Thursday, December 18, 2025

बालकाण्ड – Bālakāṇḍa (भाग - ८ ;;; Part – 8)

 

बालकाण्ड – Bālakāṇḍa (भाग - ;;; Part – 8)

Sarga number as per Ramayana

Shlokas extracted

No. of shlokas

Cumulative number of shlokas in this Kanda

71

ददामि परमप्रीतो वध्वौ ते मुनिपुङ्गव |

सीतां रामाय भद्रं ते ऊर्मिलां लक्ष्मणाय च || १||
वीर्यशुल्कां मम सुतां सीतां सुरसुतोपमाम् |

द्वितीयामूर्मिलां चैव त्रिर्वदामि न संशयः || २||
ददामि परमप्रीतो वध्वौ ते रघुनन्दन |

रामलक्ष्मणयो राजन्गोदानं कारयस्व ह || ३||
पितृकार्यं च भद्रं ते ततो वैवाहिकं कुरु |

मघा ह्यद्य महाबाहो तृतीये दिवसे प्रभो || ४||
फल्गुन्यामुत्तरे राजंस्तस्मिन्वैवाहिकं कुरु |
रामलक्ष्मणयोरर्थे दानं कार्यं सुखोदयम् || ५||

राजा च राघवौ पुत्रौ निशाम्य परिहर्षितः |

उवास परमप्रीतो जनकेन सुपूजितः || ६||

जनकोऽपि महातेजाः क्रिया धर्मेण तत्त्ववित् |

यज्ञस्य च सुताभ्यां च कृत्वा रात्रिमुवास ह || ७||

7

377

Then on the next day morning, King Janaka proposed his two daughters, viz., Seeta and Urmila, in marriage to Shri Rama and Lakshmana respectively, for which Dasaratha consented. The star ruling today was Magha and when the star of the day was Uttara Phalguni, the marriages were proposed to be performed.

72

तमुक्तवन्तं वैदेहं विश्वामित्रो महामुनिः |
उवाच वचनं वीरं वसिष्ठसहितो नृपम् || १||

अचिन्त्यान्यप्रमेयानि कुलानि नरपुङ्गव |
इक्ष्वाकूणां विदेहानां नैषां तुल्योऽस्ति कश् चन || २||

सदृशो धर्मसम्बन्धः सदृशो रूपसम्पदा |
रामलक्ष्मणयो राजन्सीता चोर्मिलया सह || ३||

वक्तव्यं न नरश्रेष्ठ श्रूयतां वचनं मम || ४||

भ्राता यवीयान्धर्मज्ञ एष राजा कुशध्वजः |
अस्य धर्मात्मनो राजन्रूपेणाप्रतिमं भुवि |
सुता द्वयं नरश्रेष्ठ पत्न्यर्थं वरयामहे || ५||

भरतस्य कुमारस्य शत्रुघ्नस्य च धीमतः |
वरयेम सुते राजंस्तयोरर्थे महात्मनोः || ६||

पुत्रा दशरथस्येमे रूपयौवनशालिनः |
लोकपालोपमाः सर्वे देवतुल्यपराक्रमाः || ७||

उभयोरपि राजेन्द्र सम्बन्धेनानुबध्यताम् |
इक्ष्वाकुकुलमव्यग्रं भवतः पुण्यकर्मणः || ८||

विश्वामित्रवचः श्रुत्वा वसिष्ठस्य मते तदा |
जनकः प्राञ्जलिर्वाक्यमुवाच मुनिपुङ्गवौ || ९||

सदृशं कुलसम्बन्धं यदाज्ञापयथः स्वयम् |
एवं भवतु भद्रं वः कुशध्वजसुते इमे |
पत्न्यौ भजेतां सहितौ शत्रुघ्नभरतावुभौ || १०||

एकाह्ना राजपुत्रीणां चतसॄणां महामुने |
पाणीन्गृह्णन्तु चत्वारो राजपुत्रा महाबलाः || ११||

उत्तरे दिवसे ब्रह्मन्फल्गुनीभ्यां मनीषिणः |
वैवाहिकं प्रशंसन्ति भगो यत्र प्रजापतिः || १२||

एवमुक्त्वा वचः सौम्यं प्रत्युत्थाय कृताञ्जलिः |
उभौ मुनिवरौ राजा जनको वाक्यमब्रवीत् || १३||

परो धर्मः कृतो मह्यं शिष्योऽस्मि भवतोः सदा |
इमान्यासनमुख्यानि आसेतां मुनिपुङ्गवौ || १४||

यथा दशरथस्येयं तथायोध्या पुरी मम |
प्रभुत्वे नासित्सन्देहो यथार्हं कर्तुमर्हथः || १५||

तथा ब्रुवति वैदेहे जनके रघुनन्दनः |
राजा दशरथो हृष्टः प्रत्युवाच महीपतिम् || १६||

युवामसङ्ख्येय गुणौ भ्रातरौ मिथिलेश्वरौ |
ऋषयो राजसङ्घाश्च भवद्भ्यामभिपूजिताः || १७||

स्वस्ति प्राप्नुहि भद्रं ते गमिष्यामि स्वमालयम् |
श्राद्धकर्माणि सर्वाणि विधास्य इति चाब्रवीत् || १८||

तमापृष्ट्वा नरपतिं राजा दशरथस्तदा |
मुनीन्द्रौ तौ पुरस्कृत्य जगामाशु महायशाः || १९||

स गत्वा निलयं राजा श्राद्धं कृत्वा विधानतः |
प्रभाते काल्यमुत्थाय चक्रे गोदानमुत्तमम् || २०||

गवां शतसहस्राणि ब्राह्मणेभ्यो नराधिपः |
एकैकशो ददौ राजा पुत्रानुद्धिश्य धर्मतः || २१||

सुवर्णशृङ्गाः सम्पन्नाः सवत्साः कांस्यदोहनाः |
गवां शतसहस्राणि चत्वारि पुरुषर्षभः || २२||

वित्तमन्यच्च सुबहु द्विजेभ्यो रघुनन्दनः |
ददौ गोदानमुद्दिश्य पुत्राणां पुत्रवत्सलः || २३||

स सुतैः कृतगोदानैर्वृतश्च नृपतिस्तदा |
लोकपालैरिवाभाति वृतः सौम्यः प्रजापतिः || २४||

24

401

Then sage Vishvamitra together with sage Vashishta proposed to king Janaka, to give the daughters of his younger brother king Kushadhvaja, viz., Maandavi, Shrutakiirti in marriage to King Dasaratha’s other sons, ie., Bharata and Shatrughna, respectively.  And, King Janaka gladly consented to that proposal.

Both King Janaka and King Dasaratha performed initiatory rituals that were supposed to be done before the actual marriage takes place.

73

यस्मिंस्तु दिवसे राजा चक्रे गोदानमुत्तमम् |
तस्मिंस्तु दिवसे शूरो युधाजित्समुपेयिवान् || १||

पुत्रः केकयराजस्य साक्षाद्भरतमातुलः |
दृष्ट्वा पृष्ट्वा च कुशलं राजानमिदमब्रवीत् || २||

केकयाधिपती राजा स्नेहात्कुशलमब्रवीत् |
येषां कुशलकामोऽसि तेषां सम्प्रत्यनामयम् || ३||

स्वस्रीयं मम राजेन्द्र द्रष्टुकामो महीपते |
तदर्थमुपयातोऽहमयोध्यां रघुनन्दन || ४||

श्रुत्वा त्वहय्मयोध्यायां विवाहार्थं तावात्मजान् |
मिथिलामुपयातास्तु त्वया सह महीपते || ५||

त्वरयाभुपयातोऽहं द्रष्टुकामः स्वसुः सुतम् |
अथ राजा दशरथः प्रियातिथिमुपस्थिम || ६||

दृष्ट्वा परमसत्कारैः पूजार्हं समपूजयत् |
ततस्तामुषितो रात्रिं सह पुत्रैर्महात्मभिः || ७||

ऋषींस्तदा पुरस्कृत्य यज्ञवाटमुपागमत् |
युक्ते मुहूर्ते विजये सर्वाभरणभूषितैः |
भ्रातृभिः सहितो रामः कृतकौतुकमङ्गलः || ८||

वसिष्ठं पुरतः कृत्वा महर्षीनपरानपि || ९||

राजा रशरथो राजन्कृतकौतुकमङ्गलैः |
पुत्रैर्नरवरश्रेष्ठ दातारमभिकाङ्क्षते || १०||

दातृप्रतिग्रहीतृभ्यां सर्वार्थाः प्रभवन्ति हि |
स्वधर्मं प्रतिपद्यस्व कृत्वा वैवाह्यमुत्तमम् || ११||

इत्युक्तः परमोदारो वसिष्ठेन महात्मना |
प्रत्युवाच महातेजा वाक्यं परमधर्मवित् || १२||

कः स्थितः प्रतिहारो मे कस्याज्ञा सम्प्रतीक्ष्यते |
स्वगृहे को विचारोऽस्ति यथा राज्यमिदं तव || १३||

कृतकौतुकसर्वस्वा वेदिमूलमुपागताः |
मम कन्या मुनिश्रेष्ठ दीप्ता वह्नेरिवार्चिषः || १४||

सज्जोऽहं त्वत्प्रतीक्षोऽस्मि वेद्यामस्यां प्रतिष्हितः |
अविघ्नं कुरुतां राजा किमर्थं हि विलम्ब्यते || १५||

तद्वाक्यं जनकेनोक्तं श्रुत्वा दशरथस्तदा |
प्रवेशयामास सुतान्सर्वानृषिगणानपि || १६||

अब्रवीज्जनको राजा कौसल्यानन्दवर्धनम् |
इयं सीता मम सुता सहधर्मचरी तव |
प्रतीच्छ चैनां भद्रं ते पाणिं गृह्णीष्व पाणिना || १७||

लक्ष्मणागच्छ भद्रं ते ऊर्मिलामुद्यतां मया |
प्रतीच्छ पाणिं गृह्णीष्व मा भूत्कालस्य पर्ययः || १८||

तमेवमुक्त्वा जनको भरतं चाभ्यभाषत |
गृहाण पाणिं माण्डव्याः पाणिना रघुनन्दन || १९||

शत्रुघ्नं चापि धर्मात्मा अब्रवीज्जनकेश्वरः |
श्रुतकीर्त्या महाबाहो पाणिं गृह्णीष्व पाणिना || २०||

सर्वे भवन्तः संयाश्च सर्वे सुचरितव्रताः |
पत्नीभिः सन्तु काकुत्स्था मा भूत्कालस्य पर्ययः || २१||

जनकस्य वचः श्रुत्वा पाणीन्पाणिभिरस्पृशन् |
चत्वारस्ते चतसृणां वसिष्ठस्य मते स्थिताः || २२||

अग्निं प्रदक्षिणं कृत्वा वेदिं राजानमेव च |
ऋषींश्चैव महात्मानः सह भार्या रघूत्तमाः |
यथोक्तेन तथा चक्रुर्विवाहं विधिपूर्वकम् || २३||

पुष्पवृष्टिर्महत्यासीदन्तरिक्षात्सुभास्वरा |
दिव्यदुन्दुभिनिर्घोषैर्गीतवादित्रनिस्वनैः || २४||

ननृतुश्चाप्सरःसङ्घा गन्धर्वाश्च जगुः कलम् |
विवाहे रघुमुख्यानां तदद्भुतमिवाभवत् || २५||

ईदृशे वर्तमाने तु तूर्योद्घुष्टनिनादिते |
त्रिरग्निं ते परिक्रम्य ऊहुर्भार्या महौजसः || २६||

अथोपकार्यां जग्मुस्ते सदारा रघुनन्दनः |
राजाप्यनुययौ पश्यन्सर्षिसङ्घः सबान्धवः || २७||

27

428

Before the marriage ceremony took place, Yudhaajit, the son of Kekaya king and the brother of Kaikeyi, and the maternal uncle of Bharata, came there with an intent to take Bharata with him, as his father and the king of Kekaya was interested to see his sister Kaikeyi's son.

On the appointed day, the 4 marriages were performed, as per tradition.

74

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

77

अथ रात्र्यां व्यतीतायां विश्वामित्रो महामुनिः |
आपृच्छ्य तौ च राजानौ जगामोत्तरपर्वतम् || १||

विश्वामित्रो गते राजा वैदेहं मिथिलाधिपम् |
आपृच्छ्याथ जगामाशु राजा दशरथः पुरीम् || २||

गच्छन्तं तं तु राजानमन्वगच्छन्नराधिप:।

अथ राजा विदेहानां ददौ कन्याधनं बहु  || ३||
गवां शतसहस्राणि बहूनि मिथिलेश्वरः |

कम्बलानां च मुख्यानां क्षौमकोट्यम्बराणि च || ४||  
हस्त्यश्वरथपादातं दिव्यरूपं स्वलङ्कृतम् |

ददौ कन्या पिता तासां दासीदासमनुत्तमम् || ५||
हिरण्यस्य सुवर्णस्य मुक्तानां विद्रुमस्य च |

ददौ परमसंहृष्टः कन्याधनमनुत्तमम् || ६||
दत्त्वा बहुधनं राजा समनुज्ञाप्य पार्थिवम् |

प्रविवेश स्वनिलयं मिथिलां मिथिलेश्वरः || ७||
राजाप्ययोध्याधिपतिः सह पुत्रैर्महात्मभिः |

ऋषीन्सर्वान्पुरस्कृत्य जगाम सबलानुगः || ८||   

चोदयामास तां सेनां जगामाशु ततः पुरीम् |

पताकाध्वजिनीं रम्यां तूर्योद्घुष्टनिनादिताम् || ९||
सिक्तराजपथां रम्यां प्रकीर्णकुसुमोत्कराम् |

राजप्रवेशसुमुखैः पौरैर्मङ्गलवादिभिः |
सम्पूर्णां प्राविशद्राजा जनौघैः समलङ्कृताम् || १०||

कौसल्या च सुमित्रा च कैकेयी च सुमध्यमा |
वधूप्रतिग्रहे युक्ता याश्चान्या राजयोषितः || ११||

ततः सीतां महाभागामूर्मिलां च यशस्विनीम् |
कुशध्वजसुते चोभे जगृहुर्नृपपत्नयः || १२||

मङ्गलालापनैश्चैव शोभिताः क्षौमवाससः |
देवतायतनान्याशु सर्वास्ताः प्रत्यपूजयन् || १३||

अभिवाद्याभिवाद्यांश्च सर्वा राजसुतास्तदा |
रेमिरे मुदिताः सर्वा भर्तृभिः सहिता रहः || १४||

कृतदाराः कृतास्त्राश्च सधनाः ससुहृज्जनाः |
शुश्रूषमाणाः पितरं वर्तयन्ति नरर्षभाः || १५||

तेषामतियशा लोके रामः सत्यपराक्रमः |
स्वयम्भूरिव भूतानां बभूव गुणवत्तरः || १६||

रामस्तु सीतया सार्धं विजहार बहूनृतून् |
मनस्वी तद्गतस्तस्या नित्यं हृदि समर्पितः || १७||

प्रिया तु सीता रामस्य दाराः पितृकृता इति |
गुणाद्रूपगुणाच्चापि प्रीतिर्भूयो व्यवर्धत || १८||

तस्याश्च भर्ता द्विगुणं हृदये परिवर्तते |
अन्तर्जातमपि व्यक्तमाख्याति हृदयं हृदा || १९||

तस्य भूयो विशेषेण मैथिली जनकात्मजा |
देवताभिः समा रूपे सीता श्रीरिव रूपिणी || २०||

कस्य चित्त्वथ कालस्य राजा दशरथः सुतम् |
भरतं केकयीपुत्रमब्रवीद्रघुनन्दनः || २१||

अयं केकयराजस्य पुत्रो वसति पुत्रक |
त्वां नेतुमागतो वीर युधाजिन्मातुलस्तव || २२||

श्रुत्वा दशरथस्यैतद्भरतः केकयीसुतः |
गमनायाभिचक्राम शत्रुघ्नसहितस्तदा || २३||

आपृच्छ्य पितरं शूरो रामं चाक्लिष्टकारिणम् |
मातॄंश्चापि नरश्रेष्ठः शत्रुघ्नसहितो ययौ || २४||

गते च भरते रामो लक्ष्मणश्च महाबलः |
पितरं देवसङ्काशं पूजयामासतुस्तदा || २५||

पितुराज्ञां पुरस्कृत्य पौरकार्याणि सर्वशः |
चकार रामो धर्मात्मा प्रियाणि च हितानि च || २६||

मातृभ्यो मातृकार्याणि कृत्वा परमयन्त्रितः |
गुरूणां गुरुकार्याणि काले कालेऽन्ववैक्षत || २७||

27

455

The next day, sage Vishvamitra with the permission of those kings, Dasharatha and Janaka, and from both Rama and Lakshmana also, proceeded towards Himalayas.

King Dasharatha, alongwith his sons and their brides, priests, ministers and his army, set forth for the city of Ayodhya. His queens, Kausalya, Sumitra, and Kaikeyi and other wives were overjoyed after receiving the four brides.

Then after sometime king Dasharatha, permitted Bharata to go along with his maternal uncle Yudhaajit.

Bharata, along with Shatrughna went to Kekaya province. After the departure of Bharata, then the Shri Rama along with Lakshmana started to assist his father in discharging duties of the King.

इत्यार्षे श्री रामायणे बालकाण्डे अष्टम: भाग:

 

 

Bālakāṇḍa Part-7

Introduction to Ayōdhyā kāṇḍa

 

No comments:

Post a Comment