Thursday, December 25, 2025

अयोध्याकाण्ड - Ayōdhyākāṇḍa (भाग - २५ ;;; Part – 25)

 

अयोध्याकाण्ड - Ayōdhyākāṇḍa (भाग - ;;; Part – 25)

Sarga number as per Ramayana

Shlokas extracted

No. of shlokas

Cumulative number of shlokas in this Kanda

112

तमप्रतिमतेजोभ्यां भ्रातृभ्यां रोमहर्षणम् |
विस्मिताः सङ्गमं प्रेक्ष्य समवेता महर्षयः || १||

अन्तर्हितास्त्वृषिगणाः सिद्धाश्च परमर्षयः |
तौ भ्रातरौ महात्मानौ काकुत्स्थौ प्रशशंसिरे || २||

स धन्यो यस्य पुत्रौ द्वौ धर्मज्ञौ धर्मविक्रमौ |
श्रुत्वा वयं हि सम्भाषामुभयोः स्पृहयामहे || ३||

ततस्त्वृषिगणाः क्षिप्रं दशग्रीववधैषिणः |
भरतं राजशार्दूलमित्यूचुः सङ्गता वचः || ४||

कुले जात महाप्राज्ञ महावृत्त महायशः |
ग्राह्यं रामस्य वाक्यं ते पितरं यद्यवेक्षसे || ५||

सदानृणमिमं रामं वयमिच्छामहे पितुः |
अनृणत्वाच्च कैकेय्याः स्वर्गं दशरथो गतः || ६||

एतावदुक्त्वा वचनं गन्धर्वाः समहर्षयः |
राजर्षयश्चैव तथा सर्वे स्वां स्वां गतिं गताः || ७||

ह्लादितस्तेन वाक्येन शुभेन शुभदर्शनः |
रामः संहृष्टवदनस्तानृषीनभ्यपूजयत् || ८||

स्रस्तगात्रस्तु भरतः स वाचा सज्जमानया |
कृताञ्जलिरिदं वाक्यं राघवं पुनरब्रवीत् || ९||

राजधर्ममनुप्रेक्ष्य कुलधर्मानुसन्ततिम् |
कर्तुमर्हसि काकुत्स्थ मम मातुश्च याचनाम् || १०||

रक्षितुं सुमहद्राज्यमहमेकस्तु नोत्सहे |
पौरजानपदांश्चापि रक्तान्रञ्जयितुं तथा || ११||

ज्ञातयश्च हि योधाश्च मित्राणि सुहृदश्च नः |
त्वामेव प्रतिकाङ्क्षन्ते पर्जन्यमिव कर्षकाः || १२||

इदं राज्यं महाप्राज्ञ स्थापय प्रतिपद्य हि |
शक्तिमानसि काकुत्स्थ लोकस्य परिपालने || १३||

इत्युक्त्वा न्यपतद्भ्रातुः पादयोर्भरतस्तदा |
भृशं सम्प्रार्थयामास राममेवं प्रियं वदः || १४||

तमङ्के भ्रातरं कृत्वा रामो वचनमब्रवीत् |
श्यामं नलिनपत्राक्षं मत्तहंसस्वरः स्वयम् || १५||

आगता त्वामियं बुद्धिः स्वजा वैनयिकी च या |
भृशमुत्सहसे तात रक्षितुं पृथिवीम् अपि || १६||

अमात्यैश्च सुहृद्भिश्च बुद्धिमद्भिश्च मन्त्रिभिः |
सर्वकार्याणि संमन्त्र्य सुमहान्त्यपि कारय || १७||

लक्ष्मीश्चन्द्रादपेयाद्वा हिमवान्वा हिमं त्यजेत् |
अतीयात्सागरो वेलां न प्रतिज्ञामहं पितुः || १८||

कामाद्वा तात लोभाद्वा मात्रा तुभ्यमिदं कृतम् |
न तन्मनसि कर्तव्यं वर्तितव्यं च मातृवत् || १९||

एवं ब्रुवाणं भरतः कौसल्यासुतमब्रवीत् |
तेजसादित्यसङ्काशं प्रतिपच्चन्द्रदर्शनम् || २०||

अधिरोहार्य पादाभ्यां पादुके हेमभूषिते |
एते हि सर्वलोकस्य योगक्षेमं विधास्यतः || २१||

सोऽधिरुह्य नरव्याघ्रः पादुके ह्यवरुह्य च |
प्रायच्छत्सुमहातेजा भरताय महात्मने || २२||

स पादुके ते भरतः प्रतापवान्
स्वलङ्कृते सम्परिगृह्य धर्मवित् |
प्रदक्षिणं चैव चकार राघवं
चकार चैवोत्तमनागमूर्धनि || २३||

अथानुपूर्व्यात्प्रतिपूज्य तं जनं
गुरूंश्च मन्त्रिप्रकृतीस्तथानुजौ |
व्यसर्जयद्राघववंशवर्धनः
स्थितः स्वधर्मे हिमवानिवाचलः || २४||

तं मातरो बाष्पगृहीतकण्ठो
दुःखेन नामन्त्रयितुं हि शेकुः |
स त्वेव मातॄरभिवाद्य सर्वा
रुदन्कुटीं स्वां प्रविवेश रामः || २५||

25

2246

On hearing the discussion between Shri Rama and Bharata, all the sages assembled there were astonished. The sages advised Bharata to accept Shri Rama's words. Bharata explains to Shri Rama that he is unable to rule the vast kingdom alone to the satisfaction of its subjects. Shri Rama reaffirms Bharata that he would never deviate from the word given to his father.

Finally, Bharata agrees to Shri Rama's proposition, but pleads Shri Rama to offer his wooden sandals to be carried by him to Ayodhya so that the people there would get gain and security. Shri Rama agrees to it and offers his wooden sandals to Bharata.  He takes a vow before Shri Rama to enter fire in case Shri Rama did not return immediately after the expiry of his 14 years term of exile. After embracing Bharata and Shatrughna, Shri Rama bids farewell to all with due respect in accord with the rank of each and enters his hermitage.

113

ततः शिरसि कृत्वा तु पादुके भरतस्तदा |

आरुरोह रथं हृष्टः शत्रुघ्नेन समन्वितः || १||

वसिष्ठो वामदेवश्च जाबालिश्च दृढव्रतः |

अग्रतः प्रययुः सर्वे मन्त्रिणो मन्त्रपूजिताः || २||

मन्दाकिनीं नदीं रम्यां प्राङ्मुखास्ते ययुस्तदा |

प्रदक्षिणं च कुर्वाणाश्चित्रकूटं महागिरिम् || ३||

पश्यन्धातुसहस्राणि रम्याणि विविधानि च |

प्रययौ तस्य पार्श्वेन ससैन्यो भरतस्तदा || ४||

अदूराच्चित्रकूटस्य ददर्श भरतस्तदा |

आश्रमं यत्र स मुनिर्भरद्वाजः कृतालयः || ५||

स तमाश्रममागम्य भरद्वाजस्य बुद्धिमान् |

अवतीर्य रथात्पादौ ववन्दे कुलनन्दनः || ६||

ततो हृष्टो भरद्वाजो भरतं वाक्यमब्रवीत् |

अपि कृत्यं कृतं तात रामेण च समागतम् || ७||

एवमुक्तस्तु भरतो भरद्वाजेन धीमता |

प्रत्युवाच भरद्वाजं भरतो धर्मवत्सलः || ८||

स याच्यमानो गुरुणा मया च दृढविक्रमः |

राघवः परमप्रीतो वसिष्ठं वाक्यमब्रवीत् || ९||

पितुः प्रतिज्ञां तामेव पालयिष्यामि तत्त्वतः |

चतुर्दश हि वर्षाणि य प्रतिज्ञा पितुर्मम || १०||

एवमुक्तो महाप्राज्ञो वसिष्ठः प्रत्युवाच ह |

वाक्यज्ञो वाक्यकुशलं राघवं वचनं महत् || ११||

एते प्रयच्छ संहृष्टः पादुके हेमभूषिते |

अयोध्यायां महाप्राज्ञ योगक्षेमकरे तव || १२||

एवमुक्तो वसिष्ठेन राघवः प्राङ्मुखः स्थितः |

पादुके हेमविकृते मम राज्याय ते ददौ || १३||

निवृत्तोऽहमनुज्ञातो रामेण सुमहात्मना |

अयोध्यामेव गच्छामि गृहीत्वा पादुके शुभे || १४||

एतच्छ्रुत्वा शुभं वाक्यं भरतस्य महात्मनः |

भरद्वाजः शुभतरं मुनिर्वाक्यमुदाहरत् || १५||

नैतच्चित्रं नरव्याघ्र शीलवृत्तवतां वर |

यदार्यं त्वयि तिष्ठेत्तु निम्ने वृष्टिमिवोदकम् || १६||

अमृतः स महाबाहुः पिता दशरथस्तव |

यस्य त्वमीदृशः पुत्रो धर्मात्मा धर्मवत्सलः || १७||

तमृषिं तु महात्मानमुक्तवाक्यं कृताञ्जलिः |

आमन्त्रयितुमारेभे चरणावुपगृह्य च || १८||

ततः प्रदक्षिणं कृत्वा भरद्वाजं पुनः पुनः |

भरतस्तु ययौ श्रीमानयोध्यां सह मन्त्रिभिः || १९||

यानैश्च शकटैश्चैव हयैश्नागैश्च सा चमूः |

पुनर्निवृत्ता विस्तीर्णा भरतस्यानुयायिनी || २०||

ततस्ते यमुनां दिव्यां नदीं तीर्त्वोर्मिमालिनीम् |

ददृशुस्तां पुनः सर्वे गङ्गां शिवजलां नदीम् || २१||

तां रम्यजलसम्पूर्णां सन्तीर्य सह बान्धवः |

शृङ्गवेरपुरं रम्यं प्रविवेश ससैनिकः || २२||

शृङ्गवेरपुराद्भूय अयोध्यां सन्ददर्श ह |

भरतो दुःखसन्तप्तः सारथिं चेदमब्रवीत् || २३||

सारथे पश्य विध्वस्ता अयोध्या न प्रकाशते |

निराकारा निरानन्दा दीना प्रतिहतस्वना || २४||

24

2270

Keeping Shri Rama's wooden sandals on his head, Bharata ascends his chariot along with Shatrughna and his troops. On the way, he meets the sage Bharadwaja. Bharata informs the sage about the firm decision of Shri Rama to stay back in the forest for fourteen years so as to honour the promise of his father.

115

ततो निक्षिप्य मातॄह्स अयोध्यायां दृढव्रतः |
भरतः शोकसन्तप्तो गुरूनिदमथाब्रवीत् || १||

नन्दिग्रामं गमिष्यामि सर्वानामन्त्रयेऽद्य वः |
तत्र दुःखमिदं सर्वं सहिष्ये राघवं विना || २||

गतश्च हि दिवं राजा वनस्थश् च गुरुर्मम |
रामं प्रतीक्षे राज्याय स हि राजा महायशाः || ३||

एतच्छ्रुत्वा शुभं वाक्यं भरतस्य महात्मनः |
अब्रुवन्मन्त्रिणः सर्वे वसिष्ठश्च पुरोहितः || ४||

सदृशं श्लाघनीयं च यदुक्तं भरत त्वया |
वचनं भ्रातृवात्सल्यादनुरूपं तवैव तत् || ५||

नित्यं ते बन्धुलुब्धस्य तिष्ठतो भ्रातृसौहृदे |
आर्यमार्गं प्रपन्नस्य नानुमन्येत कः पुमान् || ६||

मन्त्रिणां वचनं श्रुत्वा यथाभिलषितं प्रियम् |
अब्रवीत्सारथिं वाक्यं रथो मे युज्यताम् इति || ७||

प्रहृष्टवदनः सर्वा मातॄह्समभिवाद्य सः |
आरुरोह रथं श्रीमाञ्शत्रुघ्नेन समन्वितः || ८||

आरुह्य तु रथं शीघ्रं शत्रुघ्नभरतावुभौ |
ययतुः परमप्रीतौ वृतौ मन्त्रिपुरोहितैः || ९||

अग्रतो पुरवस्तत्र वसिष्ठ प्रमुखा द्विजाः |
प्रययुः प्राङ्मुखाः सर्वे नन्दिग्रामो यतोऽभवत् || १०||

बलं च तदनाहूतं गजाश्वरथसङ्कुलम् |
प्रययौ भरते याते सर्वे च पुरवासिनः || ११||

रथस्थः स तु धर्मात्मा भरतो भ्रातृवत्सलः |
नन्दिग्रामं ययौ तूर्णं शिरस्याधाय पादुके || १२||

ततस्तु भरतः क्षिप्रं नन्दिग्रामं प्रविश्य सः |
अवतीर्य रथात्तूर्णं गुरूनिदमुवाच ह || १३||

एतद्राज्यं मम भ्रात्रा दत्तं संन्यासवत्स्वयम् |
योगक्षेमवहे चेमे पादुके हेमभूषिते |
तमिमं पालयिष्यामि राघवागमनं प्रति || १४||

क्षिप्रं संयोजयित्वा तु राघवस्य पुनः स्वयम् |
चरणौ तौ तु रामस्य द्रक्ष्यामि सहपादुकौ || १५||

ततो निक्षिप्तभारोऽहं राघवेण समागतः |
निवेद्य गुरवे राज्यं भजिष्ये गुरुवृत्तिताम् || १६||

राघवाय च संन्यासं दत्त्वेमे वरपादुके |
राज्यं चेदमयोध्यां च धूतपापो भवामि च || १७||

अभिषिक्ते तु काकुत्स्थे प्रहृष्टमुदिते जने |
प्रीतिर्मम यशश्चैव भवेद्राज्याच्चतुर्गुणम् || १८||

एवं तु विलपन्दीनो भरतः स महायशाः |
नन्दिग्रामेऽकरोद्राज्यं दुःखितो मन्त्रिभिः सह || १९||

स वल्कलजटाधारी मुनिवेषधरः प्रभुः |
नन्दिग्रामेऽवसद्वीरः ससैन्यो भरतस्तदा || २०||

रामागमनमाकाङ्क्षन्भरतो भ्रातृवत्सलः |
भ्रातुर्वचनकारी च प्रतिज्ञापारगस्तदा || २१||

पादुके त्वभिषिच्याथ नन्दिग्रामेऽवसत्तदा |
भरतः शासनं सर्वं पादुकाभ्यां न्यवेदयत् || २२||

22

2292

After returning to Ayodhya, Bharata expresses his desire to proceed to Nandigrama village. Sage Vasishta and the other elders agree to his proposal. Installing the wooden sandals of Shri Rama on the royal throne, Bharata puts on the garb of an ascetic and carries on the rule under orders of the sandals, holding the royal canopy over them.

इत्यार्षे श्री रामायणे अयोध्याकाण्डे पञ्चविंशतिः भाग:

 

Ayōdhyākāṇḍa Part-24

Ayōdhyākāṇḍa Part-26

 

No comments:

Post a Comment