Saturday, January 3, 2026

सुन्दरकाण्ड - Sundarakāṇḍa (भाग - ११ ;;; Part – 11)

 

सुन्दरकाण्ड - Sundarakāṇḍa (भाग - ११ ;;; Part – 11)

Sarga number as per Ramayana

Shlokas extracted

No. of shlokas

Cumulative number of shlokas in this Kanda

27

इत्युक्ताः सीतया घोरं राक्षस्यः क्रोधमूर्छिताः |
काश्चिज्जग्मुस्तदाख्यातुं रावणस्य तरस्विनः || १||

ततः सीतामुपागम्य राक्षस्यो घोरदर्शनाः |
पुनः परुषमेकार्थमनर्थार्थमथाब्रुवन् || २||

हन्तेदानीं तवानार्ये सीते पापविनिश्चये |
राक्षस्यो भक्षयिष्यन्ति मांसमेतद्यथासुखम् || ३||

सीतां ताभिरनार्याभिर्दृष्ट्वा सन्तर्जितां तदा |
राक्षसी त्रिजटावृद्धा शयाना वाक्यमब्रवीत् || ४||

आत्मानं खादतानार्या न सीतां भक्षयिष्यथ |
जनकस्य सुतामिष्टां स्नुषां दशरथस्य च || ५||

स्वप्नो ह्यद्य मया दृष्टो दारुणो रोमहर्षणः |
राक्षसानामभावाय भर्तुरस्या भवाय च || ६||

एवमुक्तास्त्रिजटया राक्षस्यः क्रोधमूर्छिताः |
सर्वा एवाब्रुवन्भीतास्त्रिजटां तामिदं वचः || ७||

कथयस्व त्वया दृष्टः स्वप्नेऽयं कीदृशो निशि || ८||

तासां श्रुत्वा तु वचनं राक्षसीनां मुखोद्गतम् |
उवाच वचनं काले त्रिजटास्वप्नसंश्रितम् || ९||

गजदन्तमयीं दिव्यां शिबिकामन्तरिक्षगाम् |
युक्तां वाजिसहस्रेण स्वयमास्थाय राघवः || १०||

स्वप्ने चाद्य मया दृष्टा सीता शुक्लाम्बरावृता |
सागरेण परिक्षिप्तं श्वेतपर्वतमास्थिता |
रामेण सङ्गता सीता भास्करेण प्रभा यथा || ११||

राघवश्च मया दृष्टश्चतुर्दन्तं महागजम् |
आरूढः शैलसङ्काशं चचार सहलक्ष्मणः || १२||

ततस्तौ नरशार्दूलौ दीप्यमानौ स्वतेजसा |
शुक्लमाल्याम्बरधरौ जानकीं पर्युपस्थितौ || १३||

ततस्तस्य नगस्याग्रे आकाशस्थस्य दन्तिनः |
भर्त्रा परिगृहीतस्य जानकी स्कन्धमाश्रिता || १४||

भर्तुरङ्कात्समुत्पत्य ततः कमललोचना |
चन्द्रसूर्यौ मया दृष्टा पाणिभ्यां परिमार्जती || १५||

ततस्ताभ्यां कुमाराभ्यामास्थितः स गजोत्तमः |
सीतया च विशालाक्ष्या लङ्काया उपरि स्थितः || १६||

पाण्डुरर्षभयुक्तेन रथेनाष्टयुजा स्वयम् |
शुक्लमाल्याम्बरधरो लक्ष्मणेन समागतः |
लक्ष्मणेन सह भ्रात्रा सीतया सह भार्यया || १७||

विमानात्पुष्पकादद्य रावणः पतितो भुवि |
कृष्यपाणः स्त्रिया दृष्टो मुण्डः कृष्णाम्बरः पुनः || १८||

रथेन खरयुक्तेन रक्तमाल्यानुलेपनः |
प्रयातो दक्षिणामाशां प्रविष्टः कर्दमं ह्रदम् || १९||

कण्ठे बद्ध्वा दशग्रीवं प्रमदा रक्तवासिनी |
काली कर्दमलिप्ताङ्गी दिशं याम्यां प्रकर्षति || २०||

वराहेण दशग्रीवः शिंशुमारेण चेन्द्रजित् |
उष्ट्रेण कुम्भकर्णश्च प्रयातो दक्षिणां दिशम् || २१||

समाजश्च महान्वृत्तो गीतवादित्रनिःस्वनः |
पिबतां रक्तमाल्यानां रक्षसां रक्तवाससाम् || २२||

लङ्का चेयं पुरी रम्या सवाजिरथसङ्कुला |
सागरे पतिता दृष्टा भग्नगोपुरतोरणा || २३||

पीत्व तैलं प्रनृत्ताश्च प्रहसन्त्यो महास्वनाः |
लङ्कायां भस्मरूक्षायां सर्वा राक्षसयोषितः || २४||

कुम्भकर्णादयश्चेमे सर्वे राक्षसपुङ्गवाः |
रक्तं निवसनं गृह्य प्रविष्टा गोमयह्रदे || २५||

अपगच्छत नश्यध्वं सीतामाप्नोति राघवः |
घातयेत्परमामर्षी सर्वैः सार्धं हि राक्षसैः || २६||

प्रियां बहुमतां भार्यां वनवासमनुव्रताम् |
भर्त्सितां तर्जितां वापि नानुमंस्यति राघवः || २७||

तदलं क्रूरवाक्यैर्वः सान्त्वमेवाभिधीयताम् |
अभियाचाम वैदेहीम् एतद्धि मम रोचते || २८||

यस्या ह्येवं विधः स्वप्नो दुःखितायाः प्रदृश्यते |
सा दुःखैर्बहुभिर्मुक्ता प्रियं प्राप्नोत्यनुत्तमम् || २९||

भर्त्सितामपि याचध्वं राक्षस्यः किं विवक्षया |
राघवाद्धि भयं घोरं राक्षसानाम् उपस्थितम् || ३०||

प्रणिपात प्रसन्ना हि मैथिली जनकात्मजा |
अलमेषा परित्रातुं राक्षस्यो महतो भयात् || ३१||

अपि चास्या विशालाक्ष्या न किं चिदुपलक्षये |
विरुद्धमपि चाङ्गेषु सुसूक्ष्ममपि लक्ष्मणम् || ३२||

छाया वैगुण्य मात्रं तु शङ्के दुःखमुपस्थितम् |
अदुःखार्हामिमां देवीं वैहायसमुपस्थिताम् || ३३||

अर्थसिद्धिं तु वैदेह्याः पश्याम्यहमुपस्थिताम् |
राक्षसेन्द्रविनाशं च विजयं राघवस्य च || ३४||

निमित्तभूतमेतत्तु श्रोतुमस्या महत्प्रियम् |
दृश्यते च स्फुरच्चक्षुः पद्मपत्रमिवायतम् || ३५||

ईषच्च हृषितो वास्या दक्षिणाया ह्यदक्षिणः |
अकस्मादेव वैदेह्या बाहुरेकः प्रकम्पते || ३६||

करेणुहस्तप्रतिमः सव्यश्चोरुरनुत्तमः |
वेपन्सूचयतीवास्या राघवं पुरतः स्थितम् || ३७||

पक्षी च शाखा निलयं प्रविष्टः
पुनः पुनश्चोत्तमसान्त्ववादी |
सुखागतां वाचमुदीरयाणः
पुनः पुनश्चोदयतीव हृष्टः || ३८||

38

947

An old demoness Trijata, wakes up, and stops the other women demons from harassing Seeta, stating that she had a bad dream indicating danger to Ravana and the Lanka. She describes her dream in which she sees triumph of Sri Rama and defeat of Ravana and other demons.

30

हनुमानपि विक्रान्तः सर्वं शुश्राव तत्त्वतः |
सीतायास्त्रिजटायाश्च राक्षसीनां च तर्जनम् || १||

अवेक्षमाणस्तां देवीं देवताम् इव नन्दने |
ततो बहुविधां चिन्तां चिन्तयामास वानरः || २||

यां कपीनां सहस्राणि सुबहून्ययुतानि च |
दिक्षु सर्वासु मार्गन्ते सेयमासादिता मया || ३||

चारेण तु सुयुक्तेन शत्रोः शक्तिमवेक्षिता |
गूढेन चरता तावदवेक्षितमिदं मया || ४||

राक्षसानां विशेषश्च पुरी चेयमवेक्षिता |
राक्षसाधिपतेरस्य प्रभावो रावणस्य च || ५||

युक्तं तस्याप्रमेयस्य सर्वसत्त्वदयावतः |
समाश्वासयितुं भार्यां पतिदर्शनकाङ्क्षिणीम् || ६||

अहमाश्वासयाम्येनां पूर्णचन्द्रनिभाननाम् |
अदृष्टदुःखां दुःखस्य न ह्यन्तमधिगच्छतीम् || ७||

यदि ह्यहमिमां देवीं शोकोपहतचेतनाम् |
अनाश्वास्य गमिष्यामि दोषवद्गमनं भवेत् || ८||

गते हि मयि तत्रेयं राजपुत्री यशस्विनी |
परित्राणमविन्दन्ती जानकी जीवितं त्यजेत् || ९||

मया च स महाबाहुः पूर्णचन्द्रनिभाननः |
समाश्वासयितुं न्याय्यः सीतादर्शनलालसः || १०||

निशाचरीणां प्रत्यक्षमक्षमं चाभिभाषणम् |
कथं नु खलु कर्तव्यमिदं कृच्छ्र गतो ह्यहम् || ११||

अनेन रात्रिशेषेण यदि नाश्वास्यते मया |
सर्वथा नास्ति सन्देहः परित्यक्ष्यति जीवितम् || १२||

रामश्च यदि पृच्छेन्मां किं मां सीताब्रवीद्वचः |
किमहं तं प्रतिब्रूयामसम्भाष्य सुमध्यमाम् || १३||

सीतासन्देशरहितं मामितस्त्वरया गतम् |
निर्दहेदपि काकुत्स्थः क्रुद्धस्तीव्रेण चक्षुषा || १४||

यदि चेद्योजयिष्यामि भर्तारं रामकारणात् |
व्यर्थमागमनं तस्य ससैन्यस्य भविष्यति || १५||

अन्तरं त्वहमासाद्य राक्षसीनामिह स्थितः |
शनैराश्वासयिष्यामि सन्तापबहुलामिमाम् || १६||

अहं ह्यतितनुश्चैव वनरश्च विशेषतः |
वाचं चोदाहरिष्यामि मानुषीमिह संस्कृताम् || १७||

यदि वाचं प्रदास्यामि द्विजातिरिव संस्कृताम् |
रावणं मन्यमाना मां सीता भीता भविष्यति || १८||

अवश्यमेव वक्तव्यं मानुषं वाक्यमर्थवत् |
मया सान्त्वयितुं शक्या नान्यथेयमनिन्दिता || १९||

सेयमालोक्य मे रूपं जानकी भाषितं तथा |
रक्षोभिस्त्रासिता पूर्वं भूयस्त्रासं गमिष्यति || २०||

ततो जातपरित्रासा शब्दं कुर्यान्मनस्विनी |
जानमाना विशालाक्षी रावणं कामरूपिणम् || २१||

सीतया च कृते शब्दे सहसा राक्षसीगणः |
नानाप्रहरणो घोरः समेयादन्तकोपमः || २२||

ततो मां सम्परिक्षिप्य सर्वतो विकृताननाः |
वधे च ग्रहणे चैव कुर्युर्यत्नं यथाबलम् || २३||

तं मां शाखाः प्रशाखाश्च स्कन्धांश्चोत्तमशाखिनाम् |
दृष्ट्वा विपरिधावन्तं भवेयुर्भयशङ्किताः || २४||

मम रूपं च सम्प्रेक्ष्य वनं विचरतो महत् |
राक्षस्यो भयवित्रस्ता भवेयुर्विकृताननाः || २५||

ततः कुर्युः समाह्वानं राक्षस्यो रक्षसाम् अपि |
राक्षसेन्द्रनियुक्तानां राक्षसेन्द्रनिवेशने || २६||

ते शूलशरनिस्त्रिंश विविधायुधपाणयः |
आपतेयुर्विमर्देऽस्मिन्वेगेनोद्विग्नकारिणः || २७||

सङ्क्रुद्धस्तैस्तु परितो विधमन्रक्षसां बलम् |
शक्नुयं न तु सम्प्राप्तुं परं पारं महोदधेः || २८||

मां वा गृह्णीयुराप्लुत्य बहवः शीघ्रकारिणः |
स्यादियं चागृहीतार्था मम च ग्रहणं भवेत् || २९||

हिंसाभिरुचयो हिंस्युरिमां वा जनकात्मजाम् |
विपन्नं स्यात्ततः कार्यं रामसुग्रीवयोरिदम् || ३०||

उद्देशे नष्टमार्गेऽस्मिन्राक्षसैः परिवारिते |
सागरेण परिक्षिप्ते गुप्ते वसति जानकी || ३१||

विशस्ते वा गृहीते वा रक्षोभिर्मयि संयुगे |
नान्यं पश्यामि रामस्य सहायं कार्यसाधने || ३२||

विमृशंश्च न पश्यामि यो हते मयि वानरः |
शतयोजनविस्तीर्णं लङ्घयेत महोदधिम् || ३३||

कामं हन्तुं समर्थोऽस्मि सहस्राण्यपि रक्षसाम् |
न तु शक्ष्यामि सम्प्राप्तुं परं पारं महोदधेः || ३४||

असत्यानि च युद्धानि संशयो मे न रोचते |
कश्च निःसंशयं कार्यं कुर्यात्प्राज्ञः ससंशयम् || ३५||

एष दोषो महान्हि स्यान्मम सीताभिभाषणे |
प्राणत्यागश्च वैदेह्या भवेदनभिभाषणे || ३६||

भूताश्चार्था विनश्यन्ति देशकालविरोधिताः |
विक्लवं दूतमासाद्य तमः सूर्योदये यथा || ३७||

अर्थानर्थान्तरे बुद्धिर्निश्चितापि न शोभते |
घातयन्ति हि कार्याणि दूताः पण्डितमानिनः || ३८||

न विनश्येत्कथं कार्यं वैक्लव्यं न कथं भवेत् |
लङ्घनं च समुद्रस्य कथं नु न वृथा भवेत् || ३९||

कथं नु खलु वाक्यं मे शृणुयान्नोद्विजेत च |
इति सञ्चिन्त्य हनुमांश्चकार मतिमान्मतिम् || ४०||

राममक्लिष्टकर्माणं स्वबन्धुमनुकीर्तयन् |
नैनामुद्वेजयिष्यामि तद्बन्धुगतमानसाम् || ४१||

इक्ष्वाकूणां वरिष्ठस्य रामस्य विदितात्मनः |
शुभानि धर्मयुक्तानि वचनानि समर्पयन् || ४२||

श्रावयिष्यामि सर्वाणि मधुरां प्रब्रुवन्गिरम् |
श्रद्धास्यति यथा हीयं तथा सर्वं समादधे || ४३||

इति स बहुविधं महानुभावो
जगतिपतेः प्रमदामवेक्षमाणः |
मधुरमवितथं जगाद वाक्यं
द्रुमविटपान्तरमास्थितो हनूमान् || ४४||

44

991

Shri Hanuman, who has been observing all the incidents happening in the Ashoka Garden from the Shimshupa Tree top, ponders over whether to console Seetha or to remain silent, as Seeta was in the mood of committing suicide. Finally, Shri Hanuman decides to console Seetha, by narrating the story of Shri Rama, so that Seetha can realise that he was from the Shri Rama’s side.

31

एवं बहुविधां चिन्तां चिन्तयित्व महाकपिः |
संश्रवे मधुरं वाक्यं वैदेह्या व्याजहार ह || १||

राजा दशरथो नाम रथकुञ्जरवाजिनाम् |
पुण्यशीलो महाकीर्तिरृजुरासीन्महायशाः |
चक्रवर्तिकुले जातः पुरन्दरसमो बले || २||

अहिंसारतिरक्षुद्रो घृणी सत्यपराक्रमः |
मुख्यश्चेक्ष्वाकुवंशस्य लक्ष्मीवाँल्लक्ष्मिवर्धनः || ३||

पार्थिवव्यञ्जनैर्युक्तः पृथुश्रीः पार्थिवर्षभः |
पृथिव्यां चतुरन्तयां विश्रुतः सुखदः सुखी || ४||

तस्य पुत्रः प्रियो ज्येष्ठस्ताराधिपनिभाननः |
रामो नाम विशेषज्ञः श्रेष्ठः सर्वधनुष्मताम् || ५||

रक्षिता स्वस्य वृत्तस्य स्वजनस्यापि रक्षिता |
रक्षिता जीवलोकस्य धर्मस्य च परन्तपः || ६||

तस्य सत्याभिसन्धस्य वृद्धस्य वचनात्पितुः |
सभार्यः सह च भ्रात्रा वीरः प्रव्रजितो वनम् || ७||

तेन तत्र महारण्ये मृगयां परिधावता |
जनस्थानवधं श्रुत्वा हतौ च खरदूषणौ |
ततस्त्वमर्षापहृता जानकी रावणेन तु || ८||

यथारूपां यथावर्णां यथालक्ष्मीं विनिश्चिताम् |
अश्रौषं राघवस्याहं सेयमासादिता मया || ९||

विररामैवमुक्त्वासौ वाचं वानरपुङ्गवः |
जानकी चापि तच्छ्रुत्वा विस्मयं परमं गता || १०||

ततः सा वक्रकेशान्ता सुकेशी केशसंवृतम् |
उन्नम्य वदनं भीरुः शिंशपावृक्षमैक्षत || ११||

सा तिर्यगूर्ध्वं च तथाप्यधस्तान्
निरीक्षमाणा तमचिन्त्य बुद्धिम् |
ददर्श पिङ्गाधिपतेरमात्यं
वातात्मजं सूर्यमिवोदयस्थम् || १२||

12

1003

Shri Hanuman began to narrate the story of Shri Rama from his birth to till his sending vanaras in search of Seeta and his coming toto Lanka and seeing Seetha. Hearing the narration of Shri Hanuman, Seetha was excited and finds Shri Hanuman, in a shrank form, perched on Shimshupa tree.

इत्यार्षे श्री रामायणे सुन्दरकाण्डे एकादश: भाग:

 

Sundarakāṇḍa Part-10

Sundarakāṇḍa Part-12

 

 

No comments:

Post a Comment