अरण्यकाण्ड
- Araṇyakāṇḍa
(भाग - २
;;; Part – 2)
|
Sarga
number as per Ramayana |
Shlokas
extracted |
No. of shlokas |
Cumulative number of shlokas in this Kanda |
|
6 |
शरभङ्गे दिवं प्राप्ते मुनिसङ्घाः समागताः | वैखानसा वालखिल्याः सम्प्रक्षाला मरीचिपाः | दन्तोलूखलिनश्चैव तथैवोन्मज्जकाः परे | आकाशनिलयाश्चैव तथा स्थण्डिलशायिनः | सजपाश्च तपोनित्यास्तथा पञ्चतपोऽन्विताः | अभिगम्य च धर्मज्ञा रामं धर्मभृतां वरम् | त्वमिक्ष्वाकुकुलस्यास्य पृथिव्याश्च महारथः | विश्रुतस्त्रिषु लोकेषु यशसा विक्रमेण च | त्वामासाद्य महात्मानं धर्मज्ञं धर्मवत्सलम् | अधार्मस्तु महांस्तात भवेत्तस्य महीपतेः | युञ्जानः स्वानिव प्राणान्प्राणैरिष्टान्सुतानिव | प्राप्नोति शाश्वतीं राम कीर्तिं स बहुवार्षिकीम् | यत्करोति परं धर्मं मुनिर्मूलफलाशनः | सोऽयं
ब्राह्मणभूयिष्ठो वानप्रस्थगणो महान् | एहि
पश्य शरीराणि मुनीनां भावितात्मनाम् | पम्पानदीनिवासानामनुमन्दाकिनीम् अपि | एवं
वयं न मृष्यामो विप्रकारं तपस्विनम् | ततस्त्वां शरणार्थं च शरण्यं समुपस्थिताः | एतच्छ्रुत्वा तु काकुत्स्थस्तापसानां तपस्विनाम् | भवतामर्थसिद्ध्यर्थमागतोऽहं यदृच्छया | दत्त्वा वरं चापि तपोधनानां |
21 |
125 |
|
Thereafter, Shri Rama is
approached by others sages and hermits. They inform him about the atrocities
of demons around that place and request Shri Rama to eradicate the menace and
Shri Rama promises to do so. |
|||
|
7 |
रामस्तु सहितो भ्रात्रा सीतया च परन्तपः | स
गत्वा दूरमध्वानं नदीस्तीर्त्व बहूदकाः | ततस्तदिक्ष्वाकुवरौ सततं विविधैर्द्रुमैः | प्रविष्टस्तु वनं घोरं बहुपुष्पफलद्रुमम् | तत्र
तापसमासीनं मलपङ्कजटाधरम् | रामोऽहमस्मि भगवन्भवन्तं द्रष्टुमागतः | स
निरीक्ष्य ततो वीरं रामं धर्मभृतां वरम् | स्वागतं खलु ते वीर राम धर्मभृतां वर | प्रतीक्षमाणस्त्वामेव नारोहेऽहं महायशः | चित्रकूटमुपादाय राज्यभ्रष्टोऽसि मे श्रुतः | तेषु
देवर्षिजुष्टेषु जितेषु तपसा मया | तमुग्रतपसं दीप्तं महर्षिं सत्यवादिनम् | अहमेवाहरिष्यामि स्वयं लोकान्महामुने | भवान्सर्वत्र कुशलः सर्वभूतहिते रतः | एवमुक्तस्तु रामेण महर्षिर्लोकविश्रुतः | अयमेवाश्रमो राम गुणवान्रम्यताम् इह | इममाश्रममागम्य मृगसङ्घा महायशाः | तच्छ्रुत्वा वचनं तस्य महर्षेर्लक्ष्मणाग्रजः | तानहं
सुमहाभाग मृगसङ्घान्समागतान् | भवांस्तत्राभिषज्येत किं स्यात्कृच्छ्रतरं ततः | तमेवमुक्त्वा वरदं रामः सन्ध्यामुपागमत् | ततः
शुभं तापसभोज्यमन्नं |
22 |
147 |
|
Shri Rama, Sita and Lakshmana
reach the hermitage of Sage Suteekshna. Shri Rama asks the sage to show a
place to dwell. Suteekshna asks Rama to stay at his own hermitage, but Shri
Rama politely declines and would like to go to any other place than that.
They spend that night there. |
|||
|
8 |
रामस्तु सहसौमित्रिः सुतीक्ष्णेनाभिपूजितः | उत्थाय तु यथाकालं राघवः सह सीतया | अथ
तेऽग्निं सुरांश्चैव वैदेही रामलक्ष्मणौ | उदयन्न्तं दिनकरं दृष्ट्वा विगतकल्मषाः | सुखोषिताः स्म भगवंस्त्वया पूज्येन पूजिताः | त्वरामहे वयं द्रष्टुं कृत्स्नमाश्रममण्डलम् | अभ्यनुज्ञातुमिच्छामः सहैभिर्मुनिपुङ्गवैः | अविषह्यातपो यावत्सूर्यो नातिविराजिते | तावदिच्छामहे गन्तुमित्युक्त्वा चरणौ मुनेः | तौ
संस्पृशन्तौ चरणावुत्थाप्य मुनिपुङ्गवः | अरिष्टं गच्छ पन्थानं राम सौमित्रिणा सह | पश्याश्रमपदं रम्यं दण्डकारण्यवासिनाम् | सुप्राज्यफलमूलानि पुष्पितानि वनानि च | फुल्लपङ्कजषडानि प्रसन्नसलिलानि च | द्रक्ष्यसे दृष्टिरम्याणि गिरिप्रस्रवणानि च | गम्यतां वत्स सौमित्रे भवानपि च गच्छतु | एवमुक्तस्तथेत्युक्त्वा काकुत्स्थः सहलक्ष्मणः | ततः
शुभतरे तूणी धनुषी चायतेक्षणा | आबध्य
च शुभे तूणी चापे चादाय सस्वने | |
19 |
166 |
|
Shri Rama, Sita and Lakshmana,
having spent that night in the hermitage of Sage Suteekshna, start to go from
there on the next day morning, duly taking permission from the sage. |
|||
|
9 |
सुतीक्ष्णेनाभ्यनुज्ञातं प्रस्थितं रघुनन्दनम् | अयं
धर्मः सुसूक्ष्मेण विधिना प्राप्यते महान् | त्रीण्येव व्यसनान्यत्र कामजानि भवन्त्युत | मिथ्यावाक्यं न ते भूतं न भविष्यति राघव | तच्च
सर्वं महाबाहो शक्यं वोढुं जितेन्द्रियैः | तृतीयं यदिदं रौद्रं परप्राणाभिहिंसनम् | प्रतिज्ञातस्त्वया वीर दण्डकारण्यवासिनाम् | एतन्निमित्तं च वनं दण्डका इति विश्रुतम् | ततस्त्वां प्रस्थितं दृष्ट्वा मम चिन्ताकुलं मनः | न
हि मे रोचते वीर गमनं दण्डकान्प्रति | त्वं
हि बाणधनुष्पाणिर्भ्रात्रा सह वनं गतः | क्षत्रियाणामिह धनुर्हुताशस्येन्धनानि च | अग्नि संयोगवत् हेतुः शस्त्र संयोग उच्यते | स्नेहाच्च बहुमानाच्च स्मारये त्वां न शिक्षये | बुद्धिर्वैरं विना हन्तुं राक्षसान्दण्डकाश्रितान् | क्षत्रियाणां तु वीराणां वनेषु नियतात्मनाम् | क्व
च शस्त्रं क्व च वनं क्व च क्षात्रं तपः क्व च | तदार्यकलुषा बुद्धिर्जायते शस्त्रसेवनात् | अक्षया तु भवेत्प्रीतिः श्वश्रू श्वशुरयोर्मम | धर्मादर्थः प्रभवति धर्मात्प्रभवते सुखम् | आत्मानं नियमैस्तैस्तैः कर्षयित्वा प्रयत्नतः | नित्यं शुचिमतिः सौम्य चर धर्मं तपोवने | स्त्रीचापलादेतदुदाहृतं मे |
22 |
188 |
|
Seetha expresses her
apprehensions about Shri Rama's decision to eliminate the demons in Dandaka
forest, without any provocation from their side, at the request of some
sages. |
|||
इत्यार्षे श्री
रामायणे अरण्यकाण्डे द्वितीय: भाग:
No comments:
Post a Comment