अयोध्याकाण्ड
- Ayōdhyākāṇḍa
(भाग - १
;;; Part – 1)
|
Sarga
number as per Ramayana |
Shlokas
extracted |
No. of shlokas |
Cumulative number of shlokas in this
Kanda |
|
1 |
स
तत्र न्यवसद्भ्रात्रा सह सत्कारसत्कृतः | मातुलेनाश्वपतिना पुत्रस्नेहेन लालितः || १|| तत्रापि निवसन्तौ तौ तर्प्यमाणौ च कामतः | राजापि तौ महातेजाः सस्मार प्रोषितौ सुतौ | तेषामपि महातेजा रामो रतिकरः पितुः | एतैस्तु बहुभिर्युक्तं गुणैरनुपमैः सुतम् | एषा
ह्यस्य परा प्रीतिर्हृदि सम्परिवर्तते | वृद्धिकामो हि लोकस्य सर्वभूतानुकम्पनः | यमशक्रसमो वीर्ये बृहस्पतिसमो मतौ | महीमहमिमां कृत्स्नामधितिष्ठन्तमात्मजम् | तं
समीक्ष्य महाराजो युक्तं समुदितैर्गुणैः | नानानगरवास्तव्यान्पृथग्जानपदानपि | अथ
राजवितीर्णेषु विविधेष्वासनेषु च | स
लब्धमानैर्विनयान्वितैर्नृपैः |
13 |
13 |
|
Treated with good hospitality and paternal love by his maternal
uncle, Yudhajit, who was a lord of cavalry, Bharatha stayed with his brother
there. Though Dasaratha had equal love towards all his four sons, Shri Rama
being the most virtuous among those brothers and the mightiest was a great
source of joy for his father. A great loving thought had arisen in King Dasaratha’s mind to
see his beloved son Shri Rama crowned as a king. He also told the ministers that his body was getting aged. The
righteous Dasaratha was hurried with concern in the coronation of Shri Rama
as it is for his own benefit and for the benefit of people. Dasaratha called
for other kings and officers staying in various cities and villages in his
kingdom separately and had them assembled. |
|||
|
2 |
ततः परिषदं सर्वामामन्त्र्य वसुधाधिपः | दुन्दुभिस्वनकल्पेन गम्भीरेणानुनादिना | सोऽहमिक्ष्वाकुभिः पूर्वैर्नरेन्द्रैः परिपालितम्
| मयाप्याचरितं पूर्वैः पन्थानमनुगच्छता | इदं शरीरं कृत्स्नस्य लोकस्य चरता हितम् | प्राप्य वर्षसहस्राणि बहून्यायूंषि जीवितः |
राजप्रभावजुष्टां हि दुर्वहामजितेन्द्रियैः
| सोऽहं विश्रममिच्छामि पुत्रं कृत्वा प्रजाहिते
| अनुजातो हि मे सर्वैर्गुणैर्ज्येष्ठो ममात्मजः
| तं चन्द्रमिव पुष्येण युक्तं धर्मभृतां वरम्
| अनुरूपः स वो नाथो लक्ष्मीवाँल्लक्ष्मणाग्रजः
| अनेन श्रेयसा सद्यः संयोज्याहमिमां महीम् | इति ब्रुवन्तं मुदिताः प्रत्यनन्दन्नृपा नृपम्
| तस्य धर्मार्थविदुषो भावमाज्ञाय सर्वशः | इच्छामो हि महाबाहुं रघुवीरं महाबलम्। बलमारोग्यमायुश्च रामस्य विदितात्मनः | अभ्यन्तरश्च बाह्यश्च पौरजानपदो जनः | सर्वान्देवान्नमस्यन्ति रामस्यार्थे यशस्विनः
| राममिन्दीवरश्यामं सर्वशत्रुनिबर्हणम् | तं देवदेवोपममात्मजं ते |
20 |
33 |
|
Addressing invited gathering in the royal assembly, King Dasaratha
stated in the path established by his ancestors, he had always protected
people with alertness and to the best of his ability. In conducting the
kingdom for benefit of the entire people, for many years. Now that he had become old, he wanted to take
rest, entrusting the rule to his son for the benefit of the people. Then he
proposed to make Shri Rama the Prince regent and asked the opinion of the
gathering. Those assembled Kings expressed happiness over and consented to
the proposal and extolled the good qualities and valour of Shri Rama. |
|||
|
3 |
तेषामज्ञलिपद्मानि प्रगृहीतानि सर्वशः | अहोऽस्मि परमप्रीतः प्रभावश्चातुलो मम | इति प्रत्यर्च्य तान्राजा ब्राह्मणानिदमब्रवीत्
| चैत्रः श्रीमानयं मासः पुण्यः पुष्पितकाननः
| कृतमित्येव चाब्रूताम् अभिगम्य जगत्पतिम् | ततः सुमन्त्रं द्युतिमान्राजा वचनमब्रवीत् |
स तथेति प्रतिज्ञाय सुमन्त्रो राजशासनात् | अथ तत्र समासीनास्तदा दशरथं नृपम् | म्लेच्छाश्चार्याश्च ये चान्ये वनशैलान्तवासिनः
| तेषां मध्ये स राजर्षिर्मरुतामिव वासवः | गन्धर्वराजप्रतिमं लोके विख्यातपौरुषम् | चन्द्रकान्ताननं राममतीव प्रियदर्शनम् | घर्माभितप्ताः पर्जन्यं ह्लादयन्तमिव प्रजाः
| अवतार्य सुमन्त्रस्तं राघवं स्यन्दनोत्तमात्
| स तं कैलासशृङ्गाभं प्रासादं नरपुङ्गवः | स प्राञ्जलिरभिप्रेत्य प्रणतः पितुरन्तिके |
तं दृष्ट्वा प्रणतं पार्श्वे कृताञ्जलिपुटं नृपः
| तस्मै चाभ्युद्यतं श्रीमान्मणिकाञ्चनभूषितम्
| तदासनवरं प्राप्य व्यदीपयत राघवः | तेन विभ्राजिता तत्र सा सभाभिव्यरोचत | तं पश्यमानो नृपतिस्तुतोष प्रियमात्मजम् | स तं सस्मितमाभाष्य पुत्रं पुत्रवतां वरः | ज्येष्ठायामसि मे पत्न्यां सदृश्यां सदृशः सुतः
| त्वया यतः प्रजाश्चेमाः स्वगुणैरनुरञ्जिताः
| कामतस्त्वं प्रकृत्यैव विनीतो गुणवानसि | भूयो विनयमास्थाय भव नित्यं जितेन्द्रियः | परोक्षया वर्तमानो वृत्त्या प्रत्यक्षया तथा
| तुष्टानुरक्तप्रकृतिर्यः पालयति मेदिनीम् | तच्छ्रुत्वा सुहृदस्तस्य रामस्य प्रियकारिणः
| सा हिरण्यं च गाश्चैव रत्नानि विविधानि च | अथाभिवाद्य राजानं रथमारुह्य राघवः | ते चापि पौरा नृपतेर्वचस्तच् |
32 |
65 |
|
King Dasaratha ordered Sumantra to bring Shri Rama immediately
to royal assembly. When Shri Rama came there, the king Dasaratha disclosed
the news and ordered to follow certain preparatory rituals by himself and his
wife Seeta for that night, as guided by their family priest Sage Vashishtha. Preparations for anointing Shri Rama on the next day, as the
prince regent were started in full swing. |
|||
इत्यार्षे श्री
रामायणे अयोध्याकाण्डे प्रथम: भाग:
No comments:
Post a Comment