Thursday, December 25, 2025

अयोध्याकाण्ड - Ayōdhyākāṇḍa (भाग - २६ ;;; Part – 26)

 

अयोध्याकाण्ड - Ayōdhyākāṇḍa (भाग - ;;; Part – 26)

Sarga number as per Ramayana

Shlokas extracted

No. of shlokas

Cumulative number of shlokas in this Kanda

117

राघव स्त्वथ यातेषु जनेषु विचिन्तयन्।

न तत्रारोचयद्वासं कारणैर्बहुभिस्तदा|| १||

इह मे भरतो दृष्टो मातरश्च सनागराः |
सा च मे स्मृतिरन्वेति तान्नित्यमनुशोचतः || २||

स्कन्धावारनिवेशेन तेन तस्य महात्मनः |
हयहस्तिकरीषैश्च उपमर्दः कृतो भृशम् || ३||

तस्मादन्यत्र गच्छाम इति सञ्चिन्त्य राघवः |
प्रातिष्ठत स वैदेह्या लक्ष्मणेन च सङ्गतः || ४||

सोऽत्रेराश्रममासाद्य तं ववन्दे महायशाः |
तं चापि भगवानत्रिः पुत्रवत्प्रत्यपद्यत || ५||

स्वयमातिथ्यमादिश्य सर्वमस्य सुसत्कृतम् |
सौमित्रिं च महाभागां सीतां च समसान्त्वयत् || ६||

पत्नीं च तमनुप्राप्तां वृद्धामामन्त्र्य सत्कृताम् |
सान्त्वयामास धर्मज्ञः सर्वभूतहिते रतः || ७||

अनसूयां महाभागां तापसीं धर्मचारिणीम् |
प्रतिगृह्णीष्व वैदेहीमब्रवीदृषिसत्तमः || ८||

रामाय चाचचक्षे तां तापसीं धर्मचारिणीम् |
दश वर्षाण्यनावृष्ट्या दग्धे लोके निरन्तरम् || ९||

यया मूलफले सृष्टे जाह्नवी च प्रवर्तिता |
उग्रेण तपसा युक्ता नियमैश्चाप्यलङ्कृता || १०||

दशवर्षसहस्राणि यया तप्तं महत्तपः |
अनसूयाव्रतैस्तात प्रत्यूहाश्च निबर्हिताः || ११||

देवकार्यनिमित्तं च यया सन्त्वरमाणया |
दशरात्रं कृत्वा रात्रिः सेयं मातेव तेऽनघ || १२||

तामिमां सर्वभूतानां नमस्कार्यां यशस्विनीम् |
अभिगच्छतु वैदेही वृद्धामक्रोधनां सदा || १३||

एवं ब्रुवाणं तमृषिं तथेत्युक्त्वा स राघवः |
सीतामुवाच धर्मज्ञामिदं वचनमुत्तमम् || १४||

राजपुत्रि श्रुतं त्वेतन्मुनेरस्य समीरितम् |
श्रेयोऽर्थमात्मनः शीघ्रमभिगच्छ तपस्विनीम् || १५||

अनसूयेति या लोके कर्मभिः क्यातिमागता |
तां शीघ्रमभिगच्छ त्वमभिगम्यां तपस्विनीम् || १६||

सीता त्वेतद्वचः श्रुत्वा राघवस्य हितैषिणी |
तामत्रिपत्नीं धर्मज्ञामभिचक्राम मैथिली || १७||

शिथिलां वलितां वृद्धां जरापाण्डुरमूर्धजाम् |
सततं वेपमानाङ्गीं प्रवाते कदली यथा || १८||

तां तु सीता महाभागामनसूयां पतिव्रताम् |
अभ्यवादयदव्यग्रा स्वं नाम समुदाहरत् || १९||

अभिवाद्य च वैदेही तापसीं तामनिन्दिताम् |
बद्धाञ्जलिपुटा हृष्टा पर्यपृच्छदनामयम् || २०||

ततः सीतां महाभागां दृष्ट्वा तां धर्मचारिणीम् |
सान्त्वयन्त्यब्रवीद्धृष्टा दिष्ट्या धर्ममवेक्षसे || २१||

त्यक्त्वा ज्ञातिजनं सीते मानमृद्धिं च मानिनि |
अवरुद्धं वने रामं दिष्ट्या त्वमनुगच्छसि || २२||

नगरस्थो वनस्थो वा पापो वा यदि वाशुभः |
यासां स्त्रीणां प्रियो भर्ता तासां लोका महोदयाः || २३||

दुःशीलः कामवृत्तो वा धनैर्वा परिवर्जितः |
स्त्रीणामार्य स्वभावानां परमं दैवतं पतिः || २४||

नातो विशिष्टं पश्यामि बान्धवं विमृशन्त्यहम् |
सर्वत्र योग्यं वैदेहि तपः कृतमिवाव्ययम् || २५||

न त्वेवमवगच्छन्ति गुण दोषमसत्स्त्रियः |
कामवक्तव्यहृदया भर्तृनाथाश्चरन्ति याः || २६||

प्राप्नुवन्त्ययशश्चैव धर्मभ्रंशं च मैथिलि |
अकार्य वशमापन्नाः स्त्रियो याः खलु तद्विधाः || २७||

त्वद्विधास्तु गुणैर्युक्ता दृष्ट लोक परावराः।

स्त्रिय स्स्वर्गे चरिष्यन्ति यथा धर्मकृतस्तथा|| २८||

28

2320

When the people (of Ayodhya) departed, Shri Rama found no pleasure to remain in that place due to (i) haunting of Bharata’s memories, and (ii) the spoliation of that area by dry dung of horses and elephants of Ayodhya’s army.

Hence, Shri Rama leaves Chitrakuta mountain and reaches the hermitage of Sage Atri and offers his salutation to him. Introducing his wife Anansuya as a great female ascetic to Shri Rama, Atri urges Shri Rama to send his wife Seetha to Anasuya. Anasuya receives Seetha, who greeted her and gives her instructions on the role and responsibilities of a devoted wife.

118

सा त्वेवमुक्ता वैदेही अनसूयानसूयया |
प्रतिपूज्य वचो मन्दं प्रवक्तुमुपचक्रमे || १||

नैतदाश्चर्यमार्याया यन्मां त्वमनुभाषसे |
विदितं तु ममाप्येतद्यथा नार्याः पतिर्गुरुः || २||

यद्यप्येष भवेद्भर्ता ममार्ये वृत्तवर्जितः |
अद्वैधमुपवर्तव्यस्तथाप्येष मया भवेत् || ३||

किं पुनर्यो गुणश्लाघ्यः सानुक्रोशो जितेन्द्रियः |
स्थिरानुरागो धर्मात्मा मातृवर्ती पितृप्रियः || ४||

यां वृत्तिं वर्तते रामः कौसल्यायां महाबलः |
तामेव नृपनारीणामन्यासाम् अपि वर्तते || ५||

सकृद्दृष्टास्वपि स्त्रीषु नृपेण नृपवत्सलः |
मातृवद्वर्तते वीरो मानमुत्सृज्य धर्मवित् || ६||

आगच्छन्त्याश्च विजनं वनमेवं भयावहम् |
समाहितं हि मे श्वश्र्वा हृदये यत्स्थितं मम || ७||

प्राणिप्रदानकाले च यत्पुरा त्वग्निसंनिधौ |
अनुशिष्टा जनन्यास्मि वाक्यं तदपि मे धृतम् || ८||

नवीकृतं तु तत्सर्वं वाक्यैस्ते धर्मचारिणि |
पतिशुश्रूषणान्नार्यास्तपो नान्यद्विधीयते || ९||

सावित्री पतिशुश्रूषां कृत्वा स्वर्गे महीयते |
तथा वृत्तिश्च याता त्वं पतिशुश्रूषया दिवम् || १०||

वरिष्ठा सर्वनारीणामेषा च दिवि देवता |
रोहिणी च विना चन्द्रं मुहूर्तमपि दृश्यते || ११||

एवंविधाश्च प्रवराः स्त्रियो भर्तृदृढव्रताः |
देवलोके महीयन्ते पुण्येन स्वेन कर्मणा || १२||

ततोऽनसूया संहृष्टा श्रुत्वोक्तं सीतया वचः |
शिरस्याघ्राय चोवाच मैथिलीं हर्षयन्त्युत || १३||

नियमैर्विविधैराप्तं तपो हि महदस्ति मे |
तत्संश्रित्य बलं सीते छन्दये त्वां शुचिव्रते || १४||

उपपन्नं च युक्तं च वचनं तव मैथिलि |
प्रीता चास्म्युचितं किं ते करवाणि ब्रवीहि मे |
कृतमित्यब्रवीत्सीता तपोबलसमन्विताम् || १५||

सा त्वेवमुक्ता धर्मज्ञा तया प्रीततराभवत् |
सफलं च प्रहर्षं ते हन्त सीते करोम्यहम् || १६||

इदं दिव्यं वरं माल्यं वस्त्रमाभरणानि च |
अङ्गरागं च वैदेहि महार्हमनुलेपनम् || १७||

मया दत्तमिदं सीते तव गात्राणि शोभयेत् |
अनुरूपमसङ्क्लिष्टं नित्यमेव भविष्यति || १८||

अङ्गरागेण दिव्येन लिप्ताङ्गी जनकात्मजे |
शोभयिष्यामि भर्तारं यथा श्रीर्विष्णुमव्ययम् || १९||

सा वस्त्रमङ्गरागं च भूषणानि स्रजस्तथा |
मैथिली प्रतिजग्राह प्रीतिदानमनुत्तमम् || २०||

प्रतिगृह्य च तत्सीता प्रीतिदानं यशस्विनी |
श्लिष्टाञ्जलिपुटा धीरा समुपास्त तपोधनाम् || २१||

तथा सीतामुपासीनामनसूया दृढव्रता |
वचनं प्रष्टुमारेभे कथां कां चिदनुप्रियाम् || २२||

स्वयंवरे किल प्राप्ता त्वमनेन यशस्विना |
राघवेणेति मे सीते कथा श्रुतिमुपागता || २३||

तां कथां श्रोतुमिच्छामि विस्तरेण च मैथिलि |
यथानुभूतं कार्त्स्न्येन तन्मे त्वं वक्तुमर्हसि || २४||

एवमुक्ता तु सा सीता तां ततो धर्मचारिणीम् |
श्रूयतामिति चोक्त्वा वै कथयामास तां कथाम् || २५||

मिथिलाधिपतिर्वीरो जनको नाम धर्मवित् |
क्षत्रधर्मण्यभिरतो न्यायतः शास्ति मेदिनीम् || २६||

तस्य लाङ्गलहस्तस्य कर्षतः क्षेत्रमण्डलम् |
अहं किलोत्थिता भित्त्वा जगतीं नृपतेः सुता || २७||

स मां दृष्ट्वा नरपतिर्मुष्टिविक्षेपतत्परः |
पांशु गुण्ठित सर्वाङ्गीं विस्मितो जनकोऽभवत् || २८||

अनपत्येन च स्नेहादङ्कमारोप्य च स्वयम् |
ममेयं तनयेत्युक्त्वा स्नेहो मयि निपातितः || २९||

अन्तरिक्षे च वागुक्ताप्रतिमा मानुषी किल |
एवमेतन्नरपते धर्मेण तनया तव || ३०||

ततः प्रहृष्टो धर्मात्मा पिता मे मिथिलाधिपः |
अवाप्तो विपुलामृद्धिं मामवाप्य नराधिपः || ३१||

दत्त्वा चास्मीष्टवद्देव्यै ज्येष्ठायै पुण्यकर्मणा |
तया सम्भाविता चास्मि स्निग्धया मातृसौहृदात् || ३२||

पतिसंयोगसुलभं वयो दृष्ट्वा तु मे पिता |
चिन्तामभ्यगमद्दीनो वित्तनाशादिवाधनः || ३३||

सदृशाच्चापकृष्टाच्च लोके कन्यापिता जनात् |
प्रधर्षणामवाप्नोति शक्रेणापि समो भुवि || ३४||

तां धर्षणामदूरस्थां सन्दृश्यात्मनि पार्थिवः |
चिन्न्तार्णवगतः पारं नाससादाप्लवो यथ || ३५||

अयोनिजां हि मां ज्ञात्वा नाध्यगच्छत्स चिन्तयन् |
सदृशं चानुरूपं च महीपालः पतिं मम || ३६||

तस्य बुद्धिरियं जाता चिन्तयानस्य सन्ततम् |
स्वयं वरं तनूजायाः करिष्यामीति धीमतः || ३७||

महायज्ञे तदा तस्य वरुणेन महात्मना |
दत्तं धनुर्वरं प्रीत्या तूणी चाक्षय्य सायकौ || ३८||

असञ्चाल्यं मनुष्यैश्च यत्नेनापि च गौरवात् |
तन्न शक्ता नमयितुं स्वप्नेष्वपि नराधिपाः || ३९||

तद्धनुः प्राप्य मे पित्रा व्याहृतं सत्यवादिना |
समवाये नरेन्द्राणां पूर्वमामन्त्र्य पार्थिवान् || ४०||

इदं च धनुरुद्यम्य सज्यं यः कुरुते नरः |
तस्य मे दुहिता भार्या भविष्यति न संशयः || ४१||

तच्च दृष्ट्वा धनुःश्रेष्ठं गौरवाद्गिरिसंनिभम् |
अभिवाद्य नृपा जग्मुरशक्तास्तस्य तोलने || ४२||

सुदीर्घस्य तु कालस्य राघवोऽयं महाद्युतिः |
विश्वामित्रेण सहितो यज्ञं द्रष्टुं समागतः || ४३||

लक्ष्मणेन सह भ्रात्रा रामः सत्यपराक्रमः |
विश्वामित्रस्तु धर्मात्मा मम पित्रा सुपूजितः || ४४||

प्रोवाच पितरं तत्र राघवो रामलक्ष्मणौ |
सुतौ दशरथस्येमौ धनुर्दर्शनकाङ्क्षिणौ |
इत्युक्तस्तेन विप्रेण तद्धनुः समुपानयत् || ४५||

निमेषान्तरमात्रेण तदानम्य स वीर्यवान् |
ज्यां समारोप्य झटिति पूरयामास वीर्यवान् || ४६||

तेन पूरयता वेगान्मध्ये भग्नं द्विधा धनुः |
तस्य शब्दोऽभवद्भीमः पतितस्याशनेरिव || ४७||

ततोऽहं तत्र रामाय पित्रा सत्याभिसन्धिना |
उद्यता दातुमुद्यम्य जलभाजनमुत्तमम् || ४८||

दीयमानां न तु तदा प्रतिजग्राह राघवः |
अविज्ञाय पितुश्छन्दमयोध्याधिपतेः प्रभोः || ४९||

ततः श्वशुरमामन्त्र्य वृद्धं दशरथं नृपम् |
मम पित्रा अहं दत्ता रामाय विदितात्मने || ५०||

मम चैवानुजा साध्वी ऊर्मिला प्रियदर्शना |
भार्यार्थे लक्ष्मणस्यापि दत्ता पित्रा मम स्वयम् || ५१||

एवं दत्तास्मि रामाय तदा तस्मिन्स्वयं वरे |
अनुरक्ता च धर्मेण पतिं वीर्यवतां वरम् || ५२||

52

2372

Seetha agrees to the instructions given by Anasuya on the duties of a devoted wife. At the end of the conversation with Seetha, Anasuya bestows heavenly flowers and ornaments on her. Anasuya then requests Seetha to relate to her the story of her marriage with Shri Rama. Then, Seetha relates that story to Anasuya in detail.

119

अनसूया तु धर्मज्ञा श्रुत्वा तां महतीं कथाम् |
पर्यष्वजत बाहुभ्यां शिरस्याघ्राय मैथिलीम् || १||

व्यक्ताक्षरपदं चित्रं भाषितं मधुरं त्वया |
यथा स्वयंवरं वृत्तं तत्सर्वं हि श्रुतं मया || २||

रमेऽहं कथया ते तु दृष्ढं मधुरभाषिणि |
रविरस्तं गतः श्रीमानुपोह्य रजनीं शिवाम् || ३||

दिवसं प्रति कीर्णानामाहारार्थं पतत्रिणाम् |
सन्ध्याकाले निलीनानां निद्रार्थं श्रूयते ध्वनिः || ४||

एते चाप्यभिषेकार्द्रा मुनयः फलशोधनाः |
सहिता उपवर्तन्ते सलिलाप्लुतवल्कलाः || ५||

ऋषीणामग्निहोत्रेषु हुतेषु विधिपुर्वकम् |
कपोताङ्गारुणो धूमो दृश्यते पवनोद्धतः || ६||

अल्पपर्णा हि तरवो घनीभूताः समन्ततः |
विप्रकृष्टेऽपि ये देशे न प्रकाशन्ति वै दिशः || ७||

रजनी रससत्त्वानि प्रचरन्ति समन्ततः |
तपोवनमृगा ह्येते वेदितीर्थेषु शेरते || ८||

सम्प्रवृत्ता निशा सीते नक्षत्रसमलङ्कृता |
ज्योत्स्ना प्रावरणश्चन्द्रो दृश्यतेऽभ्युदितोऽम्बरे || ९||

गम्यतामनुजानामि रामस्यानुचरी भव |
कथयन्त्या हि मधुरं त्वयाहं परितोषिता || १०||

अलङ्कुरु च तावत्त्वं प्रत्यक्षं मम मैथिलि |
प्रीतिं जनय मे वत्स दिव्यालङ्कारशोभिनी || ११||

सा तदा समलङ्कृत्य सीता सुरसुतोपमा |
प्रणम्य शिरसा तस्यै रामं त्वभिमुखी ययौ || १२||

तथा तु भूषितां सीतां ददर्श वदतां वरः |
राघवः प्रीतिदानेन तपस्विन्या जहर्ष च || १३||

न्यवेदयत्ततः सर्वं सीता रामाय मैथिली |
प्रीतिदानं तपस्विन्या वसनाभरणस्रजाम् || १४||

प्रहृष्टस्त्वभवद्रामो लक्ष्मणश्च महारथः |
मैथिल्याः सत्क्रियां दृष्ट्वा मानुषेषु सुदुर्लभाम् || १५||

ततस्तां सर्वरीं प्रीतः पुण्यां शशिनिभाननः |
अर्चितस्तापसैः सिद्धैरुवास रघुनन्दनः || १६||

तस्यां रात्र्यां व्यतीतायामभिषिच्य हुताग्निकान् |
आपृच्छेतां नरव्याघ्रौ तापसान्वनगोचरान् || १७||

तावूचुस्ते वनचरास्तापसा धर्मचारिणः |
वनस्य तस्य सञ्चारं राक्षसैः समभिप्लुतम् || १८||

एष पन्था महर्षीणां फलान्याहरतां वने |
अनेन तु वनं दुर्गं गन्तुं राघव ते क्षमम् || १९||

इतीव तैः प्राञ्जलिभिस्तपस्विभिर्
द्विजैः कृतस्वस्त्ययनः परन्तपः |
वनं सभार्यः प्रविवेश राघवः
सलक्ष्मणः सूर्य इवाभ्रमण्डलम् || २०||

20

2392

Shri Rama spends the night there along with Seetha Lakshmana. At the onset of dawn, they take leave of the ascetics and advance further into the great Dandaka Forest, in the route suggested by the Sage Atri.

इत्यार्षे श्री रामायणे अयोध्याकाण्डे षड्विंशतिः भाग:

 

Ayōdhyākāṇḍa Part-25

Introduction to Araṇyakāṇḍa

 

 

No comments:

Post a Comment