Friday, January 9, 2026

युद्धकाण्ड - Yuddhakāṇḍa (भाग - ३४ ;;; Part – 34)

 

युद्धकाण्ड - Yuddhakāṇḍa (भाग - ३४ ;;; Part – 34)

Sarga number as per Ramayana

Shlokas extracted

No. of shlokas

Cumulative number of shlokas in this Kanda

131

शिरस्यञ्जलिमादाय कैकेयीनन्दिवर्धनः |
बभाषे भरतो ज्येष्ठं रामं सत्यपराक्रमम् || १||

पूजिता मामिका माता दत्तं राज्यमिदं मम |
तद्ददामि पुनस्तुभ्यं यथा त्वमददा मम || २||

धुरमेकाकिना न्यस्तामृषभेण बलीयसा |
किशोरवद्गुरुं भारं न वोढुमहमुत्सहे || ३||

वारिवेगेन महता भिन्नः सेतुरिव क्षरन् |
दुर्बन्धनमिदं मन्ये राज्यच्छिद्रमसंवृतम् || ४||

गतिं खर इवाश्वस्य हंसस्येव च वायसः |
नान्वेतुमुत्सहे देव तव मार्गमरिन्दम || ५||

यथा च रोपितो वृक्षो जातश्चान्तर्निवेशने |
महांश्च सुदुरारोहो महास्कन्धः प्रशाखवान् || ६||

शीर्येत पुष्पितो भूत्वा न फलानि प्रदर्शयेत् |
तस्य नानुभवेदर्थं यस्य हेतोः स रोप्यते || ७||

एषोपमा महाबाहो त्वमर्थं वेत्तुमर्हसि |
यद्यस्मान्मनुजेन्द्र त्वं भक्तान्भृत्यान्न शाधि हि || ८||

जगदद्याभिषिक्तं त्वामनुपश्यतु सर्वतः |
प्रतपन्तमिवादित्यं मध्याह्ने दीप्ततेजसं || ९||

तूर्यसङ्घातनिर्घोषैः काञ्चीनूपुरनिस्वनैः |
मधुरैर्गीतशब्दैश्च प्रतिबुध्यस्व शेष्व च || १०||

यावदावर्तते चक्रं यावती च वसुन्धरा |
तावत्त्वमिह सर्वस्य स्वामित्वमभिवर्तय || ११||

भरतस्य वचः श्रुत्वा रामः परपुरञ्जयः |
तथेति प्रतिजग्राह निषसादासने शुभे || १२||

ततः शत्रुघ्नवचनान्निपुणाः श्मश्रुवर्धकाः |
सुखहस्ताः सुशीघ्राश्च राघवं पर्युपासत || १३||

पूर्वं तु भरते स्नाते लक्ष्मणे च महाबले |
सुग्रीवे वानरेन्द्रे च राक्षसेन्द्रे विभीषणे || १४||

विशोधितजटः स्नातश्चित्रमाल्यानुलेपनः |
महार्हवसनोपेतस्तस्थौ तत्र श्रिया ज्वलन् || १५||

प्रतिकर्म च रामस्य कारयामास वीर्यवान् |
लक्ष्मणस्य च लक्ष्मीवानिक्ष्वाकुकुलवर्धनः || १६||

प्रतिकर्म च सीतायाः सर्वा दशरथस्त्रियः |
आत्मनैव तदा चक्रुर्मनस्विन्यो मनोहरम् || १७||

ततो राघवपत्नीनां सर्वासामेव शोभनम् |
चकार यत्नात्कौसल्या प्रहृष्टा पुत्रवत्सला || १८||

ततः शत्रुघ्नवचनात्सुमन्त्रो नाम सारथिः |
योजयित्वाभिचक्राम रथं सर्वाङ्गशोभनम् || १९||

अर्कमण्डलसङ्काशं दिव्यं दृष्ट्वा रथं स्थितम् |
आरुरोह महाबाहू रामः सत्यपराक्रमः || २०||

अयोध्यायां तु सचिवा राज्ञो दशरथस्य ये |
पुरोहितं पुरस्कृत्य मन्त्रयामासुरर्थवत् || २१||

मन्त्रयन्रामवृद्ध्यर्थं वृत्त्यर्थं नगरस्य च |
सर्वमेवाभिषेकार्थं जयार्हस्य महात्मनः |
कर्तुमर्हथ रामस्य यद्यन्मङ्गलपूर्वकम् || २२||

इति ते मन्त्रिणः सर्वे सन्दिश्य तु पुरोहितम् |
नगरान्निर्ययुस्तूर्णं रामदर्शनबुद्धयः || २३||

हरियुक्तं सहस्राक्षो रथमिन्द्र इवानघः |
प्रययौ रथमास्थाय रामो नगरमुत्तमम् || २४||

जग्राह भरतो रश्मीञ्शत्रुघ्नश्छत्रमाददे |
लक्ष्मणो व्यजनं तस्य मूर्ध्नि सम्पर्यवीजयत् || २५||

श्वेतं च वालव्यजनं सुग्रीवो वानरेश्वरः |
अपरं चन्द्रसङ्काशं राक्षसेन्द्रो विभीषणः || २६||

ऋषिसङ्घैर्तदाकाशे देवैश्च समरुद्गणैः |
स्तूयमानस्य रामस्य शुश्रुवे मधुरध्वनिः || २७||

ततः शत्रुञ्जयं नाम कुञ्जरं पर्वतोपमम् |
आरुरोह महातेजाः सुग्रीवो वानरेश्वरः || २८||

नवनागसहस्राणि ययुरास्थाय वानराः |
मानुषं विग्रहं कृत्वा सर्वाभरणभूषिताः || २९||

शङ्खशब्दप्रणादैश्च दुन्दुभीनां च निस्वनैः |
प्रययू पुरुषव्याघ्रस्तां पुरीं हर्म्यमालिनीम् || ३०||

ददृशुस्ते समायान्तं राघवं सपुरःसरम् |
विराजमानं वपुषा रथेनातिरथं तदा || ३१||

ते वर्धयित्वा काकुत्स्थं रामेण प्रतिनन्दिताः |
अनुजग्मुर्महात्मानं भ्रातृभिः परिवारितम् || ३२||

अमात्यैर्ब्राह्मणैश्चैव तथा प्रकृतिभिर्वृतः |
श्रिया विरुरुचे रामो नक्षत्रैरिव चन्द्रमाः || ३३||

स पुरोगामिभिस्तूर्यैस्तालस्वस्तिकपाणिभिः |
प्रव्याहरद्भिर्मुदितैर्मङ्गलानि ययौ वृतः || ३४||

अक्षतं जातरूपं च गावः कन्यास्तथा द्विजाः |
नरा मोदकहस्ताश्च रामस्य पुरतो ययुः || ३५||

सख्यं च रामः सुग्रीवे प्रभावं चानिलात्मजे |
वानराणां च तत्कर्म व्याचचक्षेऽथ मन्त्रिणाम् |
श्रुत्वा च विस्मयं जग्मुरयोध्यापुरवासिनः || ३६||

द्युतिमानेतदाख्याय रामो वानरसंवृतः |
हृष्टपुष्टजनाकीर्णामयोध्यां प्रविवेश ह || ३७||

ततो ह्यभ्युच्छ्रयन्पौराः पताकास्ते गृहे गृहे |
ऐक्ष्वाकाध्युषितं रम्यमाससाद पितुर्गृहम् || ३८||

पितुर्भवनमासाद्य प्रविश्य च महात्मनः |
कौसल्यां च सुमित्रां च कैकेयीं चाभ्यवादयत् || ३९||

अथाब्रवीद्राजपुत्रो भरतं धर्मिणां वरम् |
अथोपहितया वाचा मधुरं रघुनन्दनः || ४०||

यच्च मद्भवनं श्रेष्ठं साशोकवनिकं महत् |
मुक्तावैदूर्यसङ्कीर्णं सुग्रीवस्य निवेदय || ४१||

तस्य तद्वचनं श्रुत्वा भरतः सत्यविक्रमः |
पाणौ गृहीत्वा सुग्रीवं प्रविवेश तमालयम् || ४२||

ततस्तैलप्रदीपांश्च पर्यङ्कास्तरणानि च |
गृहीत्वा विविशुः क्षिप्रं शत्रुघ्नेन प्रचोदिताः || ४३||

उवाच च महातेजाः सुग्रीवं राघवानुजः |
अभिषेकाय रामस्य दूतानाज्ञापय प्रभो || ४४||

सौवर्णान्वानरेन्द्राणां चतुर्णां चतुरो घटान् |
ददौ क्षिप्रं स सुग्रीवः सर्वरत्नविभूषितान् || ४५||

यथा प्रत्यूषसमये चतुर्णां सागराम्भसाम् |
पूर्णैर्घटैः प्रतीक्षध्वं तथा कुरुत वानराः || ४६||

एवमुक्ता महात्मानो वानरा वारणोपमाः |
उत्पेतुर्गगनं शीघ्रं गरुडा इव शीघ्रगाः || ४७||

जाम्बवांश्च हनूमांश्च वेगदर्शी च वानरः |
ऋषभश्चैव कलशाञ्जलपूर्णानथानयन् |
नदीशतानां पञ्चानां जले कुम्भैरुपाहरन् || ४८||

पूर्वात्समुद्रात्कलशं जलपूर्णमथानयत् |
सुषेणः सत्त्वसम्पन्नः सर्वरत्नविभूषितम् || ४९||

ऋषभो दक्षिणात्तूर्णं समुद्राज्जलमाहरत् || ५०||

रक्तचन्दनकर्पूरैः संवृतं काञ्चनं घटम् |
गवयः पश्चिमात्तोयमाजहार महार्णवात् || ५१||

रत्नकुम्भेन महता शीतं मारुतविक्रमः |
उत्तराच्च जलं शीघ्रं गरुडानिलविक्रमः || ५२||

अभिषेकाय रामस्य शत्रुघ्नः सचिवैः सह |
पुरोहिताय श्रेष्ठाय सुहृद्भ्यश् च न्यवेदयत् || ५३||

ततः स प्रयतो वृद्धो वसिष्ठो ब्राह्मणैः सह |
रामं रत्नमयो पीठे सहसीतं न्यवेशयत् || ५४||

वसिष्ठो वामदेवश्च जाबालिरथ काश्यपः |
कात्यायनः सुयज्ञश्च गौतमो विजयस्तथा || ५५||

अभ्यषिञ्चन्नरव्याघ्रं प्रसन्नेन सुगन्धिना |
सलिलेन सहस्राक्षं वसवो वासवं यथा || ५६||

ऋत्विग्भिर्ब्राह्मणैः पूर्वं कन्याभिर्मन्त्रिभिस्तथा |
योधैश्चैवाभ्यषिञ्चंस्ते सम्प्रहृष्टाः सनैगमैः || ५७||

सर्वौषधिरसैश्चापि दैवतैर्नभसि स्थितैः |
चतुर्हिर्लोकपालैश्च सर्वैर्देवैश्च सङ्गतैः || ५८||

छत्रं तस्य च जग्राह शत्रुघ्नः पाण्डुरं शुभम् |
श्वेतं च वालव्यजनं सुग्रीवो वानरेश्वरः |
अपरं चन्द्रसङ्काशं राक्षसेन्द्रो विभीषणः || ५९||

मालां ज्वलन्तीं वपुषा काञ्चनीं शतपुष्कराम् |
राघवाय ददौ वायुर्वासवेन प्रचोदितः || ६०||

सर्वरत्नसमायुक्तं मणिरत्नविभूषितम् |
मुक्ताहारं नरेन्द्राय ददौ शक्रप्रचोदितः || ६१||

प्रजगुर्देवगन्धर्वा ननृतुश्चाप्सरो गणाः |
अभिषेके तदर्हस्य तदा रामस्य धीमतः || ६२||

भूमिः सस्यवती चैव फलवन्तश्च पादपाः |
गन्धवन्ति च पुष्पाणि बभूवू राघवोत्सवे || ६३||

सहस्रशतमश्वानां धेनूनां च गवां तथा |
ददौ शतं वृषान्पूर्वं द्विजेभ्यो मनुजर्षभः || ६४||

त्रिंशत्कोटीर्हिरण्यस्य ब्राह्मणेभ्यो ददौ पुनः |
नानाभरणवस्त्राणि महार्हाणि च राघवः || ६५||

अर्करश्मिप्रतीकाशां काञ्चनीं मणिविग्रहाम् |
सुग्रीवाय स्रजं दिव्यां प्रायच्छन्मनुजर्षभः || ६६||

वैदूर्यमणिचित्रे च वज्ररत्नविभूषिते |
वालिपुत्राय धृतिमानङ्गदायाङ्गदे ददौ || ६७||

मणिप्रवरजुष्टं च मुक्ताहारमनुत्तमम् |
सीतायै प्रददौ रामश्चन्द्ररश्मिसमप्रभम् || ६८||

अरजे वाससी दिव्ये शुभान्याभरणानि च |
अवेक्षमाणा वैदेही प्रददौ वायुसूनवे || ६९||

अवमुच्यात्मनः कण्ठाद्धारं जनकनन्दिनी |
अवैक्षत हरीन्सर्वान्भर्तारं च मुहुर्मुहुः || ७०||

तामिङ्गितज्ञः सम्प्रेक्ष्य बभाषे जनकात्मजाम् |
प्रदेहि सुभगे हारं यस्य तुष्टासि भामिनि || ७१||

पौरुषं विक्रमो बुद्धिर्यस्मिन्नेतानि नित्यदा |
ददौ सा वायुपुत्राय तं हारमसितेक्षणा || ७२||

हनूमांस्तेन हारेण शुशुभे वानरर्षभः |
चन्द्रांशुचयगौरेण श्वेताभ्रेण यथाचलः || ७३||

ततो द्विविद मैन्दाभ्यां नीलाय च परन्तपः |
सर्वान्कामगुणान्वीक्ष्य प्रददौ वसुधाधिपः || ७४||

सर्ववानरवृद्धाश्च ये चान्ये वानरेश्वराः |
वासोभिर्भूषणैश्चैव यथार्हं प्रतिपूजिताः || ७५||

यथार्हं पूजिताः सर्वे कामै रत्नैश्च पुष्कलैर् |
प्रहृष्टमनसः सर्वे जग्मुरेव यथागतम् || ७६||

राघवः परमोदारः शशास परया मुदा |
उवाच लक्ष्मणं रामो धर्मज्ञं धर्मवत्सलः || ७७||

आतिष्ठ धर्मज्ञ मया सहेमां
गां पूर्वराजाध्युषितां बलेन |
तुल्यं मया त्वं पितृभिर्धृता या
तां यौवराज्ये धुरमुद्वहस्व || ७८||

सर्वात्मना पर्यनुनीयमानो
यदा न सौमित्रिरुपैति योगम् |
नियुज्यमानो भुवि यौवराज्ये
ततोऽभ्यषिञ्चद्भरतं महात्मा || ७९||

राघवश्चापि धर्मात्मा प्राप्य राज्यमनुत्तमम् |
ईजे बहुविधैर्यज्ञैः ससुहृद्भ्रातृबान्धवः || ८०||

पौण्डरीकाश्वमेधाभ्यां वाजपेयेन चासकृत् |
अन्यैश्च विविधैर्यज्ञैरयजत्पार्थिवर्षभः || ८१||

न पर्यदेवन्विधवा न च व्यालकृतं भयम् |
न व्याधिजं भयं वापि रामे राज्यं प्रशासति || ८२||

निर्दस्युरभवल्लोको नानर्थः कं चिदस्पृशत् |
न च स्म वृद्धा बालानां प्रेतकार्याणि कुर्वते || ८३||

सर्वं मुदितमेवासीत्सर्वो धर्मपरोऽभवत् |
राममेवानुपश्यन्तो नाभ्यहिंसन्परस्परम् || ८४||

नित्यपुष्पा नित्यफलास्तरवः स्कन्धविस्तृताः |
कालवर्षी च पर्जन्यः सुखस्पर्शश्च मारुतः || ८५||

स्वकर्मसु प्रवर्तन्ते तुष्ठाः स्वैरेव कर्मभिः |
आसन्प्रजा धर्मपरा रामे शासति नानृताः || ८६||

सर्वे लक्षणसम्पन्नाः सर्वे धर्मपरायणाः |
भ्रातृभि:सहितःश्रीमान् रामो राज्यमकारयत् || ८७||

87

3493

Bharata requests Shri Rama to take back the kingdom of Ayodhya, which was accepted by Shri Rama. Shri Rama, ascending on an excellent chariot, moves on a procession in the city surrounded by Bharata, Shatrughna, Lakshmana and Vibhishana.

Musicians played with their musical instruments walking in front of Shri Rama's procession. The citizens of Ayodhya hosted flags on every house. Shri Rama returns to his paternal palace in Ayodhya. 

Sugreeva orders four of his vanaras, ie., Jambavan, Shri Hanuman, Vegadarshi and Gavaya,  to bring water from four oceans in jars given to them, which was complied with.

Sage Vasishta and other priests officiating the coronation-ceremony adorned Shri Rama with an auspicious and charming crown. Then, Shri Rama gives away presents to the priests as well as Sugreeva and Angada. 

Shri Rama presents a pearl-necklace to Seetha on that occasion and Seetha in turn presents that necklace to Shri Hanuman. Shri Rama further gives away presents to Vibhishana, Sugreeva, Jambavan and others on the occasion. Shri Rama bids farewell to the Vanaras. 

Shri Rama made Bharata the Prince regent. Shri Rama propitiated the gods by performing Paundarika, Ashvamedha, Vajapeya and other sacrifices many times. 

While Shri Rama was ruling the kingdom, there were no widows to lament, nor there was no danger from wild animals, nor any fear born of diseases. The world was bereft of thieves and robberies. No one felt worthless nor did old people perform obsequies concerning youngsters. Every creature felt pleased. Everyone was intent on virtue. Turning their eyes towards Shri Rama alone, creatures did not kill one another.

The trees there were bearing flowers and fruits regularly, without any injury by pests and insects. The clouds were raining in time and the wind was delightful to the touch.  People were performing their own duties, satisfied with their own work and bereft of any greed. While Shri Rama was ruling, the people were intent on virtue and lived without telling lies.

इत्यार्षे श्री रामायणे युद्धकाण्डे चतुस्त्रिंशतिः भाग:

 

Yuddhakāṇḍa Part-33

Introduction to Śrī Rāmāyaṇam

 

युद्धकाण्ड - Yuddhakāṇḍa (भाग - ३३ ;;; Part – 33)

 

युद्धकाण्ड - Yuddhakāṇḍa (भाग - ३३ ;;; Part – 33)

Sarga number as per Ramayana

Shlokas extracted

No. of shlokas

Cumulative number of shlokas in this Kanda

128

अयोध्यां तु समालोक्य चिन्तयामास राघवः |
चिन्तयित्वा ततो दृष्टिं वानरेषु न्यपातयत् || १||

प्रियकामः प्रियं रामस्ततस्त्वरितविक्रमम् |
उवाच धीमांस्तेजस्वी हनूमन्तं प्लवङ्गमम् || २||

अयोध्यां त्वरितो गच्छ क्षिप्रं त्वं प्लवगोत्तम |
जानीहि कच्चित्कुशली जनो नृपतिमन्दिरे || ३||

शृङ्गवेरपुरं प्राप्य गुहं गहनगोचरम् |
निषादाधिपतिं ब्रूहि कुशलं वचनान्मम || ४||

भरतस्तु त्वया वाच्यः कुशलं वचनान्मम |

सिद्धार्थं शंस मां तस्मै सभार्यं सहलक्ष्मणम् || ५||

इति प्रतिसमादिष्टो हनूमान्मारुतात्मजः |

मानुषं धारयन्रूपमयोध्यां त्वरितो ययौ || ६||

अतोत्पपातवेगेनहनूमान्मारुतात्मजः|

गरुत्मानिववेगेनजिघृक्षन्पन्नगोत्तमम् || ७||

गङ्गायमुनयोर्भीमं संनिपातमतीत्य च  |

शृङ्गवेरपुरं प्राप्य गुहमासाद्य वीर्यवान् || ८||

क्रोशमात्रे त्वयोध्यायाः चीरकृष्णाजिनाम्बरम् |

ददर्श भरतं दीनं कृशमाश्रमवासिनम् || ९||

तं धर्ममिव धर्मज्ञं देहवन्तमिवापरम् |

उवाच प्राञ्जलिर्वाकय्ं हनूमान्मारुतात्मजः || १०||

भ्राता तु तव काकुत्स्थो रामः सत्यपराक्रमः |

ससीतः सह सौमित्रिः स त्वां कुशलमब्रवीत् || ११||

पञ्चमीमद्य रजनीमुषित्वा वचनान्मुनेः |

भरद्वाजाभ्यनुज्ञातं द्रक्ष्यस्यद्यैव राघवम् || १२||

एवमुक्तो हनुमता भरतः कैकयीसुतः |

पपात सहसा हृष्टो हर्षान्मोहं जगाम ह || १३||

ततो मुहूर्तादुत्थाय प्रत्याश्वस्य च राघवः |

हनूमन्तमुवाचेदं भरतः प्रियवादिनम् || १४||

देवो वा मानुषो वा त्वमनुक्रोशादिहागतः |

प्रियाख्यानस्य ते सौम्य ददामि ब्रुवतः प्रियम् || १५||

15

3355

Shri Rama tells Shri Hanuman to proceed to Shringaverapura and convey to Guha his welfare. Shri Rama also asks Shri Hanuman to go to Ayodhya and communicate to Bharata about his welfare. 

Accordingly, Shri Hanuman meets Guha and Bharata in Nandigrama and informs that Shri Rama is coming after spending a night in Sage Bharadwaja’s ashrama.  Bharata is overjoyed on hearing the good news about Shri Rama.

130

श्रुत्वा तु परमानन्दं भरतः सत्यविक्रमः |
हृष्टमाज्ञापयामास शत्रुघ्नं परवीरहा || १||

दैवतानि च सर्वाणि चैत्यानि नगरस्य च |
सुगन्धमाल्यैर्वादित्रैरर्चन्तु शुचयो नराः || २||

राजदारास्तथामात्याः सैन्याः सेनागणाङ्गनाः |
अभिनिर्यान्तु रामस्य द्रष्टुं शशिनिभं मुखम् || ३||

भरतस्य वचः श्रुत्वा शत्रुघ्नः परवीरहा |
विष्टीरनेकसाहस्रीश्चोदयामास वीर्यवान् || ४||

समीकुरुत निम्नानि विषमाणि समानि च |
स्थानानि च निरस्यन्तां नन्दिग्रामादितः परम् || ५||

सिञ्चन्तु पृथिवीं कृत्स्नां हिमशीतेन वारिणा |
ततोऽभ्यवकिरंस्त्वन्ये लाजैः पुष्पैश्च सर्वतः || ६||

समुच्छ्रितपताकास्तु रथ्याः पुरवरोत्तमे |
शोभयन्तु च वेश्मानि सूर्यस्योदयनं प्रति || ७||

स्रग्दाममुक्तपुष्पैश्च सुगन्धैः पञ्चवर्णकैः |
राजमार्गमसम्बाधं किरन्तु शतशो नराः || ८||

मत्तैर्नागसहस्रैश्च शातकुम्भविभूषितः |
अपरे हेमकक्ष्याभिः सगजाभिः करेणुभिः |
निर्ययुस्त्वरया युक्ता रथैश्च सुमहारथाः || ९||

ततो यानान्युपारूढाः सर्वा दशरथस्त्रियः |
कौसल्यां प्रमुखे कृत्वा सुमित्रां चापि निर्ययुः || १०||

अश्वानां खुरशब्देन रथनेमिस्वनेन च |
शङ्खदुन्दुभिनादेन सञ्चचालेव मेदिनी || ११||

कृत्स्नं च नगरं तत्तु नन्दिग्राममुपागमत् |
द्विजातिमुख्यैर्धर्मात्मा श्रेणीमुख्यैः सनैगमैः || १२||

माल्यमोदक हस्तैश्च मन्त्रिभिर्भरतो वृतः |
शङ्खभेरीनिनादैश्च बन्दिभिश्चाभिवन्दितः || १३||

आर्यपादौ गृहीत्वा तु शिरसा धर्मकोविदः |
पाण्डुरं छत्रमादाय शुक्लमाल्योपशोभितम् || १४||

शुक्ले च वालव्यजने राजार्हे हेमभूषिते |
उपवासकृशो दीनश्चीरकृष्णाजिनाम्बरः || १५||

भ्रातुरागमनं श्रुत्वा तत्पूर्वं हर्षमागतः |
प्रत्युद्ययौ तदा रामं महात्मा सचिवैः सह || १६||

समीक्ष्य भरतो वाक्यमुवाच पवनात्मजम् |
कच्चिन्न खलु कापेयी सेव्यते चलचित्तता |
न हि पश्यामि काकुत्स्थं राममार्यं परन्तपम् || १७||

अथैवमुक्ते वचने हनूमानिदमब्रवीत् |
अर्थं विज्ञापयन्नेव भरतं सत्यविक्रमम् || १८||

सदा फलान्कुसुमितान्वृक्षान्प्राप्य मधुस्रवान् |
भरद्वाजप्रसादेन मत्तभ्रमरनादितान् || १९||

तस्य चैष वरो दत्तो वासवेन परन्तप |
ससैन्यस्य तदातिथ्यं कृतं सर्वगुणान्वितम् || २०||

निस्वनः श्रूयते भीमः प्रहृष्टानां वनौकसाम् |
मन्ये वानरसेना सा नदीं तरति गोमतीम् || २१||

रजोवर्षं समुद्भूतं पश्य वालुकिनीं प्रति |
मन्ये सालवनं रम्यं लोलयन्ति प्लवङ्गमाः || २२||

तदेतद्दृश्यते दूराद्विमलं चन्द्रसंनिभम् |
विमानं पुष्पकं दिव्यं मनसा ब्रह्मनिर्मितम् || २३||

रावणं बान्धवैः सार्धं हत्वा लब्धं महात्मना |
धनदस्य प्रसादेन दिव्यमेतन्मनोजवम् || २४||

एतस्मिन्भ्रातरौ वीरौ वैदेह्या सह राघवौ |
सुग्रीवश्च महातेजा राक्षसेन्द्रो विभीषणः || २५||

ततो हर्षसमुद्भूतो निस्वनो दिवमस्पृशत् |
स्त्रीबालयुववृद्धानां रामोऽयमिति कीर्तितः || २६||

रथकुञ्जरवाजिभ्यस्तेऽवतीर्य महीं गताः |
ददृशुस्तं विमानस्थं नराः सोममिवाम्बरे || २७||

प्राञ्जलिर्भरतो भूत्वा प्रहृष्टो राघवोन्मुखः |
स्वागतेन यथार्थेन ततो राममपूजयत् || २८||

मनसा ब्रह्मणा सृष्टे विमाने लक्ष्मणाग्रजः |
रराज पृथुदीर्घाक्षो वज्रपाणिरिवापरः || २९||

ततो विमानाग्रगतं भरतो भ्रातरं तदा |
ववन्दे प्रणतो रामं मेरुस्थमिव भास्करम् || ३०||

आरोपितो विमानं तद्भरतः सत्यविक्रमः |
राममासाद्य मुदितः पुनरेवाभ्यवादयत् || ३१||

तं समुत्थाप्य काकुत्स्थश्चिरस्याक्षिपथं गतम् |
अङ्के भरतमारोप्य मुदितः परिषष्वजे || ३२||

ततो लक्ष्मणमासाद्य वैदेहीं च परन्तपः |
अभ्यवादयत प्रीतो भरतो नाम चाब्रवीत् || ३३||

सुग्रीवं कैकयी पुत्रो जाम्बवन्तं तथाङ्गदम् |
मैन्दं च द्विविदं नीलमृषभं चैव सस्वजे || ३४||

ते कृत्वा मानुषं रूपं वानराः कामरूपिणः |
कुशलं पर्यपृष्हन्त प्रहृष्टा भरतं तदा || ३५||

विभीषणं च भरतः सान्त्वयन्वाक्यमब्रवीत् |
दिष्ट्या त्वया सहायेन कृतं कर्म सुदुष्करम् || ३६||

शत्रुघ्नश्च तदा राममभिवाद्य सलक्ष्मणम् |
सीतायाश्चरणौ पश्चाद्ववन्दे विनयान्वितः || ३७||

रामो मातरमासाद्य विषण्णं शोककर्शिताम् |
जग्राह प्रणतः पादौ मनो मातुः प्रसादयन् || ३८||

अभिवाद्य सुमित्रां च कैकेयीं च यशस्विनीम् |
स मातॄश्च तदा सर्वाः पुरोहितमुपागमत् || ३९||

स्वागतं ते महाबाहो कौसल्यानन्दवर्धन |
इति प्राञ्जलयः सर्वे नागरा राममब्रुवन् || ४०||

तन्यञ्जलिसहस्राणि प्रगृहीतानि नागरैः |
आकोशानीव पद्मानि ददर्श भरताग्रजः || ४१||

पादुके ते तु रामस्य गृहीत्वा भरतः स्वयम् |
चरणाभ्यां नरेन्द्रस्य योजयामास धर्मवित् || ४२||

अब्रवीच्च तदा रामं भरतः स कृताञ्जलिः |
एतत्ते रक्षितं राजन्राज्यं निर्यातितं मया || ४३||

अद्य जन्म कृतार्थं मे संवृत्तश्च मनोरथः |
यस्त्वां पश्यामि राजानमयोध्यां पुनरागतम् || ४४||

अवेक्षतां भवान्कोशं कोष्ठागारं पुरं बलम् |
भवतस्तेजसा सर्वं कृतं दशगुणं मया || ४५||

तथा ब्रुवाणं भरतं दृष्ट्वा तं भ्रातृवत्सलम् |
मुमुचुर्वानरा बाष्पं राक्षसश्च विभीषणः || ४६||

ततः प्रहर्षाद्भरतमङ्कमारोप्य राघवः |
ययौ तेन विमानेन ससैन्यो भरताश्रमम् || ४७||

भरताश्रममासाद्य ससैन्यो राघवस्तदा |
अवतीर्य विमानाग्रादवतस्थे महीतले || ४८||

अब्रवीच्च तदा रामस्तद्विमानमनुत्तमम् |
वह वैश्रवणं देवमनुजानामि गम्यताम् || ४९||

ततो रामाभ्यनुज्ञातं तद्विमानमनुत्तमम् |
उत्तरां दिशमुद्दिश्य जगाम धनदालयम् || ५०||

पुरोहितस्यात्मसमस्य राघवो
बृहस्पतेः शक्र इवामराधीअफ् |
निपीड्य पादौ पृथगासने शुभे
सहैव तेनोपविवेश वीर्यवान् || ५१||

51

3406

After hearing the good news from Shri Hanuman about the arrival of Shri Rama along with Seeta and Lakshmana, Bharata commands Shatrughna to make appropriate arrangements for the reception of Shri Rama in the City of Ayodhya. 

Pushpaka Vimana lands at Nandigrama. Bharata welcomes Shri Rama and others, by embracing them and by greeting them joyously. Shri Rama, Seeta and Lakshmana too offer salutations to Kausalya, Sumitra and Kaikeyi, and Sage Vasistha, who had come to receive them. 

Then, Bharata brings Shri Rama's wooden sandals and places them below the feet of Shri Rama.

इत्यार्षे श्री रामायणे युद्धकाण्डे त्रयस्त्रिंशतिः भाग:

 

Yuddhakāṇḍa Part-32

Yuddhakāṇḍa Part-34

 

युद्धकाण्ड - Yuddhakāṇḍa (भाग - ३२ ;;; Part – 32)

 

युद्धकाण्ड - Yuddhakāṇḍa (भाग - ३२ ;;; Part – 32)

Sarga number as per Ramayana

Shlokas extracted

No. of shlokas

Cumulative number of shlokas in this Kanda

124

तां रात्रिमुषितं रामं सुखोत्थितमरिन्दमम् |
अब्रवीत्प्राञ्जलिर्वाक्यं जयं पृष्ट्वा विभीषणः || १||

स्नानानि चाङ्गरागाणि वस्त्राण्याभरणानि च |
चन्दनानि च दिव्यानि माल्यानि विविधानि च || २||

अलङ्कारविदश्चेमा नार्यः पद्मनिभेक्षणाः |
उपस्थितास्त्वां विधिवत्स्नापयिष्यन्ति राघव || ३||

एवमुक्तस्तु काकुत्स्थः प्रत्युवाच विभीषणम् |
हरीन्सुग्रीवमुख्यांस्त्वं स्नानेनोपनिमन्त्रय || ४||

स तु ताम्यति धर्मात्मा ममहेतोः सुखोचितः |
सुकुमारो महाबाहुः कुमारः सत्यसंश्रवः || ५||

तं विना कैकेयीपुत्रं भरतं धर्मचारिणम् |
न मे स्नानं बहुमतं वस्त्राण्याभरणानि च || ६||

इत एव पथा क्षिप्रं प्रतिगच्छाम तां पुरीम् |
अयोध्यामायतो ह्येष पन्थाः परमदुर्गमः || ७||

एवमुक्तस्तु काकुत्स्थं प्रत्युवाच विभीषणः |
अह्ना त्वां प्रापयिष्यामि तां पुरीं पार्थिवात्मज || ८||

पुष्पकं नाम भद्रं ते विमानं सूर्यसंनिभम् |
मम भ्रातुः कुबेरस्य रावणेनाहृतं बलात् || ९||

तदिदं मेघसङ्काशं विमानमिह तिष्ठति |
तेन यास्यसि यानेन त्वमयोध्यां गजज्वरः || १०||

अहं ते यद्यनुग्राह्यो यदि स्मरसि मे गुणान् |
वस तावदिह प्राज्ञ यद्यस्ति मयि सौहृदम् || ११||

लक्ष्मणेन सह भ्रात्रा वैदेह्या चापि भार्यया |
अर्चितः सर्वकामैस्त्वं ततो राम गमिष्यसि || १२||

प्रीतियुक्तस्तु मे राम ससैन्यः ससुहृद्गणः |
सत्क्रियां विहितां तावद्गृहाण त्वं मयोद्यताम् || १३||

प्रणयाद्बहुमानाच्च सौहृदेन च राघव |
प्रसादयामि प्रेष्योऽहं न खल्वाज्ञापयामि ते || १४||

एवमुक्तस्ततो रामः प्रत्युवाच विभीषणम् |
रक्षसां वानराणां च सर्वेषां चोपशृण्वताम् || १५||

पूजितोऽहं त्वया वीर साचिव्येन परन्तप |
सर्वात्मना च चेष्टिभिः सौहृदेनोत्तमेन च || १६||

न खल्वेतन्न कुर्यां ते वचनं राक्षसेश्वर |
तं तु मे भ्रातरं द्रष्टुं भरतं त्वरते मनः || १७||

मां निवर्तयितुं योऽसौ चित्रकूटमुपागतः |
शिरसा याचतो यस्य वचनं न कृतं मया || १८||

कौसल्यां च सुमित्रां च कैकेयीं च यशस्विनीम् |
गुरूंश्च सुहृदश्चैव पौरांश्च तनयैः सह || १९||

उपस्थापय मे क्षिप्रं विमानं राक्षसेश्वर |
कृतकार्यस्य मे वासः कथं चिदिह संमतः || २०||

अनुजानीहि मां सौम्य पूजितोऽस्मि विभीषण |
मन्युर्न खलु कर्तव्यस्त्वरितस्त्वानुमानये || २१||

ततः काञ्चनचित्राङ्गं वैदूर्यमणिवेदिकम् |
कूटागारैः परिक्षिप्तं सर्वतो रजतप्रभम् || २२||

पाण्डुराभिः पताकाभिर्ध्वजैश्च समलङ्कृतम् |
शोभितं काञ्चनैर्हर्म्यैर्हेमपद्मविभूषितम् || २३||

प्रकीर्णं किङ्किणीजालैर्मुक्तामणिगवाक्षितम् |
घण्टाजालैः परिक्षिप्तं सर्वतो मधुरस्वनम् || २४||

तन्मेरुशिखराकारं निर्मितं विश्वकर्मणा |
बहुभिर्भूषितं हर्म्यैर्मुक्तारजतसंनिभौ || २५||

तलैः स्फटिकचित्राङ्गैर्वैदूर्यैश्च वरासनैः |
महार्हास्तरणोपेतैरुपपन्नं महाधनैः || २६||

उपस्थितमनाधृष्यं तद्विमानं मनोजवम् |
निवेदयित्वा रामाय तस्थौ तत्र विभीषणः || २७||

27

3272

Though Vibhishana requests Shri Rama to stay back at Lanka for some more time and receive his hospitality, Shri Rama politely refuses to do so, stating that he needs to proceed to Ayodhya quickly, to see his mothers, brothers and people there. Vibhishana arranges Pushpaka, the aerial car, to transport Shri Rama and others to Ayodhya.

125

उपस्थितं तु तं दृष्ट्वा पुष्पकं पुष्पभूषितम् |
अविदूरे स्थितं रामं प्रत्युवाच विभीषणः || १||

स तु बद्धाञ्जलिः प्रह्वो विनीतो राक्षसेश्वरः |
अब्रवीत्त्वरयोपेतः किं करोमीति राघवम् || २||

तमब्रवीन्महातेजा लक्ष्मणस्योपशृण्वतः |
विमृश्य राघवो वाक्यमिदं स्नेहपुरस्कृतम् || ३||

कृतप्रयत्नकर्माणो विभीषण वनौकसः |
रत्नैरर्थैश्च विविभैर्भूषणैश्चाभिपूजय || ४||

सहैभिरर्दिता लङ्का निर्जिता राक्षसेश्वर |
हृष्टैः प्राणभयं त्यक्त्वा सङ्ग्रामेष्वनिवर्तिभिः || ५||

एवं संमानिताश्चेमे मानार्हा मानद त्वया |
भविष्यन्ति कृतज्ञेन निर्वृता हरियूथपाः || ६||

त्यागिनं सङ्ग्रहीतारं सानुक्रोशं यशस्विनम् |
यतस्त्वामवगच्छन्ति ततः सम्बोधयामि ते || ७||

एवमुक्तस्तु रामेण वानरांस्तान्विभीषणः |
रत्नार्थैः संविभागेन सर्वानेवान्वपूजयत् || ८||

ततस्तान्पूजितान्दृष्ट्वा रत्नैरर्थैश्च यूथपान् |
आरुरोह ततो रामस्तद्विमानमनुत्तमम् || ९||

अङ्केनादाय वैदेहीं लज्जमानां यशस्विनीम् |
लक्ष्मणेन सह भ्रात्रा विक्रान्तेन धनुष्मता || १०||

अब्रवीच्च विमानस्थः काकुत्स्थः सर्ववानरान् |
सुग्रीवं च महावीर्यं राक्षसं च विभीषणम् || ११||

मित्रकार्यं कृतमिदं भवद्भिर्वानरोत्तमाः |
अनुज्ञाता मया सर्वे यथेष्टं प्रतिगच्छत || १२||

यत्तु कार्यं वयस्येन सुहृदा वा परन्तप |
कृतं सुग्रीव तत्सर्वं भवता धर्मभीरुणा |
किष्किन्धां प्रतियाह्याशु स्वसैन्येनाभिसंवृतः || १३||

स्वराज्ये वस लङ्कायां मया दत्ते विभीषण |
न त्वां धर्षयितुं शक्ताः सेन्द्रा अपि दिवौकसः || १४||

अयोध्यां प्रतियास्यामि राजधानीं पितुर्मम |
अभ्यनुज्ञातुमिच्छामि सर्वानामन्त्रयामि वः || १५||

एवमुक्तास्तु रामेण वानरास्ते महाबलाः |
ऊचुः प्राञ्जलयो रामं राक्षसश्च विभीषणः |
अयोध्यां गन्तुमिच्छामः सर्वान्नयतु नो भवान् || १६||

दृष्ट्वा त्वामभिषेकार्द्रं कौसल्यामभिवाद्य च |
अचिरेणागमिष्यामः स्वान्गृहान्नृपतेः सुत || १७||

एवमुक्तस्तु धर्मात्मा वानरैः सविभीषणैः |
अब्रवीद्राघवः श्रीमान्ससुग्रीवविभीषणान् || १८||

प्रियात्प्रियतरं लब्धं यदहं ससुहृज्जनः |
सर्वैर्भवद्भिः सहितः प्रीतिं लप्स्ये पुरीं गतः || १९||

क्षिप्रमारोह सुग्रीव विमानं वानरैः सह |
त्वमध्यारोह सामात्यो राक्षसेन्द्रविभीषण || २०||

ततस्तत्पुष्पकं दिव्यं सुग्रीवः सह सेनया |
अध्यारोहत्त्वरञ्शीघ्रं सामात्यश्च विभीषणः || २१||

तेष्वारूढेषु सर्वेषु कौबेरं परमासनम् |
राघवेणाभ्यनुज्ञातमुत्पपात विहायसं || २२||

ययौ तेन विमानेन हंसयुक्तेन भास्वता |
प्रहृष्टश्च प्रतीतश्च बभौ रामः कुबेरवत् || २३||

23

3295

Shri Rama requests Vibhishana to honour the vanaras, who fought for his cause valiantly, with gold and precious stones. Accordingly, Vibhishana honoured them with the gifts. Then, Shri Rama along with Lakshmana and Seetha ascended the aerial car. 

When Shri Rama expresses his gratitude to Sugreeva, Vibhishana and others and is about to move, Sugreeva and Vibhishana request Shri Rama to permit them to accompany in the Pushpaka to Ayodhya to witness his coronation-ceremony. Shri Rama gladly accepts and all ascend the Pushpaka and start on their aerial journey towards Ayodhya.

126

अनुज्ञातं तु रामेण तद्विमानमनुत्तमम् |
उत्पपात महामेघः श्वसनेनोद्धतो यथा || १||

पातयित्वा ततश्चक्षुः सर्वतो रघुनन्दनः |
अब्रवीन्मैथिलीं सीतां रामः शशिनिभाननाम् || २||

कैलासशिखराकारे त्रिकूटशिखरे स्थिताम् |
लङ्कामीक्षस्व वैदेहि निर्मितां विश्वकर्मणा || ३||

एतदायोधनं पश्य मांसशोणितकर्दमम् |
हरीणां राक्षसानां च सीते विशसनं महत् || ४||

तवहेतोर्विशालाक्षि रावणो निहतो मया |
कुम्भकर्णोऽत्र निहतः प्रहस्तश्च निशाचरः || ५||

लक्ष्मणेनेन्द्रजिच्चात्र रावणिर्निहतो रणे |
विरूपाक्षश्च दुष्प्रेक्ष्यो महापार्श्वमहोदरौ || ६||

अकम्पनश्च निहतो बलिनोऽन्ये च राक्षसाः |
त्रिशिराश्चातिकायश्च देवान्तकनरान्तकौ || ७||

अत्र मन्दोदरी नाम भार्या तं पर्यदेवयत् |
सपत्नीनां सहस्रेण सास्रेण परिवारिता || ८||

एतत्तु दृश्यते तीर्थं समुद्रस्य वरानने |
यत्र सागरमुत्तीर्य तां रात्रिमुषिता वयम् || ९||

एष सेतुर्मया बद्धः सागरे सलिलार्णवे |
तवहेतोर्विशालाक्षि नलसेतुः सुदुष्करः || १०||

पश्य सागरमक्षोभ्यं वैदेहि वरुणालयम् |
अपारमभिगर्जन्तं शङ्खशुक्तिनिषेवितम् || ११||

हिरण्यनाभं शैलेन्द्रं काञ्चनं पश्य मैथिलि |
विश्रमार्थं हनुमतो भित्त्वा सागरमुत्थितम् || १२||

अत्र राक्षसराजोऽयमाजगाम विभीषणः || १३||

एषा सा दृश्यते सीते किष्किन्धा चित्रकानना |
सुग्रीवस्य पुरी रम्या यत्र वाली मया हतः || १४||

दृश्यतेऽसौ महान्सीते सविद्युदिव तोयदः |
ऋश्यमूको गिरिश्रेष्ठः काञ्चनैर्धातुभिर्वृतः || १५||

अत्राहं वानरेन्द्रेण सुग्रीवेण समागतः |
समयश्च कृतः सीते वधार्थं वालिनो मया || १६||

एषा सा दृश्यते पम्पा नलिनी चित्रकानना |
त्वया विहीनो यत्राहं विललाप सुदुःखितः || १७||

अस्यास्तीरे मया दृष्टा शबरी धर्मचारिणी |
अत्र योजनबाहुश्च कबन्धो निहतो मया || १८||

दृश्यतेऽसौ जनस्थाने सीते श्रीमान्वनस्पतिः |
यत्र युद्धं महद्वृत्तं तवहेतोर्विलासिनि |
रावणस्य नृशंसस्य जटायोश्च महात्मनः || १९||

खरश्च निहतश्सङ्ख्ये दूषणश्च निपातितः |
त्रिशिराश्च महावीर्यो मया बाणैरजिह्मगैः || २०||

पर्णशाला तथा चित्रा दृश्यते शुभदर्शना |
यत्र त्वं राक्षसेन्द्रेण रावणेन हृता बलात् || २१||

एषा गोदावरी रम्या प्रसन्नसलिला शिवा |
अगस्त्यस्याश्रमो ह्येष दृश्यते पश्य मैथिलि || २२||

वैदेहि दृश्यते चात्र शरभङ्गाश्रमो महान् |
उपयातः सहस्राक्षो यत्र शक्रः पुरन्दरः || २३||

एते ते तापसावासा दृश्यन्ते तनुमध्यमे |
अत्रिः कुलपतिर्यत्र सूर्यवैश्वानरप्रभः |
अत्र सीते त्वया दृष्टा तापसी धर्मचारिणी || २४||

अस्मिन्देशे महाकायो विराधो निहतो मया || २५||

असौ सुतनुशैलेन्द्रश्चित्रकूटः प्रकाशते |
यत्र मां कैकयीपुत्रः प्रसादयितुमागतः || २६||

एषा सा यमुना दूराद्दृश्यते चित्रकानना |
भरद्वाजाश्रमो यत्र श्रीमानेष प्रकाशते || २७||

27

3322

During their journey to Ayodhya, Shri Rama shows to Seetha, the whole City of Lanka, the battle-field where Ravana and other demons were killed, the bridge constructed by vanaras under Nala across the ocean, Mount Mainka, Mount Rishyamuka. 

When Pushpaka reached Kishkinda area, Sita requests Shri Rama to ask the wives of Sugreeva and important women to accompany them, which was agreed to.  When the women in Kishkinda ascended the Pushpaka, their journey resumes. 

Then, Shri Rama showed to Sita the Pampa Lake, Janasthana forest, Panchavati, Godavari River, the hermitage of sage Agastya, the hermitage of sage Atri and Anasuya, Chitrakuta, the hermitage of Bharadwaja.

127

पूर्णे चतुर्दशे वर्षे पञ्चभ्यां लक्ष्मणाग्रजः |
भरद्वाजाश्रमं प्राप्य ववन्दे नियतो मुनिम् || १||

सोऽपृच्छदभिवाद्यैनं भरद्वाजं तपोधनम् |
शृणोषि क चिद्भगवन्सुभिक्षानामयं पुरे |
कच्चिच्च युक्तो भरतो जीवन्त्यपि च मातरः || २||

एवमुक्तस्तु रामेण भरद्वाजो महामुनिः |
प्रत्युवाच रघुश्रेष्ठं स्मितपूर्वं प्रहृष्टवत् || ३||

पङ्कदिग्धस्तु भरतो जटिलस्त्वां प्रतीक्षते |
पादुके ते पुरस्कृत्य सर्वं च कुशलं गृहे || ४||

त्वां पुरा चीरवसनं प्रविशन्तं महावनम् |
स्त्रीतृतीयं च्युतं राज्याद्धर्मकामं च केवलम् || ५||

पदातिं त्यक्तसर्वस्वं पितुर्वचनकारिणम् |
स्वर्गभोगैः परित्यक्तं स्वर्गच्युतमिवामरम् || ६||

दृष्ट्वा तु करुणा पूर्वं ममासीत्समितिञ्जय |
कैकेयीवचने युक्तं वन्यमूलफलाशनम् || ७||

साम्प्रतं सुसमृद्धार्थं समित्रगणबान्धवम् |
समीक्ष्य विजितारिं त्वां मम प्रीतिरनुत्तमा || ८||

सर्वं च सुखदुःखं ते विदितं मम राघव |
यत्त्वया विपुलं प्राप्तं जनस्थानवधादिकम् || ९||

ब्राह्मणार्थे नियुक्तस्य रक्षतः सर्वतापसान् |
मारीचदर्शनं चैव सीतोन्मथनमेव च || १०||

कबन्धदर्शनं चैव पम्पाभिगमनं तथा |
सुग्रीवेण च ते सख्यं यच्च वाली हतस्त्वया || ११||

मार्गणं चैव वैदेह्याः कर्म वातात्मजस्य च |
विदितायां च वैदेह्यां नलसेतुर्यथा कृतः |
यथा च दीपिता लङ्का प्रहृष्टैर्हरियूथपैः || १२||

सपुत्रबान्धवामात्यः सबलः सह वाहनः |
यथा च निहतः सङ्ख्ये रावणो देवकण्टकः || १३||

समागमश्च त्रिदशैर्यथादत्तश्च ते वरः |
सर्वं ममैतद्विदितं तपसा धर्मवत्सल || १४||

अहमप्यत्र ते दद्मि वरं शस्त्रभृतां वर |
अर्घ्यं प्रतिगृहाणेदमयोध्यां श्वो गमिष्यसि || १५||

तस्य तच्छिरसा वाक्यं प्रतिगृह्य नृपात्मजः |
बाढमित्येव संहृष्टः श्रीमान्वरमयाचत || १६||

अकालफलिनो वृक्षाः सर्वे चापि मधुस्रवाः |
भवन्तु मार्गे भगवन्नयोध्यां प्रति गच्छतः || १७||

निष्फलाः फलिनश्चासन्विपुष्पाः पुष्पशालिनः |
शुष्काः समग्रपत्रास्ते नगाश्चैव मधुस्रवाः || १८||

18

3340

After the fourteenth year of exile, on the fifth day of the bright half of lunar month, Shri Rama and Lakshmana reached Sage Bharadwaja's hermitage. They bent their heads down (as a mark of respect) and offered salutations.  Sage Bharadwaja blessed them.

Then, Shri Rama seeks a boon from Sage Bharadwaja, requesting him to make the trees enroute to Ayodhya, to bear fruit in the off-season, and the sage grants the boon. Thereupon, the vanaras feasted on those fruits at will.

इत्यार्षे श्री रामायणे युद्धकाण्डे द्वात्रिंशतिः भाग:

 

Yuddhakāṇḍa Part-31

Yuddhakāṇḍa Part-33

 

युद्धकाण्ड - Yuddhakāṇḍa (भाग - ३१ ;;; Part – 31)

 

युद्धकाण्ड - Yuddhakāṇḍa (भाग - ३१ ;;; Part – 31)

Sarga number as per Ramayana

Shlokas extracted

No. of shlokas

Cumulative number of shlokas in this Kanda

113

रावणं निहतं श्रुत्वा राघवेण महात्मना |
अन्तःपुराद्विनिष्पेतू राक्षस्यः शोककर्शिताः || १||

वार्यमाणाः सुबहुशो वृष्टन्त्यः क्षितिपांसुषु |
विमुक्तकेश्यो दुःखार्ता गावो वत्सहता यथा || २||

उत्तरेण विनिष्क्रम्य द्वारेण सह राक्षसैः |
प्रविश्यायोधनं घोरं विचिन्वन्त्यो हतं पतिम् || ३||

आर्यपुत्रेति वादिन्यो हा नाथेति च सर्वशः |
परिपेतुः कबन्धाङ्कां महीं शोणितकर्दमाम् || ४||

ता बाष्पपरिपूर्णाक्ष्यो भर्तृशोकपराजिताः |
करेण्व इव नर्दन्त्यो विनेदुर्हतयूथपाः || ५||

ददृशुस्ता महाकायं महावीर्यं महाद्युतिम् |
रावणं निहतं भूमौ नीलाञ्जनचयोपमम् || ६||

ताः पतिं सहसा दृष्ट्वा शयानं रणपांसुषु |
निपेतुस्तस्य गात्रेषु छिन्ना वनलता इव || ७||

बहुमानात्परिष्वज्य का चिदेनं रुरोद ह |
चरणौ का चिदालिङ्ग्य का चित्कण्ठेऽवलम्ब्य च || ८||

उद्धृत्य च भुजौ का चिद्भूमौ स्म परिवर्तते |
हतस्य वदनं दृष्ट्वा का चिन्मोहमुपागमत् || ९||

का चिदङ्के शिरः कृत्वा रुरोद मुखमीक्षती |
स्नापयन्ती मुखं बाष्पैस्तुषारैरिव पङ्कजम् || १०||

एवमार्ताः पतिं दृष्ट्वा रावणं निहतं भुवि |
चुक्रुशुर्बहुधा शोकाद्भूयस्ताः पर्यदेवयन् || ११||

येन वित्रासितः शक्रो येन वित्रासितो यमः |
येन वैश्रवणो राजा पुष्पकेण वियोजितः || १२||

गन्धर्वाणामृषीणां च सुराणां च महात्मनाम् |
भयं येन महद्दत्तं सोऽयं शेते रणे हतः || १३||

असुरेभ्यः सुरेभ्यो वा पन्नगेभ्योऽपि वा तथा |
न भयं यो विजानाति तस्येदं मानुषाद्भयम् || १४||

अवध्यो देवतानां यस्तथा दानवरक्षसाम् |
हतः सोऽयं रणे शेते मानुषेण पदातिना || १५||

यो न शक्यः सुरैर्हन्तुं न यक्षैर्नासुरैस्तथा |
सोऽयं कश्चिदिवासत्त्वो मृत्युं मर्त्येन लम्भितः || १६||

एवं वदन्त्यो बहुधा रुरुदुस्तस्य ताः स्त्रियः |
भूय एव च दुःखार्ता विलेपुश्च पुनः पुनः || १७||

अशृण्वता तु सुहृदां सततं हितवादिनाम् |
एताः सममिदानीं ते वयमात्मा च पातिताः || १८||

ब्रुवाणोऽपि हितं वाक्यमिष्टो भ्राता विभीषणः |
धृष्टं परुषितो मोहात्त्वयात्मवधकाङ्क्षिणा || १९||

यदि निर्यातिता ते स्यात्सीता रामाय मैथिली |
न नः स्याद्व्यसनं घोरमिदं मूलहरं महत् || २०||

वृत्तकामो भवेद्भ्राता रामो मित्रकुलं भवेत् |
वयं चाविधवाः सर्वाः सकामा न च शत्रवः || २१||

त्वया पुनर्नृशंसेन सीतां संरुन्धता बलात् |
राक्षसा वयमात्मा च त्रयं तुलं निपातितम् || २२||

न कामकारः कामं वा तव राक्षसपुङ्गव |
दैवं चेष्टयते सर्वं हतं दैवेन हन्यते || २३||

वानराणां विनाशोऽयं राक्षसानां च ते रणे |
तव चैव महाबाहो दैवयोगादुपागतः || २४||

नैवार्थेन न कामेन विक्रमेण न चाज्ञया |
शक्या दैवगतिर्लोके निवर्तयितुमुद्यता || २५||

विलेपुरेवं दीनास्ता राक्षसाधिपयोषितः |
कुरर्य इव दुःखार्ता बाष्पपर्याकुलेक्षणाः || २६||

26

3191

All the wives of Ravana arrive to the battlefield and lament, recollecting the valour of Ravana.  They were surprised as to how he, being the defeater of Indra, Yakshas, Gandharvas, etc, was killed by an ordinary mortal. They felt that, had Seetha been restored to Shri Rama, Ravana could have averted this type of disastrous death.

114

एतस्मिन्नन्तरे रामो विभीषणमुवाच ह |
संस्कारः क्रियतां भ्रातुः स्त्रियश्चैता निवर्तय || १||

तं प्रश्रितस्ततो रामं श्रुतवाक्यो विभीषणः |
विमृश्य बुद्ध्या धर्मज्ञो धर्मार्थसहितं वचः |
रामस्यैवानुवृत्त्यर्थमुत्तरं प्रत्यभाषत || २||

त्यक्तधर्मव्रतं क्रूरं नृशंसमनृतं तथा |
नाहमर्होऽस्मि संस्कर्तुं परदाराभिमर्शकम् || ३||

भ्रातृरूपो हि मे शत्रुरेष सर्वाहिते रतः |
रावणो नार्हते पूजां पूज्योऽपि गुरुगौरवात् || ४||

नृशंस इति मां राम वक्ष्यन्ति मनुजा भुवि |
श्रुत्वा तस्य गुणान्सर्वे वक्ष्यन्ति सुकृतं पुनः || ५||

तच्छ्रुत्वा परमप्रीतो रामो धर्मभृतां वरः |
विभीषणमुवाचेदं वाक्यज्ञो वाक्यकोविदम् || ६||

तवापि मे प्रियं कार्यं त्वत्प्रभवाच्च मे जितम् |
अवश्यं तु क्षमं वाच्यो मया त्वं राक्षसेश्वर || ७||

अधर्मानृतसंयुक्तः काममेष निशाचरः |
तेजस्वी बलवाञ्शूरः सङ्ग्रामेषु च नित्यशः || ८||

शतक्रतुमुखैर्देवैः श्रूयते न पराजितः |
महात्मा बलसम्पन्नो रावणो लोकरावणः || ९||

मरणान्तानि वैराणि निर्वृत्तं नः प्रयोजनम् |
क्रियतामस्य संस्कारो ममाप्येष यथा तव || १०||

त्वत्सकाशान्महाबाहो संस्कारं विधिपूर्वकम् |
क्षिप्रमर्हति धर्मज्ञ त्वं यशोभाग्भविष्यसि || ११||

राघवस्य वचः श्रुत्वा त्वरमाणो विभीषणः |
संस्कारेणानुरूपेण योजयामास रावणम् || १२||

स ददौ पावकं तस्य विधियुक्तं विभीषणः |
ताः स्त्रियोऽनुनयामास सान्त्वमुक्त्वा पुनः पुनः || १३||

प्रविष्टासु च सर्वासु राक्षसीषु विभीषणः |
रामपार्श्वमुपागम्य तदातिष्ठद्विनीतवत् || १४||

रामोऽपि सह सैन्येन ससुग्रीवः सलक्ष्मणः |
हर्षं लेभे रिपुं हत्वा यथा वृत्रं शतक्रतुः || १५||

15

3206

Shri Rama asks Vibhishana to perform final rites to Ravana. Initially, Vibhishana was not willing to perform the last rites, as Ravana was an unrighteous person. However, Shri Rama states that with the honourable death of Ravana in the battlefield, enmity should end and convinces him to perform the final rites to Ravana. Then, Vibhishana performs the funeral rites of Ravana.

115

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

  

117

 

 

 

 

ते रावणवधं दृष्ट्वा देवगन्धर्वदानवाः |
जग्मुस्तैस्तैर्विमानैः स्वैः कथयन्तः शुभाः कथाः || १||

रावणस्य वधं घोरं राघवस्य पराक्रमम् |
सुयुद्धं वानराणां च सुग्रीवसय्च मन्त्रितम् || २||

अनुरागं च वीर्यं च सौमित्रेर्लक्ष्मणस्य च |
कथयन्तो महाभागा जग्मुर्हृष्टा यथागतम् || ३||

राघवस्तु रथं दिव्यमिन्द्रदत्तं शिखिप्रभम् |
अनुज्ञाय महाभागो मातलिं प्रत्यपूजयत् || ४||

राघवेणाभ्यनुज्ञातो मातलिः शक्रसारथिः |
दिव्यं तं रथमास्थाय दिवमेवारुरोह सः || ५||

तस्मिंस्तु दिवमारूढे सुरसारथिसत्तमे |
राघवः परमप्रीतः सुग्रीवं परिषस्वजे || ६||

परिष्वज्य च सुग्रीवं लक्ष्मणेनाभिवादितः |
पूज्यमानो हरिश्रेष्ठैराजगाम बलालयम् || ७||

अब्रवीच्च तदा रामः समीपपरिवर्तिनम् |
सौमित्रिं सत्त्वसम्पन्नं लक्ष्मणं दीप्ततेजसं || ८||

विभीषणमिमं सौम्य लङ्कायामभिषेचय |
अनुरक्तं च भक्तं च मम चैवोपकारिणम् || ९||

एष मे परमः कामो यदिमं रावणानुजम् |
लङ्कायां सौम्य पश्येयमभिषिक्तं विभीषणम् || १०||

एवमुक्तस्तु सौमित्री राघवेण महात्मना |
तथेत्युक्त्वा तु संहृष्टः सौवर्णं घटमाददे || ११||

घटेन तेन सौमित्रिरभ्यषिञ्चद्विभीषणम् |
लङ्कायां रक्षसां मध्ये राजानं रामशासनात् || १२||

अभ्यषिञ्चत्स धर्मात्मा शुद्धात्मानं विभीषणम् |
तस्यामात्या जहृषिरे भक्ता ये चास्य राक्षसाः || १३||

दृष्ट्वाभिषिक्तं लङ्कायां राक्षसेन्द्रं विभीषणम् |
राघवः परमां प्रीतिं जगाम सहलक्ष्मणः || १४||

स तद्राज्यं महत्प्राप्य रामदत्तं विभीषणः |
प्रकृतीः सान्त्वयित्वा च ततो राममुपागमत् || १५||

अक्षतान्मोदकाँल्लाजान्दिव्याः सुमनसस्तथा |
आजह्रुरथ संहृष्टाः पौरास्तस्मै निशाचराः || १६||

स तान्गृहीत्वा दुर्धर्षो राघवाय न्यवेदयत् |
मङ्गल्यं मङ्गलं सर्वं लक्ष्मणाय च वीर्यवान् || १७||

कृतकार्यं समृद्धार्थं दृष्ट्वा रामो विभीषणम् |
प्रतिजग्राह तत्सर्वं तस्यैव प्रियकाम्यया || १८||

उवाच मेघसङ्काशं विभीषणमुपस्थितम् |

दिव्याङ्गरागां वैदेहीं दिव्याभरणभूषिताम् |

इह सीतां शिरःस्नातामुपस्थापय माचिरम् || १९||

एवमुक्तस्तु रामेण त्वरमाणो विभीषणः |

प्रविश्यान्तःपुरं सीतां स्त्रीभिः स्वाभिरचोदयत् || २०||

दिव्याङ्गरागा वैदेही दिव्याभरणभूषिता |

यानमारोह भद्रं ते भर्ता त्वां द्रष्टुमिच्छति || २१||

एवमुक्ता तु वैदेही प्रत्युवाच विभीषणम् |

अस्नाता द्रष्टुमिच्छामि भर्तारं राक्षसाधिप || २२||

तस्यास्तद्वचनं श्रुत्वा प्रत्युवाच विभीषणः |

यथाहं रामो भर्ता ते तत्तथा कर्तुमर्हसि || २३||

तस्य तद्वचनं श्रुत्वा मैथिली भ्रातृदेवता |

भर्तृभक्तिव्रता साध्वी तथेति प्रत्यभाषत || २४||

ततः सीतां शिरःस्नातां युवतीभिरलङ्कृताम् |

महार्हाभरणोपेतां महार्हाम्बरधारिणीम् || २५||

आरोप्य शिबिकां दीप्तां परार्ध्याम्बरसंवृताम् |

रक्षोभिर्बहुभिर्गुप्तामाजहार विभीषणः || २६||

26

3232

Matali, Indra's charioteer leaves the battle-field and returns to his heaven. Then, Shri Rama instructs Lakshmana to arrange for the installation of Vibhishana as the king of Lanka. Lakshmana gets the coronation ritual of Vibhishana completed, as the King of Lanka, in the presence of the demons there. 

After, Vibhishana’s coronation, Shri Rama directs Vibhishana to bring Seeta after her getting bathed, anointed with charming cosmetics and adorned with beautiful jewels. Then, Vibhishana, as directed by Shri Rama, brings Seetha to Shri Rama's presence.

123

रावणम् निहतं पश्चात् शक्रः तत्र समुपागत्।

अब्रवीत्परमप्रीतो राघवं प्राञ्जलिं स्थितम् || १||

अमोघं दर्शनं राम तवास्माकं परन्तप |
प्रीतियुक्तोऽस्मि तेन त्वं ब्रूहि यन्मनसेच्छसि || २||

एवमुक्तस्तु काकुत्स्थः प्रत्युवाच कृताञ्जलिः |
लक्ष्मणेन सह भ्रात्रा सीतया चापि भार्यया || ३||

यदि प्रीतिः समुत्पन्ना मयि सर्वसुरेश्वर |
वक्ष्यामि कुरु मे सत्यं वचनं वदतां वर || ४||

मम हेतोः पराक्रान्ता ये गता यमसादनम् |
ते सर्वे जीवितं प्राप्य समुत्तिष्ठन्तु वानराः || ५||

मत्प्रियेष्वभिरक्ताश्च न मृत्युं गणयन्ति च |
त्वत्प्रसादात्समेयुस्ते वरमेतदहं वृणे || ६||

नीरुजान्निर्व्रणांश्चैव सम्पन्नबलपौरुषान् |
गोलाङ्गूलांस्तथैवर्क्षान्द्रष्टुमिच्छामि मानद || ७||

अकाले चापि मुख्यानि मूलानि च फलानि च |
नद्यश्च विमलास्तत्र तिष्ठेयुर्यत्र वानराः || ८||

श्रुत्वा तु वचनं तस्य राघवस्य महात्मनः |
महेन्द्रः प्रत्युवाचेदं वचनं प्रीतिलक्षणम् || ९||

महानयं वरस्तात त्वयोक्तो रघुनन्दन |
समुत्थास्यन्ति हरयः सुप्ता निद्राक्षये यथा || १०||

सुहृद्भिर्बान्धवैश्चैव ज्ञातिभिः स्वजनेन च |
सर्व एव समेष्यन्ति संयुक्ताः परया मुदा || ११||

अकाले पुष्पशबलाः फलवन्तश्च पादपाः |
भविष्यन्ति महेष्वास नद्यश्च सलिलायुताः || १२||

सव्रणैः प्रथमं गात्रैः संवृतैर्निव्रणैः पुनः |
बभूवुर्वानराः सर्वे किमेतदिति विस्मितः || १३||

13

3245

After the death of Ravana, Indra, the king of celestials appeared there.  Shri Rama stands before him with folded hands. When Indra asks Shri Rama for a boon, Shri Rama requested Indra to bring back to life, all the vanaras who had lost their life in the battle. Indra grants the boon and all the dead vanaras were restored to life.

इत्यार्षे श्री रामायणे युद्धकाण्डे  एकत्रिंशतिः भाग:

 

Yuddhakāṇḍa Part-30

Yuddhakāṇḍa Part-32