Friday, December 19, 2025

अयोध्याकाण्ड - Ayōdhyākāṇḍa (भाग - २ ;;; Part – 2)

 

अयोध्याकाण्ड - Ayōdhyākāṇḍa (भाग - ;;; Part – 2)

 

Sarga number as per Ramayana

Shlokas extracted

No. of shlokas

Cumulative number of shlokas in this Kanda

4

प्रविश्य चात्मनो वेश्म राज्ञोद्दिष्टेऽभिषेचने |
तस्मिन्क्षणे विनिर्गत्य मातुरन्तःपुरं ययौ || १||

तत्र तां प्रवणामेव मातरं क्षौमवासिनीम् |
वाग्यतां देवतागारे ददर्श याचतीं श्रियम् || २||

प्रागेव चागता तत्र सुमित्रा लक्ष्मणस्तथा |
सीता चानायिता श्रुत्वा प्रियं रामाभिषेचनम् || ३||

तस्मिन्काले हि कौसल्या तस्थावामीलितेक्षणा |
सुमित्रयान्वास्यमाना सीतया लक्ष्मणेन च || ४||

तथा सनियमामेव सोऽभिगम्याभिवाद्य च |
उवाच वचनं रामो हर्षयंस्तामिदं तदा || ५||

अम्ब पित्रा नियुक्तोऽस्मि प्रजापालनकर्मणि |
भविता श्वोऽभिषेको मे यथा मे शासनं पितुः || ६|||

सीतयाप्युपवस्तव्या रजनीयं मया सह |
एवमृत्विगुपाध्यायैः सह मामुक्तवान्पिता || ७||

यानि यान्यत्र योग्यानि श्वोभाविन्यभिषेचने |
तानि मे मङ्गलान्यद्य वैदेह्याश्चैव कारय || ८||

एतच्छ्रुत्वा तु कौसल्या चिरकालाभिकाङ्क्षितम् |
हर्षबाष्पकलं वाक्यमिदं राममभाषत || ९||

वत्स राम चिरं जीव हतास्ते परिपन्थिनः |
ज्ञातीन्मे त्वं श्रिया युक्तः सुमित्रायाश् च नन्दय || १०||

कल्याणे बत नक्षत्रे मयि जातोऽसि पुत्रक |
येन त्वया दशरथो गुणैराराधितः पिता || ११||

अमोघं बत मे क्षान्तं पुरुषे पुष्करेक्षणे |
येयमिक्ष्वाकुराज्यश्रीः पुत्र त्वां संश्रयिष्यति || १२||

इत्येवमुक्तो मात्रेदं रामो भारतमब्रवीत् |
प्राञ्जलिं प्रह्वमासीनमभिवीक्ष्य स्मयन्निव || १३||

लक्ष्मणेमां मया सार्धं प्रशाधि त्वं वसुन्धराम् |
द्वितीयं मेऽन्तरात्मानं त्वामियं श्रीरुपस्थिता || १४||

सौमित्रे भुङ्क्ष्व भोगांस्त्वमिष्टान्राज्यफलानि च |
जीवितं च हि राज्यं च त्वदर्थमभिकामये || १५||

इत्युक्त्वा लक्ष्मणं रामो मातरावभिवाद्य च |
अभ्यनुज्ञाप्य सीतां च जगाम स्वं निवेशनम् || १६||

16

81

After hearing the decision of Dasaratha regarding coronation ceremony, Shri Rama entered went to his mother's house. There, in the queen's worshipping place, Shri Rama saw her silently offers prayers. Hearing the good news of the coronation ceremony of Shri Rama, Sumitra and Lakshmana came there even before Seetha was brought.

When Shri Rama informed her of his father’s decision, Kausalya felt very happy and blessed him. Thereafter Shri Rama went to his house along with Seetha.

5

सन्दिश्य रामं नृपतिः श्वोभाविन्यभिषेचने |
पुरोहितं समाहूय वसिष्ठमिदमब्रवीत् || १||

गच्छोपवासं काकुत्स्थं कारयाद्य तपोधन |
श्रीयशोराज्यलाभाय वध्वा सह यतव्रतम् || २||

तथेति च स राजानमुक्त्वा वेदविदां वरः |
स्वयं वसिष्ठो भगवान्ययौ रामनिवेशनम् || ३||

स रामभवनं प्राप्य पाण्डुराभ्रघनप्रभम् |
तिस्रः कक्ष्या रथेनैव विवेश मुनिसत्तमः || ४||

तमागतमृषिं रामस्त्वरन्निव ससम्भ्रमः |
मानयिष्यन्स मानार्हं निश्चक्राम निवेशनात् || ५||

अभ्येत्य त्वरमाणश्च रथाभ्याशं मनीषिणः |
ततोऽवतारयामास परिगृह्य रथात्स्वयम् || ६||

स चैनं प्रश्रितं दृष्ट्वा सम्भाष्याभिप्रसाद्य च |
प्रियार्हं हर्षयन्राममित्युवाच पुरोहितः || ७||

प्रसन्नस्ते पिता राम यौवराज्यमवाप्स्यसि |
उपवासं भवानद्य करोतु सह सीतया || ८||

प्रातस्त्वामभिषेक्ता हि यौवराज्ये नराधिपः |
पिता दशरथः प्रीत्या ययातिं नहुषो यथा || ९||

इत्युक्त्वा स तदा राममुपवासं यतव्रतम् |
मन्त्रवत्कारयामास वैदेह्या सहितं मुनिः || १०||

ततो यथावद्रामेण स राज्ञो गुरुरर्चितः |
अभ्यनुज्ञाप्य काकुत्स्थं ययौ रामनिवेशनात् || ११||

सुहृद्भिस्तत्र रामोऽपि ताननुज्ञाप्य सर्वशः |
सभाजितो विवेशाथ ताननुज्ञाप्य सर्वशः || १२||

12

93

After Shri Rama left, king Dasaratha called for his family priest Sage Vasishta and requested him to advise Shri Rama and Sita to undertake a fast with mantras.  Accordingly, Sage Vashitha went to Shri Rama’s house and got Shri Rama and Sita undertake fast for that night.

इत्यार्षे श्री रामायणे अयोध्याकाण्डे द्वितीय: भाग:

 

Ayōdhyākāṇḍa Part-1

Ayōdhyākāṇḍa Part-3

No comments:

Post a Comment