सुन्दरकाण्ड
- Sundarakāṇḍa
(भाग - २
;;; Part – 2)
|
Sarga
number as per Ramayana |
Shlokas
extracted |
No. of shlokas |
Cumulative number of shlokas in this
Kanda |
|
2 |
स
सागरमनाधृष्यमतिक्रम्य महाबलः | ततः
पादपमुक्तेन पुष्पवर्षेण वीर्यवान् | योजनानां शतं श्रीमांस्तीर्त्वाप्युत्तमविक्रमः | शतान्यहं योजनानां क्रमेयं सुबहून्यपि | गिरिमूर्ध्नि स्थितां लङ्कां पाण्डुरैर्भवनैः शुभैः | पालितां राक्षसेन्द्रेण निर्मितां विश्वकर्मणा | सम्पूर्णां राक्षसैर्घोरैर्नागैर्भोगवतीम् इव | दंष्ट्रिभिर्बहुभिः शूरैः शूलपट्टिशपाणिभिः | वप्रप्राकारजघनां विपुलाम्बुनवाम्बराम् | द्वारमुत्तरमासाद्य चिन्तयामास वानरः | तस्याश्च महतीं गुप्तिं सागरं च निरीक्ष्य सः | मयि
दृष्टे तु रक्षोभी रामस्य विदितात्मनः | न
हि शक्यं क्व चित्स्थातुमविज्ञातेन राक्षसैः | वायुरप्यत्र नाज्ञातश् चरेदिति मतिर्मम | इहाहं
यदि तिष्ठामि स्वेन रूपेण संवृतः | तदहं
स्वेन रूपेण रजन्यां ह्रस्वतां गतः | रावणस्य पुरीं रात्रौ प्रविश्य सुदुरासदाम् | इति
सञ्चिन्त्य हनुमान्सूर्यस्यास्तमयं कपिः | |
18 |
67 |
|
Shri Hanuman reaches
Lanka and observes the beautiful city from a mountain top and decides to wait
for night to arrive, so that he can enter the city. |
|||
|
4
5 |
स
लम्बशिखरे लम्बे लम्बतोयदसंनिभे | निशि
लङ्कां महासत्त्वो विवेश कपिकुञ्जरः | शारदाम्बुधरप्रख्यैर्भवनैरुपशोभिताम् | सुपुष्टबलसङ्गुप्तां यथैव विटपावतीम् | भुजगाचरितां गुप्तां शुभां भोगवतीम् इव | चण्डमारुतनिर्ह्रादां यथेन्द्रस्यामरावतीम् | किङ्किणीजालघोषाभिः पताकाभिरलङ्कृताम् | विस्मयाविष्टहृदयः पुरीमालोक्य सर्वतः | मणिस्फटिक मुक्ताभिर्मणिकुट्टिमभूषितैः | वैदूर्यतलसोपानैः स्फाटिकान्तरपांसुभिः | क्रौञ्चबर्हिणसङ्घुष्टे राजहंसनिषेवितैः | वस्वोकसाराप्रतिमां समीक्ष्य नगरीं ततः | तां
समीक्ष्य पुरीं लङ्कां राक्षसाधिपतेः शुभाम् | नेयमन्येन नगरी शक्या धर्षयितुं बलात् | कुमुदाङ्गदयोर्वापि सुषेणस्य महाकपेः | विवस्वतस्तनूजस्य हरेश्च कुशपर्वणः | समीक्ष्य तु महाबाहो राघवस्य पराक्रमम् | तां
रत्नवसनोपेतां कोष्ठागारावतंसकाम् | तां
नष्टतिमिरां दीपैर्भास्वरैश्च महागृहैः | प्रविष्टः सत्त्वसम्पन्नो निशायां मारुतात्मजः | हसितोद्घुष्टनिनदैस्तूर्यघोष पुरः सरैः | प्रजज्वाल तदा लङ्का रक्षोगणगृहैः शुभैः | तां
चित्रमाल्याभरणां कपिराजहितङ्करः | शुश्राव मधुरं गीतं त्रिस्थानस्वरभूषितम् | शुश्राव काञ्चीनिनादं नूपुराणां च निःस्वनम् | स्वाध्याय निरतांश्चैव यातुधानान्ददर्श सः | राजमार्गं समावृत्य स्थितं रक्षोबलं महत् | दीक्षिताञ्जटिलान्मुण्डान्गोऽजिनाम्बरवाससः | कूटमुद्गरपाणींश्च दण्डायुधधरानपि | करालान्भुग्नवक्त्रांश्च विकटान्वामनांस्तथा | नातिष्ठूलान्नातिकृशान्नातिदीर्घातिह्रस्वकान् | शक्तिवृक्षायुधांश्चैव पट्टिशाशनिधारिणः | स्रग्विणस्त्वनुलिप्तांश्च वराभरणभूषितान् | शतसाहस्रमव्यग्रमारक्षं मध्यमं कपिः | त्रिविष्टपनिभं दिव्यं दिव्यनादविनादितम् | रथैर्यानैर्विमानैश्च तथा गजहयैः शुभैः | भूषितं रुचिरद्वारं मत्तैश्च मृगपक्षिभिः | अव्यक्तलेखामिव चन्द्रलेखां पांसुप्रदिग्धामिव हेमलेखाम् | क्षतप्ररूढामिव बाणलेखां वायुप्रभिन्नामिव मेघलेखाम् || ३८|| सीतामपश्यन्मनुजेश्वरस्य रामस्य पत्नीं वदतां वरस्य | बभूव
दुःखाभिहतश् चिरस्य प्लवङ्गमो मन्द इवाचिरस्य || ३९|| |
39 |
106 |
|
Entering Lanka at
night by placing his left foot desiring the destruction of enemies, Shri
Hanuman hears various musical instruments being played upon inside. He also
observes enemies' forces and moves towards the royal gynaeceum. |
|||
इत्यार्षे श्री रामायणे सुन्दरकाण्डे द्वितीय: भाग: