Wednesday, December 31, 2025

किष्किन्धाकाण्ड - Kiṣkindhākāṇḍa (भाग - २० ;;; Part – 20)

 

किष्किन्धाकाण्ड - Kiṣkindhākāṇḍa (भाग - २० ;;; Part – 20)

Sarga number as per Ramayana

Shlokas extracted

No. of shlokas

Cumulative number of shlokas in this Kanda

66

अनेकशतसाहस्रीं विषण्णां हरिवाहिनीम् |
जाम्बवान्समुदीक्ष्यैवं हनुमन्तमथाब्रवीत् || १||

वीर वानरलोकस्य सर्वशास्त्रमथाब्रवीत् |
तूष्णीमेकान्तमाश्रित्य हनुमन्किं न जल्पसि || २||

हनुमन्हरिराजस्य सुग्रीवस्य समो ह्यसि |
रामलक्ष्मणयोश्चापि तेजसा च बलेन च || ३||

अरिष्टनेमिनः पुत्रौ वैनतेयो महाबलः |
गरुत्मानिव विख्यात उत्तमः सर्वपक्षिणाम् || ४||

बहुशो हि मया दृष्टः सागरे स महाबलः |
भुजगानुद्धरन्पक्षी महावेगो महायशाः || ५||

पक्षयोर्यद्बलं तस्य तावद्भुजबलं तव |
विक्रमश्चापि वेगश्च न ते तेनापहीयते || ६||

बलं बुद्धिश्च तेजश्च सत्त्वं च हरिसत्तम |
विशिष्टं सर्वभूतेषु किमात्मानं न बुध्यसे || ७||

अप्सराप्सरसां श्रेष्ठा विख्याता पुञ्जिकस्थला |
अज्ञनेति परिख्याता पत्नी केसरिणो हरेः || ८||

अभिशापादभूत्तात वानरी कामरूपिणी |
दुहिता वानरेन्द्रस्य कुञ्जरस्य महात्मनः || ९||

कपित्वे चारुसर्वाङ्गी कदा चित्कामरूपिणी |
मानुषं विग्रहं कृत्वा यौवनोत्तमशालिनी || १०||

अचरत्पर्वतस्याग्रे प्रावृडम्बुदसंनिभे |
विचित्रमाल्याभरणा महार्हक्षौमवासिनी || ११||

तस्या वस्त्रं विशालाक्ष्याः पीतं रक्तदशं शुभम् |
स्थितायाः पर्वतस्याग्रे मारुतोऽपहरच्छनैः || १२||

स ददर्श ततस्तस्या वृत्तावूरू सुसंहतौ |
स्तनौ च पीनौ सहितौ सुजातं चारु चाननम् || १३||

तां विशालायतश्रोणीं तनुमध्यां यशस्विनीम् |
दृष्ट्वैव शुभसर्वाग्नीं पवनः काममोहितः || १४||

स तां भुजाभ्यां पीनाभ्यां पर्यष्वजत मारुतः |
मन्मथाविष्टसर्वाङ्गो गतात्मा तामनिन्दिताम् || १५||

सा तु तत्रैव सम्भ्रान्ता सुवृत्ता वाक्यमब्रवीत् |
एकपत्नीव्रतमिदं को नाशयितुमिच्छति || १६||

अञ्जनाया वचः श्रुत्वा मारुतः प्रत्यभाषत |
न त्वां हिंसामि सुश्रोणि मा भूत्ते सुभगे भयम् || १७||

मनसास्मि गतो यत्त्वां परिष्वज्य यशस्विनि |
वीर्यवान्बुद्धिसम्पन्नः पुत्रस्तव भविष्यति || १८||

अभ्युत्थितं ततः सूर्यं बालो दृष्ट्वा महावने |
फलं चेति जिघृक्षुस्त्वमुत्प्लुत्याभ्यपतो दिवम् || १९||

शतानि त्रीणि गत्वाथ योजनानां महाकपे |
तेजसा तस्य निर्धूतो न विषादं ततो गतः || २०||

तावदापततस्तूर्णमन्तरिक्षं महाकपे |
क्षिप्तमिन्द्रेण ते वज्रं क्रोधाविष्टेन धीमता || २१||

ततः शैलाग्रशिखरे वामो हनुरभज्यत |
ततो हि नामधेयं ते हनुमानिति कीर्त्यते || २२||

ततस्त्वां निहतं दृष्ट्वा वायुर्गन्धवहः स्वयम् |
त्रैलोक्ये भृशसङ्क्रुद्धो न ववौ वै प्रभञ्जनः || २३||

सम्भ्रान्ताश्च सुराः सर्वे त्रैलोक्ये क्षुभिते सति |
प्रसादयन्ति सङ्क्रुद्धं मारुतं भुवनेश्वराः || २४||

प्रसादिते च पवने ब्रह्मा तुभ्यं वरं ददौ |
अशस्त्रवध्यतां तात समरे सत्यविक्रम || २५||

वज्रस्य च निपातेन विरुजं त्वां समीक्ष्य च |
सहस्रनेत्रः प्रीतात्मा ददौ ते वरमुत्तमम् || २६||

स्वच्छन्दतश्च मरणं ते भूयादिति वै प्रभो |
स त्वं केसरिणः पुत्रः क्षेत्रजो भीमविक्रमः || २७||

मारुतस्यौरसः पुत्रस्तेजसा चापि तत्समः |
त्वं हि वायुसुतो वत्स प्लवने चापि तत्समः || २८||

वयमद्य गतप्राणा भवानस्मासु साम्प्रतम् |
दाक्ष्यविक्रमसम्पन्नः पक्षिराज इवापरः || २९||

त्रिविक्रमे मया तात सशैलवनकानना |
त्रिः सप्तकृत्वः पृथिवी परिक्रान्ता प्रदक्षिणम् || ३०||

तदा चौषधयोऽस्माभिः सञ्चिता देवशासनात् |
निष्पन्नममृतं याभिस्तदासीन्नो महद्बलम् || ३१||

स इदानीमहं वृद्धः परिहीनपराक्रमः |
साम्प्रतं कालमस्माकं भवान्सर्वगुणान्वितः || ३२||

तद्विजृम्भस्व विक्रान्तः प्लवताम् उत्तमो ह्यसि |
त्वद्वीर्यं द्रष्टुकामेयं सर्वा वानरवाहिनी || ३३||

उत्तिष्ठ हरिशार्दूल लङ्घयस्व महार्णवम् |
परा हि सर्वभूतानां हनुमन्या गतिस्तव || ३४||

विषाण्णा हरयः सर्वे हनुमन्किमुपेक्षसे |
विक्रमस्व महावेगो विष्णुस्त्रीन्विक्रमानिव || ३५||

ततस्तु वै जाम्बवताभिचोदितः
प्रतीतवेगः पवनात्मजः कपिः |
प्रहर्षयंस्तां हरिवीर वाहिनीं
चकार रूपं महदात्मनस्तदा || ३६||

36

1740

Jambavan recounts the birth of Shri Hanuman, his adventure in flying towards Sun, even as a child.  The boons that Shri Hanuman got from Brahma, Indra and others.

67

संस्तूयमानो हनुमान्व्यवर्धत महाबलः |
समाविध्य च लाङ्गूलं हर्षाच्च बलमेयिवान् || १||

तस्य संस्तूयमानस्य सर्वैर्वानरपुङ्गवैः |
तेजसापूर्यमाणस्य रूपमासीदनुत्तमम् || २||

यथा विजृम्भते सिंहो विवृद्धो गिरिगह्वरे |
मारुतस्यौरसः पुत्रस्तथा सम्प्रति जृम्भते || ३||

अशोभत मुखं तस्य जृम्भमाणस्य धीमतः |
अम्बरीषोपमं दीप्तं विधूम इव पावकः || ४||

हरीणामुत्थितो मध्यात्सम्प्रहृष्टतनूरुहः |
अभिवाद्य हरीन्वृद्धान्हनुमानिदमब्रवीत् || ५||

अरुजन्पर्वताग्राणि हुताशनसखोऽनिलः |
बलवानप्रमेयश्च वायुराकाशगोचरः || ६||

तस्याहं शीघ्रवेगस्य शीघ्रगस्य महात्मनः |
मारुतस्यौरसः पुत्रः प्लवने नास्ति मे समः || ७||

उत्सहेयं हि विस्तीर्णमालिखन्तमिवाम्बरम् |
मेरुं गिरिमसङ्गेन परिगन्तुं सहस्रशः || ८||

बाहुवेगप्रणुन्नेन सागरेणाहमुत्सहे |
समाप्लावयितुं लोकं सपर्वतनदीह्रदम् || ९||

ममोरुजङ्घावेगेन भविष्यति समुत्थितः |
संमूर्छितमहाग्राहः समुद्रो वरुणालयः || १०||

पन्नगाशनमाकाशे पतन्तं पक्षिसेवितम् |
वैनतेयमहं शक्तः परिगन्तुं सहस्रशः || ११||

उदयात्प्रस्थितं वापि ज्वलन्तं रश्मिमालिनम् |
अनस्तमितमादित्यमभिगन्तुं समुत्सहे || १२||

ततो भूमिमसंस्पृश्य पुनरागन्तुमुत्सहे |
प्रवेगेनैव महता भीमेन प्लवगर्षभाः || १३||

उत्सहेयमतिक्रान्तुं सर्वानाकाशगोचरान् |
सागरं क्षोभयिष्यामि दारयिष्यामि मेदिनीम् || १४||

पर्वतान्कम्पयिष्यामि प्लवमानः प्लवङ्गमाः |
हरिष्ये चोरुवेगेन प्लवमानो महार्णवम् || १५||

लतानां वीरुधां पुष्पं पादपानां च सर्वशः |
अनुयास्यति मामद्य प्लवमानं विहायसा |
भविष्यति हि मे पन्थाः स्वातेः पन्था इवाम्बरे || १६||

चरन्तं घोरमाकाशमुत्पतिष्यन्तमेव च |
द्रक्ष्यन्ति निपतन्तं च सर्वभूतानि वानराः || १७||

महामेरुप्रतीकाशं मां द्रक्ष्यध्वं प्लवङ्गमाः |
दिवमावृत्य गच्छन्तं ग्रसमानमिवाम्बरम् || १८||

विधमिष्यामि जीमूतान्कम्पयिष्यामि पर्वतान् |
सागरं क्षोभयिष्यामि प्लवमानः समाहितः || १९||

वैनतेयस्य वा शक्तिर्मम वा मारुतस्य वा |
ऋते सुपर्णराजानं मारुतं वा महाबलम् |
न हि भूतं प्रपश्यामि यो मां प्लुतमनुव्रजेत् || २०||

निमेषान्तरमात्रेण निरालम्भनमम्बरम् |
सहसा निपतिष्यामि घनाद्विद्युदिवोत्थिता || २१||

भविष्यति हि मे रूपं प्लवमानस्य सागरम् |
विष्णोः प्रक्रममाणस्य तदा त्रीन्विक्रमानिव || २२||

बुद्ध्या चाहं प्रपश्यामि मनश्चेष्टा च मे तथा |
अहं द्रक्ष्यामि वैदेहीं प्रमोदध्वं प्लवङ्गमाः || २३||

मारुतस्य समो वेगे गरुडस्य समो जवे |
अयुतं योजनानां तु गमिष्यामीति मे मतिः || २४||

वासवस्य सवज्रस्य ब्रह्मणो वा स्वयम्भुवः |
विक्रम्य सहसा हस्तादमृतं तदिहानये |
लङ्कां वापि समुत्क्षिप्य गच्छेयमिति मे मतिः || २५||

तमेवं वानरश्रेष्ठं गर्जन्तममितौजसं |
उवाच परिसंहृष्टो जाम्बवान्हरिसत्तमः || २६||

वीर केसरिणः पुत्र वेगवन्मारुतात्मज |
ज्ञातीनां विपुलं शोकस्त्वया तात प्रणाशितः || २७||

तव कल्याणरुचयः कपिमुख्याः समागताः |
मङ्गलं कार्यसिद्ध्यर्थं करिष्यन्ति समाहिताः || २८||

ऋषीणां च प्रसादेन कपिवृद्धमतेन च |
गुरूणां च प्रसादेन प्लवस्व त्वं महार्णवम् || २९||

स्थास्यामश्चैकपादेन यावदागमनं तव |
त्वद्गतानि च सर्वेषां जीवितानि वनौकसाम् || ३०||

ततस्तु हरिशार्दूलस्तानुवाच वनौकसः |
नेयं मम मही वेगं प्लवने धारयिष्यति || ३१||

एतानि हि नगस्यास्य शिलासङ्कटशालिनः |
शिखराणि महेन्द्रस्य स्थिराणि च महान्ति च || ३२||

एतानि मम निष्पेषं पादयोः पततां वराः |
प्लवतो धारयिष्यन्ति योजनानामितः शतम् || ३३||

ततस्तु मारुतप्रख्यः स हरिर्मारुतात्मजः |
आरुरोह नगश्रेष्ठं महेन्द्रमरिमर्दनः || ३४||

वृतं नानाविधैर्वृक्षैर्मृगसेवितशाद्वलम् |
लताकुसुमसम्बाधं नित्यपुष्पफलद्रुमम् || ३५||

सिंहशार्दूलचरितं मत्तमातङ्गसेवितम् |
मत्तद्विजगणोद्घुष्टं सलिलोत्पीडसङ्कुलम् || ३६||

महद्भिरुच्छ्रितं शृङ्गैर्महेन्द्रं स महाबलः |
विचचार हरिश्रेष्ठो महेन्द्रसमविक्रमः || ३७||

पादाभ्यां पीडितस्तेन महाशैलो महात्मना |
ररास सिंहाभिहतो महान्मत्त इव द्विपः || ३८||

मुमोच सलिलोत्पीडान्विप्रकीर्णशिलोच्चयः |
वित्रस्तमृगमातङ्गः प्रकम्पितमहाद्रुमः || ३९||

नानागन्धर्वमिथुनैः पानसंसर्गकर्कशैः |
उत्पतद्भिर्विहङ्गैश्च विद्याधरगणैरपि || ४०||

त्यज्यमानमहासानुः संनिलीनमहोरगः |
शैलशृङ्गशिलोद्घातस्तदाभूत्स महागिरिः || ४१||

निःश्वसद्भिस्तदा तैस्तु भुजगैरर्धनिःसृतैः |
सपताक इवाभाति स तदा धरणीधरः || ४२||

ऋषिभिस्त्रास सम्भ्रान्तैस्त्यज्यमानः शिलोच्चयः |
सीदन्महति कान्तारे सार्थहीन इवाध्वगः || ४३||

स वेगवान्वेगसमाहितात्मा
हरिप्रवीरः परवीरहन्ता |
मनः समाधाय महानुभावो
जगाम लङ्कां मनसा मनस्वी || ४४|| 

44

1784

Shri Hanuman agrees to leap the ocean and he increases his physique, fit enough to take a leap, and starts declaring his capabilities, by which the other vanaras feel elated and exited.

 

इत्यार्षे श्री रामायणे किष्किन्धाकाण्डे विंशतिः भाग:

Kiṣkindhākāṇḍa Part-19

Introduction to Sundarakāṇḍa

 

 

No comments:

Post a Comment