Monday, January 5, 2026

युद्धकाण्ड - Yuddhakāṇḍa (भाग - २ ;;; Part – 2)

 

युद्धकाण्ड - Yuddhakāṇḍa (भाग - ;;; Part – 2)


Sarga number as per Ramayana

Shlokas extracted

No. of shlokas

Cumulative number of shlokas in this Kanda

4 (Part -2)

शतैः शतसहस्रैश्च कोटीभिरयुतैरपि |
वारणाभिश्च हरिभिर्ययौ परिवृतस्तदा || २१||

तं यान्तमनुयाति स्म महती हरिवाहिनी || २२||

हृष्टाः प्रमुदिताः सर्वे सुग्रीवेणाभिपालिताः |
आप्लवन्तः प्लवन्तश्च गर्जन्तश्च प्लवङ्गमाः |
क्ष्वेलन्तो निनदन्तश्च जग्मुर्वै दक्षिणां दिशम् || २३||

भक्षयन्तः सुगन्धीनि मधूनि च फलानि च |
उद्वहन्तो महावृक्षान्मञ्जरीपुञ्जधारिणः || २४||

अन्योन्यं सहसा दृष्टा निर्वहन्ति क्षिपन्ति च |
पतन्तश्चोत्पतन्त्यन्ये पातयन्त्यपरे परान् || २५||

रावणो नो निहन्तव्यः सर्वे च रजनीचराः |
इति गर्जन्ति हरयो राघवस्य समीपतः || २६||

पुरस्तादृषभ्हो वीरो नीलः कुमुद एव च |
पथानं शोधयन्ति स्म वानरैर्बहुभिः सह || २७||

मध्ये तु राजा सुग्रीवो रामो लक्ष्मण एव च |
बहुभिर्बलिभिर्भीमैर्वृताः शत्रुनिबर्हणः || २८||

हरिः शतबलिर्वीरः कोटीभिर्दशभिर्वृतः |
सर्वामेको ह्यवष्टभ्य ररक्ष हरिवाहिनीम् || २९||

कोटीशतपरीवारः केसरी पनसो गजः |
अर्कश्चातिबलः पार्श्वमेकं तस्याभिरक्षति || ३०||

सुषेणो जाम्बवांश्चैव ऋक्षैर्बहुभिरावृतः |
सुग्रीवं पुरतः कृत्वा जघनं संररक्षतुः || ३१||

तेषां सेनापतिर्वीरो नीलो वानरपुङ्गवः |
सम्पतन्पततां श्रेष्ठस्तद्बलं पर्यपालयत् || ३२||

दरीमिखः प्रजङ्घश्च जम्भोऽथ रभसः कपिः |
सर्वतश्च ययुर्वीरास्त्वरयन्तः प्लवङ्गमान् || ३३||

एवं ते हरिशार्दूला गच्छन्तो बलदर्पिताः |
अपश्यंस्ते गिरिश्रेष्ठं सह्यं द्रुमलतायुतम् || ३४||

सागरौघनिभं भीमं तद्वानरबलं महत् |
निःससर्प महाघोषं भीमवेग इवार्णवः || ३५||

तस्य दाशरथेः पार्श्वे शूरास्ते कपिकुञ्जराः |
तूर्णमापुप्लुवुः सर्वे सदश्वा इव चोदिताः || ३६||

कपिभ्यामुह्यमानौ तौ शुशुभते नरर्षभौ |
महद्भ्यामिव संस्पृष्टौ ग्राहाभ्यां चन्द्रभास्करौ || ३७||

तमङ्गदगतो रामं लक्ष्मणः शुभया गिरा |
उवाच प्रतिपूर्णार्थः स्मृतिमान्प्रतिभानवान् || ३८||

हृतामवाप्य वैदेहीं क्षिप्रं हत्वा च रावणम् |
समृद्धार्थः समृद्धार्थामयोध्यां प्रतियास्यसि || ३९||

महान्ति च निमित्तानि दिवि भूमौ च राघव |
शुभान्ति तव पश्यामि सर्वाण्येवार्थसिद्धये || ४०||

अनु वाति शुभो वायुः सेनां मृदुहितः सुखः |
पूर्णवल्गुस्वराश्चेमे प्रवदन्ति मृगद्विजाः || ४१||

प्रसन्नाश्च दिशः सर्वा विमलश्च दिवाकरः |
उशना च प्रसन्नार्चिरनु त्वां भार्गवो गतः || ४२||

ब्रह्मराशिर्विशुद्धश्च शुद्धाश्च परमर्षयः |
अर्चिष्मन्तः प्रकाशन्ते ध्रुवं सर्वे प्रदक्षिणम् || ४३||

त्रिशङ्कुर्विमलो भाति राजर्षिः सपुरोहितः |
पितामहवरोऽस्माकमिष्क्वाकूणां महात्मनाम् || ४४||

विमले च प्रकाशेते विशाखे निरुपद्रवे |
नक्षत्रं परमस्माकमिक्ष्वाकूणां महात्मनाम् || ४५||

नैरृतं नैरृतानां च नक्षत्रमभिपीड्यते |
मूलं मूलवता स्पृष्टं धूप्यते धूमकेतुना || ४६||

सरं चैतद्विनाशाय राक्षसानाम् उपस्थितम् |
काले कालगृहीतानां नकत्रं ग्रहपीडितम् || ४७||

प्रसन्नाः सुरसाश्चापो वनानि फलवन्ति च |
प्रवान्त्यभ्यधिकं गन्धा यथर्तुकुसुमा द्रुमाः || ४८||

व्यूढानि कपिसैन्यानि प्रकाशन्तेऽधिकं प्रभो |
देवानामिव सैन्यानि सङ्ग्रामे तारकामये || ४९||

एवमार्य समीक्ष्यैतान्प्रीतो भवितुमर्हसि |
इति भ्रातरमाश्वास्य हृष्टः सौमित्रिरब्रवीत् || ५०||

अथावृत्य महीं कृत्स्नां जगाम महती चमूः |
ऋक्षवानरशार्दूलैर्नखदंष्ट्रायुधैर्वृता || ५१||

कराग्रैश्चरणाग्रैश्च वानरैरुद्धतं रजः |
भौममन्तर्दधे लोकं निवार्य सवितुः प्रभाम् || ५२||

सा स्म याति दिवारात्रं महती हरिवाहिनी |
हृष्टप्रमुदिता सेना सुग्रीवेणाभिरक्षिता || ५३||

वनरास्त्वरितं यान्ति सर्वे युद्धाभिनन्दनः |
मुमोक्षयिषवः सीतां मुहूर्तं क्वापि नासत || ५४||

ततः पादपसम्बाधं नानामृगसमाकुलम् |
सह्यपर्वतमासेदुर्मलयं च मही धरम् || ५५||

काननानि विचित्राणि नदीप्रस्रवणानि च |
पश्यन्नपि ययौ रामः सह्यस्य मलयस्य च || ५६||

चम्पकांस्तिलकांश्चूतानशोकान्सिन्दुवारकान् |
करवीरांश्च तिमिशान्भञ्जन्ति स्म प्लवङ्गमाः || ५७||

फलान्यमृतगन्धीनि मूलानि कुसुमानि च |
बुभुजुर्वानरास्तत्र पादपानां बलोत्कटाः || ५८||

द्रोणमात्रप्रमाणानि लम्बमानानि वानराः |
ययुः पिबन्तो हृष्टास्ते मधूनि मधुपिङ्गलाः || ५९||

पादपानवभञ्जन्तो विकर्षन्तस्तथा लताः |
विधमन्तो गिरिवरान्प्रययुः प्लवगर्षभाः || ६०||

वृक्षेभ्योऽन्ये तु कपयो नर्दन्तो मधुदर्पिताः |
अन्ये वृक्षान्प्रपद्यन्ते प्रपतन्त्यपि चापरे || ६१||

बभूव वसुधा तैस्तु सम्पूर्णा हरिपुङ्गवैः |
यथा कमलकेदारैः पक्वैरिव वसुन्धरा || ६२||

महेन्द्रमथ सम्प्राप्य रामो राजीवलोचनः |
अध्यारोहन्महाबाहुः शिखरं द्रुमभूषितम् || ६३||

ततः शिखरमारुह्य रामो दशरथात्मजः |
कूर्ममीनसमाकीर्णमपश्यत्सलिलाशयम् || ६४||

ते सह्यं समतिक्रम्य मलयं च महागिरिम् |
आसेदुरानुपूर्व्येण समुद्रं भीमनिःस्वनम् || ६५||

अवरुह्य जगामाशु वेलावनमनुत्तमम् |
रामो रमयतां श्रेष्ठः ससुग्रीवः सलक्ष्मणः || ६६||

अथ धौतोपलतलां तोयौघैः सहसोत्थितैः |
वेलामासाद्य विपुलां रामो वचनमब्रवीत् || ६७||

एते वयमनुप्राप्ताः सुग्रीव वरुणालयम् |
इहेदानीं विचिन्ता सा या न पूर्वं समुत्थिता || ६८||

अतः परमतीरोऽयं सागरः सरितां पति |
न चायमनुपायेन शक्यस्तरितुमर्णवः || ६९||

तदिहैव निवेशोऽस्तु मन्त्रः प्रस्तूयताम् इह |
यथेदं वानरबलं परं पारमवाप्नुयात् || ७०||

इतीव स महाबाहुः सीताहरणकर्शितः |
रामः सागरमासाद्य वासमाज्ञापयत्तदा || ७१||

सम्प्राप्तो मन्त्रकालो नः सागरस्येह लङ्घने |
स्वां स्वां सेनां समुत्सृज्य मा च कश् चित्कुतो व्रजेत् |
गच्छन्तु वानराः शूरा ज्ञेयं छन्नं भयं च नः || ७२||

रामस्य वचनं श्रुत्वा सुग्रीवः सहलक्ष्मणः |
सेनां न्यवेशयत्तीरे सागरस्य द्रुमायुते || ७३||

विरराज समीपस्थं सागरस्य तु तद्बलम् |
मधुपाण्डुजलः श्रीमान्द्वितीय इव सागरः || ७४||

वेलावनमुपागम्य ततस्ते हरिपुङ्गवाः |
विनिविष्टाः परं पारं काङ्क्षमाणा महोदधेः || ७५||

सा महार्णवमासाद्य हृष्टा वानरवाहिनी |
वायुवेगसमाधूतं पश्यमाना महार्णवम् || ७६||

दूरपारमसम्बाधं रक्षोगणनिषेवितम् |
पश्यन्तो वरुणावासं निषेदुर्हरियूथपाः || ७७||

चण्डनक्रग्रहं घोरं क्षपादौ दिवसक्षये |
चन्द्रोदये समाधूतं प्रतिचन्द्रसमाकुलम् || ७८||

चण्डानिलमहाग्राहैः कीर्णं तिमितिमिङ्गिलैः |
दीप्तभोगैरिवाक्रीर्णं भुजङ्गैर्वरुणालयम् || ७९||

59

116

After passing through various places, mountains, the Vanara army reaches the shores of the sea.  Sugreeva orders the army to camp around the Northern tip of the ocean.

इत्यार्षे श्री रामायणे युद्धकाण्डे द्वितीय: भाग:


Yuddhakāṇḍa Part-1

Yuddhakāṇḍa Part-3

 

No comments:

Post a Comment