Saturday, January 3, 2026

सुन्दरकाण्ड - Sundarakāṇḍa (भाग - १४ ;;; Part – 14)

 

सुन्दरकाण्ड - Sundarakāṇḍa (भाग - १४ ;;; Part – 14)

Sarga number as per Ramayana

Shlokas extracted

No. of shlokas

Cumulative number of shlokas in this Kanda

36

भूय एव महातेजा हनूमान्मारुतात्मजः |
अब्रवीत्प्रश्रितं वाक्यं सीताप्रत्ययकारणात् || १||

वानरोऽहं महाभागे दूतो रामस्य धीमतः |
रामनामाङ्कितं चेदं पश्य देव्यङ्गुलीयकम् |
समाश्वसिहि भद्रं ते क्षीणदुःखफला ह्यसि || २||

गृहीत्वा प्रेक्षमाणा सा भर्तुः करविभूषणम् |
भर्तारमिव सम्प्राप्ता जानकी मुदिताभवत् || ३||

चारु तद्वदनं तस्यास्ताम्रशुक्लायतेक्षणम् |
बभूव प्रहर्षोदग्रं राहुमुक्त इवोडुराट् || ४||

ततः सा ह्रीमती बाला भर्तुः सन्देशहर्षिता |
परितुट्षा प्रियं श्रुत्वा प्राशंसत महाकपिम् || ५||

विक्रान्तस्त्वं समर्थस्त्वं प्राज्ञस्त्वं वानरोत्तम |
येनेदं राक्षसपदं त्वयैकेन प्रधर्षितम् || ६||

शतयोजनविस्तीर्णः सागरो मकरालयः |
विक्रमश्लाघनीयेन क्रमता गोष्पदीकृतः || ७||

न हि त्वां प्राकृतं मन्ये वनरं वनरर्षभ |
यस्य ते नास्ति सन्त्रासो रावणान्नापि सम्भ्रमः || ८||

अर्हसे च कपिश्रेष्ठ मया समभिभाषितुम् |
यद्यसि प्रेषितस्तेन रामेण विदितात्मना || ९||

प्रेषयिष्यति दुर्धर्षो रामो न ह्यपरीक्षितम् |
पराक्रममविज्ञाय मत्सकाशं विशेषतः || १०||

दिष्ट्या च कुशली रामो धर्मात्मा धर्मवत्सलः |
लक्ष्मणश्च महातेजाः सुमित्रानन्दवर्धनः || ११||

कुशली यदि काकुत्स्थः किं नु सागरमेखलाम् |
महीं दहति कोपेन युगान्ताग्निरिवोत्थितः || १२||

अथ वा शक्तिमन्तौ तौ सुराणाम् अपि निग्रहे |
ममैव तु न दुःखानामस्ति मन्ये विपर्ययः || १३||

कच्चिच्च व्यथते रामः कच्चिन्न परिपत्यते |
उत्तराणि च कार्याणि कुरुते पुरुषोत्तमः || १४||

कच्चिन्न दीनः सम्भ्रान्तः कार्येषु च न मुह्यति |
कच्चिन्पुरुषकार्याणि कुरुते नृपतेः सुतः || १५||

द्विविधं त्रिविधोपायमुपायमपि सेवते |
विजिगीषुः सुहृत्कच्चिन्मित्रेषु च परन्तपः || १६||

कच्चिन्मित्राणि लभते मित्रैश्चाप्यभिगम्यते |
कच्चित्कल्याणमित्रश्च मित्रैश्चापि पुरस्कृतः || १७||

कच्चिदाशास्ति देवानां प्रसादं पार्थिवात्मजः |
कच्चित्पुरुषकारं च दैवं च प्रतिपद्यते || १८||

कच्चिन्न विगतस्नेहो विवासान्मयि राघवः |
कच्चिन्मां व्यसनादस्मान्मोक्षयिष्यति वानरः || १९||

सुखानामुचितो नित्यमसुखानामनूचितः |
दुःखमुत्तरमासाद्य कच्चिद्रामो न सीदति || २०||

कौसल्यायास्तथा कच्चित्सुमित्रायास्तथैव च |
अभीक्ष्णं श्रूयते कच्चित्कुशलं भरतस्य च || २१||

मन्निमित्तेन मानार्हः कच्चिच्छोकेन राघवः |
कच्चिन्नान्यमना रामः कच्चिन्मां तारयिष्यति || २२||

कच्चिदक्षाउहिंई.म् भीमा.म् भरतो भ्रात्र्वत्सल् |
ध्वजिनीं मन्त्रिभिर्गुप्तां प्रेषयिष्यति मत्कृते || २३||

वानराधिपतिः श्रीमान्सुग्रीवः कच्चिदेष्यति |
मत्कृते हरिभिर्वीरैर्वृतो दन्तनखायुधैः || २४||

कच्चिच्च लक्ष्मणः शूरः सुमित्रानन्दवर्धनः |
अस्त्रविच्छरजालेन राक्षसान्विधमिष्यति || २५||

रौद्रेण कच्चिदस्त्रेण रामेण निहतं रणे |
द्रक्ष्याम्यल्पेन कालेन रावणं ससुहृज्जनम् || २६||

कच्चिन्न तद्धेमसमानवर्णं
तस्याननं पद्मसमानगन्धि |
मया विना शुष्यति शोकदीनं
जलक्षये पद्ममिवातपेन || २७||

धर्मापदेशात्त्यजतश्च राज्यां
मां चाप्यरण्यं नयतः पदातिम् |
नासीद्व्यथा यस्य न भीर्न शोकः
कच्चित्स धैर्यं हृदये करोति || २८||

न चास्य माता न पिता न चान्यः
स्नेहाद्विशिष्टोऽस्ति मया समो वा |
तावद्ध्यहं दूतजिजीविषेयं
यावत्प्रवृत्तिं शृणुयां प्रियस्य || २९||

इतीव देवी वचनं महार्थं
तं वानरेन्द्रं मधुरार्थमुक्त्वा |
श्रोतुं पुनस्तस्य वचोऽभिरामं
रामार्थयुक्तं विरराम रामा || ३०||

सीताया वचनं श्रुत्वा मारुतिर्भीमविक्रमः |
शिरस्यञ्जलिमाधाय वाक्यमुत्तरमब्रवीत् || ३१||

न त्वामिहस्थां जानीते रामः कमललोचनः |
श्रुत्वैव तु वचो मह्यं क्षिप्रमेष्यति राघवः || ३२||

चमूं प्रकर्षन्महतीं हर्यृष्कगणसङ्कुलाम् |
विष्टम्भयित्वा बाणौघैरक्षोभ्यं वरुणालयम् |
करिष्यति पुरीं लङ्कां काकुत्स्थः शान्तराक्षसाम् || ३३||

तत्र यद्यन्तरा मृत्युर्यदि देवाः सहासुराः |
स्थास्यन्ति पथि रामस्य स तानपि वधिष्यति || ३४||

तवादर्शनजेनार्ये शोकेन स परिप्लुतः |
न शर्म लभते रामः सिंहार्दित इव द्विपः || ३५||

दर्दरेण च ते देवि शपे मूलफलेन च |
मलयेन च विन्ध्येन मेरुणा मन्दरेण च || ३६||

यथा सुनयनं वल्गु बिम्बौष्ठं चारुकुण्डलम् |
मुखं द्रक्ष्यसि रामस्य पूर्णचन्द्रमिवोदितम् || ३७||

क्षिप्रं द्रक्ष्यसि वैदेहि रामं प्रस्रवणे गिरौ |
शतक्रतुमिवासीनं नाकपृष्ठस्य मूर्धनि || ३८||

न मांसं राघवो भुङ्क्ते न चापि मधुसेवते |
वन्यं सुविहितं नित्यं भक्तमश्नाति पञ्चमम् || ३९||

नैव दंशान्न मशकान्न कीटान्न सरीसृपान् |
राघवोऽपनयेद्गत्रात्त्वद्गतेनान्तरात्मना || ४०||

नित्यं ध्यानपरो रामो नित्यं शोकपरायणः |
नान्यच्चिन्तयते किं चित्स तु कामवशं गतः || ४१||

अनिद्रः सततं रामः सुप्तोऽपि च नरोत्तमः |
सीतेति मधुरां वाणीं व्याहरन्प्रतिबुध्यते || ४२||

दृष्ट्वा फलं वा पुष्पं वा यच्चान्यत्स्त्रीमनोहरम् |
बहुशो हा प्रियेत्येवं श्वसंस्त्वामभिभाषते || ४३||

स देवि नित्यं परितप्यमानस्
त्वामेव सीतेत्यभिभाषमाणः |
धृतव्रतो राजसुतो महात्मा
तवैव लाभाय कृतप्रयत्नः || ४४||

सा रामसङ्कीर्तनवीतशोका
रामस्य शोकेन समानशोका |
शरन्मुखेनाम्बुदशेषचन्द्रा
निशेव वैदेहसुता बभूव || ४५||

45

1202

Shri Hanuman gives Seetha, the signet ring sent by Shri Rama through him. Seetha praises Shri Hanuman for flying over the sea single handedly. She expresses her hope to Shri Hanuman that Shri Rama, Lakshmana would come to Lanka to defeat Ravana, for her sake. Shri Hanuman assures her that Rama would appear before her shortly.

37

सीता तद्वचनं श्रुत्वा पूर्णचन्द्रनिभानना |
हनूमन्तमुवाचेदं धर्मार्थसहितं वचः || १||

अमृतं विषसंसृष्टं त्वया वानरभाषितम् |
यच्च नान्यमना रामो यच्च शोकपरायणः || २||

ऐश्वर्ये वा सुविस्तीर्णे व्यसने वा सुदारुणे |
रज्ज्वेव पुरुषं बद्ध्वा कृतान्तः परिकर्षति || ३||

विधिर्नूनमसंहार्यः प्राणिनां प्लवगोत्तम |
सौमित्रिं मां च रामं च व्यसनैः पश्य मोहितान् || ४||

शोकस्यास्य कदा पारं राघवोऽधिगमिष्यति |
प्लवमानः परिश्रान्तो हतनौः सागरे यथा || ५||

राक्षसानां क्षयं कृत्वा सूदयित्वा च रावणम् |
लङ्कामुन्मूलितां कृत्वा कदा द्रक्ष्यति मां पतिः || ६||

स वाच्यः सन्त्वरस्वेति यावदेव न पूर्यते |
अयं संवत्सरः कालस्तावद्धि मम जीवितम् || ७||

वर्तते दशमो मासो द्वौ तु शेषौ प्लवङ्गम |
रावणेन नृशंसेन समयो यः कृतो मम || ८||

विभीषणेन च भ्रात्रा मम निर्यातनं प्रति |
अनुनीतः प्रयत्नेन न च तत्कुरुते मतिम् || ९||

मम प्रतिप्रदानं हि रावणस्य न रोचते |
रावणं मार्गते सङ्ख्ये मृत्युः कालवशं गतम् || १०||

ज्येष्ठा कन्यानला नम विभीषणसुता कपे |
तया ममैतदाख्यातं मात्रा प्रहितया स्वयम् || ११||

अविन्ध्यो नाम मेधावी विद्वान्राक्षसपुङ्गवः |
धृतिमाञ्शीलवान्वृद्धो रावणस्य सुसंमतः || १२||

रामात्क्षयमनुप्राप्तं रक्षसां प्रत्यचोदयत् |
न च तस्यापि दुष्टात्मा शृणोति वचनं हितम् || १३||

आशंसेति हरिश्रेष्ठ क्षिप्रं मां प्राप्स्यते पतिः |
अन्तरात्मा हि मे शुद्धस्तस्मिंश्च बहवो गुणाः || १४||

उत्साहः पौरुषं सत्त्वमानृशंस्यं कृतज्ञता |
विक्रमश्च प्रभावश्च सन्ति वानरराघवे || १५||

चतुर्दशसहस्राणि राक्षसानां जघान यः |
जनस्थाने विना भ्रात्रा शत्रुः कस्तस्य नोद्विजेत् || १६||

न स शक्यस्तुलयितुं व्यसनैः पुरुषर्षभः |
अहं तस्यानुभावज्ञा शक्रस्येव पुलोमजा || १७||

शरजालांशुमाञ्शूरः कपे रामदिवाकरः |
शत्रुरक्षोमयं तोयमुपशोषं नयिष्यति || १८||

इति सञ्जल्पमानां तां रामार्थे शोककर्शिताम् |
अश्रुसम्पूर्णवदनामुवाच हनुमान्कपिः || १९||

श्रुत्वैव तु वचो मह्यं क्षिप्रमेष्यति राघवः |
चमूं प्रकर्षन्महतीं हर्यृक्षगणसङ्कुलाम् || २०||

अथ वा मोचयिष्यामि तामद्यैव हि राक्षसात् |
अस्माद्दुःखादुपारोह मम पृष्ठमनिन्दिते || २१||

त्वं हि पृष्ठगतां कृत्वा सन्तरिष्यामि सागरम् |
शक्तिरस्ति हि मे वोढुं लङ्कामपि सरावणाम् || २२||

अहं प्रस्रवणस्थाय राघवायाद्य मैथिलि |
प्रापयिष्यामि शक्राय हव्यं हुतमिवानलः || २३||

द्रक्ष्यस्यद्यैव वैदेहि राघवं सहलक्ष्मणम् |
व्यवसाय समायुक्तं विष्णुं दैत्यवधे यथा || २४||

त्वद्दर्शनकृतोत्साहमाश्रमस्थं महाबलम् |
पुरन्दरमिवासीनं नागराजस्य मूर्धनि || २५||

पृष्ठमारोह मे देवि मा विकाङ्क्षस्व शोभने |
योगमन्विच्छ रामेण शशाङ्केनेव रोहिणी || २६||

कथयन्तीव चन्द्रेण सूर्येणेव सुवर्चला |
मत्पृष्ठमधिरुह्य त्वं तराकाशमहार्णवम् || २७||

न हि मे सम्प्रयातस्य त्वामितो नयतोऽङ्गने |
अनुगन्तुं गतिं शक्ताः सर्वे लङ्कानिवासिनः || २८||

यथैवाहमिह प्राप्तस्तथैवाहमसंशयम् |
यास्यामि पश्य वैदेहि त्वामुद्यम्य विहायसं || २९||

मैथिली तु हरिश्रेष्ठाच्छ्रुत्वा वचनमद्भुतम् |
हर्षविस्मितसर्वाङ्गी हनूमन्तमथाब्रवीत् || ३०||

हनूमन्दूरमध्वनं कथं मां वोढुमिच्छसि |
तदेव खलु ते मन्ये कपित्वं हरियूथप || ३१||

कथं वाल्पशरीरस्त्वं माम् इतो नेतुमिच्छसि |
सकाशं मानवेन्द्रस्य भर्तुर्मे प्लवगर्षभ || ३२||

सीताया वचनं श्रुत्वा हनूमान्मारुतात्मजः |
चिन्तयामास लक्ष्मीवान्नवं परिभवं कृतम् || ३३||

न मे जानाति सत्त्वं वा प्रभावं वासितेक्षणा |
तस्मात्पश्यतु वैदेही यद्रूपं मम कामतः || ३४||

इति सञ्चिन्त्य हनुमांस्तदा प्लवगसत्तमः |
दर्शयामास वैदेह्याः स्वरूपमरिमर्दनः || ३५||

स तस्मात्पादपाद्धीमानाप्लुत्य प्लवगर्षभः |
ततो वर्धितुमारेभे सीताप्रत्ययकारणात् || ३६||

मेरुमन्दारसङ्काशो बभौ दीप्तानलप्रभः |
अग्रतो व्यवतस्थे च सीताया वानरर्षभः || ३७||

हरिः पर्वतसङ्काशस्ताम्रवक्त्रो महाबलः |
वज्रदंष्ट्रनखो भीमो वैदेहीमिदमब्रवीत् || ३८||

सपर्वतवनोद्देशां साट्टप्राकारतोरणाम् |
लङ्कामिमां सनथां वा नयितुं शक्तिरस्ति मे || ३९||

तदवस्थाप्य तां बुद्धिरलं देवि विकाङ्क्षया |
विशोकं कुरु वैदेहि राघवं सहलक्ष्मणम् || ४०||

तं दृष्ट्वाचलसङ्काशमुवाच जनकात्मजा |
पद्मपत्रविशालाक्षी मारुतस्यौरसं सुतम् || ४१||

तव सत्त्वं बलं चैव विजानामि महाकपे |
वायोरिव गतिं चापि तेजश्चाग्निरिवाद्भुतम् || ४२||

प्राकृतोऽन्यः कथं चेमां भूमिमागन्तुमर्हति |
उदधेरप्रमेयस्य पारं वानरपुङ्गव || ४३||

जानामि गमने शक्तिं नयने चापि ते मम |
अवश्यं साम्प्रधार्याशु कार्यसिद्धिरिहात्मनः || ४४||

अयुक्तं तु कपिश्रेष्ठ मया गन्तुं त्वया सह |
वायुवेगसवेगस्य वेगो मां मोहयेत्तव || ४५||

अहमाकाशमासक्ता उपर्युपरि सागरम् |
प्रपतेयं हि ते पृष्ठाद्भयाद्वेगेन गच्छतः || ४६||

पतिता सागरे चाहं तिमिनक्रझषाकुले |
भयेयमाशु विवशा यादसाम् अन्नमुत्तमम् || ४७||

न च शक्ष्ये त्वया सार्धं गन्तुं शत्रुविनाशन |
कलत्रवति सन्देहस्त्वय्यपि स्यादसंशयम् || ४८||

ह्रियमाणां तु मां दृष्ट्वा राक्षसा भीमविक्रमाः |
अनुगच्छेयुरादिष्टा रावणेन दुरात्मना || ४९||

तैस्त्वं परिवृतः शूरैः शूलमुद्गर पाणिभिः |
भवेस्त्वं संशयं प्राप्तो मया वीर कलत्रवान् || ५०||

सायुधा बहवो व्योम्नि राक्षसास्त्वं निरायुधः |
कथं शक्ष्यसि संयातुं मां चैव परिरक्षितुम् || ५१||

युध्यमानस्य रक्षोभिस्ततस्तैः क्रूरकर्मभिः |
प्रपतेयं हि ते पृष्ठद्भयार्ता कपिसत्तम || ५२||

अथ रक्षांसि भीमानि महान्ति बलवन्ति च |
कथं चित्साम्पराये त्वां जयेयुः कपिसत्तम || ५३||

अथ वा युध्यमानस्य पतेयं विमुखस्य ते |
पतितां च गृहीत्वा मां नयेयुः पापराक्षसाः || ५४||

मां वा हरेयुस्त्वद्धस्ताद्विशसेयुरथापि वा |
अव्यवस्थौ हि दृश्येते युद्धे जयपराजयौ || ५५||

अहं वापि विपद्येयं रक्षोभिरभितर्जिता |
त्वत्प्रयत्नो हरिश्रेष्ठ भवेन्निष्फल एव तु || ५६||

कामं त्वमपि पर्याप्तो निहन्तुं सर्वराक्षसान् |
राघवस्य यशो हीयेत्त्वया शस्तैस्तु राक्षसैः || ५७||

अथ वादाय रक्षांसि न्यस्येयुः संवृते हि माम् |
यत्र ते नाभिजानीयुर्हरयो नापि राघवः || ५८||

आरम्भस्तु मदर्थोऽयं ततस्तव निरर्थकः |
त्वया हि सह रामस्य महानागमने गुणः || ५९||

मयि जीवितमायत्तं राघवस्य महात्मनः |
भ्रातॄणां च महाबाहो तव राजकुलस्य च || ६०||

तौ निराशौ मदर्थे तु शोकसन्तापकर्शितौ |
सह सर्वर्क्षहरिभिस्त्यक्ष्यतः प्राणसङ्ग्रहम् || ६१||

भर्तुर्भक्तिं पुरस्कृत्य रामादन्यस्य वानर |
नाहं स्प्रष्टुं पदा गात्रमिच्छेयं वानरोत्तम || ६२||

यदहं गात्रसंस्पर्शं रावणस्य गता बलात् |
अनीशा किं करिष्यामि विनाथा विवशा सती || ६३||

यदि रामो दशग्रीवमिह हत्वा सराक्षसं |
मामितो गृह्य गच्छेत तत्तस्य सदृशं भवेत् || ६४||

श्रुता हि दृष्टाश्च मया पराक्रमा
महात्मनस्तस्य रणावमर्दिनः |
न देवगन्धर्वभुजङ्गराक्षसा
भवन्ति रामेण समा हि संयुगे || ६५||

समीक्ष्य तं संयति चित्रकार्मुकं
महाबलं वासवतुल्यविक्रमम् |
सलक्ष्मणं को विषहेत राघवं
हुताशनं दीप्तमिवानिलेरितम् || ६६||

सलक्ष्मणं राघवमाजिमर्दनं
दिशागजं मत्तमिव व्यवस्थितम् |
सहेत को वानरमुख्य संयुगे
युगान्तसूर्यप्रतिमं शरार्चिषम् || ६७||

स मे हरिश्रेष्ठ सलक्ष्मणं पतिं
सयूथपं क्षिप्रमिहोपपादय |
चिराय रामं प्रति शोककर्शितां
कुरुष्व मां वानरमुख्य हर्षिताम् || ६८||

68

1270

Seetha was delighted on hearing Shri Rama's episode of having gained friendship of Sugreev. She requests Shri Hanuman to arrange for Shri Rama's arrival to Lanka to meet her within one month. Shri Hanuman consoles Seetha, saying that Rama would surely come to rescue her. Alternatively, he also offers Seetha to carry her on his back to Shri Rama's presence at Prasravana Mountain.

Looking to the small size of Shri Hanuman's body; Seetha doubts his capability to do so. Then, Shri Hanuman assumes a gigantic form, so as to inspire confidence in Seetha. However, citing various reasons, Seetha declines to go with him and requests him to bring her husband to Lanka.

इत्यार्षे श्री रामायणे सुन्दरकाण्डे चतुर्दश: भाग:

 

Sundarakāṇḍa Part-13

Sundarakāṇḍa Part-15

 

No comments:

Post a Comment