Monday, January 5, 2026

युद्धकाण्ड - Yuddhakāṇḍa (भाग - १ ;;; Part – 1)

 

युद्धकाण्ड - Yuddhakāṇḍa (भाग - ;;; Part – 1)


Sarga number as per Ramayana

Shlokas extracted

No. of shlokas

Cumulative number of shlokas in this Kanda

1

श्रुत्वा हनुमतो वाक्यं यथावदभिभाषितम् |
रामः प्रीतिसमायुक्तो वाक्यमुत्तरमब्रवीत् || १||

कृतं हनुमता कार्यं सुमहद्भुवि दुष्करम् |
मनसापि यदन्येन न शक्यं धरणीतले || २||

न हि तं परिपश्यामि यस्तरेत महार्णवम् |
अन्यत्र गरुणाद्वायोरन्यत्र च हनूमतः || ३||

देवदानवयक्षाणां गन्धर्वोरगरक्षसाम् |
अप्रधृष्यां पुरीं लङ्कां रावणेन सुरक्षिताम् || ४||

प्रविष्टः सत्त्वमाश्रित्य जीवन्को नाम निष्क्रमेत् |
को विशेत्सुदुराधर्षां राक्षसैश्च सुरक्षिताम् |
यो वीर्यबलसम्पन्नो न समः स्याद्धनूमतः || ५||

भृत्यकार्यं हनुमता सुग्रीवस्य कृतं महत् |
एवं विधाय स्वबलं सदृशं विक्रमस्य च || ६||

यो हि भृत्यो नियुक्तः सन्भर्त्रा कर्मणि दुष्करे |
कुर्यात्तदनुरागेण तमाहुः पुरुषोत्तमम् || ७||

नियुक्तो नृपतेः कार्यं न कुर्याद्यः समाहितः |
भृत्यो युक्तः समर्थश्च तमाहुः पुरुषाधमम् || ८||

तन्नियोगे नियुक्तेन कृतं कृत्यं हनूमता |
न चात्मा लघुतां नीतः सुग्रीवश्चापि तोषितः || ९||

अहं च रघुवंशश्च लक्ष्मणश्च महाबलः |
वैदेह्या दर्शनेनाद्य धर्मतः परिरक्षिताः || १०||

इदं तु मम दीनस्या मनो भूयः प्रकर्षति |
यदिहास्य प्रियाख्यातुर्न कुर्मि सदृशं प्रियम् || ११||

एष सर्वस्वभूतस्तु परिष्वङ्गो हनूमतः |
मया कालमिमं प्राप्य दत्तस्तस्य महात्मनः || १२||

सर्वथा सुकृतं तावत्सीतायाः परिमार्गणम् |
सागरं तु समासाद्य पुनर्नष्टं मनो मम || १३||

कथं नाम समुद्रस्य दुष्पारस्य महाम्भसः |
हरयो दक्षिणं पारं गमिष्यन्ति समाहिताः || १४||

यद्यप्येष तु वृत्तान्तो वैदेह्या गदितो मम |
समुद्रपारगमने हरीणां किमिवोत्तरम् || १५||

इत्युक्त्वा शोकसम्भ्रान्तो रामः शत्रुनिबर्हणः |
हनूमन्तं महाबाहुस्ततो ध्यानमुपागमत् || १६||

16

16

Shri Rama praises Shri Hanuman after hearing his detailed narration of his search. Rama was pleased that Shri Hanuman completed his task in dutiful manner something worthy of a noble messenger. And, he embraces Shri Hanuman. Then, Shri Rama reflected upon the problem of as to how to cross the ocean.

2

तं तु शोकपरिद्यूनं रामं दशरथात्मजम् |
उवाच वचनं श्रीमान्सुग्रीवः शोकनाशनम् || १||

किं त्वं सन्तप्यसे वीर यथान्यः प्राकृतस्तथा |
मैवं भूस्त्यज सन्तापं कृतघ्न इव सौहृदम् || २||

सन्तापस्य च ते स्थानं न हि पश्यामि राघव |
प्रवृत्तावुपलब्धायां ज्ञाते च निलये रिपोः || ३||

धृतिमाञ्शास्त्रवित्प्राज्ञः पण्डितश्चासि राघव |
त्यजेमां पापिकां बुद्धिं कृत्वात्मेवार्थदूषणीम् || ४||

समुद्रं लङ्घयित्वा तु महानक्रसमाकुलम् |
लङ्कामारोहयिष्यामो हनिष्यामश् च ते रिपुम् || ५||

निरुत्साहस्य दीनस्य शोकपर्याकुलात्मनः |
सर्वार्था व्यवसीदन्ति व्यसनं चाधिगच्छति || ६||

इमे शूराः समर्थाश्च सर्वे नो हरियूथपाः |
त्वत्प्रियार्थं कृतोत्साहाः प्रवेष्टुमपि पावकम् || ७||

एषां हर्षेण जानामि तर्कश्चास्मिन्दृढो मम |
विक्रमेण समानेष्ये सीतां हत्वा यथा रिपुम् || ८||

सेतुरत्र यथा वध्येद्यथा पश्येम तां पुरीम् |
तस्य राक्षसराजस्य तथा त्वं कुरु राघव || ९||

दृष्ट्वा तां हि पुरीं लङ्कां त्रिकूटशिखरे स्थिताम् |
हतं च रावणं युद्धे दर्शनादुपधारय || १०||

सेतुबद्धः समुद्रे च यावल्लङ्का समीपतः |
सर्वं तीर्णं च वै सैन्यं जितमित्युपधार्यताम् || ११||

इमे हि समरे शूरा हरयः कामरूपिणः |
तदलं विक्लवा बुद्धी राजन्सर्वार्थनाशनी || १२||

पुरुषस्य हि लोकेऽस्मिञ्शोकः शौर्यापकर्षणः |
यत्तु कार्यं मनुष्येण शौण्डीर्यमवलम्बता |
शूराणां हि मनुष्याणां त्वद्विधानां महात्मनाम् || १३||

विनष्टे वा प्रनष्टे वा शोकः सर्वार्थनाशनः |
त्वं तु बुद्धिमतां श्रेष्ठः सर्वशास्त्रार्थकोविदः || १४||

मद्विधैः सचिवैः सार्थमरिं जेतुमिहार्हसि |
न हि पश्याम्यहं कं चित्त्रिषु लोकेषु राघव || १५||

गृहीतधनुषो यस्ते तिष्ठेदभिमुखो रणे |
वानरेषु समासक्तं न ते कार्यं विपत्स्यते || १६||

अचिराद्द्रक्ष्यसे सीतां तीर्त्वा सागरमक्षयम् |
तदलं शोकमालम्ब्य क्रोधमालम्ब भूपते || १७||

निश्चेष्टाः क्षत्रिया मन्दाः सर्वे चण्डस्य बिभ्यति |
लङ्गनार्थं च घोरस्य समुद्रस्य नदीपतेः || १८||

सहास्माभिरिहोपेतः सूक्ष्मबुद्धिर्विचारय |
इमे हि समरे शूरा हरयः कामरूपिणः || १९||

तानरीन्विधमिष्यन्ति शिलापादपवृष्टिभिः |
कथं चित्परिपश्यामस्ते वयं वरुणालयम् || २०||

किमुक्त्वा बहुधा चापि सर्वथा विजयी भवान् || २१||

21

37

Sugreeva assures Shri Rama, suggesting him to keep away from apprehensive mind and to think of ways and means to cross the ocean.

4 (Part -1)

सुग्रीवस्य वचः श्रुत्वा हेतुमत्परमार्थवित् |
ततोऽब्रवीन्महातेजा रामः सत्यपराक्रमः || १||

यां निवेदयसे लङ्कां पुरीं भीमस्य रक्षसः |
क्षिप्रमेनां वधिष्यामि सत्यमेतद्ब्रवीमि ते || २||

अस्मिन्मुहूर्ते सुग्रीव प्रयाणमभिरोचये |
युक्तो मुहूर्तो विजयः प्राप्तो मध्यं दिवाकरः || ३||

उत्तरा फल्गुनी ह्यद्य श्वस्तु हस्तेन योक्ष्यते |
अभिप्रयाम सुग्रीव सर्वानीकसमावृताः || ४||

निमित्तानि च धन्यानि यानि प्रादुर्भवन्ति मे |
निहत्य रावणं सीतामानयिष्यामि जानकीम् || ५||

उपरिष्टाद्धि नयनं स्फुरमाणमिदं मम |
विजयं समनुप्राप्तं शंसतीव मनोरथम् || ६||

अग्रे यातु बलस्यास्य नीलो मार्गमवेक्षितुम् |
वृतः शतसहस्रेण वानराणां तरस्विनाम् || ७||

फलमूलवता नील शीतकाननवारिणा |
पथा मधुमता चाशु सेनां सेनापते नय || ८||

दूषयेयुर्दुरात्मानः पथि मूलफलोदकम् |
राक्षसाः परिरक्षेथास्तेभ्यस्त्वं नित्यमुद्यतः || ९||

निम्नेषु वनदुर्गेषु वनेषु च वनौकसः |
अभिप्लुत्याभिपश्येयुः परेषां निहतं बलम् || १०||

सागरौघनिभं भीममग्रानीकं महाबलाः |
कपिसिंहा प्रकर्षन्तु शतशोऽथ सहस्रशः || ११||

गजश्च गिरिसङ्काशो गवयश्च महाबलः |
गवाक्षश्चाग्रतो यान्तु गवां दृप्ता इवर्षभाः || १२||

यातु वानरवाहिन्या वानरः प्लवतां पतिः |
पालयन्दक्षिणं पार्श्वमृषभो वानरर्षभः || १३||

गन्धहस्तीव दुर्धर्षस्तरस्वी गन्धमादनः |
यातु वानरवाहिन्याः सव्यं पार्श्वमधिष्ठितः || १४||

यास्यामि बलमध्येऽहं बलौघमभिहर्षयन् |
अधिरुह्य हनूमन्तमैरावतमिवेश्वरः || १५||

अङ्गदेनैष संयातु लक्ष्मणश्चान्तकोपमः |
सार्वभौमेण भूतेशो द्रविणाधिपतिर्यथा || १६||

जाम्बवांश्च सुषेणश्च वेगदर्शी च वानरः |
ऋक्षराजो महासत्त्वः कुक्षिं रक्षन्तु ते त्रयः || १७||

राघवस्य वचः श्रुत्वा सुग्रीवो वाहिनीपतिः |
व्यादिदेश महावीर्यान्वानरान्वानरर्षभः || १८||

ते वानरगणाः सर्वे समुत्पत्य युयुत्सवः |
गुहाभ्यः शिखरेभ्यश्च आशु पुप्लुविरे तदा || १९||

ततो वानरराजेन लक्ष्मणेन च पूजितः |
जगाम रामो धर्मात्मा ससैन्यो दक्षिणां दिशम् || २०||

20

57

Shri Rama requests Sugreeva to start on war expedition then there itself, as the Nakshatra of that day was Uttaraphalguni.  The entire vanara army start excitedly towards Southern direction.

इत्यार्षे श्री रामायणे युद्धकाण्डे प्रथम: भाग:

 

Introduction to Yuddhakāṇḍa

Yuddhakāṇḍa Part-2

 

 

No comments:

Post a Comment