सुन्दरकाण्ड - Sundarakāṇḍa (भाग - १५
;;; Part – 15)
|
Sarga
number as per Ramayana |
Shlokas
extracted |
No. of shlokas |
Cumulative number of shlokas in this
Kanda |
|
38 |
ततः
स कपिशार्दूलस्तेन वाक्येन हर्षितः | युक्तरूपं त्वया देवि भाषितं शुभदर्शने | स्त्रीत्वं न तु समर्थं हि सागरं व्यतिवर्तितुम् | द्वितीयं कारणं यच्च ब्रवीषि विनयान्विते | एतत्ते देवि सदृशं पत्न्यास्तस्य महात्मनः | श्रोष्यते चैव काकुत्स्थः सर्वं निरवशेषतः | कारणैर्बहुभिर्देवि राम प्रियचिकीर्षया | लङ्काया दुष्प्रवेशत्वाद्दुस्तरत्वान्महोदधेः | इच्छामि त्वां समानेतुमद्यैव रघुबन्धुना | यदि
नोत्सहसे यातुं मया सार्धमनिन्दिते | एवमुक्ता हनुमता सीता सुरसुतोपमा | इदं
श्रेष्ठमभिज्ञानं ब्रूयास्त्वं तु मम प्रियम् | तापसाश्रमवासिन्याः प्राज्यमूलफलोदके | तस्योपवनषण्डेषु नानापुष्पसुगन्धिषु | पर्यायेण प्रसुप्तश्च ममाङ्के भरताग्रजः || १५|| ततो
मांससमायुक्तो वायसः पर्यतुण्डयत् | दारयन्स च मां काकस्तत्रैव परिलीयते | उत्कर्षन्त्यां च रशनां क्रुद्धायां मयि पक्षिणे | त्वया
विहसिता चाहं क्रुद्धा संलज्जिता तदा | आसीनस्य च ते श्रान्ता पुनरुत्सङ्गमाविशम् | बाष्पपूर्णमुखी मन्दं चक्षुषी परिमार्जती | आशीविष इव क्रुद्धः श्वसान्वाक्यमभाषथाः | वीक्षमाणस्ततस्तं वै वायसं समवैक्षथाः | पुत्रः किल स शक्रस्य वायसः पततां वरः | ततस्तस्मिन्महाबाहुः कोपसंवर्तितेक्षणः | स
दर्भसंस्तराद्गृह्य ब्रह्मणोऽस्त्रेण योजयः | चिक्षेपिथ प्रदीप्तां तामिषीकां वायसं प्रति | स
पित्रा च परित्यक्तः सुरैः सर्वैर्महर्षिभिः | तं
त्वं निपतितं भूमौ शरण्यः शरणागतम् | परिद्यूनं विषण्णं च स त्वमायान्तमुक्तवान् | ततस्तस्याक्षि काकस्य हिनस्ति स्म स दक्षिणम् || ३१|| स
ते तदा नमस्कृत्वा राज्ञे दशरथाय च | मत्कृते काकमात्रेऽपि ब्रह्मास्त्रं समुदीरितम् | स
कुरुष्व महोत्साहं कृपां मयि नरर्षभ | जानामि त्वां महावीर्यं महोत्साहं महाबलम् | एवमस्त्रविदां श्रेष्ठः सत्त्ववान्बलवानपि | न
नागा नापि गन्धर्वा नासुरा न मरुद्गणाः | तस्या
वीर्यवतः कश्चिद्यद्यस्ति मयि सम्भ्रमः | भ्रातुरादेशमादाय लक्ष्मणो वा परन्तपः | यदि
तौ पुरुषव्याघ्रौ वाय्विन्द्रसमतेजसौ | ममैव
दुष्कृतं किं चिन्महदस्ति न संशयः | कौसल्या लोकभर्तारं सुषुवे यं मनस्विनी | स्रजश्च सर्वरत्नानि प्रिया याश्च वराङ्गनाः | पितरं
मातरं चैव संमान्याभिप्रसाद्य च | अनुगच्छति काकुत्स्थं भ्रातरं पालयन्वने | पितृवद्वर्तते रामे मातृवन्मां समाचरन् | वृद्धोपसेवी लक्ष्मीवाञ्शक्तो न बहुभाषिता | मत्तः
प्रियतरो नित्यं भ्राता रामस्य लक्ष्मणः | यं
दृष्ट्वा राघवो नैव वृद्धमार्यमनुस्मरत् | इदं
ब्रूयाश्च मे नाथं शूरं रामं पुनः पुनः | रावणेनोपरुद्धां मां निकृत्या पापकर्मणा | ततो
वस्त्रगतं मुक्त्वा दिव्यं चूडामणिं शुभम् | प्रतिगृह्य ततो वीरो मणिरत्नमनुत्तमम् | |
53 |
1323 |
|
Shri Hanuman asks
Seetha to give him a token of remembrance, which Shri Rama can recognize.
Seetha then narrates the incident of a crow occurred on the Chitrakuta
mountain and requests Shri Hanuman to communicate it to Shri Rama so that he
can recollect that incident. She further asks him to convey to Shri Rama of her
resolve to survive only for a month. Thereafter, she hands over to Shri Hanuman
her jewel for the head as a token of remembrance. |
|||
|
39 |
मणिं
दत्त्वा ततः सीता हनूमन्तमथाब्रवीत् | मणिं
तु दृष्ट्वा रामो वै त्रयाणां संस्मरिष्यति | अयं
च वीर सन्देहस्तिष्ठतीव ममाग्रतः | सुमहांस्त्वत्सहायेषु हर्यृक्षेषु हरीश्वर || ३|| कथं
नु खलु दुष्पारं तरिष्यन्ति महोदधिम् | तानि
हर्यृक्षसैन्यानि तौ वा नरवरात्मजौ || ४|| त्रयाणामेव भूतानां सागरस्येह लङ्घने | शक्तिः स्याद्वैनतेयस्य तव वा मारुतस्य वा || ५|| तदस्मिन्कार्यनिर्योगे वीरैवं दुरतिक्रमे | किं
पश्यसि समाधानं त्वं हि कार्यविदां वरः || ६|| काममस्य त्वमेवैकः कार्यस्य परिसाधने | पर्याप्तः परवीरघ्न यशस्यस्ते बलोदयः || ७|| बलैः
समग्रैर्यदि मां रावणं जित्य संयुगे | विजयी
स्वपुरं यायात्तत्तु मे स्याद्यशस्करम् || ८|| बलैस्तु सङ्कुलां कृत्वा लङ्कां परबलार्दनः | मां
नयेद्यदि काकुत्स्थस्तत्तस्य सदृशं भवेत् || ९|| तद्यथा तस्य विक्रान्तमनुरूपं महात्मनः | भवेदाहव शूरस्य तथा त्वमुपपादय || १०|| तदर्थोपहितं वाक्यं सहितं हेतुसंहितम् | निशम्य हनुमाञ्शेषं वाक्यमुत्तरमब्रवीत् || ११|| देवि
हर्यृक्षसैन्यानामीश्वरः प्लवतां वरः | सुग्रीवः सत्त्वसम्पन्नस्तवार्थे कृतनिश्चयः || १२|| स
वानरसहस्राणां कोटीभिरभिसंवृतः | क्षिप्रमेष्यति वैदेहि राक्षसानां निबर्हणः || १३|| तस्य
विक्रमसम्पन्नाः सत्त्ववन्तो महाबलाः | मनःसङ्कल्पसम्पाता निदेशे हरयः स्थिताः || १४|| येषां
नोपरि नाधस्तान्न तिर्यक्सज्जते गतिः | न
च कर्मसु सीदन्ति महत्स्वमिततेजसः || १५|| असकृत्तैर्महोत्सहैः ससागरधराधरा | प्रदक्षिणीकृता भूमिर्वायुमार्गानुसारिभिः || १६|| मद्विशिष्टाश्च तुल्याश्च सन्ति तत्र वनौकसः | मत्तः
प्रत्यवरः कश्चिन्नास्ति सुग्रीवसंनिधौ || १७|| अहं
तावदिह प्राप्तः किं पुनस्ते महाबलाः | न
हि प्रकृष्टाः प्रेष्यन्ते प्रेष्यन्ते हीतरे जनाः || १८|| तदलं
परितापेन देवि शोको व्यपैतु ते | एकोत्पातेन ते लङ्कामेष्यन्ति हरियूथपाः || १९|| मम
पृष्ठगतौ तौ च चन्द्रसूर्याविवोदितौ | त्वत्सकाशं महासत्त्वौ नृसिंहावागमिष्यतः || २०|| तौ
हि वीरौ नरवरौ सहितौ रामलक्ष्मणौ | आगम्य
नगरीं लङ्कां सायकैर्विधमिष्यतः || २१|| सगणं
रावणं हत्वा राघवो रघुनन्दनः | त्वामादाय वरारोहे स्वपुरं प्रतियास्यति || २२|| तदाश्वसिहि भद्रं ते भव त्वं कालकाङ्क्षिणी | नचिराद्द्रक्ष्यसे रामं प्रज्वजन्तमिवानिलम् || २३| |
23 |
1346 |
|
Then, Seetha
expresses her doubt about the possibility of the vanara army to cross the
ocean. Shri Hanuman clarifies to Seetha about the strength of vanaras and
assures her about their ability to cross the ocean. |
|||
|
41 |
स
च वाग्भिः प्रशस्ताभिर्गमिष्यन्पूजितस्तया | अल्पशेषमिदं कार्यं दृष्टेयमसितेक्षणा | न
साम रक्षःसु गुणाय कल्पते न
चास्य कार्यस्य पराक्रमादृते कार्ये कर्मणि निर्दिष्टो यो बहून्यपि साधयेत् | न
ह्येकः साधको हेतुः स्वल्पस्यापीह कर्मणः | इहैव
तावत्कृतनिश्चयो ह्यहं कथं
नु खल्वद्य भवेत्सुखागतं इदमस्य नृशंसस्य नन्दनोपममुत्तमम् | इदं
विध्वंसयिष्यामि शुष्कं वनमिवानलः | ततो
महत्साश्वमहारथद्विपं अहं
तु तैः संयति चण्डविक्रमैः ततो
मारुतवत्क्रुद्धो मारुतिर्भीमविक्रमः | ततस्तद्धनुमान्वीरो बभञ्ज प्रमदावनम् | तद्वनं मथितैर्वृक्षैर्भिन्नैश्च सलिलाशयैः | लतागृहैश्चित्रगृहैश्च नाशितैर् स
तस्य कृत्वार्थपतेर्महाकपिर् |
17 |
1363 |
|
After taking leave
from Seeta, Shri Hanuman ponders over the course of further action to be taken
and decides to open assault with the demons, and to meet Ravana and his
ministers for knowing their designs and strengths. Accordingly, he decides to
damage the Ashoka Garden at Lanka and then proceeds to do that task. |
|||
इत्यार्षे श्री
रामायणे सुन्दरकाण्डे पञ्चदश: भाग:
No comments:
Post a Comment