वसिष्ठो ब्राह्मणैः सह | वसिष्ठो वामदेवश्च जाबालिरथ काश्यपः | अभ्यषिञ्चन्नरव्याघ्रं प्रसन्नेन सुगन्धिना | ऋत्विग्भिर्ब्राह्मणैः पूर्वं कन्याभिर्मन्त्रिभिस्तथा | सर्वौषधिरसैश्चापि दैवतैर्नभसि स्थितैः | छत्रं
तस्य च जग्राह शत्रुघ्नः पाण्डुरं शुभम् | मालां
ज्वलन्तीं वपुषा काञ्चनीं शतपुष्कराम् | सर्वरत्नसमायुक्तं मणिरत्नविभूषितम् | प्रजगुर्देवगन्धर्वा ननृतुश्चाप्सरो गणाः | भूमिः
सस्यवती चैव फलवन्तश्च पादपाः | सहस्रशतमश्वानां धेनूनां च गवां तथा | त्रिंशत्कोटीर्हिरण्यस्य ब्राह्मणेभ्यो ददौ पुनः | अर्करश्मिप्रतीकाशां काञ्चनीं मणिविग्रहाम् | वैदूर्यमणिचित्रे च वज्ररत्नविभूषिते | मणिप्रवरजुष्टं च मुक्ताहारमनुत्तमम् | अरजे
वाससी दिव्ये शुभान्याभरणानि च | अवमुच्यात्मनः कण्ठाद्धारं जनकनन्दिनी | तामिङ्गितज्ञः सम्प्रेक्ष्य बभाषे जनकात्मजाम् | पौरुषं विक्रमो बुद्धिर्यस्मिन्नेतानि नित्यदा | हनूमांस्तेन हारेण शुशुभे वानरर्षभः | ततो
द्विविद मैन्दाभ्यां नीलाय च परन्तपः | सर्ववानरवृद्धाश्च ये चान्ये वानरेश्वराः | यथार्हं पूजिताः सर्वे कामै रत्नैश्च पुष्कलैर् | राघवः
परमोदारः शशास परया मुदा | आतिष्ठ धर्मज्ञ मया सहेमां सर्वात्मना पर्यनुनीयमानो राघवश्चापि धर्मात्मा प्राप्य राज्यमनुत्तमम् | पौण्डरीकाश्वमेधाभ्यां वाजपेयेन चासकृत् | न
पर्यदेवन्विधवा न च व्यालकृतं भयम् | निर्दस्युरभवल्लोको नानर्थः कं चिदस्पृशत् | सर्वं
मुदितमेवासीत्सर्वो धर्मपरोऽभवत् | नित्यपुष्पा नित्यफलास्तरवः स्कन्धविस्तृताः | स्वकर्मसु प्रवर्तन्ते तुष्ठाः स्वैरेव कर्मभिः | सर्वे
लक्षणसम्पन्नाः सर्वे धर्मपरायणाः | |
87 |
2694 |
|
Bharata requests Shri Rama to take back the kingdom of Ayodhya, which was accepted by Shri Rama. Shri Rama, ascending on an excellent chariot, moves on a procession in the city surrounded by Bharata, Shatrughna, Lakshmana and Vibhishana. Musicians played with their musical instruments walking in front of Shri Rama's procession. The citizens of Ayodhya hosted flags on every house. Shri Rama returns to his paternal palace in Ayodhya. Sugreeva orders four of his vanaras, ie., Jambavan, Shri Hanuman, Vegadarshi and Gavaya, to bring water from four oceans in jars given to them, which was complied with. Sage Vasishta and other priests officiating the coronation-ceremony adorned Shri Rama with an auspicious and charming crown. Then, Shri Rama gives away presents to the priests as well as Sugreeva and Angada. Shri Rama presents a pearl-necklace to Seetha on that occasion and Seetha in turn presents that necklace to Shri Hanuman. Shri Rama further gives away presents to Vibhishana, Sugreeva, Jambavan and others on the occasion. Shri Rama bids farewell to the Vanaras. Shri Rama made Bharata the Prince regent. Shri Rama propitiated the gods by performing Paundarika, Ashvamedha, Vajapeya and other sacrifices many times. While Shri Rama was ruling the kingdom, there were no widows to lament, nor there was no danger from wild animals, nor any fear born of diseases. The world was bereft of thieves and robberies. No one felt worthless nor did old people perform obsequies concerning youngsters. Every creature felt pleased. Everyone was intent on virtue. Turning their eyes towards Shri Rama alone, creatures did not kill one another. The trees there were bearing
flowers and fruits regularly, without any injury by pests and insects. The
clouds were raining in time and the wind was delightful to the touch. People were performing their own duties,
satisfied with their own work and bereft of any greed. While Shri Rama was
ruling, the people were intent on virtue and lived without telling lies. |
|||
इत्यार्षे श्री रामायणे युद्धकाण्डे त्रिंशतिः भाग:
| Introduction to Śrī Rāmāyaṇam |