अयोध्याकाण्ड - Ayōdhyākāṇḍa (भाग - २६
;;; Part – 26)
|
Sarga
number as per Ramayana |
Shlokas
extracted |
No. of shlokas |
Cumulative number of shlokas in this
Kanda |
|
117 |
राघव स्त्वथ यातेषु जनेषु विचिन्तयन्। न तत्रारोचयद्वासं कारणैर्बहुभिस्तदा|| १|| इह
मे भरतो दृष्टो मातरश्च सनागराः | स्कन्धावारनिवेशेन तेन तस्य महात्मनः | तस्मादन्यत्र गच्छाम इति सञ्चिन्त्य राघवः | सोऽत्रेराश्रममासाद्य तं ववन्दे महायशाः | स्वयमातिथ्यमादिश्य सर्वमस्य सुसत्कृतम् | पत्नीं च तमनुप्राप्तां वृद्धामामन्त्र्य सत्कृताम् | अनसूयां महाभागां तापसीं धर्मचारिणीम् | रामाय
चाचचक्षे तां तापसीं धर्मचारिणीम् | यया
मूलफले सृष्टे जाह्नवी च प्रवर्तिता | दशवर्षसहस्राणि यया तप्तं महत्तपः | देवकार्यनिमित्तं च यया सन्त्वरमाणया | तामिमां सर्वभूतानां नमस्कार्यां यशस्विनीम् | एवं
ब्रुवाणं तमृषिं तथेत्युक्त्वा स राघवः | राजपुत्रि श्रुतं त्वेतन्मुनेरस्य समीरितम् | अनसूयेति या लोके कर्मभिः क्यातिमागता | सीता
त्वेतद्वचः श्रुत्वा राघवस्य हितैषिणी | शिथिलां वलितां वृद्धां जरापाण्डुरमूर्धजाम् | तां
तु सीता महाभागामनसूयां पतिव्रताम् | अभिवाद्य च वैदेही तापसीं तामनिन्दिताम् | ततः
सीतां महाभागां दृष्ट्वा तां धर्मचारिणीम् | त्यक्त्वा ज्ञातिजनं सीते मानमृद्धिं च मानिनि | नगरस्थो वनस्थो वा पापो वा यदि वाशुभः | दुःशीलः कामवृत्तो वा धनैर्वा परिवर्जितः | नातो
विशिष्टं पश्यामि बान्धवं विमृशन्त्यहम् | |
25 |
2142 |
|
When the people (of Ayodhya) departed, Shri Rama found no pleasure to remain in that place due to (i) haunting of Bharata’s memories, and (ii) the spoliation of that area by dry dung of horses and elephants of Ayodhya’s army. Hence, Shri Rama leaves
Chitrakuta mountain and reaches the hermitage of Sage Atri and offers his
salutation to him. Introducing his wife Anansuya as a great female ascetic to
Shri Rama, Atri urges Shri Rama to send his wife Seetha to Anasuya. Anasuya
receives Seetha, who greeted her and gives her instructions on the role and
responsibilities of a devoted wife. |
|||
|
118 |
सा
त्वेवमुक्ता वैदेही अनसूयानसूयया | यद्यप्येष भवेद्भर्ता ममार्ये वृत्तवर्जितः | किं
पुनर्यो गुणश्लाघ्यः सानुक्रोशो जितेन्द्रियः | ततोऽनसूया संहृष्टा श्रुत्वोक्तं सीतया वचः | नियमैर्विविधैराप्तं तपो हि महदस्ति मे | उपपन्नं च युक्तं च वचनं तव मैथिलि | सा
त्वेवमुक्ता धर्मज्ञा तया प्रीततराभवत् | इदं
दिव्यं वरं माल्यं वस्त्रमाभरणानि च | मया
दत्तमिदं सीते तव गात्राणि शोभयेत् | सा
वस्त्रमङ्गरागं च भूषणानि स्रजस्तथा | प्रतिगृह्य च तत्सीता प्रीतिदानं यशस्विनी | तथा
सीतामुपासीनामनसूया दृढव्रता | स्वयंवरे किल प्राप्ता त्वमनेन यशस्विना | तां
कथां श्रोतुमिच्छामि विस्तरेण च मैथिलि | एवमुक्ता तु सा सीता तां ततो धर्मचारिणीम् | मिथिलाधिपतिर्वीरो जनको नाम धर्मवित् | तस्य
लाङ्गलहस्तस्य कर्षतः क्षेत्रमण्डलम् | स
मां दृष्ट्वा नरपतिर्मुष्टिविक्षेपतत्परः | अनपत्येन च स्नेहादङ्कमारोप्य च स्वयम् | अन्तरिक्षे च वागुक्ताप्रतिमा मानुषी किल | ततः
प्रहृष्टो धर्मात्मा पिता मे मिथिलाधिपः | दत्त्वा चास्मीष्टवद्देव्यै ज्येष्ठायै पुण्यकर्मणा | पतिसंयोगसुलभं वयो दृष्ट्वा तु मे पिता | सदृशाच्चापकृष्टाच्च लोके कन्यापिता जनात् | तां
धर्षणामदूरस्थां सन्दृश्यात्मनि पार्थिवः | अयोनिजां हि मां ज्ञात्वा नाध्यगच्छत्स चिन्तयन् | तस्य
बुद्धिरियं जाता चिन्तयानस्य सन्ततम् | महायज्ञे तदा तस्य वरुणेन महात्मना | असञ्चाल्यं मनुष्यैश्च यत्नेनापि च गौरवात् | तद्धनुः प्राप्य मे पित्रा व्याहृतं सत्यवादिना | इदं
च धनुरुद्यम्य सज्यं यः कुरुते नरः | तच्च
दृष्ट्वा धनुःश्रेष्ठं गौरवाद्गिरिसंनिभम् | सुदीर्घस्य तु कालस्य राघवोऽयं महाद्युतिः | लक्ष्मणेन सह भ्रात्रा रामः सत्यपराक्रमः | प्रोवाच पितरं तत्र राघवो रामलक्ष्मणौ | निमेषान्तरमात्रेण तदानम्य स वीर्यवान् | तेन
पूरयता वेगान्मध्ये भग्नं द्विधा धनुः | ततोऽहं तत्र रामाय पित्रा सत्याभिसन्धिना | दीयमानां न तु तदा प्रतिजग्राह राघवः | ततः
श्वशुरमामन्त्र्य वृद्धं दशरथं नृपम् | मम
चैवानुजा साध्वी ऊर्मिला प्रियदर्शना | एवं
दत्तास्मि रामाय तदा तस्मिन्स्वयं वरे | |
42 |
2184 |
|
Seetha agrees to the
instructions given by Anasuya on the duties of a devoted wife. At the end of
the conversation with Seetha, Anasuya bestows heavenly flowers and ornaments
on her. Anasuya then requests Seetha to relate to her the story of her
marriage with Shri Rama. Then, Seetha relates that story to Anasuya in
detail. |
|||
|
119 |
अनसूया तु धर्मज्ञा श्रुत्वा तां महतीं कथाम् | व्यक्ताक्षरपदं चित्रं भाषितं मधुरं त्वया | रमेऽहं कथया ते तु दृष्ढं मधुरभाषिणि | दिवसं
प्रति कीर्णानामाहारार्थं पतत्रिणाम् | एते
चाप्यभिषेकार्द्रा मुनयः फलशोधनाः | ऋषीणामग्निहोत्रेषु हुतेषु विधिपुर्वकम् | अल्पपर्णा हि तरवो घनीभूताः समन्ततः | रजनी
रससत्त्वानि प्रचरन्ति समन्ततः | सम्प्रवृत्ता निशा सीते नक्षत्रसमलङ्कृता | गम्यतामनुजानामि रामस्यानुचरी भव | अलङ्कुरु च तावत्त्वं प्रत्यक्षं मम मैथिलि | सा
तदा समलङ्कृत्य सीता सुरसुतोपमा | तथा
तु भूषितां सीतां ददर्श वदतां वरः | न्यवेदयत्ततः सर्वं सीता रामाय मैथिली | प्रहृष्टस्त्वभवद्रामो लक्ष्मणश्च महारथः | ततस्तां सर्वरीं प्रीतः पुण्यां शशिनिभाननः | तस्यां रात्र्यां व्यतीतायामभिषिच्य हुताग्निकान् | तावूचुस्ते वनचरास्तापसा धर्मचारिणः | एष
पन्था महर्षीणां फलान्याहरतां वने | इतीव
तैः प्राञ्जलिभिस्तपस्विभिर् |
20 |
2204 |
|
Shri Rama spends the
night there along with Seetha Lakshmana. At the onset of dawn, they take
leave of the ascetics and advance further into the great Dandaka Forest, in
the route suggested by the Sage Atri. |
|||
इत्यार्षे श्री रामायणे अयोध्याकाण्डे षड्विंशतिः भाग:
No comments:
Post a Comment