Sunday, January 4, 2026

सुन्दरकाण्ड - Sundarakāṇḍa (भाग - २४ ;;; Part – 24)

 

सुन्दरकाण्ड - Sundarakāṇḍa (भाग - २४ ;;; Part – 24)

Sarga number as per Ramayana

Shlokas extracted

No. of shlokas

Cumulative number of shlokas in this Kanda

65

ततः प्रस्रवणं शैलं ते गत्वा चित्रकाननम् |
प्रणम्य शिरसा रामं लक्ष्मणं च महाबलम् || १||

युवराजं पुरस्कृत्य सुग्रीवमभिवाद्य च |
प्रवृत्तमथ सीतायाः प्रवक्तुमुपचक्रमुः || २||

रावणान्तःपुरे रोधं राक्षसीभिश् च तर्जनम् |
रामे समनुरागं च यश्चापि समयः कृतः || ३||

एतदाख्यान्ति ते सर्वे हरयो राम संनिधौ |
वैदेहीमक्षतां श्रुत्वा रामस्तूत्तरमब्रवीत् || ४||

क्व सीता वर्तते देवी कथं च मयि वर्तते |
एतन्मे सर्वमाख्यात वैदेहीं प्रति वानराः || ५||

रामस्य गदितं श्रुत्व हरयो रामसंनिधौ |
चोदयन्ति हनूमन्तं सीतावृत्तान्तकोविदम् || ६||

श्रुत्वा तु वचनं तेषां हनूमान्मारुतात्मजः |
उवाच वाक्यं वाक्यज्ञः सीताया दर्शनं यथा || ७||

समुद्रं लङ्घयित्वाहं शतयोजनमायतम् |
अगच्छं जानकीं सीतां मार्गमाणो दिदृक्षया || ८||

तत्र लङ्केति नगरी रावणस्य दुरात्मनः |
दक्षिणस्य समुद्रस्य तीरे वसति दक्षिणे || ९||

तत्र दृष्टा मया सीता रावणान्तःपुरे सती |
संन्यस्य त्वयि जीवन्ती रामा राम मनोरथम् || १०||

दृष्टा मे राक्षसी मध्ये तर्ज्यमाना मुहुर्मुहुः |
राक्षसीभिर्विरूपाभी रक्षिता प्रमदावने || ११||

दुःखमापद्यते देवी तवादुःखोचिता सती |
रावणान्तःपुरे रुद्ध्वा राक्षसीभिः सुरक्षिता || १२||

एकवेणीधरा दीना त्वयि चिन्तापरायणा |
अधःशय्या विवर्णाङ्गी पद्मिनीव हिमागमे || १३||

रावणाद्विनिवृत्तार्था मर्तव्यकृतनिश्चया |
देवी कथं चित्काकुत्स्थ त्वन्मना मार्गिता मया || १४||

इक्ष्वाकुवंशविख्यातिं शनैः कीर्तयतानघ |
स मया नरशार्दूल विश्वासमुपपादिता || १५||

ततः सम्भाषिता देवी सर्वमर्थं च दर्शिता |
रामसुग्रीवसख्यं च श्रुत्वा प्रीतिमुपागता || १६||

नियतः समुदाचारो भक्तिश्चास्यास्तथा त्वयि |
एवं मया महाभागा दृष्टा जनकनन्दिनी |
उग्रेण तपसा युक्ता त्वद्भक्त्या पुरुषर्षभ || १७||

अभिज्ञानं च मे दत्तं यथावृत्तं तवान्तिके |
चित्रकूटे महाप्राज्ञ वायसं प्रति राघव || १८||

विज्ञाप्यश्च नर व्याघ्रो रामो वायुसुत त्वया |
अखिलेनेह यद्दृष्टमिति मामाह जानकी || १९||

इदं चास्मै प्रदातव्यं यत्नात्सुपरिरक्षितम् |
ब्रुवता वचनान्येवं सुग्रीवस्योपशृण्वतः || २०||

एष चूडामणिः श्रीमान्मया ते यत्नरक्षितः |
मनःशिलायास्तिकलस्तं स्मरस्वेति चाब्रवीत् || २१||

एष निर्यातितः श्रीमान्मया ते वारिसम्भवः |
एतं दृष्ट्वा प्रमोदिष्ये व्यसने त्वामिवानघ || २२||

जीवितं धारयिष्यामि मासं दशरथात्मज |
ऊर्ध्वं मासान्न जीवेयं रक्षसां वशमागता || २३||

इति मामब्रवीत्सीता कृशाङ्गी धर्म चारिणी |
रावणान्तःपुरे रुद्धा मृगीवोत्फुल्ललोचना || २४||

एतदेव मयाख्यातं सर्वं राघव यद्यथा |
सर्वथा सागरजले सन्तारः प्रविधीयताम् || २५||

तौ जाताश्वासौ राजपुत्रौ विदित्वा
तच्चाभिज्ञानं राघवाय प्रदाय |
देव्या चाख्यातं सर्वमेवानुपूर्व्याद्
वाचा सम्पूर्णं वायुपुत्रः शशंस || २६||

26

2115

Angada, Shri Hanuma, Jambavan and other vanaras approach Shri Rama, Lakshmana and Sugreeva at Mount Prasravana. When vanaras start narrating the news of Seetha, Shri Rama asks further details about Seetha. Then, the monkeys request Shri Hanuman to explain the details about Seeta’s search to Shri Rama. Then, Shri Hanuman narrates the entire episode to Shri Rama and delivers the head jewel of Seeta to Shri Rama and conveys her message to Shri Rama.

66

एवमुक्तो हनुमता रामो दशरथात्मजः |
तं मणिं हृदये कृत्वा प्ररुरोद सलक्ष्मणः || १||

तं तु दृष्ट्वा मणिश्रेष्ठं राघवः शोककर्शितः |
नेत्राभ्यामश्रुपूर्णाभ्यां सुग्रीवमिदमब्रवीत् || २||

यथैव धेनुः स्रवति स्नेहाद्वत्सस्य वत्सला |
तथा ममापि हृदयं मणिरत्नस्य दर्शनात् || ३||

मणिरत्नमिदं दत्तं वैदेह्याः श्वशुरेण मे |
वधूकाले यथा बद्धमधिकं मूर्ध्नि शोभते || ४||

अयं हि जलसम्भूतो मणिः प्रवरपूजितः |
यज्ञे परमतुष्टेन दत्तः शक्रेण धीमता || ५||

इमं दृष्ट्वा मणिश्रेष्ठं तथा तातस्य दर्शनम् |
अद्यास्म्यवगतः सौम्य वैदेहस्य तथा विभोः || ६||

अयं हि शोभते तस्याः प्रियाया मूर्ध्नि मे मणिः |
अद्यास्य दर्शनेनाहं प्राप्तां ताम् इव चिन्तये || ७||

किमाह सीता वैदेही ब्रूहि सौम्य पुनः पुनः |
परासुमिव तोयेन सिञ्चन्ती वाक्यवारिणा || ८||

इतस्तु किं दुःखतरं यदिमं वारिसम्भवम् |
मणिं पश्यामि सौमित्रे वैदेहीमागतं विना || ९||

चिरं जीवति वैदेही यदि मासं धरिष्यति |
क्षणं सौम्य न जीवेयं विना तामसितेक्षणाम् || १०||

नय मामपि तं देशं यत्र दृष्टा मम प्रिया |
न तिष्ठेयं क्षणमपि प्रवृत्तिमुपलभ्य च || ११||

कथं सा मम सुश्रोणि भीरु भीरुः सती तदा |
भयावहानां घोराणां मध्ये तिष्ठति रक्षसाम् || १२||

शारदस्तिमिरोन्मुखो नूनं चन्द्र इवाम्बुदैः |
आवृतं वदनं तस्या न विराजति राक्षसैः || १३||

किमाह सीता हनुमंस्तत्त्वतः कथयस्व मे |
एतेन खलु जीविष्ये भेषजेनातुरो यथा || १४||

मधुरा मधुरालापा किमाह मम भामिनी |
मद्विहीना वरारोहा हनुमन्कथयस्व मे |
दुःखाद्दुःखतरं प्राप्य कथं जीवति जानकी || १५||

15

2130

Shri Rama upon sighting the head jewel weeps.  Shri Rama urges Shri Hanuman  to narrate again the words spoken by Seetha.

67

एवमुक्तस्तु हनुमान्राघवेण महात्मना |
सीताया भाषितं सर्वं न्यवेदयत राघवे || १||

इदमुक्तवती देवी जानकी पुरुषर्षभ |
पूर्ववृत्तमभिज्ञानं चित्रकूटे यथा तथम् || २||

सुखसुप्ता त्वया सार्धं जानकी पूर्वमुत्थिता |
वायसः सहसोत्पत्य विरराद स्तनान्तरे || ३||

पर्यायेण च सुप्तस्त्वं देव्यङ्के भरताग्रज |
पुनश्च किल पक्षी स देव्या जनयति व्यथाम् || ४||

ततः पुनरुपागम्य विरराद भृशं किल |
ततस्त्वं बोधितस्तस्याः शोणितेन समुक्षितः || ५||

वायसेन च तेनैव सततं बाध्यमानया |
बोधितः किल देव्यास्त्वं सुखसुप्तः परन्तप || ६||

तां तु दृष्ट्वा महाबाहो रादितां च स्तनान्तरे |
आशीविष इव क्रुद्धो निःश्वसन्नभ्यभाषथाः || ७||

नखाग्रैः केन ते भीरु दारितं तु स्तनान्तरम् |
कः क्रीडति सरोषेण पञ्चवक्त्रेण भोगिना || ८||

निरीक्षमाणः सहसा वायसं समवैक्षताः |
नखैः सरुधिरैस्तीक्ष्णैर्मामेवाभिमुखं स्थितम् || ९||

सुतः किल स शक्रस्य वायसः पततां वरः |
धरान्तरचरः शीघ्रं पवनस्य गतौ समः || १०||

ततस्तस्मिन्महाबाहो कोपसंवर्तितेक्षणः |
वायसे त्वं कृत्वाः क्रूरां मतिं मतिमतां वर || ११||

स दर्भं संस्तराद्गृह्य ब्रह्मास्त्रेण न्ययोजयः |
स दीप्त इव कालाग्निर्जज्वालाभिमुखः खगम् || १२||

स त्वं प्रदीप्तं चिक्षेप दर्भं तं वायसं प्रति |
ततस्तु वायसं दीप्तः स दर्भोऽनुजगाम ह || १३||

स पित्रा च परित्यक्तः सुरैः सर्वैर्महर्षिभिः |
त्रीँल्लोकान्सम्परिक्रम्य त्रातारं नाधिगच्छति || १४||

तं त्वं निपतितं भूमौ शरण्यः शरणागतम् |
वधार्हमपि काकुत्स्थ कृपया परिपालयः || १५||

मोघमस्त्रं न शक्यं तु कर्तुमित्येव राघव |
ततस्तस्याक्षिकाकस्य हिनस्ति स्म स दक्षिणम् || १६||

राम त्वां स नमस्कृत्वा राज्ञो दशरथस्य च |
विसृष्टस्तु तदा काकः प्रतिपेदे खमालयम् || १७||

एवमस्त्रविदां श्रेष्ठः सत्त्ववाञ्शीलवानपि |
किमर्थमस्त्रं रक्षःसु न योजयसि राघव || १८||

न नागा नापि गन्धर्वा नासुरा न मरुद्गणाः |
तव राम मुखे स्थातुं शक्ताः प्रतिसमाधितुम् || १९||

तव वीर्यवतः कच्चिन्मयि यद्यस्ति सम्भ्रमः |
क्षिप्रं सुनिशितैर्बाणैर्हन्यतां युधि रावणः || २०||

भ्रातुरादेशमादाय लक्ष्मणो वा परन्तपः |
स किमर्थं नरवरो न मां रक्षति राघवः || २१||

शक्तौ तौ पुरुषव्याघ्रौ वाय्वग्निसमतेजसौ |
सुराणामपि दुर्धर्षौ किमर्थं मामुपेक्षतः || २२||

ममैव दुष्कृतं किं चिन्महदस्ति न संशयः |
समर्थौ सहितौ यन्मां नापेक्षेते परन्तपौ || २३||

वैदेह्या वचनं श्रुत्वा करुणं साश्रुभाषितम् |
पुनरप्यहमार्यां तामिदं वचनमब्रुवम् || २४||

त्वच्छोकविमुखो रामो देवि सत्येन ते शपे |
रामे दुःखाभिभूते च लक्ष्मणः परितप्यते || २५||

कथं चिद्भवती दृष्टा न कालः परिशोचितुम् |
इमं मुहूर्तं दुःखानामन्तं द्रक्ष्यसि भामिनि || २६||

तावुभौ नरशार्दूलौ राजपुत्रावरिन्दमौ |
त्वद्दर्शनकृतोत्साहौ लङ्कां भस्मीकरिष्यतः || २७||

हत्वा च समरे रौद्रं रावणं सह बान्धवम् |
राघवस्त्वां महाबाहुः स्वां पुरीं नयते ध्रुवम् || २८||

यत्तु रामो विजानीयादभिज्ञानमनिन्दिते |
प्रीतिसञ्जननं तस्य प्रदातुं तत्त्वमर्हसि || २९||

साभिवीक्ष्य दिशः सर्वा वेण्युद्ग्रथनमुत्तमम् |
मुक्त्वा वस्त्राद्ददौ मह्यं मणिमेतं महाबल || ३०||

प्रतिगृह्य मणिं दिव्यं तव हेतो रघूत्तम |
शिरसा सम्प्रणम्यैनामहमागमने त्वरे || ३१||

गमने च कृतोत्साहमवेक्ष्य वरवर्णिनी |
विवर्धमानं च हि मामुवाच जनकात्मजा |
अश्रुपूर्णमुखी दीना बाष्पसन्दिग्धभाषिणी || ३२||

हनुमन्सिंहसङ्काशौ तावुभौ रामलक्ष्मणौ |
सुग्रीवं च सहामात्यं सर्वान्ब्रूया अनामयम् || ३३||

यथा च स महाबाहुर्मां तारयति राघवः |
अस्माद्दुःखाम्बुसंरोधात्तत्समाधातुमर्हसि || ३४||

इमं च तीव्रं मम शोकवेगं
रक्षोभिरेभिः परिभर्त्सनं च |
ब्रूयास्तु रामस्य गतः समीपं
शिवश्च तेऽध्वास्तु हरिप्रवीर || ३५||

एतत्तवार्या नृपराजसिंह
सीता वचः प्राह विषादपूर्वम् |
एतच्च बुद्ध्वा गदितं मया त्वं
श्रद्धत्स्व सीतां कुशलां समग्राम् || ३६||

36

2166

Shri Hanuman narrates the episode of Shri Rama’s discharging Brahmastra on a crow at Chitrakuta and conveys her firm decision to wait for his arrival for only one month.

68

अथाहमुत्तरं देव्या पुनरुक्तः ससम्भ्रमम् |
तव स्नेहान्नरव्याघ्र सौहार्यादनुमान्य च || १||

एवं बहुविधं वाच्यो रामो दाशरथिस्त्वया |
यथा मामाप्नुयाच्छीघ्रं हत्वा रावणमाहवे || २||

यदि वा मन्यसे वीर वसैकाहमरिन्दम |
कस्मिंश्चित्संवृते देशे विश्रान्तः श्वो गमिष्यसि || ३||

मम चाप्यल्पभाग्यायाः साम्निध्यात्तव वानर |
अस्य शोकविपाकस्य मुहूर्तं स्याद्विमोक्षणम् || ४||

गते हि त्वयि विक्रान्ते पुनरागमनाय वै |
प्राणानामपि सन्देहो मम स्यान्नात्र संशयः || ५||

तवादर्शनजः शोको भूयो मां परितापयेत् |
दुःखाद्दुःखपराभूतां दुर्गतां दुःखभागिनीम् || ६||

अयं तु वीरसन्देहस्तिष्ठतीव ममाग्रतः |
सुमहांस्त्वत्सहायेषु हर्यृक्षेषु असंशयः || ७||

कथं नु खलु दुष्पारं तरिष्यन्ति महोदधिम् |
तानि हर्यृक्षसैन्यानि तौ वा नरवरात्मजौ || ८||

त्रयाणामेव भूतानां सागरस्यास्य लङ्घने |
शक्तिः स्याद्वैनतेयस्य वायोर्वा तव वानघ || ९||

तदस्मिन्कार्यनियोगे वीरैवं दुरतिक्रमे |
किं पश्यसि समाधानं ब्रूहि कार्यविदां वर || १०||

काममस्य त्वमेवैकः कार्यस्य परिसाधने |
पर्याप्तः परवीरघ्न यशस्यस्ते बलोदयः || ११||

बलैः समग्रैर्यदि मां हत्वा रावणमाहवे |
विजयी स्वां पुरीं रामो नयेत्तत्स्याद्यशस्करम् || १२||

यथाहं तस्य वीरस्य वनादुपधिना हृता |
रक्षसा तद्भयादेव तथा नार्हति राघवः || १३||

बलैस्तु सङ्कुलां कृत्वा लङ्कां परबलार्दनः |
मां नयेद्यदि काकुत्स्थस्तत्तस्य सदृशं भवेत् || १४||

तद्यथा तस्य विक्रान्तमनुरूपं महात्मनः |
भवत्याहवशूरस्य तथा त्वमुपपादय || १५||

तदर्थोपहितं वाक्यं प्रश्रितं हेतुसंहितम् |
निशम्याहं ततः शेषं वाक्यमुत्तरमब्रुवम् || १६||

देवि हर्यृक्षसैन्यानामीश्वरः प्लवतां वरः |
सुग्रीवः सत्त्वसम्पन्नस्तवार्थे कृतनिश्चयः || १७||

तस्य विक्रमसम्पन्नाः सत्त्ववन्तो महाबलाः |
मनःसङ्कल्पसम्पाता निदेशे हरयः स्थिताः || १८||

येषां नोपरि नाधस्तान्न तिर्यक्सज्जते गतिः |
न च कर्मसु सीदन्ति महत्स्वमिततेजसः || १९||

असकृत्तैर्महाभागैर्वानरैर्बलसंयुतैः |
प्रदक्षिणीकृता भूमिर्वायुमार्गानुसारिभिः || २०||

मद्विशिष्टाश्च तुल्याश्च सन्ति तत्र वनौकसः |
मत्तः प्रत्यवरः कश्चिन्नास्ति सुग्रीवसंनिधौ || २१||

अहं तावदिह प्राप्तः किं पुनस्ते महाबलाः |
न हि प्रकृष्टाः प्रेष्यन्ते प्रेष्यन्ते हीतरे जनाः || २२||

तदलं परितापेन देवि मन्युर्व्यपैतु ते |
एकोत्पातेन ते लङ्कामेष्यन्ति हरियूथपाः || २३||

मम पृष्ठगतौ तौ च चन्द्रसूर्याविवोदितौ |
त्वत्सकाशं महाभागे नृसिंहावागमिष्यतः || २४||

अरिघ्नं सिंहसङ्काशं क्षिप्रं द्रक्ष्यसि राघवम् |
लक्ष्मणं च धनुष्पाणिं लङ्का द्वारमुपस्थितम् || २५||

नखदंष्ट्रायुधान्वीरान्सिंहशार्दूलविक्रमान् |
वानरान्वानरेन्द्राभान्क्षिप्रं द्रक्ष्यसि सङ्गतान् || २६||

शैलाम्बुदन्निकाशानां लङ्कामलयसानुषु |
नर्दतां कपिमुख्यानामचिराच्छोष्यसे स्वनम् || २७||

निवृत्तवनवासं च त्वया सार्धमरिन्दमम् |
अभिषिक्तमयोध्यायां क्षिप्रं द्रक्ष्यसि राघवम् || २८||

ततो मया वाग्भिरदीनभाषिणी
शिवाभिरिष्टाभिरभिप्रसादिता |
जगाम शान्तिं मम मैथिलात्मजा
तवापि शोकेन तथाभिपीडिता || २९||

29

2195

Shri Hanuman explains as to how he consoled Seeta.

इत्यार्षे श्री रामायणे सुन्दरकाण्डे चतुर्विंशतिः भाग:

 

Sundarakāṇḍa Part-23

Introduction to Yuddhakāṇḍa

No comments:

Post a Comment