Saturday, January 3, 2026

सुन्दरकाण्ड - Sundarakāṇḍa (भाग - १२ ;;; Part – 12)

 

सुन्दरकाण्ड - Sundarakāṇḍa (भाग - १२ ;;; Part – 12)

Sarga number as per Ramayana

Shlokas extracted

No. of shlokas

Cumulative number of shlokas in this Kanda

32

ततः शाखान्तरे लीनं दृष्ट्वा चलितमानसा |
सा ददर्श कपिं तत्र प्रश्रितं प्रियवादिनम् || १||

सा तु दृष्ट्वा हरिश्रेष्ठं विनीतवदुपस्थितम् |
मैथिली चिन्तयामास स्वप्नोऽयमिति भामिनी || २||

सा तं समीक्ष्यैव भृशं विसंज्ञा
गतासुकल्पेव बभूव सीता |
चिरेण संज्ञां प्रतिलभ्य चैव
विचिन्तयामास विशालनेत्रा || ३||

स्वप्नो मयायं विकृतोऽद्य दृष्टः
शाखामृगः शास्त्रगणैर्निषिद्धः |
स्वस्त्यस्तु रामाय सलक्ष्मणाय
तथा पितुर्मे जनकस्य राज्ञः || ४||

स्वप्नोऽपि नायं न हि मेऽस्ति निद्रा
शोकेन दुःखेन च पीडितायाः |
सुखं हि मे नास्ति यतोऽस्मि हीना
तेनेन्दुपूर्णप्रतिमाननेन || ५||

अहं हि तस्याद्य मनो भवेन
सम्पीडिता तद्गतसर्वभावा |
विचिन्तयन्ती सततं तमेव
तथैव पश्यामि तथा शृणोमि || ६||

मनोरथः स्यादिति चिन्तयामि
तथापि बुद्ध्या च वितर्कयामि |
किं कारणं तस्य हि नास्ति रूपं
सुव्यक्तरूपश्च वदत्ययं माम् || ७||

नमोऽस्तु वाचस्पतये सवज्रिणे
स्वयम्भुवे चैव हुताशनाय |
अनेन चोक्तं यदिदं ममाग्रतो
वनौकसा तच्च तथास्तु नान्यथा || ८||

8

1011

Seetha is shocked to see Shri Hanuman, perched on the branches of a Shimshupa tree.  She is in a perplexed state and could not understand whether her hearing Shri Rama’s story from the mouth of a vanara is a reality.

33

तामब्रवीन्महातेजा हनूमान्मारुतात्मजः |
शिरस्यञ्जलिमाधाय सीतां मधुरया गिरा || १||

का नु पद्मपलाशाक्षी क्लिष्टकौशेयवासिनी |
द्रुमस्य शाखामालम्ब्य तिष्ठसि त्वमनिन्दिता || २||

किमर्थं तव नेत्राभ्यां वारि स्रवति शोकजम् |
पुण्डरीकपलाशाभ्यां विप्रकीर्णमिवोदकम् || ३||

सुराणामसुराणां च नागगन्धर्वरक्षसाम् |
यक्षाणां किंनराणां च का त्वं भवसि शोभने || ४||

का त्वं भवसि रुद्राणां मरुतां वा वरानने |
वसूनां वा वरारोहे देवता प्रतिभासि मे || ५||

किं नु चन्द्रमसा हीना पतिता विबुधालयात् |
रोहिणी ज्योतिषां श्रेष्ठा श्रेष्ठा सर्वगुणान्विता || ६||

कोपाद्वा यदि वा मोहाद्भर्तारमसितेक्षणा |
वसिष्ठं कोपयित्वा त्वं नासि कल्याण्यरुन्धती || ७||

को नौ पुत्रः पिता भ्रात भर्ता वा ते सुमध्यमे |
अस्माल्लोकादमुं लोकं गतं त्वमनुशोचसि || ८||

व्यञ्जनानि हि ते यानि लक्षणानि च लक्षये |
महिषी भूमिपालस्य राजकन्यासि मे मता || ९||

रावणेन जनस्थानाद्बलादपहृता यदि |
सीता त्वमसि भद्रं ते तन्ममाचक्ष्व पृच्छतः || १०||

सा तस्य वचनं श्रुत्वा रामकीर्तनहर्षिता |
उवाच वाक्यं वैदेही हनूमन्तं द्रुमाश्रितम् || ११||

दुहिता जनकस्याहं वैदेहस्य महात्मनः |
सीता च नाम नाम्नाहं भार्या रामस्य धीमतः || १२||

समा द्वादश तत्राहं राघवस्य निवेशने |
भुञ्जाना मानुषान्भोगान्सर्वकामसमृद्धिनी || १३||

ततस्त्रयोदशे वर्षे राज्येनेक्ष्वाकुनन्दनम् |
अभिषेचयितुं राजा सोपाध्यायः प्रचक्रमे || १४||

तस्मिन्सम्भ्रियमाणे तु राघवस्याभिषेचने |
कैकेयी नाम भर्तारं देवी वचनमब्रवीत् || १५||

न पिबेयं न खादेयं प्रत्यहं मम भोजनम् |
एष मे जीवितस्यान्तो रामो यद्यभिषिच्यते || १६||

यत्तदुक्तं त्वया वाक्यं प्रीत्या नृपतिसत्तम |
तच्चेन्न वितथं कार्यं वनं गच्छतु राघवः || १७||

स राजा सत्यवाग्देव्या वरदानमनुस्मरन् |
मुमोह वचनं श्रुत्वा कैकेय्याः क्रूरमप्रियम् || १८||

ततस्तु स्थविरो राजा सत्यधर्मे व्यवस्थितः |
ज्येष्ठं यशस्विनं पुत्रं रुदन्राज्यमयाचत || १९||

स पितुर्वचनं श्रीमानभिषेकात्परं प्रियम् |
मनसा पूर्वमासाद्य वाचा प्रतिगृहीतवान् || २०||

दद्यान्न प्रतिगृह्णीयान्न ब्रूयत्किं चिदप्रियम् |
अपि जीवितहेतोर्हि रामः सत्यपराक्रमः || २१||

स विहायोत्तरीयाणि महार्हाणि महायशाः |
विसृज्य मनसा राज्यं जनन्यै मां समादिशत् || २२||

साहं तस्याग्रतस्तूर्णं प्रस्थिता वनचारिणी |
न हि मे तेन हीनाया वासः स्वर्गेऽपि रोचते || २३||

प्रागेव तु महाभागः सौमित्रिर्मित्रनन्दनः |
पूर्वजस्यानुयात्रार्थे द्रुमचीरैरलङ्कृतः || २४||

ते वयं भर्तुरादेशं बहु मान्यदृढव्रताः |
प्रविष्टाः स्म पुराद्दृष्टं वनं गम्भीरदर्शनम् || २५||

वसतो दण्डकारण्ये तस्याहममितौजसः |
रक्षसापहृता भार्या रावणेन दुरात्मना || २६||

द्वौ मासौ तेन मे कालो जीवितानुग्रहः कृतः |
ऊर्ध्वं द्वाभ्यां तु मासाभ्यां ततस्त्यक्ष्यामि जीवितम् || २७||

27

1038

Descending from the tree, Shri Hanuman approaches Seetha and queried her to clarify him whether she is the wife of Shri Rama. Seeta confirms that she is indeed Seeta.

34

तस्यास्तद्वचनं श्रुत्वा हनूमान्हरियूथपः |
दुःखाद्दुःखाभिभूतायाः सान्तमुत्तरमब्रवीत् || १||

अहं रामस्य सन्देशाद्देवि दूतस्तवागतः |
वैदेहि कुशली रामस्त्वां च कौशलमब्रवीत् || २||

यो ब्राह्ममस्त्रं वेदांश्च वेद वेदविदां वरः |
स त्वां दाशरथी रामो देवि कौशलमब्रवीत् || ३||

लक्ष्मणश्च महातेजा भर्तुस्तेऽनुचरः प्रियः |
कृतवाञ्शोकसन्तप्तः शिरसा तेऽभिवादनम् || ४||

सा तयोः कुशलं देवी निशम्य नरसिंहयोः |
प्रीतिसंहृष्टसर्वाङ्गी हनूमान्तमथाब्रवीत् || ५||

कल्याणी बत गथेयं लौकिकी प्रतिभाति मे |
एहि जीवन्तमानदो नरं वर्षशतादपि || ६||

तयोः समागमे तस्मिन्प्रीतिरुत्पादिताद्भुता |
परस्परेण चालापं विश्वस्तौ तौ प्रचक्रतुः || ७||

तस्यास्तद्वचनं श्रुत्वा हनूमान्हरियूथपः |
सीतायाः शोकदीनायाः समीपमुपचक्रमे || ८||

यथा यथा समीपं स हनूमानुपसर्पति |
तथा तथा रावणं सा तं सीता परिशङ्कते || ९||

अहो धिग्धिक्कृतमिदं कथितं हि यदस्य मे |
रूपान्तरमुपागम्य स एवायं हि रावणः || १०||

तामशोकस्य शाखां सा विमुक्त्वा शोककर्शिता |
तस्यामेवानवद्याङ्गी धरण्यां समुपाविशत् || ११||

अवन्दत महाबाहुस्ततस्तां जनकात्मजाम् |
सा चैनं भयवित्रस्ता भूयो नैवाभ्युदैक्षत || १२||

तं दृष्ट्वा वन्दमानं तु सीता शशिनिभानना |
अब्रवीद्दीर्घमुच्छ्वस्य वानरं मधुरस्वरा || १३||

मायां प्रविष्टो मायावी यदि त्वं रावणः स्वयम् |
उत्पादयसि मे भूयः सन्तापं तन्न शोभनम् || १४||

स्वं परित्यज्य रूपं यः परिव्राजकरूपधृत् |
जनस्थाने मया दृष्टस्त्वं स एवासि रावणः || १५||

उपवासकृशां दीनां कामरूप निशाचर |
सन्तापयसि मां भूयः सन्तापं तन्न शोभनम् || १६||

यदि रामस्य दूतस्त्वमागतो भद्रमस्तु ते |
पृच्छामि त्वां हरिश्रेष्ठ प्रिया राम कथा हि मे || १७||

गुणान्रामस्य कथय प्रियस्य मम वानर |
चित्तं हरसि मे सौम्य नदीकूलं यथा रयः || १८||

अहो स्वप्नस्य सुखता याहमेवं चिराहृता |
प्रेषितं नाम पश्यामि राघवेण वनौकसं || १९||

स्वप्नेऽपि यद्यहं वीरं राघवं सहलक्ष्मणम् |
पश्येयं नावसीदेयं स्वप्नोऽपि मम मत्सरी || २०||

नाहं स्वप्नमिमं मन्ये स्वप्ने दृष्ट्वा हि वानरम् |
न शक्योऽभ्युदयः प्राप्तुं प्राप्तश्चाभ्युदयो मम || २१||

किं नु स्याच्चित्तमोहोऽयं भवेद्वातगतिस्त्वियम् |
उन्मादजो विकारो वा स्यादियं मृगतृष्णिका || २२||

अथ वा नायमुन्मादो मोहोऽप्युन्मादलक्ष्मणः |
सम्बुध्ये चाहमात्मानमिमं चापि वनौकसं || २३||

इत्येवं बहुधा सीता सम्प्रधार्य बलाबलम् |
रक्षसां कामरूपत्वान्मेने तं राक्षसाधिपम् || २४||

एतां बुद्धिं तदा कृत्वा सीता सा तनुमध्यमा |
न प्रतिव्याजहाराथ वानरं जनकात्मजा || २५||

सीतायाश्चिन्तितं बुद्ध्वा हनूमान्मारुतात्मजः |
श्रोत्रानुकूलैर्वचनैस्तदा तां सम्प्रहर्षयत् || २६||

आदित्य इव तेजस्वी लोककान्तः शशी यथा |
राजा सर्वस्य लोकस्य देवो वैश्रवणो यथा || २७||

विक्रमेणोपपन्नश्च यथा विष्णुर्महायशाः |
सत्यवादी मधुरवाग्देवो वाचस्पतिर्यथा || २८||

रूपवान्सुभगः श्रीमान्कन्दर्प इव मूर्तिमान् |
स्थानक्रोधप्रहर्ता च श्रेष्ठो लोके महारथः |
बाहुच्छायामवष्टब्धो यस्य लोको महात्मनः || २९||

अपकृष्याश्रमपदान्मृगरूपेण राघवम् |
शून्ये येनापनीतासि तस्य द्रक्ष्यसि यत्फलम् || ३०||

नचिराद्रावणं सङ्ख्ये यो वधिष्यति वीर्यवान् |
रोषप्रमुक्तैरिषुभिर्ज्वलद्भिरिव पावकैः || ३१||

तेनाहं प्रेषितो दूतस्त्वत्सकाशमिहागतः |
त्वद्वियोगेन दुःखार्तः स त्वां कौशलमब्रवीत् || ३२||

लक्ष्मणश्च महातेजाः सुमित्रानन्दवर्धनः |
अभिवाद्य महाबाहुः सोऽपि कौशलमब्रवीत् || ३३||

रामस्य च सखा देवि सुग्रीवो नाम वानरः |
राजा वानरमुख्यानां स त्वां कौशलमब्रवीत् || ३४||

नित्यं स्मरति रामस्त्वां ससुग्रीवः सलक्ष्मणः |
दिष्ट्या जीवसि वैदेहि राक्षसी वशमागता || ३५||

नचिराद्द्रक्ष्यसे रामं लक्ष्मणं च महारथम् |
मध्ये वानरकोटीनां सुग्रीवं चामितौजसं || ३६||

अहं सुग्रीवसचिवो हनूमान्नाम वानरः |
प्रविष्टो नगरीं लङ्कां लङ्घयित्वा महोदधिम् || ३७||

कृत्वा मूर्ध्नि पदन्यासं रावणस्य दुरात्मनः |
त्वां द्रष्टुमुपयातोऽहं समाश्रित्य पराक्रमम् || ३८||

नाहमस्मि तथा देवि यथा माम् अवगच्छसि |
विशङ्का त्यज्यतामेषा श्रद्धत्स्व वदतो मम || ३९||

39

1077

Hearing the pitiable words of Seetha, Shri Hanuman reveals himself to be a messenger of Shri Rama and moves closer to her, thinking that she might have believed him. Seetha, however, suspects Shri Hanuman to be Ravana in another disguise and scolds him for trying to deceive her for one more time. Shri Hanuman then says he is the minister of Sugreeva.

इत्यार्षे श्री रामायणे सुन्दरकाण्डे द्वादश: भाग:

 

Sundarakāṇḍa Part-11

Sundarakāṇḍa Part-13

 

No comments:

Post a Comment