Wednesday, December 17, 2025

बालकाण्ड – Bālakāṇḍa (भाग - ७ ;;; Part – 7)

 

बालकाण्ड – Bālakāṇḍa (भाग - ;;; Part – 7)

Sarga number as per Ramayana

Shlokas extracted

No. of shlokas

Cumulative number of shlokas in this Kanda

68

जनकेन समादिष्टा दूतास्ते क्लान्तवाहनाः |
त्रिरात्रमुषित्वा मार्गे तेऽयोध्यां प्राविशन्पुरीम् || १||

ते राजवचनाद्दूता राजवेश्मप्रवेशिताः |
ददृशुर्देवसङ्काशं वृद्धं दशरथं नृपम् || २||

बद्धाञ्जलिपुटाः सर्वे दूता विगतसाध्वसाः |
राजानं प्रयता वाक्यमब्रुवन्मधुराक्षरम् || ३||

मैथिलो जनको राजा साग्निहोत्रपुरस्कृतः |
कुशलं चाव्ययं चैव सोपाध्यायपुरोहितम् || ४||

मुहुर्मुहुर्मधुरया स्नेहसंयुक्तया गिरा |
जनकस्त्वां महाराज पृच्छते सपुरःसरम् || ५||

पृष्ट्वा कुशलमव्यग्रं वैदेहो मिथिलाधिपः |
कौशिकानुमते वाक्यं भवन्तमिदमब्रवीत् || ६||

पूर्वं प्रतिज्ञा विदिता वीर्यशुल्का ममात्मजा |
राजानश्च कृतामर्षा निर्वीर्या विमुखीकृताः || ७||

सेयं मम सुता राजन्विश्वामित्र पुरःसरैः |
यदृच्छयागतैर्वीरैर्निर्जिता तव पुत्रकैः || ८||

तच्च राजन्धनुर्दिव्यं मध्ये भग्नं महात्मना |
रामेण हि महाराज महत्यां जनसंसदि || ९||

अस्मै देया मया सीता वीर्यशुल्का महात्मने |
प्रतिज्ञां तर्तुमिच्छामि तदनुज्ञातुमर्हसि || १०||

सोपाध्यायो महाराज पुरोहितपुरस्कृतः |
शीघ्रमागच्छ भद्रं ते द्रष्टुमर्हसि राघवौ || ११||

प्रीतिं च मम राजेन्द्र निर्वर्तयितुमर्हसि |
पुत्रयोरुभयोरेव प्रीतिं त्वमपि लप्स्यसे || १२||

एवं विदेहाधिपतिर्मधुरं वाक्यमब्रवीत् |
विश्वामित्राभ्यनुज्ञातः शतानन्दमते स्थितः || १३||

दूतवाक्यं तु तच्छ्रुत्वा राजा परमहर्षितः |
वसिष्ठं वामदेवं च मन्त्रिणोऽन्यांश्च सोऽब्रवीत् || १४||

गुप्तः कुशिकपुत्रेण कौसल्यानन्दवर्धनः |
लक्ष्मणेन सह भ्रात्रा विदेहेषु वसत्यसौ || १५||

दृष्टवीर्यस्तु काकुत्स्थो जनकेन महात्मना |
सम्प्रदानं सुतायास्तु राघवे कर्तुमिच्छति || १६||

यदि वो रोचते वृत्तं जनकस्य महात्मनः |
पुरीं गच्छामहे शीघ्रं मा भूत्कालस्य पर्ययः || १७||

मन्त्रिणो बाढमित्याहुः सह सर्वैर्महर्षिभिः |
सुप्रीतश्चाब्रवीद्राजा श्वो यात्रेति स मन्त्रिणः || १८||

मन्त्रिणस्तु नरेन्द्रस्य रात्रिं परमसत्कृताः |
ऊषु स्तेमुदिता स्सर्वे गुणै स्सर्वैस्समन्विता:|| १९||

19

363

Those envoys, who are clearly ordered by Janaka entered the city of Ayodhya after three days. On getting an audience of Dasharatha, they conveyed the message of King Janaka.

They reminded him the oath of King Janaka that Seeta would be given in marriage to the person, who can lift the great bow. The told him that Sage Vishvamitra arrived in Mithila, alongwith Shri Rama and Lakshmana.  They added that Shri Rama had lifted that bow and broken it.  And, as per the promise, King Janaka would like to perform the marriage of Seeta with Shri Rama and invited King Dasaratha to Mithila.

King Dasharatha was very happy with that news and informed his family priests, ie., Vashishta, Vaamadeva, and to his other ministers and all decided to go over to Mithila.

69

वचनाच्च नरेन्द्रस्य सा सेना चतुरङ्गिणी |
राजानमृषिभिः सार्धं व्रजन्तं पृष्ठतोऽन्वगात् || १||

गत्वा चतुरहं मार्गं विदेहानभ्युपेयिवान् |
राजा तु जनकः श्रीमाञ्श्रुत्वा पूजाम् अकल्पयत् || २||

ततो राजानमासाद्य वृद्धं दशरथं नृपम् |
जनको मुदितो राजा हर्षं च परमं ययौ |
उवाच न नरश्रेष्ठो नरश्रेष्ठं मुदान्वितम् || ३||

स्वागतं ते महाराज दिष्ट्या प्राप्तोऽसि राघव |
पुत्रयोरुभयोः प्रीतिं लप्स्यसे वीर्यनिर्जिताम् || ४||

दिष्ट्या प्राप्तो महातेजा वसिष्ठो भगवानृषिः |
सह सर्वैर्द्विजश्रेष्ठैर्देवैरिव शतक्रतुः || ५||

दिष्ट्या मे निर्जिता विघ्ना दिष्ट्या मे पूजितं कुलम् |
राघवैः सह सम्बन्धाद्वीर्यश्रेष्ठैर्महात्मभिः || ६||

श्वः प्रभाते नरेन्द्रेन्द्र निर्वर्तयितुमर्हसि |
यज्ञस्यान्ते नरश्रेष्ठ विवाहमृषिसंमतम् || ७||

7

370

On the next day, king Dasharatha started his journey to Mithila, along with priests, Ministers, his relatives and army. On fourth day, King Dasharatha reached the Videha kingdom, and on hearing this, the king Janaka arranged for welcome ceremonies at the outskirts of the city.

King Janaka performed ritual acts according to scriptures for the Vedic-ritual on hand, and the preparatory rituals for handing out both of his daughters in marriage.

इत्यार्षे श्री रामायणे बालकाण्डे सप्तम: भाग:

 

Bālakāṇḍa Part-6

Bālakāṇḍa Part - 8

No comments:

Post a Comment