Wednesday, December 31, 2025

सुन्दरकाण्ड - Sundarakāṇḍa (भाग - २ ;;; Part – 2)

 

सुन्दरकाण्ड - Sundarakāṇḍa (भाग - ;;; Part – 2)


Sarga number as per Ramayana

Shlokas extracted

No. of shlokas

Cumulative number of shlokas in this Kanda

2

स सागरमनाधृष्यमतिक्रम्य महाबलः |
त्रिकूटशिखरे लङ्कां स्थितां स्वस्थो ददर्श ह || १||

ततः पादपमुक्तेन पुष्पवर्षेण वीर्यवान् |
अभिवृष्टः स्थितस्तत्र बभौ पुष्पमयो यथा || २||

योजनानां शतं श्रीमांस्तीर्त्वाप्युत्तमविक्रमः |
अनिश्वसन्कपिस्तत्र न ग्लानिमधिगच्छति || ३||

शतान्यहं योजनानां क्रमेयं सुबहून्यपि |
किं पुनः सागरस्यान्तं सङ्ख्यातं शतयोजनम् || ४||

गिरिमूर्ध्नि स्थितां लङ्कां पाण्डुरैर्भवनैः शुभैः |
ददर्श स कपिः श्रीमान्पुरमाकाशगं यथा || ५||

पालितां राक्षसेन्द्रेण निर्मितां विश्वकर्मणा |
प्लवमानामिवाकाशे ददर्श हनुमान्पुरीम् || ६||

सम्पूर्णां राक्षसैर्घोरैर्नागैर्भोगवतीम् इव |
अचिन्त्यां सुकृतां स्पष्टां कुबेराध्युषितां पुरा || ७||

दंष्ट्रिभिर्बहुभिः शूरैः शूलपट्टिशपाणिभिः |
रक्षितां राक्षसैर्घोरैर्गुहामाशीविषैरपि || ८||

वप्रप्राकारजघनां विपुलाम्बुनवाम्बराम् |
शतघ्नीशूलकेशान्तामट्टालकवतंसकाम् || ९||

द्वारमुत्तरमासाद्य चिन्तयामास वानरः |
कैलासशिखरप्रख्यमालिखन्तमिवाम्बरम् |
ध्रियमाणमिवाकाशमुच्छ्रितैर्भवनोत्तमैः || १०||

तस्याश्च महतीं गुप्तिं सागरं च निरीक्ष्य सः |
रावणं च रिपुं घोरं चिन्तयामास वानरः || ११||

मयि दृष्टे तु रक्षोभी रामस्य विदितात्मनः |
भवेद्व्यर्थमिदं कार्यं रावणानर्थमिच्छतः || १२||

न हि शक्यं क्व चित्स्थातुमविज्ञातेन राक्षसैः |
अपि राक्षसरूपेण किमुतान्येन केन चित् || १३||

वायुरप्यत्र नाज्ञातश् चरेदिति मतिर्मम |
न ह्यस्त्यविदितं किं चिद्राक्षसानां बलीयसाम् || १४||

इहाहं यदि तिष्ठामि स्वेन रूपेण संवृतः |
विनाशमुपयास्यामि भर्तुरर्थश्च हीयते || १५||

तदहं स्वेन रूपेण रजन्यां ह्रस्वतां गतः |
लङ्कामभिपतिष्यामि राघवस्यार्थसिद्धये || १६||

रावणस्य पुरीं रात्रौ प्रविश्य सुदुरासदाम् |
विचिन्वन्भवनं सर्वं द्रक्ष्यामि जनकात्मजाम् || १७||

इति सञ्चिन्त्य हनुमान्सूर्यस्यास्तमयं कपिः |
आचकाङ्क्षे तदा वीरा वैदेह्या दर्शनोत्सुकः |
पृषदंशकमात्रः सन्बभूवाद्भुतदर्शनः ||१८||

18

67

Shri Hanuman reaches Lanka and observes the beautiful city from a mountain top and decides to wait for night to arrive, so that he can enter the city.

4

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

5

स लम्बशिखरे लम्बे लम्बतोयदसंनिभे |
सत्त्वमास्थाय मेधावी हनुमान्मारुतात्मजः || १||

निशि लङ्कां महासत्त्वो विवेश कपिकुञ्जरः |
रम्यकाननतोयाढ्यां पुरीं रावणपालिताम् || २||

शारदाम्बुधरप्रख्यैर्भवनैरुपशोभिताम् |
सागरोपमनिर्घोषां सागरानिलसेविताम् || ३||

सुपुष्टबलसङ्गुप्तां यथैव विटपावतीम् |
चारुतोरणनिर्यूहां पाण्डुरद्वारतोरणाम् || ४||

भुजगाचरितां गुप्तां शुभां भोगवतीम् इव |
तां सविद्युद्घनाकीर्णां ज्योतिर्मार्गनिषेविताम् || ५||

चण्डमारुतनिर्ह्रादां यथेन्द्रस्यामरावतीम् |
शातकुम्भेन महता प्राकारेणाभिसंवृताम् || ६||

किङ्किणीजालघोषाभिः पताकाभिरलङ्कृताम् |
आसाद्य सहसा हृष्टः प्राकारमभिपेदिवान् || ७||

विस्मयाविष्टहृदयः पुरीमालोक्य सर्वतः |
जाम्बूनदमयैर्द्वारैर्वैदूर्यकृतवेदिकैः || ८||

मणिस्फटिक मुक्ताभिर्मणिकुट्टिमभूषितैः |
तप्तहाटकनिर्यूहै राजतामलपाण्डुरैः || ९||

वैदूर्यतलसोपानैः स्फाटिकान्तरपांसुभिः |
चारुसञ्जवनोपेतैः खमिवोत्पतितैः शुभैः || १०||

क्रौञ्चबर्हिणसङ्घुष्टे राजहंसनिषेवितैः |
तूर्याभरणनिर्घोषैः सर्वतः प्रतिनादिताम् || ११||

वस्वोकसाराप्रतिमां समीक्ष्य नगरीं ततः |
खमिवोत्पतितां लङ्कां जहर्ष हनुमान्कपिः || १२||

तां समीक्ष्य पुरीं लङ्कां राक्षसाधिपतेः शुभाम् |
अनुत्तमामृद्धियुतां चिन्तयामास वीर्यवान् || १३||

नेयमन्येन नगरी शक्या धर्षयितुं बलात् |
रक्षिता रावणबलैरुद्यतायुधधारिभिः || १४||

कुमुदाङ्गदयोर्वापि सुषेणस्य महाकपेः |
प्रसिद्धेयं भवेद्भूमिर्मैन्दद्विविदयोरपि || १५||

विवस्वतस्तनूजस्य हरेश्च कुशपर्वणः |
ऋक्षस्य केतुमालस्य मम चैव गतिर्भवेत् || १६||

समीक्ष्य तु महाबाहो राघवस्य पराक्रमम् |
लक्ष्मणस्य च विक्रान्तमभवत्प्रीतिमान्कपिः || १७||

तां रत्नवसनोपेतां कोष्ठागारावतंसकाम् |
यन्त्रागारस्तनीमृद्धां प्रमदामिव भूषिताम् || १८||

तां नष्टतिमिरां दीपैर्भास्वरैश्च महागृहैः |
नगरीं राक्षसेन्द्रस्य ददर्श स महाकपिः || १९||

प्रविष्टः सत्त्वसम्पन्नो निशायां मारुतात्मजः |
स महापथमास्थाय मुक्तापुष्पविराजितम् || २०||

हसितोद्घुष्टनिनदैस्तूर्यघोष पुरः सरैः |
वज्राङ्कुशनिकाशैश्च वज्रजालविभूषितैः |
गृहमेधैः पुरी रम्या बभासे द्यौरिवाम्बुदैः || २१||

प्रजज्वाल तदा लङ्का रक्षोगणगृहैः शुभैः |
सिताभ्रसदृशैश्चित्रैः पद्मस्वस्तिकसंस्थितैः |
वर्धमानगृहैश्चापि सर्वतः सुविभाषितैः || २२||

तां चित्रमाल्याभरणां कपिराजहितङ्करः |
राघवार्थं चरञ्श्रीमान्ददर्श च ननन्द च || २३||

शुश्राव मधुरं गीतं त्रिस्थानस्वरभूषितम् |
स्त्रीणां मदसमृद्धानां दिवि चाप्सरसाम् इव || २४||

शुश्राव काञ्चीनिनादं नूपुराणां च निःस्वनम् |
सोपाननिनदांश्चैव भवनेषु महात्मनम् |
आस्फोटितनिनादांश्च क्ष्वेडितांश्च ततस्ततः || २५||

स्वाध्याय निरतांश्चैव यातुधानान्ददर्श सः |
रावणस्तवसंयुक्तान्गर्जतो राक्षसानपि || २६||

राजमार्गं समावृत्य स्थितं रक्षोबलं महत् |
ददर्श मध्यमे गुल्मे राक्षसस्य चरान्बहून् || २७||

दीक्षिताञ्जटिलान्मुण्डान्गोऽजिनाम्बरवाससः |
दर्भमुष्टिप्रहरणानग्निकुण्डायुधांस्तथा || २८||

कूटमुद्गरपाणींश्च दण्डायुधधरानपि |
एकाक्षानेककर्णांश्च चलल्लम्बपयोधरान् || २९||

करालान्भुग्नवक्त्रांश्च विकटान्वामनांस्तथा |
धन्विनः खड्गिनश्चैव शतघ्नी मुसलायुधान् |
परिघोत्तमहस्तांश्च विचित्रकवचोज्ज्वलान् || ३०||

नातिष्ठूलान्नातिकृशान्नातिदीर्घातिह्रस्वकान् |
विरूपान्बहुरूपांश्च सुरूपांश्च सुवर्चसः || ३१||

शक्तिवृक्षायुधांश्चैव पट्टिशाशनिधारिणः |
क्षेपणीपाशहस्तांश्च ददर्श स महाकपिः || ३२||

स्रग्विणस्त्वनुलिप्तांश्च वराभरणभूषितान् |
तीक्ष्णशूलधरांश्चैव वज्रिणश्च महाबलान् || ३३||

शतसाहस्रमव्यग्रमारक्षं मध्यमं कपिः |
प्राकारावृतमत्यन्तं ददर्श स महाकपिः || ३४||

त्रिविष्टपनिभं दिव्यं दिव्यनादविनादितम् |
वाजिहेषितसङ्घुष्टं नादितं भूषणैस्तथा || ३५||

रथैर्यानैर्विमानैश्च तथा गजहयैः शुभैः |
वारणैश्च चतुर्दन्तैः श्वेताभ्रनिचयोपमैः || ३६||

भूषितं रुचिरद्वारं मत्तैश्च मृगपक्षिभिः |
राक्षसाधिपतेर्गुप्तमाविवेश गृहं कपिः || ३७||

अव्यक्तलेखामिव चन्द्रलेखां

पांसुप्रदिग्धामिव हेमलेखाम् |

क्षतप्ररूढामिव बाणलेखां

वायुप्रभिन्नामिव मेघलेखाम् || ३८||

सीतामपश्यन्मनुजेश्वरस्य

रामस्य पत्नीं वदतां वरस्य |

बभूव दुःखाभिहतश् चिरस्य

प्लवङ्गमो मन्द इवाचिरस्य || ३९||

39

106

Entering Lanka at night by placing his left foot desiring the destruction of enemies, Shri Hanuman hears various musical instruments being played upon inside. He also observes enemies' forces and moves towards the royal gynaeceum.

इत्यार्षे श्री रामायणे सुन्दरकाण्डे द्वितीय: भाग:

 

Sundarakāṇḍa Part-1

Sundarakāṇḍa Part-3

 

No comments:

Post a Comment