Sunday, January 4, 2026

सुन्दरकाण्ड - Sundarakāṇḍa (भाग - २३ ;;; Part – 23)

 

सुन्दरकाण्ड - Sundarakāṇḍa (भाग - २३ ;;; Part – 23)

Sarga number as per Ramayana

Shlokas extracted

No. of shlokas

Cumulative number of shlokas in this Kanda

62

तानुवाच हरिश्रेष्ठो हनूमान्वानरर्षभः |
अव्यग्रमनसो यूयं मधु सेवत वानराः || ||

श्रुत्वा हनुमतो वाक्यं हरीणां प्रवरोऽङ्गदः |
प्रत्युवाच प्रसन्नात्मा पिबन्तु हरयो मधु || ||

अवश्यं कृतकार्यस्य वाक्यं हनुमतो मया |
अकार्यमपि कर्तव्यं किमङ्ग पुनरीदृशम् || ||

अन्दगस्य मुखाच्छ्रुत्वा वचनं वानरर्षभाः |
साधु साध्विति संहृष्टा वानराः प्रत्यपूजयन् || ||

पूजयित्वाङ्गदं सर्वे वानरा वानरर्षभम् |
जग्मुर्मधुवनं यत्र नदीवेग इव द्रुतम् || ||

ते प्रहृष्टा मधुवनं पालानाक्रम्य वीर्यतः |
अतिसर्गाच्च पटवो दृष्ट्वा श्रुत्वा मैथिलीम् || ||

उत्पत्य ततः सर्वे वनपालान्समागताः |
ताडयन्ति स्म शतशः सक्तान्मधुवने तदा || ||

मधूनि द्रोणमात्राणि बहुभिः परिगृह्य ते |
घ्नन्ति स्म सहिताः सर्वे भक्षयन्ति तथापरे || ||

के चित्पीत्वापविध्यन्ति मधूनि मधुपिङ्गलाः |
मधूच्चिष्टेन के चिच्च जघ्नुरन्योन्यमुत्कटाः || ||

अपरे वृक्षमूलेषु शाखां गृह्य व्यवस्थितः |
अत्यर्थं मदग्लानाः पर्णान्यास्तीर्य शेरते || १०||

उन्मत्तभूताः प्लवगा मधुमत्ताश्च हृष्टवत् |
क्षिपन्त्यपि तथान्योन्यं स्खलन्त्यपि तथापरे || ११||

के चित्क्ष्वेडान्प्रकुर्वन्ति के चित्कूजन्ति हृष्टवत् |
हरयो मधुना मत्ताः के चित्सुप्ता महीतले || १२||

येऽप्यत्र मधुपालाः स्युः प्रेष्या दधिमुखस्य तु |
तेऽपि तैर्वानरैर्भीमैः प्रतिषिद्धा दिशो गताः || १३||

जानुभिश्च प्रकृष्टाश्च देवमार्गं दर्शिताः |
अब्रुवन्परमोद्विग्ना गत्वा दधिमुखं वचः || १४||

हनूमता दत्तवरैर्हतं मधुवनं बलात् |
वयं जानुभिः कृष्टा देवमार्गं दर्शिताः || १५||

ततो दधिमुखः क्रुद्धो वनपस्तत्र वानरः |
हतं मधुवनं श्रुत्वा सान्त्वयामास तान्हरीन् || १६||

एतागच्छत गच्छामो वानरानतिदर्पितान् |
बलेनावारयिष्यामो मधु भक्षयतो वयम् || १७||

श्रुत्वा दधिमुखस्येदं वचनं वानरर्षभाः |
पुनर्वीरा मधुवनं तेनैव सहिता ययुः || १८||

मध्ये चैषां दधिमुखः प्रगृह्य सुमहातरुम् |
समभ्यधावद्वेगेना ते सर्वे प्लवङ्गमाः || १९||

ते शिलाः पादपांश्चापि पाषाणांश्चापि वानराः |
गृहीत्वाभ्यागमन्क्रुद्धा यत्र ते कपिकुञ्जराः || २०||

ते स्वामिवचनं वीरा हृदयेष्ववसज्य तत् |
त्वरया ह्यभ्यधावन्त सालतालशिलायुधाः || २१||

वृक्षस्थांश्च तलस्थांश्च वानरान्बलदर्पितान् |
अभ्यक्रामन्त ते वीराः पालास्तत्र सहस्रशः || २२||

अथ दृष्ट्वा दधिमुखं क्रुद्धं वानरपुङ्गवाः |
अभ्यधावन्त वेगेन हनूमत्प्रमुखास्तदा || २३||

तं सवृक्षं महाबाहुमापतन्तं महाबलम् |
आर्यकं प्राहरत्तत्र बाहुभ्यां कुपितोऽङ्गदः || २४||

मदान्धश वेदैनमार्यकोऽयं ममेति सः |
अथैनं निष्पिपेषाशु वेगवद्वसुधातले || २५||

भग्नबाहुर्विमुखो विह्वलः शोणितोक्षितः |
मुमोह सहसा वीरो मुहूर्तं कपिकुञ्जरः || २६||

कथं चिद्विमुक्तस्तैर्वानरैर्वानरर्षभः |
उवाचैकान्तमागम्य भृत्यांस्तान्समुपागतान् || २७||

एते तिष्ठन्तु गच्छामो भर्ता नो यत्र वानरः |
सुग्रीवो विपुलग्रीवः सह रामेण तिष्ठति || २८||

सर्वं चैवाङ्गदे दोषं श्रावयिष्यामि पार्थिव |
अमर्षी वचनं श्रुत्वा घातयिष्यति वानरान् || २९||

इष्टं मधुवनं ह्येतत्सुग्रीवस्य महात्मनः |
पितृपैतामहं दिव्यं देवैरपि दुरासदम् || ३०||

वानरानिमान्सर्वान्मधुलुब्धान्गतायुषः |
घातयिष्यति दण्डेन सुग्रीवः ससुहृज्जनान् || ३१||

वध्या ह्येते दुरात्मानो नृपाज्ञा परिभाविनः |
अमर्षप्रभवो रोषः सफलो नो भविष्यति || ३२||

एवमुक्त्वा दधिमुखो वनपालान्महाबलः |
जगाम सहसोत्पत्य वनपालैः समन्वितः || ३३||

निमेषान्तरमात्रेण हि प्राप्तो वनालयः |
सहस्रांशुसुतो धीमान्सुग्रीवो यत्र वानरः || ३४||

रामं लक्ष्मणं चैव दृष्ट्वा सुग्रीवमेव |
समप्रतिष्ठां जगतीमाकाशान्निपपात || ३५||

निपत्य महावीर्यः सर्वैस्तैः परिवारितः |
हरिर्दधिमुखः पालैः पालानां परमेश्वरः || ३६||

दीनवदनो भूत्वा कृत्वा शिरसि चाञ्जलिम् |
सुग्रीवस्य शुभौ मूर्ध्ना चरणौ प्रत्यपीडयत् || ३७||

37

2022

Permitted by Shri Hanuman and Angada, the vanaras enter Madhuvana and drank the honey.  Dadhimukha and his supporting guards tried to stop them, but the vanaras in the inebriated state, started singing and dancing, and dragged them by their knees and tossed them up in the air. Dadhimukha along with his followers then proceeded to Kishkindha to report the matter to Sugreeva.

63

ततो मूर्ध्ना निपतितं वानरं वानरर्षभः |
दृष्ट्वैवोद्विग्नहृदयो वाक्यमेतदुवाच || ||

उत्तिष्ठोत्तिष्ठ कस्मात्त्वं पादयोः पतितो मम |
अभयं ते भवेद्वीर सत्यमेवाभिधीयताम् || ||

तु विश्वासितस्तेन सुग्रीवेण महात्मना |
उत्थाय महाप्राज्ञो वाक्यं दधिमुखोऽब्रवीत् || ||

नैवर्क्षरजसा राजन्न त्वया नापि वालिना |
वनं निसृष्टपूर्वं हि भक्षितं तत्तु वानरैः || ||

एभिः प्रधर्षिताश्चैव वारिता वनरक्षिभिः |
मधून्यचिन्तयित्वेमान्भक्षयन्ति पिबन्ति || ||

शिष्टमत्रापविध्यन्ति भक्षयन्ति तथापरे |
निवार्यमाणास्ते सर्वे भ्रुवौ वै दर्शयन्ति हि || ||

इमे हि संरब्धतरास्तथा तैः सम्प्रधर्षिताः |
वारयन्तो वनात्तस्मात्क्रुद्धैर्वानरपुङ्गवैः || ||

ततस्तैर्बहुभिर्वीरैर्वानरैर्वानरर्षभाः |
संरक्तनयनैः क्रोधाद्धरयः सम्प्रचालिताः || ||

पाणिभिर्निहताः के चित्के चिज्जानुभिराहताः |
प्रकृष्टाश्च यथाकामं देवमार्गं दर्शिताः || ||

एवमेते हताः शूरास्त्वयि तिष्ठति भर्तरि |
कृत्स्नं मधुवनं चैव प्रकामं तैः प्रभक्ष्यते || १०||

एवं विज्ञाप्यमानं तु सुग्रीवं वानरर्षभम् |
अपृच्छत्तं महाप्राज्ञो लक्ष्मणः परवीरहा || ११||

किमयं वानरो राजन्वनपः प्रत्युपस्थितः |
कं चार्थमभिनिर्दिश्य दुःखितो वाक्यमब्रवीत् || १२||

एवमुक्तस्तु सुग्रीवो लक्ष्मणेन महात्मना |
लक्ष्मणं प्रत्युवाचेदं वाक्यं वाक्यविशारदः || १३||

आर्य लक्ष्मण सम्प्राह वीरो दधिमुखः कपिः |
अङ्गदप्रमुखैर्वीरैर्भक्षितं मधुवानरैः || १४||

नैषामकृतकृत्यानामीदृशः स्यादुपक्रमः |
वनं यथाभिपन्नं तैः साधितं कर्म वानरैः || १५||

दृष्टा देवी सन्देहो चान्येन हनूमता |
ह्यन्यः साधने हेतुः कर्मणोऽस्य हनूमतः || १६||

कार्यसिद्धिर्हनुमति मतिश्च हरिपुङ्गव |
व्यवसायश्च वीर्यं श्रुतं चापि प्रतिष्ठितम् || १७||

जाम्बवान्यत्र नेता स्यादङ्गदस्य बलेश्वरः |
हनूमांश्चाप्यधिष्ठाता तस्य गतिरन्यथा || १८||

अङ्गदप्रमुखैर्वीरैर्हतं मधुवनं किल |
विचिन्त्य दक्षिणामाशामागतैर्हरिपुङ्गवैः || १९||

आगतैश्च प्रविष्टं तद्यथा मधुवनं हि तैः |
धर्षितं वनं कृत्स्नमुपयुक्तं वानरैः |
वारिताः सहिताः पालास्तथा जानुभिराहताः || २०||

एतदर्थमयं प्राप्तो वक्तुं मधुरवागिह |
नाम्ना दधिमुखो नाम हरिः प्रख्यातविक्रमः || २१||

दृष्टा सीता महाबाहो सौमित्रे पश्य तत्त्वतः |
अभिगम्य यथा सर्वे पिबन्ति मधु वानराः || २२||

चाप्यदृष्ट्वा वैदेहीं विश्रुताः पुरुषर्षभ |
वनं दात्त वरं दिव्यं धर्षयेयुर्वनौकसः || २३||

ततः प्रहृष्टो धर्मात्मा लक्ष्मणः सहराघवः |
श्रुत्वा कर्णसुखां वाणीं सुग्रीववदनाच्च्युताम् || २४||

प्राहृष्यत भृशं रामो लक्ष्मणश्च महायशाः |
श्रुत्वा दधिमुखस्येदं सुग्रीवस्तु प्रहृष्य |
वनपालं पुनर्वाक्यं सुग्रीवः प्रत्यभाषत || २५||

प्रीतोऽस्मि सौम्य यद्भुक्तं वनं तैः कृतकर्मभिः |
मर्षितं मर्षणीयं चेष्टितं कृतकर्मणाम् || २६||

इच्छामि शीघ्रं हनुमत्प्रधानान्
शाखामृगांस्तान्मृगराजदर्पान् |
द्रष्टुं कृतार्थान्सह राघवाभ्यां
श्रोतुं सीताधिगमे प्रयत्नम् || २७||

27

2049

Dadhimukha reports to Sugreeva about what transpired in Madhuvana. Sugreeva concludes by the behaviour of the Vanaras in the Madhuvana that Seetha had been seen by them. Consoling Dadhimukha, Sugreeva asks him to send Angada and the other vanaras quickly to his presence.

64

सुग्रीवेणैवमुक्तस्तु हृष्टो दधिमुखः कपिः |
राघवं लक्ष्मणं चैव सुग्रीवं चाभ्यवादयत् || ||

प्रणम्य सुग्रीवं राघवौ महाबलौ |
वानरैः सहितैः शूरैर्दिवमेवोत्पपात || ||

यथैवागतः पूर्वं तथैव त्वरितो गतः |
निपत्य गगनाद्भूमौ तद्वनं प्रविवेश || ||

प्रविष्टो मधुवनं ददर्श हरियूथपान् |
विमदानुद्धतान्सर्वान्मेहमानान्मधूदकम् || ||

तानुपागमद्वीरो बद्ध्वा करपुटाञ्जलिम् |
उवाच वचनं श्लक्ष्णमिदं हृष्टवदङ्गदम् || ||

सौम्य रोषो कर्तव्यो यदेभिरभिवारितः |
अज्ञानाद्रक्षिभिः क्रोधाद्भवन्तः प्रतिषेधिताः || ||

युवराजस्त्वमीशश्च वनस्यास्य महाबल |
मौर्ख्यात्पूर्वं कृतो दोषस्तद्भवान्क्षन्तुमर्हति || ||

यथैव हि पिता तेऽभूत्पूर्वं हरिगणेश्वरः |
तथा त्वमपि सुग्रीवो नान्यस्तु हरिसत्तम || ||

आख्यातं हि मया गत्वा पितृव्यस्य तवानघ |
इहोपयानं सर्वेषामेतेषां वनचारिणाम् || ||

त्वदागमनं श्रुत्वा सहैभिर्हरियूथपैः |
प्रहृष्टो तु रुष्टोऽसौ वनं श्रुत्वा प्रधर्षितम् || १०||

प्रहृष्टो मां पितृव्यस्ते सुग्रीवो वानरेश्वरः |
शीघ्रं प्रेषय सर्वांस्तानिति होवाच पार्थिवः || ११||

श्रुत्वा दधिमुखस्यैतद्वचनं श्लक्ष्णमङ्गदः |
अब्रवीत्तान्हरिश्रेष्ठो वाक्यं वाक्यविशारदः || १२||

शङ्के श्रुतोऽयं वृत्तान्तो रामेण हरियूथपाः |
तत्क्षमं नेह नः स्थातुं कृते कार्ये परन्तपाः || १३||

पीत्वा मधु यथाकामं विश्रान्ता वनचारिणः |
किं शेषं गमनं तत्र सुग्रीवो यत्र मे गुरुः || १४||

सर्वे यथा मां वक्ष्यन्ति समेत्य हरियूथपाः |
तथास्मि कर्ता कर्तव्ये भवद्भिः परवानहम् || १५||

नाज्ञापयितुमीशोऽहं युवराजोऽस्मि यद्यपि |
अयुक्तं कृतकर्माणो यूयं धर्षयितुं मया || १६||

ब्रुवतश्चाङ्गदश्चैवं श्रुत्वा वचनमव्ययम् |
प्रहृष्टमनसो वाक्यमिदमूचुर्वनौकसः || १७||

एवं वक्ष्यति को राजन्प्रभुः सन्वानरर्षभ |
ऐश्वर्यमदमत्तो हि सर्वोऽहमिति मन्यते || १८||

तव चेदं सुसदृशं वाक्यं नान्यस्य कस्य चित् |
संनतिर्हि तवाख्याति भविष्यच्छुभभाग्यताम् || १९||

सर्वे वयमपि प्राप्तास्तत्र गन्तुं कृतक्षणाः |
यत्र हरिवीराणां सुग्रीवः पतिरव्ययः || २०||

त्वया ह्यनुक्तैर्हरिभिर्नैव शक्यं पदात्पदम् |
क्व चिद्गन्तुं हरिश्रेष्ठ ब्रूमः सत्यमिदं तु ते || २१||

एवं तु वदतां तेषामङ्गदः प्रत्यभाषत |
बाढं गच्छाम इत्युक्त्वा उत्पपात महीतलात् || २२||

उत्पतन्तमनूत्पेतुः सर्वे ते हरियूथपाः |
कृत्वाकाशं निराकाशं यज्ञोत्क्षिप्ता इवानलाः || २३||

तेऽम्बरं सहसोत्पत्य वेगवन्तः प्लवङ्गमाः |
विनदन्तो महानादं घना वातेरिता यथा || २४||

अङ्गदे ह्यननुप्राप्ते सुग्रीवो वानराधिपः |
उवाच शोकोपहतं रामं कमललोचनम् || २५||

समाश्वसिहि भद्रं ते दृष्टा देवी संशयः |
नागन्तुमिह शक्यं तैरतीते समये हि नः || २६||

मत्सकाशमागच्छेत्कृत्ये हि विनिपातिते |
युवराजो महाबाहुः प्लवतां प्रवरोऽङ्गदः || २७||

यद्यप्यकृतकृत्यानामीदृशः स्यादुपक्रमः |
भवेत्तु दीनवदनो भ्रान्तविप्लुतमानसः || २८||

पितृपैतामहं चैतत्पूर्वकैरभिरक्षितम् |
मे मधुवनं हन्यादहृष्टः प्लवगेश्वरः || २९||

कौसल्या सुप्रजा राम समाश्वसिहि सुव्रत |
दृष्टा देवी सन्देहो चान्येन हनूमता |
ह्यन्यः कर्मणो हेतुः साधने तद्विधो भवेत् || ३०||

हनूमति हि सिद्धिश्च मतिश् मतिसत्तम |
व्यवसायश्च वीर्यं सूर्ये तेज इव ध्रुवम् || ३१||

जाम्बवान्यत्र नेता स्यादङ्गदश्च बलेश्वरः |
हनूमांश्चाप्यधिष्ठाता तस्य गतिरन्यथा || ३२||

मा भूश्चिन्ता समायुक्तः सम्प्रत्यमितविक्रम || ३३||

ततः किल किला शब्दं शुश्रावासन्नमम्बरे |
हनूमत्कर्मदृप्तानां नर्दतां काननौकसाम् |
किष्किन्धामुपयातानां सिद्धिं कथयताम् इव || ३४||

ततः श्रुत्वा निनादं तं कपीनां कपिसत्तमः |
आयताञ्चितलाङ्गूलः सोऽभवद्धृष्टमानसः || ३५||

आजग्मुस्तेऽपि हरयो रामदर्शनकाङ्क्षिणः |
अङ्गदं पुरतः कृत्वा हनूमन्तं वानरम् || ३६||

तेऽङ्गदप्रमुखा वीराः प्रहृष्टाश्च मुदान्विताः |
निपेतुर्हरिराजस्य समीपे राघवस्य || ३७||

हनूमांश्च महाबहुः प्रणम्य शिरसा ततः |
नियतामक्षतां देवीं राघवाय न्यवेदयत् || ३८||

निश्चितार्थं ततस्तस्मिन्सुग्रीवं पवनात्मजे |
लक्ष्मणः प्रीतिमान्प्रीतं बहुमानादवैक्षत || ३९||

प्रीत्या रममाणोऽथ राघवः परवीरहा |
बहु मानेन महता हनूमन्तमवैक्षत || ४०||

40

2089

Dadhimukha goes back to Madhuvana and conveys Sugreeva’s order to Angada and others and they reach Kishkinda and report that Seeta was seen.

इत्यार्षे श्री रामायणे सुन्दरकाण्डे त्रयोविंशतिः भाग:

 

Sundarakāṇḍa Part-22

Sundarakāṇḍa Part-24

No comments:

Post a Comment