Thursday, December 18, 2025

अयोध्याकाण्ड - Ayōdhyākāṇḍa (भाग - १ ;;; Part – 1)

 

अयोध्याकाण्ड - Ayōdhyākāṇḍa (भाग - ;;; Part – 1)

Sarga number as per Ramayana

Shlokas extracted

No. of shlokas

Cumulative number of shlokas in this Kanda

1

स तत्र न्यवसद्भ्रात्रा सह सत्कारसत्कृतः |

मातुलेनाश्वपतिना पुत्रस्नेहेन लालितः || १||

तत्रापि निवसन्तौ तौ तर्प्यमाणौ च कामतः |
भ्रातरौ स्मरतां वीरौ वृद्धं दशरथं नृपम् || २||

राजापि तौ महातेजाः सस्मार प्रोषितौ सुतौ |
उभौ भरतशत्रुघ्नौ महेन्द्रवरुणोपमौ || ३||

सर्व एव तु तस्येष्टाश्चत्वारः पुरुषर्षभाः |
स्वशरीराद्विनिर्वृत्ताश्चत्वार इव बाहवः || ४||

तेषामपि महातेजा रामो रतिकरः पितुः |
स्वयम्भूरिव भूतानां बभूव गुणवत्तरः || ५||

कौसल्या शुशुभे तेन पुत्रेणामिततेजसा |

यथा वरेण देवानामदितिर्वज्रपाणिना ||६||

स हि रूपोपपन्नश्च वीर्यवाननसूयकः |

भूमावनुपमः सूनुर्गुणैर्दशरथोपमः ||७||

बुद्धिमान्मधुराभाषी पूर्वभाषी प्रियंवदः |
वीर्यवान्न च वीर्येण महता स्वेन विस्मितः ||८||

न चानृतकथो विद्वान् वृद्धानां प्रतिपूजकः |

अनुरक्तः प्रजाभिश्च प्रजाश्चाप्यनुरज्यते || ९ ||

सानुक्रोशो जितक्रोधो ब्राह्मणप्रतिपूजकः |

दीनानुकम्पी धर्मज्ञो नित्यं प्रग्रहवाञ्शुचिः ||१०||

स हि नित्यं प्रशान्तात्मा मृदुपूर्वं च भाषते |
उच्यमानोऽपि परुषं नोत्तरं प्रतिपद्यते || ११||

कथं चिदुपकारेण कृतेनैकेन तुष्यति |
न स्मरत्यपकाराणां शतमप्यात्मवत्तया || १२||

शीलवृद्धैर्ज्ञानवृद्धैर्वयोवृद्धैश्च सज्जनैः |
कथयन्नास्त वै नित्यमस्त्रयोग्यान्तरेष्वपि || १३||

कल्याणाभिजनः साधुरदीनः सत्यवागृजुः |
वृद्धैरभिविनीतश्च द्विजैर्धर्मार्थदर्शिभिः || १४||

एतैस्तु बहुभिर्युक्तं गुणैरनुपमैः सुतम् |
दृष्ट्वा दशरथो राजा चक्रे चिन्तां परन्तपः || १५||

एषा ह्यस्य परा प्रीतिर्हृदि सम्परिवर्तते |
कदा नाम सुतं द्रक्ष्याम्यभिषिक्तमहं प्रियम् || १६||

वृद्धिकामो हि लोकस्य सर्वभूतानुकम्पनः |
मत्तः प्रियतरो लोके पर्जन्य इव वृष्टिमान् || १७||

यमशक्रसमो वीर्ये बृहस्पतिसमो मतौ |
महीधरसमो धृत्यां मत्तश्च गुणवत्तरः || १८||

महीमहमिमां कृत्स्नामधितिष्ठन्तमात्मजम् |
अनेन वयसा दृष्ट्वा यथा स्वर्गमवाप्नुयाम् || १९||

तं समीक्ष्य महाराजो युक्तं समुदितैर्गुणैः |
निश्चित्य सचिवैः सार्धं युवराजममन्यत || २०||

नानानगरवास्तव्यान्पृथग्जानपदानपि |
समानिनाय मेदिन्याः प्रधानान्पृथिवीपतिः || २१||

अथ राजवितीर्णेषु विविधेष्वासनेषु च |
राजानमेवाभिमुखा निषेदुर्नियता नृपाः || २२||

स लब्धमानैर्विनयान्वितैर्नृपैः
पुरालयैर्जानपदैश्च मानवैः |
उपोपविष्टैर्नृपतिर्वृतो बभौ
सहस्रचक्षुर्भगवानिवामरैः || २३||

23

23

Though Dasaratha had equal love towards all his four sons, Shri Rama being the most virtuous among those brothers and the mightiest was a great source of joy for his father.

The characteristics of Shri Rama are:

·     He was handsome, a hero of valour and without envy and anger

·     He was free from idleness and was ever alert

·     He knew the theory and practice of sciences

·     He knew the ways and means of getting income as well as the system of spending,

·     He was efficient in riding and taming of elephants and horses.

·     Shri Rama was the best of persons knowing the science of archery in the world

·     He had mercy towards the meek

·     He did not speak untruth and a good speaker

·     He was always peaceful in mind and spoke sweetly, compassionately and softly and

·     He did not react to the hard words spoken by others

·     He feels glad even by whatever way a good thing is done to him

·     He does not remember any number of bad things done to him

·     Whenever he finds some time even while practising archery,

·     He used to converse with elderly people, elder by way of conduct or wisdom or age

 

A great loving thought had arisen in King Dasaratha’s mind to see his beloved son Shri Rama crowned as a king.

He also told the ministers that his body was getting aged. The righteous Dasaratha was hurried with concern in the coronation of Shri Rama as it is for his own benefit and for the benefit of people. Dasaratha called for other kings and officers staying in various cities and villages in his kingdom separately and had them assembled.

2

ततः परिषदं सर्वामामन्त्र्य वसुधाधिपः |
हितमुद्धर्षणं चेदमुवाचाप्रतिमं वचः || १||

दुन्दुभिस्वनकल्पेन गम्भीरेणानुनादिना |
स्वरेण महता राजा जीग्मूत इव नादयन् || २||

सोऽहमिक्ष्वाकुभिः पूर्वैर्नरेन्द्रैः परिपालितम् |
श्रेयसा योक्तुकामोऽस्मि सुखार्हमखिलं जगत् || ३||

मयाप्याचरितं पूर्वैः पन्थानमनुगच्छता |
प्रजा नित्यमतन्द्रेण यथाशक्त्यभिरक्षता || ४||

इदं शरीरं कृत्स्नस्य लोकस्य चरता हितम् |
पाण्डुरस्यातपत्रस्यच्छायायां जरितं मया || ५||

प्राप्य वर्षसहस्राणि बहून्यायूंषि जीवितः |
जीर्णस्यास्य शरीरस्य विश्रान्तिमभिरोचये || ६||

राजप्रभावजुष्टां हि दुर्वहामजितेन्द्रियैः |
परिश्रान्तोऽस्मि लोकस्य गुर्वीं धर्मधुरं वहन् || ७||

सोऽहं विश्रममिच्छामि पुत्रं कृत्वा प्रजाहिते |
संनिकृष्टानिमान्सर्वाननुमान्य द्विजर्षभान् || ८||

अनुजातो हि मे सर्वैर्गुणैर्ज्येष्ठो ममात्मजः |
पुरन्दरसमो वीर्ये रामः परपुरञ्जयः || ९||

तं चन्द्रमिव पुष्येण युक्तं धर्मभृतां वरम् |
यौवराज्येन योक्तास्मि प्रीतः पुरुषपुङ्गवम् || १०||

अनुरूपः स वो नाथो लक्ष्मीवाँल्लक्ष्मणाग्रजः |
त्रैलोक्यमपि नाथेन येन स्यान्नाथवत्तरम् || ११||

अनेन श्रेयसा सद्यः संयोज्याहमिमां महीम् |
गतक्लेशो भविष्यामि सुते तस्मिन्निवेश्य वै || १२||

इति ब्रुवन्तं मुदिताः प्रत्यनन्दन्नृपा नृपम् |
वृष्टिमन्तं महामेघं नर्दन्तमिव बर्हिणः || १३||

तस्य धर्मार्थविदुषो भावमाज्ञाय सर्वशः |
ऊचुश्च मनसा ज्ञात्वा वृद्धं दशरथं नृपम् || १४||

इच्छामो हि महाबाहुं रघुवीरं महाबलम्।
गजेन महताऽयान्तं रामं छत्रावृताननम्|| १५||

बलमारोग्यमायुश्च रामस्य विदितात्मनः |
आशंसते जनः सर्वो राष्ट्रे पुरवरे तथा || १६||

अभ्यन्तरश्च बाह्यश्च पौरजानपदो जनः |
स्त्रियो वृद्धास्तरुण्यश्च सायम्प्रातः समाहिताः || १७||

सर्वान्देवान्नमस्यन्ति रामस्यार्थे यशस्विनः |
तेषामायाचितं देव त्वत्प्रसादात्समृध्यताम् || १८||

राममिन्दीवरश्यामं सर्वशत्रुनिबर्हणम् |
पश्यामो यौवराज्यस्थं तव राजोत्तमात्मजम् || १९||

तं देवदेवोपममात्मजं ते
सर्वस्य लोकस्य हिते निविष्टम् |
हिताय नः क्षिप्रमुदारजुष्टं
मुदाभिषेक्तुं वरद त्वमर्हसि || २०||

20

43

Addressing invited gathering in the royal assembly, King Dasaratha stated in the path established by his ancestors, he had always protected people with alertness and to the best of his ability. In conducting the kingdom for benefit of the entire people, for many years.  Now that he had become old, he wanted to take rest, entrusting the rule to his son for the benefit of the people. Then he proposed to make Shri Rama the Prince regent and asked the opinion of the gathering.

Those assembled Kings expressed happiness over and consented to the proposal and extolled the good qualities and valour of Shri Rama.

3

तेषामज्ञलिपद्मानि प्रगृहीतानि सर्वशः |
प्रतिगृह्याब्रवीद्राजा तेभ्यः प्रियहितं वचः || १||

अहोऽस्मि परमप्रीतः प्रभावश्चातुलो मम |
यन्मे ज्येष्ठं प्रियं पुत्रं यौवराज्यस्थमिच्छथ || २||

इति प्रत्यर्च्य तान्राजा ब्राह्मणानिदमब्रवीत् |
वसिष्ठं वामदेवं च तेषामेवोपशृण्वताम् || ३||

चैत्रः श्रीमानयं मासः पुण्यः पुष्पितकाननः |
यौवराज्याय रामस्य सर्वमेवोपकल्प्यताम् || ४||

कृतमित्येव चाब्रूताम् अभिगम्य जगत्पतिम् |
यथोक्तवचनं प्रीतौ हर्षयुक्तौ द्विजर्षभौ || ५||

ततः सुमन्त्रं द्युतिमान्राजा वचनमब्रवीत् |
रामः कृतात्मा भवता शीघ्रमानीइयताम् इति || ६||

स तथेति प्रतिज्ञाय सुमन्त्रो राजशासनात् |
रामं तत्रानयां चक्रे रथेन रथिनां वरम् || ७||

अथ तत्र समासीनास्तदा दशरथं नृपम् |
प्राच्योदीच्याः प्रतीच्याश्च दाक्षिणात्याश्च भूमिपाः || ८||

म्लेच्छाश्चार्याश्च ये चान्ये वनशैलान्तवासिनः |
उपासां चक्रिरे सर्वे तं देवा इव वासवम् || ९||

तेषां मध्ये स राजर्षिर्मरुतामिव वासवः |
प्रासादस्थो रथगतं ददर्शायान्तमात्मजम् || १०||

गन्धर्वराजप्रतिमं लोके विख्यातपौरुषम् |
दीर्घबाहुं महासत्त्वं मत्तमातङ्गगामिनम् || ११||

चन्द्रकान्ताननं राममतीव प्रियदर्शनम् |
रूपौदार्यगुणैः पुंसां दृष्टिचित्तापहारिणम् || १२||

घर्माभितप्ताः पर्जन्यं ह्लादयन्तमिव प्रजाः |
न ततर्प समायान्तं पश्यमानो नराधिपः || १३||

अवतार्य सुमन्त्रस्तं राघवं स्यन्दनोत्तमात् |
पितुः समीपं गच्छन्तं प्राञ्जलिः पृष्ठतोऽन्वगात् || १४||

स तं कैलासशृङ्गाभं प्रासादं नरपुङ्गवः |
आरुरोह नृपं द्रष्टुं सह सूतेन राघवः || १५||

स प्राञ्जलिरभिप्रेत्य प्रणतः पितुरन्तिके |
नाम स्वं श्रावयन्रामो ववन्दे चरणौ पितुः || १६||

तं दृष्ट्वा प्रणतं पार्श्वे कृताञ्जलिपुटं नृपः |
गृह्याञ्जलौ समाकृष्य सस्वजे प्रियमात्मजम् || १७||

तस्मै चाभ्युद्यतं श्रीमान्मणिकाञ्चनभूषितम् |
दिदेश राजा रुचिरं रामाय परमासनम् || १८||

तदासनवरं प्राप्य व्यदीपयत राघवः |
स्वयेव प्रभया मेरुमुदये विमलो रविः || १९||

तेन विभ्राजिता तत्र सा सभाभिव्यरोचत |
विमलग्रहनक्षत्रा शारदी द्यौरिवेन्दुना || २०||

तं पश्यमानो नृपतिस्तुतोष प्रियमात्मजम् |
अलङ्कृतमिवात्मानमादर्शतलसंस्थितम् || २१||

स तं सस्मितमाभाष्य पुत्रं पुत्रवतां वरः |
उवाचेदं वचो राजा देवेन्द्रमिव कश्यपः || २२||

ज्येष्ठायामसि मे पत्न्यां सदृश्यां सदृशः सुतः |
उत्पन्नस्त्वं गुणश्रेष्ठो मम रामात्मजः प्रियः || २३||

त्वया यतः प्रजाश्चेमाः स्वगुणैरनुरञ्जिताः |
तस्मात्त्वं पुष्ययोगेन यौवराज्यमवाप्नुहि || २४||

कामतस्त्वं प्रकृत्यैव विनीतो गुणवानसि |
गुणवत्यपि तु स्नेहात्पुत्र वक्ष्यामि ते हितम् || २५||

भूयो विनयमास्थाय भव नित्यं जितेन्द्रियः |
कामक्रोधसमुत्थानि त्यजेथा व्यसनानि च || २६||

परोक्षया वर्तमानो वृत्त्या प्रत्यक्षया तथा |
अमात्यप्रभृतीः सर्वाः प्रकृतीश्चानुरञ्जय || २७||

तुष्टानुरक्तप्रकृतिर्यः पालयति मेदिनीम् |
तस्य नन्दन्ति मित्राणि लब्ध्वामृतमिवामराः |
तस्मात्पुत्र त्वमात्मानं नियम्यैव समाचर || २८||

तच्छ्रुत्वा सुहृदस्तस्य रामस्य प्रियकारिणः |
त्वरिताः शीघ्रमभ्येत्य कौसल्यायै न्यवेदयन् || २९||

सा हिरण्यं च गाश्चैव रत्नानि विविधानि च |
व्यादिदेश प्रियाख्येभ्यः कौसल्या प्रमदोत्तमा || ३०||

अथाभिवाद्य राजानं रथमारुह्य राघवः |
ययौ स्वं द्युतिमद्वेश्म जनौघैः प्रतिपूजितः || ३१||

ते चापि पौरा नृपतेर्वचस्तच्
छ्रुत्वा तदा लाभमिवेष्टमाप्य |
नरेन्द्रमामन्त्य गृहाणि गत्वा
देवान्समानर्चुरतीव हृष्टाः || ३२||

32

75

King Dasaratha ordered Sumantra to bring Shri Rama immediately to royal assembly. When Shri Rama came there, the king Dasaratha disclosed the news and ordered to follow certain preparatory rituals by himself and his wife Seeta for that night, as guided by their family priest Sage Vashishtha.

Preparations for anointing Shri Rama on the next day, as the prince regent were started in full swing.

इत्यार्षे श्री रामायणे अयोध्याकाण्डे प्रथम: भाग:

 

Ayōdhyākāṇḍa Introduction

Ayōdhyākāṇḍa Part-2

 

No comments:

Post a Comment