किष्किन्धाकाण्ड - Kiṣkindhākāṇḍa (भाग - १९ ;;; Part – 19)
|
Sarga
number as per Ramayana |
Shlokas extracted |
No. of shlokas |
Cumulative number of shlokas in this
Kanda |
|
64 |
आख्याता गृध्रराजेन समुत्पत्य प्लवङ्गमाः | सम्पातेर्वचनं श्रुत्वा हरयो रावणक्षयम् | अभिक्रम्य तु तं देशं ददृशुर्भीमविक्रमाः | दक्षिणस्य समुद्रस्य समासाद्योत्तरां दिशम् | सत्त्वैर्महद्भिर्विकृतैः क्रीडद्भिर्विविधैर्जले | प्रसुप्तमिव चान्यत्र क्रीडन्तमिव चान्यतः | सङ्कुलं दानवेन्द्रैश्च पातालतलवासिभिः | आकाशमिव दुष्पारं सागरं प्रेक्ष्य वानराः | विषण्णां वाहिनीं दृष्ट्वा सागरस्य निरीक्षणात् | न
निषादेन नः कार्यं विषादो दोषवत्तरः | विषादोऽयं प्रसहते विक्रमे पर्युपस्थिते | तस्यां रात्र्यां व्यतीतायामङ्गदो वानरैः सह | सा
वानराणां ध्वजिनी परिवार्याङ्गदं बभौ | कोऽन्यस्तां वानरीं सेनां शक्तः स्तम्भयितुं भवेत् | ततस्तान्हरिवृद्धांश्च तच्च सैन्यमरिन्दमः | क
इदानीं महातेजा लङ्घयिष्यति सागरम् | को
वीरो योजनशतं लङ्घयेत प्लवङ्गमाः | कस्य
प्रसादाद्दारांश्च पुत्रांश्चैव गृहाणि च | कस्य
प्रसादाद्रामं च लक्ष्मणं च महाबलम् | यदि
कश्चित्समर्थो वः सागरप्लवने हरिः | अङ्गदस्य वचः श्रुत्वा न कश्चित्किं चिदब्रवीत् | पुनरेवाङ्गदः प्राह तान्हरीन्हरिसत्तमः | व्यपदेश्य कुले जाताः पूजिताश्चाप्यभीक्ष्णशः | ब्रुवध्वं यस्य या शक्तिर्गमने प्लवगर्षभाः || २४|| |
24 |
1669 |
|
Vanaras on arriving
at seashore are perplexed to behold an unnavigable ocean. Angada noticing the
perplexity of vanaras pacifies them and elicits information about each vanara's
capability to jump over the ocean. |
|||
|
65 |
ततोऽङ्गदवचः श्रुत्वा सर्वे ते वानरोत्तमाः | गजो
गवाक्षो गवयः शरभो गन्धमादनः | आबभाषे गजस्तत्र प्लवेयं दशयोजनम् | गवयो
वानरस्तत्र वानरांस्तानुवाच ह | शरभो
वानरस्तत्र वानरांस्तानुवाच ह | वानरांस्तु महातेजा अब्रवीद्गन्धमादनः | मैन्दस्तु वानरस्तत्र वानरांस्तानुवाच ह | ततस्तत्र महातेजा द्विविदः प्रत्यभाषत | सुषेणस्तु हरिश्रेष्ठः प्रोक्तवान्कपिसत्तमान् | तेषां
कथयतां तत्र सर्वांस्ताननुमान्य च | पूर्वमस्माकमप्यासीत्कश्चिद्गतिपराक्रमः | किं
तु नैवं गते शक्यमिदं कार्यमुपेक्षितुम् | साम्प्रतं कालभेदेन या गतिस्तां निबोधत | तांश्च सर्वान्हरिश्रेष्ठाञ्जाम्बवान्पुनरब्रवीत् | मया
महाबलैश्चैव यज्ञे विष्णुः सनातनः | स
इदानीमहं वृद्धः प्लवने मन्दविक्रमः | सम्प्रत्येतावतीं शक्तिं गमने तर्कयाम्यहम् | अथोत्तरमुदारार्थमब्रवीदङ्गदस्तदा | अहमेतद्गमिष्यामि योजनानां शतं महत् | तमुवाच हरिश्रेष्ठो जाम्बवान्वाक्यकोविदः | कामं
शतसहस्रं वा न ह्येष विधिरुच्यते | न
हि प्रेषयिता तत स्वामी प्रेष्यः कथं चन | भवान्कलत्रमस्माकं स्वामिभावे व्यवस्थितः | तस्मात्कलत्रवत्तात प्रतिपाल्यः सदा भवान् | मूलमर्थस्य संरक्ष्यमेष कार्यविदां नयः | तद्भवानस्या कार्यस्य साधने सत्यविक्रमः | गुरुश्च गुरुपुत्रश्च त्वं हि नः कपिसत्तम | उक्तवाक्यं महाप्राज्ञं जाम्बवन्तं महाकपिः | यदि
नाहं गमिष्यामि नान्यो वानरपुङ्गवः | न
ह्यकृत्वा हरिपतेः सन्देशं तस्य धीमतः | स
हि प्रसादे चात्यर्थं कोपे च हरिरीश्वरः | तद्यथा ह्यस्य कार्यस्य न भवत्यन्यथा गतिः | सोऽङ्गदेन तदा वीरः प्रत्युक्तः प्लवगर्षभः | अस्य
ते वीर कार्यस्य न किं चित्परिहीयते | ततः
प्रतीतं प्लवतां वरिष्ठम् |
35 |
1704 |
|
Every important vanara
gives his capability, but which is just lesser than the required capacity to
jump 100 Yojanas . Though Angada is capable to jump that much distance, being
the prince, he is not allowed for the task by Jambavan. Jambavan is aware of
Shri Hanuman’s capacity and thus asks him to undertake the task of leaping
the ocean. |
|||
इत्यार्षे श्री
रामायणे किष्किन्धाकाण्डे
एकोनविंश: भाग:
No comments:
Post a Comment