Wednesday, December 31, 2025

सुन्दरकाण्ड - Sundarakāṇḍa (भाग - १ ;;; Part – 1)

 

सुन्दरकाण्ड - Sundarakāṇḍa (भाग - ;;; Part – 1)

 

Sarga number as per Ramayana

Shlokas extracted

No. of shlokas

Cumulative number of shlokas in this Kanda

1 (Part-I)

ततो रावणनीतायाः सीतायाः शत्रुकर्शनः |
इयेष पदमन्वेष्टुं चारणाचरिते पथि || १||

अथ वैदूर्यवर्णेषु शाद्वलेषु महाबलः |
धीरः सलिलकल्पेषु विचचार यथासुखम् || २||

द्विजान्वित्रासयन्धीमानुरसा पादपान्हरन् |
मृगांश्च सुबहून्निघ्नन्प्रवृद्ध इव केसरी || ३||

नीललोहितमाञ्जिष्ठपद्मवर्णैः सितासितैः |
स्वभावविहितैश्चित्रैर्धातुभिः समलङ्कृतम् || ४||

कामरूपिभिराविष्टमभीक्ष्णं सपरिच्छदैः |
यक्षकिंनरगन्धर्वैर्देवकल्पैश्च पन्नगैः || ५||

स तस्य गिरिवर्यस्य तले नागवरायुते |
तिष्ठन्कपिवरस्तत्र ह्रदे नाग इवाबभौ || ६||

स सूर्याय महेन्द्राय पवनाय स्वयम्भुवे |
भूतेभ्यश्चाञ्जलिं कृत्वा चकार गमने मतिम् || ७||

अञ्जलिं प्राङ्मुखः कुर्वन्पवनायात्मयोनये |
ततो हि ववृधे गन्तुं दक्षिणो दक्षिणां दिशम् || ८||

प्लवङ्गप्रवरैर्दृष्टः प्लवने कृतनिश्चयः |
ववृधे रामवृद्ध्यर्थं समुद्र इव पर्वसु || ९||

निष्प्रमाण शरीरः सँल्लिलङ्घयिषुरर्णवम् |
बाहुभ्यां पीडयामास चरणाभ्यां च पर्वतम् || १०||

स चचालाचलाश्चारु मुहूर्तं कपिपीडितः |
तरूणां पुष्पिताग्राणां सर्वं पुष्पमशातयत् || ११||

तेन पादपमुक्तेन पुष्पौघेण सुगन्धिना |
सर्वतः संवृतः शैलो बभौ पुष्पमयो यथा || १२||

तेन चोत्तमवीर्येण पीड्यमानः स पर्वतः |
सलिलं सम्प्रसुस्राव मदं मत्त इव द्विपः || १३||

पीड्यमानस्तु बलिना महेन्द्रस्तेन पर्वतः |
रीतिर्निर्वर्तयामास काञ्चनाञ्जनराजतीः |
मुमोच च शिलाः शैलो विशालाः समनःशिलाः || १४||

गिरिणा पीड्यमानेन पीड्यमानानि सर्वशः |
गुहाविष्टानि भूतानि विनेदुर्विकृतैः स्वरैः || १५||

स महासत्त्वसंनादः शैलपीडानिमित्तजः |
पृथिवीं पूरयामास दिशश्चोपवनानि च || १६||

शिरोभिः पृथुभिः सर्पा व्यक्तस्वस्तिकलक्षणैः |
वमन्तः पावकं घोरं ददंशुर्दशनैः शिलाः || १७||

तास्तदा सविषैर्दष्टाः कुपितैस्तैर्महाशिलाः |
जज्वलुः पावकोद्दीप्ता विभिदुश्च सहस्रधा || १८||

यानि चौषधजालानि तस्मिञ्जातानि पर्वते |
विषघ्नान्यपि नागानां न शेकुः शमितुं विषम् || १९||

भिद्यतेऽयं गिरिर्भूतैरिति मत्वा तपस्विनः |
त्रस्ता विद्याधरास्तस्मादुत्पेतुः स्त्रीगणैः सह || २०||

पानभूमिगतं हित्वा हैममासनभाजनम् |
पात्राणि च महार्हाणि करकांश्च हिरण्मयान् || २१||

लेह्यानुच्चावचान्भक्ष्यान्मांसानि विविधानि च |
आर्षभाणि च चर्माणि खड्गांश्च कनकत्सरून् || २२||

कृतकण्ठगुणाः क्षीबा रक्तमाल्यानुलेपनाः |
रक्ताक्षाः पुष्कराक्षाश्च गगनं प्रतिपेदिरे || २३||

हारनूपुरकेयूर पारिहार्य धराः स्त्रियः |
विस्मिताः सस्मितास्तस्थुराकाशे रमणैः सह || २४||

दर्शयन्तो महाविद्यां विद्याधरमहर्षयः |
सहितास्तस्थुराकाशे वीक्षां चक्रुश् च पर्वतम् || २५||

शुश्रुवुश्च तदा शब्दमृषीणां भावितात्मनाम् |
चारणानां च सिद्धानां स्थितानां विमलेऽम्बरे || २६||

एष पर्वतसङ्काशो हनूमान्मारुतात्मजः |
तितीर्षति महावेगं समुद्रं मकरालयम् || २७||

रामार्थं वानरार्थं च चिकीर्षन्कर्म दुष्करम् |
समुद्रस्य परं पारं दुष्प्रापं प्राप्तुमिच्छति || २८||

दुधुवे च स रोमाणि चकम्पे चाचलोपमः |
ननाद च महानादं सुमहानिव तोयदः || २९||

आनुपूर्व्याच्च वृत्तं च लाङ्गूलं रोमभिश् चितम् |
उत्पतिष्यन्विचिक्षेप पक्षिराज इवोरगम् || ३०||

तस्य लाङ्गूलमाविद्धमतिवेगस्य पृष्ठतः |
ददृशे गरुडेनेव ह्रियमाणो महोरगः || ३१||

बाहू संस्तम्भयामास महापरिघसंनिभौ |
ससाद च कपिः कट्यां चरणौ सञ्चुकोप च || ३२||

संहृत्य च भुजौ श्रीमांस्तथैव च शिरोधराम् |
तेजः सत्त्वं तथा वीर्यमाविवेश स वीर्यवान् || ३३||

मार्गमालोकयन्दूरादूर्ध्वप्रणिहितेक्षणः |
रुरोध हृदये प्राणानाकाशमवलोकयन् || ३४||

पद्भ्यां दृढमवस्थानं कृत्वा स कपिकुञ्जरः |
निकुञ्च्य कर्णौ हनुमानुत्पतिष्यन्महाबलः |
वानरान्वानरश्रेष्ठ इदं वचनमब्रवीत् || ३५||

यथा राघवनिर्मुक्तः शरः श्वसनविक्रमः |
गच्छेत्तद्वद्गमिष्यामि लङ्कां रावणपालिताम् || ३६||

न हि द्रक्ष्यामि यदि तां लङ्कायां जनकात्मजाम् |
अनेनैव हि वेगेन गमिष्यामि सुरालयम् || ३७||

यदि वा त्रिदिवे सीतां न द्रक्ष्यामि कृतश्रमः |
बद्ध्वा राक्षसराजानमानयिष्यामि रावणम् || ३८||

सर्वथा कृतकार्योऽहमेष्यामि सह सीतया |
आनयिष्यामि वा लङ्कां समुत्पाट्य सरावणाम् || ३९||

एवमुक्त्वा तु हनुमान्वानरान्वानरोत्तमः |
उत्पपाताथ वेगेन वेगवानविचारयन् || ४०||

प्राप्तभूयिष्ठ पारस्तु सर्वतः प्रतिलोकयन् |

योजनानां शतस्यान्ते वनराजिं ददर्श सः || ४१||

ददर्श पतन्नेव विविधद्रुमभूषितम् |

द्वीपं शाखामृगश्रेष्ठो मलयोपवनानि || ४२||

सागरं सागरानूपान्सागरानूपजान्द्रुमान् |

सागरस्य पत्नीनां मुखान्यपि विलोकयन् || ४३||

महामेघसङ्काशं समीक्ष्यात्मानमात्मना |

निरुन्धन्तमिवाकाशं चकार मतिमान्मतिम् || ४४||

कायवृद्धिं प्रवेगं मम दृष्ट्वैव राक्षसाः |

मयि कौतूहलं कुर्युरिति मेने महाकपिः || ४५||

ततः शरीरं सङ्क्षिप्य तन्महीधरसंनिभम् |

पुनः प्रकृतिमापेदे वीतमोह इवात्मवान् || ४६||

चारुनानाविधरूपधारी

परं समासाद्य समुद्रतीरम् |

परैरशक्यप्रतिपन्नरूपः

समीक्षितात्मा समवेक्षितार्थः || ४७||

ततः लम्बस्य गिरेः समृद्धे

विचित्रकूटे निपपात कूटे |

सकेतकोद्दालकनालिकेरे

महाद्रिकूटप्रतिमो महात्मा || ४८||

सागरं दानवपन्नगायुतं

बलेन विक्रम्य महोर्मिमालिनम् |

निपत्य तीरे महोदधेस्तदा

ददर्श लङ्काममरावतीम् इव || ४९||

49

49

Shri Hanuman leaps over the ocean towards Lanka and by evening he reaches Lanka.

इत्यार्षे श्री रामायणे सुन्दरकाण्डे प्रथम: भाग:

 

Introduction to Sundarakāṇḍa

Sundarakāṇḍa Part-2

 

No comments:

Post a Comment