Saturday, January 3, 2026

सुन्दरकाण्ड - Sundarakāṇḍa (भाग - १५ ;;; Part – 15)

 

सुन्दरकाण्ड - Sundarakāṇḍa (भाग - १५ ;;; Part – 15)

Sarga number as per Ramayana

Shlokas extracted

No. of shlokas

Cumulative number of shlokas in this Kanda

38

ततः स कपिशार्दूलस्तेन वाक्येन हर्षितः |
सीतामुवाच तच्छ्रुत्वा वाक्यं वाक्यविशारदः || १||

युक्तरूपं त्वया देवि भाषितं शुभदर्शने |
सदृशं स्त्रीस्वभावस्य साध्वीनां विनयस्य च || २||

स्त्रीत्वं न तु समर्थं हि सागरं व्यतिवर्तितुम् |
मामधिष्ठाय विस्तीर्णं शतयोजनमायतम् || ३||

द्वितीयं कारणं यच्च ब्रवीषि विनयान्विते |
रामादन्यस्य नार्हामि संस्पर्शमिति जानकि || ४||

एतत्ते देवि सदृशं पत्न्यास्तस्य महात्मनः |
का ह्यन्या त्वामृते देवि ब्रूयाद्वचनमीदृशम् || ५||

श्रोष्यते चैव काकुत्स्थः सर्वं निरवशेषतः |
चेष्टितं यत्त्वया देवि भाषितं मम चाग्रतः || ६||

कारणैर्बहुभिर्देवि राम प्रियचिकीर्षया |
स्नेहप्रस्कन्नमनसा मयैतत्समुदीरितम् || ७||

लङ्काया दुष्प्रवेशत्वाद्दुस्तरत्वान्महोदधेः |
सामर्थ्यादात्मनश्चैव मयैतत्समुदाहृतम् || ८||

इच्छामि त्वां समानेतुमद्यैव रघुबन्धुना |
गुरुस्नेहेन भक्त्या च नान्यथा तदुदाहृतम् || ९||

यदि नोत्सहसे यातुं मया सार्धमनिन्दिते |
अभिज्ञानं प्रयच्छ त्वं जानीयाद्राघवो हि यत् || १०||

एवमुक्ता हनुमता सीता सुरसुतोपमा |
उवाच वचनं मन्दं बाष्पप्रग्रथिताक्षरम् || ११||

इदं श्रेष्ठमभिज्ञानं ब्रूयास्त्वं तु मम प्रियम् |
शैलस्य चित्रकूटस्य पादे पूर्वोत्तरे तदा || १२||

तापसाश्रमवासिन्याः प्राज्यमूलफलोदके |
तस्मिन्सिद्धाश्रमे देशे मन्दाकिन्या अदूरतः || १३||

तस्योपवनषण्डेषु नानापुष्पसुगन्धिषु |
विहृत्य सलिलक्लिन्ना तवाङ्के समुपाविशम् || १४||

पर्यायेण प्रसुप्तश्च ममाङ्के भरताग्रजः || १५||

ततो मांससमायुक्तो वायसः पर्यतुण्डयत् |
तमहं लोष्टमुद्यम्य वारयामि स्म वायसं || १६||

दारयन्स च मां काकस्तत्रैव परिलीयते |
न चाप्युपरमन्मांसाद्भक्षार्थी बलिभोजनः || १७||

उत्कर्षन्त्यां च रशनां क्रुद्धायां मयि पक्षिणे |
स्रंसमाने च वसने ततो दृष्टा त्वया ह्यहम् || १८||

त्वया विहसिता चाहं क्रुद्धा संलज्जिता तदा |
भक्ष्य गृद्धेन कालेन दारिता त्वामुपागता || १९||

आसीनस्य च ते श्रान्ता पुनरुत्सङ्गमाविशम् |
क्रुध्यन्ती च प्रहृष्टेन त्वयाहं परिसान्त्विता || २०||

बाष्पपूर्णमुखी मन्दं चक्षुषी परिमार्जती |
लक्षिताहं त्वया नाथ वायसेन प्रकोपिता || २१||

आशीविष इव क्रुद्धः श्वसान्वाक्यमभाषथाः |
केन ते नागनासोरु विक्षतं वै स्तनान्तरम् |
कः क्रीडति सरोषेण पञ्चवक्त्रेण भोगिना || २२||

वीक्षमाणस्ततस्तं वै वायसं समवैक्षथाः |
नखैः सरुधिरैस्तीक्ष्णैर्मामेवाभिमुखं स्थितम् || २३||

पुत्रः किल स शक्रस्य वायसः पततां वरः |
धरान्तरचरः शीघ्रं पवनस्य गतौ समः || २४||

ततस्तस्मिन्महाबाहुः कोपसंवर्तितेक्षणः |
वायसे कृतवान्क्रूरां मतिं मतिमतां वर || २५||

स दर्भसंस्तराद्गृह्य ब्रह्मणोऽस्त्रेण योजयः |
स दीप्त इव कालाग्निर्जज्वालाभिमुखो द्विजम् || २६||

चिक्षेपिथ प्रदीप्तां तामिषीकां वायसं प्रति |
अनुसृष्टस्तदा कालो जगाम विविधां गतिम् |
त्राणकाम इमं लोकं सर्वं वै विचचार ह || २७||

स पित्रा च परित्यक्तः सुरैः सर्वैर्महर्षिभिः |
त्रीँल्लोकान्सम्परिक्रम्य त्वामेव शरणं गतः || २८||

तं त्वं निपतितं भूमौ शरण्यः शरणागतम् |
वधार्हमपि काकुत्स्थ कृपया पर्यपालयः |
न शर्म लब्ध्वा लोकेषु त्वामेव शरणं गतः || २९||

परिद्यूनं विषण्णं च स त्वमायान्तमुक्तवान् |
मोघं कर्तुं न शक्यं तु ब्राह्ममस्त्रं तदुच्यताम् || ३०||

ततस्तस्याक्षि काकस्य हिनस्ति स्म स दक्षिणम् || ३१||

स ते तदा नमस्कृत्वा राज्ञे दशरथाय च |
त्वया वीर विसृष्टस्तु प्रतिपेदे स्वमालयम् || ३२||

मत्कृते काकमात्रेऽपि ब्रह्मास्त्रं समुदीरितम् |
कस्माद्यो मां हरत्त्वत्तः क्षमसे तं महीपते || ३३||

स कुरुष्व महोत्साहं कृपां मयि नरर्षभ |
आनृशंस्यं परो धर्मस्त्वत्त एव मया श्रुतः || ३४||

जानामि त्वां महावीर्यं महोत्साहं महाबलम् |
अपारपारमक्षोभ्यं गाम्भीर्यात्सागरोपमम् |
भर्तारं ससमुद्राया धरण्या वासवोपमम् || ३५||

एवमस्त्रविदां श्रेष्ठः सत्त्ववान्बलवानपि |
किमर्थमस्त्रं रक्षःसु न योजयसि राघव || ३६||

न नागा नापि गन्धर्वा नासुरा न मरुद्गणाः |
रामस्य समरे वेगं शक्ताः प्रति समाधितुम् || ३७||

तस्या वीर्यवतः कश्चिद्यद्यस्ति मयि सम्भ्रमः |
किमर्थं न शरैस्तीक्ष्णैः क्षयं नयति राक्षसान् || ३८||

भ्रातुरादेशमादाय लक्ष्मणो वा परन्तपः |
कस्य हेतोर्न मां वीरः परित्राति महाबलः || ३९||

यदि तौ पुरुषव्याघ्रौ वाय्विन्द्रसमतेजसौ |
सुराणामपि दुर्धर्षो किमर्थं मामुपेक्षतः || ४०||

ममैव दुष्कृतं किं चिन्महदस्ति न संशयः |
समर्थावपि तौ यन्मां नावेक्षेते परन्तपौ || ४१||

कौसल्या लोकभर्तारं सुषुवे यं मनस्विनी |
तं ममार्थे सुखं पृच्छ शिरसा चाभिवादय || ४२||

स्रजश्च सर्वरत्नानि प्रिया याश्च वराङ्गनाः |
ऐश्वर्यं च विशालायां पृथिव्याम् अपि दुर्लभम् || ४३||

पितरं मातरं चैव संमान्याभिप्रसाद्य च |
अनुप्रव्रजितो रामं सुमित्रा येन सुप्रजाः |
आनुकूल्येन धर्मात्मा त्यक्त्वा सुखमनुत्तमम् || ४४||

अनुगच्छति काकुत्स्थं भ्रातरं पालयन्वने |
सिंहस्कन्धो महाबाहुर्मनस्वी प्रियदर्शनः || ४५||

पितृवद्वर्तते रामे मातृवन्मां समाचरन् |
ह्रियमाणां तदा वीरो न तु मां वेद लक्ष्मणः || ४६||

वृद्धोपसेवी लक्ष्मीवाञ्शक्तो न बहुभाषिता |
राजपुत्रः प्रियश्रेष्ठः सदृशः श्वशुरस्य मे || ४७||

मत्तः प्रियतरो नित्यं भ्राता रामस्य लक्ष्मणः |
नियुक्तो धुरि यस्यां तु तामुद्वहति वीर्यवान् || ४८||

यं दृष्ट्वा राघवो नैव वृद्धमार्यमनुस्मरत् |
स ममार्थाय कुशलं वक्तव्यो वचनान्मम |
मृदुर्नित्यं शुचिर्दक्षः प्रियो रामस्य लक्ष्मणः || ४९||

इदं ब्रूयाश्च मे नाथं शूरं रामं पुनः पुनः |
जीवितं धारयिष्यामि मासं दशरथात्मज |
ऊर्ध्वं मासान्न जीवेयं सत्येनाहं ब्रवीमि ते || ५०||

रावणेनोपरुद्धां मां निकृत्या पापकर्मणा |
त्रातुमर्हसि वीर त्वं पातालादिव कौशिकीम् || ५१||

ततो वस्त्रगतं मुक्त्वा दिव्यं चूडामणिं शुभम् |
प्रदेयो राघवायेति सीता हनुमते ददौ || ५२||

प्रतिगृह्य ततो वीरो मणिरत्नमनुत्तमम् |
अङ्गुल्या योजयामास न ह्यस्या प्राभवद्भुजः || ५३||

53

1323

Shri Hanuman asks Seetha to give him a token of remembrance, which Shri Rama can recognize. Seetha then narrates the incident of a crow occurred on the Chitrakuta mountain and requests Shri Hanuman to communicate it to Shri Rama so that he can recollect that incident. She further asks him to convey to Shri Rama of her resolve to survive only for a month. Thereafter, she hands over to Shri Hanuman her jewel for the head as a token of remembrance.

39

मणिं दत्त्वा ततः सीता हनूमन्तमथाब्रवीत् |
अभिज्ञानमभिज्ञातमेतद्रामस्य तत्त्वतः || १||

मणिं तु दृष्ट्वा रामो वै त्रयाणां संस्मरिष्यति |
वीरो जनन्या मम च राज्ञो दशरथस्य च || २||

अयं च वीर सन्देहस्तिष्ठतीव ममाग्रतः |

सुमहांस्त्वत्सहायेषु हर्यृक्षेषु हरीश्वर || ३||

कथं नु खलु दुष्पारं तरिष्यन्ति महोदधिम् |

तानि हर्यृक्षसैन्यानि तौ वा नरवरात्मजौ || ४||

त्रयाणामेव भूतानां सागरस्येह लङ्घने |

शक्तिः स्याद्वैनतेयस्य तव वा मारुतस्य वा || ५||

तदस्मिन्कार्यनिर्योगे वीरैवं दुरतिक्रमे |

किं पश्यसि समाधानं त्वं हि कार्यविदां वरः || ६||

काममस्य त्वमेवैकः कार्यस्य परिसाधने |

पर्याप्तः परवीरघ्न यशस्यस्ते बलोदयः || ७||

बलैः समग्रैर्यदि मां रावणं जित्य संयुगे |

विजयी स्वपुरं यायात्तत्तु मे स्याद्यशस्करम् || ८||

बलैस्तु सङ्कुलां कृत्वा लङ्कां परबलार्दनः |

मां नयेद्यदि काकुत्स्थस्तत्तस्य सदृशं भवेत् || ९||

तद्यथा तस्य विक्रान्तमनुरूपं महात्मनः |

भवेदाहव शूरस्य तथा त्वमुपपादय || १०||

तदर्थोपहितं वाक्यं सहितं हेतुसंहितम् |

निशम्य हनुमाञ्शेषं वाक्यमुत्तरमब्रवीत् || ११||

देवि हर्यृक्षसैन्यानामीश्वरः प्लवतां वरः |

सुग्रीवः सत्त्वसम्पन्नस्तवार्थे कृतनिश्चयः || १२||

स वानरसहस्राणां कोटीभिरभिसंवृतः |

क्षिप्रमेष्यति वैदेहि राक्षसानां निबर्हणः || १३||

तस्य विक्रमसम्पन्नाः सत्त्ववन्तो महाबलाः |

मनःसङ्कल्पसम्पाता निदेशे हरयः स्थिताः || १४||

येषां नोपरि नाधस्तान्न तिर्यक्सज्जते गतिः |

न च कर्मसु सीदन्ति महत्स्वमिततेजसः || १५||

असकृत्तैर्महोत्सहैः ससागरधराधरा |

प्रदक्षिणीकृता भूमिर्वायुमार्गानुसारिभिः || १६||

मद्विशिष्टाश्च तुल्याश्च सन्ति तत्र वनौकसः |

मत्तः प्रत्यवरः कश्चिन्नास्ति सुग्रीवसंनिधौ || १७||

अहं तावदिह प्राप्तः किं पुनस्ते महाबलाः |

न हि प्रकृष्टाः प्रेष्यन्ते प्रेष्यन्ते हीतरे जनाः || १८||

तदलं परितापेन देवि शोको व्यपैतु ते |

एकोत्पातेन ते लङ्कामेष्यन्ति हरियूथपाः || १९||

मम पृष्ठगतौ तौ च चन्द्रसूर्याविवोदितौ |

त्वत्सकाशं महासत्त्वौ नृसिंहावागमिष्यतः || २०||

तौ हि वीरौ नरवरौ सहितौ रामलक्ष्मणौ |

आगम्य नगरीं लङ्कां सायकैर्विधमिष्यतः || २१||

सगणं रावणं हत्वा राघवो रघुनन्दनः |

त्वामादाय वरारोहे स्वपुरं प्रतियास्यति || २२||

तदाश्वसिहि भद्रं ते भव त्वं कालकाङ्क्षिणी |

नचिराद्द्रक्ष्यसे रामं प्रज्वजन्तमिवानिलम् || २३|

23

1346

Then, Seetha expresses her doubt about the possibility of the vanara army to cross the ocean. Shri Hanuman clarifies to Seetha about the strength of vanaras and assures her about their ability to cross the ocean.

41

स च वाग्भिः प्रशस्ताभिर्गमिष्यन्पूजितस्तया |
तस्माद्देशादपक्रम्य चिन्तयामास वानरः || १||

अल्पशेषमिदं कार्यं दृष्टेयमसितेक्षणा |
त्रीनुपायानतिक्रम्य चतुर्थ इह दृश्यते || २||

न साम रक्षःसु गुणाय कल्पते
न दनमर्थोपचितेषु वर्तते |
न भेदसाध्या बलदर्पिता जनाः
पराक्रमस्त्वेष ममेह रोचते || ३||

न चास्य कार्यस्य पराक्रमादृते
विनिश्चयः कश् चिदिहोपपद्यते |
हृतप्रवीरास्तु रणे हि राक्षसाः
कथं चिदीयुर्यदिहाद्य मार्दवम् || ४||

कार्ये कर्मणि निर्दिष्टो यो बहून्यपि साधयेत् |
पूर्वकार्यविरोधेन स कार्यं कर्तुमर्हति || ५||

न ह्येकः साधको हेतुः स्वल्पस्यापीह कर्मणः |
यो ह्यर्थं बहुधा वेद स समर्थोऽर्थसाधने || ६||

इहैव तावत्कृतनिश्चयो ह्यहं
यदि व्रजेयं प्लवगेश्वरालयम् |
परात्मसंमर्द विशेषतत्त्ववित्
ततः कृतं स्यान्मम भर्तृशासनम् || ७||

कथं नु खल्वद्य भवेत्सुखागतं
प्रसह्य युद्धं मम राक्षसैः सह |
तथैव खल्वात्मबलं च सारवत्
समानयेन्मां च रणे दशाननः || ८||

इदमस्य नृशंसस्य नन्दनोपममुत्तमम् |
वनं नेत्रमनःकान्तं नानाद्रुमलतायुतम् || ९||

इदं विध्वंसयिष्यामि शुष्कं वनमिवानलः |
अस्मिन्भग्ने ततः कोपं करिष्यति स रावणः || १०||

ततो महत्साश्वमहारथद्विपं
बलं समानेष्वपि राक्षसाधिपः |
त्रिशूलकालायसपट्टिशायुधं
ततो महद्युद्धमिदं भविष्यति || ११||

अहं तु तैः संयति चण्डविक्रमैः
समेत्य रक्षोभिरसङ्गविक्रमः |
निहत्य तद्रावणचोदितं बलं
सुखं गमिष्यामि कपीश्वरालयम् || १२||

ततो मारुतवत्क्रुद्धो मारुतिर्भीमविक्रमः |
ऊरुवेगेन महता द्रुमान्क्षेप्तुमथारभत् || १३||

ततस्तद्धनुमान्वीरो बभञ्ज प्रमदावनम् |
मत्तद्विजसमाघुष्टं नानाद्रुमलतायुतम् || १४||

तद्वनं मथितैर्वृक्षैर्भिन्नैश्च सलिलाशयैः |
चूर्णितैः पर्वताग्रैश्च बभूवाप्रियदर्शनम् || १५||

लतागृहैश्चित्रगृहैश्च नाशितैर्
महोरगैर्व्यालमृगैश्च निर्धुतैः |
शिलागृहैरुन्मथितैस्तथा गृहैः
प्रनष्टरूपं तदभून्महद्वनम् || १६||

स तस्य कृत्वार्थपतेर्महाकपिर्
महद्व्यलीकं मनसो महात्मनः |
युयुत्सुरेको बहुभिर्महाबलैः
श्रिया ज्वलंस्तोरणमाश्रितः कपिः || १७||

17

1363

After taking leave from Seeta, Shri Hanuman ponders over the course of further action to be taken and decides to open assault with the demons, and to meet Ravana and his ministers for knowing their designs and strengths. Accordingly, he decides to damage the Ashoka Garden at Lanka and then proceeds to do that task.

इत्यार्षे श्री रामायणे सुन्दरकाण्डे पञ्चदश: भाग:

 

Sundarakāṇḍa Part-14

Sundarakāṇḍa Part-16

 

No comments:

Post a Comment