Tuesday, January 6, 2026

युद्धकाण्ड - Yuddhakāṇḍa (भाग - १५ ;;; Part – 15)

 

युद्धकाण्ड - Yuddhakāṇḍa (भाग - १५ ;;; Part – 15)

Sarga number as per Ramayana

Shlokas extracted

No. of shlokas

Cumulative number of shlokas in this Kanda

56

तद्दृष्ट्वा सुमहत्कर्म कृतं वानरसत्तमैः |
क्रोधमाहारयामास युधि तीव्रमकम्पनः || १||

क्रोधमूर्छितरूपस्तु ध्नुवन्परमकार्मुकम् |
दृष्ट्वा तु कर्म शत्रूणां सारथिं वाक्यमब्रवीत् || २||

तत्रैव तावत्त्वरितं रथं प्रापय सारथे |
एतेऽत्र बहवो घ्नन्ति सुबहून्राक्षसान्रणे || ३||

एतेऽत्र बलवन्तो हि भीमकायाश्च वानराः |
द्रुमशैलप्रहरणास्तिष्ठन्ति प्रमुखे मम || ४||

एतान्निहन्तुमिच्छामि समरश्लाघिनो ह्यहम् |
एतैः प्रमथितं सर्वं दृश्यते राक्षसं बलम् || ५||

ततः प्रजविताश्वेन रथेन रथिनां वरः |
हरीनभ्यहनत्क्रोधाच्छरजालैरकम्पनः || ६||

न स्थातुं वानराः शेकुः किं पुनर्योद्धुमाहवे |
अकम्पनशरैर्भग्नाः सर्व एव प्रदुद्रुवुः || ७||

तान्मृत्युवशमापन्नानकम्पनवशं गतान् |
समीक्ष्य हनुमाञ्ज्ञातीनुपतस्थे महाबलः || ८||

तं महाप्लवगं दृष्ट्वा सर्वे प्लवगयूथपाः |
समेत्य समरे वीराः सहिताः पर्यवारयन् || ९||

व्यवस्थितं हनूमन्तं ते दृष्ट्वा हरियूथपाः |
बभूवुर्बलवन्तो हि बलवन्तमुपाश्रिताः || १०||

अकम्पनस्तु शैलाभं हनूमन्तमवस्थितम् |
महेन्द्र इव धाराभिः शरैरभिववर्ष ह || ११||

अचिन्तयित्वा बाणौघाञ्शरीरे पतिताञ्शितान् |
अकम्पनवधार्थाय मनो दध्रे महाबलः || १२||

स प्रहस्य महातेजा हनूमान्मारुतात्मजः |
अभिदुद्राव तद्रक्षः कम्पयन्निव मेदिनीम् || १३||

तस्याभिनर्दमानस्य दीप्यमानस्य तेजसा |
बभूव रूपं दुर्धर्षं दीप्तस्येव विभावसोः || १४||

आत्मानं त्वप्रहरणं ज्ञात्वा क्रोधसमन्वितः |
शैलमुत्पाटयामास वेगेन हरिपुङ्गवः || १५||

तं गृहीत्वा महाशैलं पाणिनैकेन मारुतिः |
विनद्य सुमहानादं भ्रामयामास वीर्यवान् || १६||

ततस्तमभिदुद्राव राक्षसेन्द्रमकम्पनम् |
यथा हि नमुचिं सङ्ख्ये वज्रेणेव पुरन्दरः || १७||

अकम्पनस्तु तद्दृष्ट्वा गिरिशृङ्गं समुद्यतम् |
दूरादेव महाबाणैरर्धचन्द्रैर्व्यदारयत् || १८||

तत्पर्वताग्रमाकाशे रक्षोबाणविदारितम् |
विकीर्णं पतितं दृष्ट्वा हनूमान्क्रोधमूर्छितः || १९||

सोऽश्वकर्णं समासाद्य रोषदर्पान्वितो हरिः |
तूर्णमुत्पाटयामास महागिरिमिवोच्छ्रितम् || २०||

तं गृहीत्वा महास्कन्धं सोऽश्वकर्णं महाद्युतिः |
प्रहस्य परया प्रीत्या भ्रामयामास संयुगे || २१||

प्रधावन्नुरुवेगेन प्रभञ्जंस्तरसा द्रुमान् |
हनूमान्परमक्रुद्धश्चरणैर्दारयत्क्षितिम् || २२||

गजांश्च सगजारोहान्सरथान्रथिनस्तथा |
जघान हनुमान्धीमान्राक्षसांश्च पदातिकान् || २३||

तमन्तकमिव क्रुद्धं समरे प्राणहारिणम् |
हनूमन्तमभिप्रेक्ष्य राक्षसा विप्रदुद्रुवुः || २४||

तमापतन्तं सङ्क्रुद्धं राक्षसानां भयावहम् |
ददर्शाकम्पनो वीरश्चुक्रोध च ननाद च || २५||

स चतुर्दशभिर्बाणैः शितैर्देहविदारणैः |
निर्बिभेद हनूमन्तं महावीर्यमकम्पनः || २६||

स तथा प्रतिविद्धस्तु बह्वीभिः शरवृष्टिभिः |
हनूमान्ददृशे वीरः प्ररूढ इव सानुमान् || २७||

ततोऽन्यं वृक्षमुत्पाट्य कृत्वा वेगमनुत्तमम् |
शिरस्यभिजघानाशु राक्षसेन्द्रमकम्पनम् || २८||

स वृक्षेण हतस्तेन सक्रोधेन महात्मना |
राक्षसो वानरेन्द्रेण पपात स ममार च || २९||

तं दृष्ट्वा निहतं भूमौ राक्षसेन्द्रमकम्पनम् |
व्यथिता राक्षसाः सर्वे क्षितिकम्प इव द्रुमाः || ३०||

त्यक्तप्रहरणाः सर्वे राक्षसास्ते पराजिताः |
लङ्कामभिययुस्त्रस्ता वानरैस्तैरभिद्रुताः || ३१||

ते मुक्तकेशाः सम्भ्रान्ता भग्नमानाः पराजिताः |
स्रवच्छ्रमजलैरङ्गैः श्वसन्तो विप्रदुद्रुवुः || ३२||

अन्योन्यं प्रममन्तुस्ते विविशुर्नगरं भयात् |
पृष्ठतस्ते सुसंमूढाः प्रेक्षमाणा मुहुर्मुहुः || ३३||

तेषु लङ्कां प्रविष्टेषु राक्षसेषु महाबलाः |
समेत्य हरयः सर्वे हनूमन्तमपूजयन् || ३४||

सोऽपि प्रहृष्टस्तान्सर्वान्हरीन्सम्प्रत्यपूजयत् |
हनूमान्सत्त्वसम्पन्नो यथार्हमनुकूलतः || ३५||

विनेदुश्च यथा प्राणं हरयो जितकाशिनः |
चकर्षुश्च पुनस्तत्र सप्राणानेव राक्षसान् || ३६||

36

1405

Akampana enters the battle-field and made a serious attack on the vanaras with his bow and arrows. Then, Shri Hanuman intervenes to protect the vanaras. A great fight ensues between Akampana and Shri Hanuman. The huge rock thrown by Shri Hanuman was shattered to pieces by Akampana with his arrows.  Then, Shri Hanuman strikes the head of Akampana with a huge tree and Akampana dies.

57

अकम्पनवधं श्रुत्वा क्रुद्धो वै राक्षसेश्वरः |
किं चिद्दीनमुखश्चापि सचिवांस्तानुदैक्षत || १||

स तु ध्यात्वा मुहूर्तं तु मन्त्रिभिः संविचार्य च |
पुरीं परिययौ लङ्कां सर्वान्गुल्मानवेक्षितुम् || २||

तां राक्षसगणैर्गुप्तां गुल्मैर्बहुभिरावृताम् |
ददर्श नगरीं लङ्कां पताकाध्वजमालिनीम् || ३||

रुद्धां तु नगरीं दृष्ट्वा रावणो राक्षसेश्वरः |
उवाचामर्षितः काले प्रहस्तं युद्धकोविदम् || ४||

पुरस्योपनिविष्टस्य सहसा पीडितस्य च |
नान्यं युद्धात्प्रपश्यामि मोक्षं युद्धविशारद || ५||

अहं वा कुम्भकर्णो वा त्वं वा सेनापतिर्मम |
इन्द्रजिद्वा निकुम्भो वा वहेयुर्भारमीदृशम् || ६||

स त्वं बलमितः शीघ्रमादाय परिगृह्य च |
विजयायाभिनिर्याहि यत्र सर्वे वनौकसः || ७||

निर्याणादेव ते नूनं चपला हरिवाहिनी |
नर्दतां राक्षसेन्द्राणां श्रुत्वा नादं द्रविष्यति || ८||

चपला ह्यविनीताश्च चलचित्ताश्च वानराः |
न सहिष्यन्ति ते नादं सिंहनादमिव द्विपाः || ९||

विद्रुते च बले तस्मिन्रामः सौमित्रिणा सह |
अवशस्ते निरालम्बः प्रहस्तवशमेष्यति || १०||

आपत्संशयिता श्रेयो नात्र निःसंशयीकृता |
प्रतिलोमानुलोमं वा यद्वा नो मन्यसे हितम् || ११||

रावणेनैवमुक्तस्तु प्रहस्तो वाहिनीपतिः |
राक्षसेन्द्रमुवाचेदमसुरेन्द्रमिवोशना || १२||

राजन्मन्त्रितपूर्वं नः कुशलैः सह मन्त्रिभिः |
विवादश्चापि नो वृत्तः समवेक्ष्य परस्परम् || १३||

प्रदानेन तु सीतायाः श्रेयो व्यवसितं मया |
अप्रदाने पुनर्युद्धं दृष्टमेतत्तथैव नः || १४||

सोऽहं दानैश्च मानैश्च सततं पूजितस्त्वया |
सान्त्वैश्च विविधैः काले किं न कुर्यां प्रियं तव || १५||

न हि मे जीवितं रक्ष्यं पुत्रदारधनानि वा |
त्वं पश्य मां जुहूषन्तं त्वदर्थे जीवितं युधि || १६||

एवमुक्त्वा तु भर्तारं रावणं वाहिनीपतिः |
समानयत मे शीघ्रं राक्षसानां महद्बलम् || १७||

मद्बाणाशनिवेगेन हतानां तु रणाजिरे |
अद्य तृप्यन्तु मांसेन पक्षिणः काननौकसाम् || १८||

इत्युक्तास्ते प्रहस्तेन बलाध्यक्षाः कृतत्वराः |
बलमुद्योजयामासुस्तस्मिन्राक्षसमन्दिरे || १९||

सा बभूव मुहूर्तेन तिग्मनानाविधायुधैः |
लङ्का राक्षसवीरैस्तैर्गजैरिव समाकुला || २०||

हुताशनं तर्पयतां ब्राह्मणांश्च नमस्यताम् |
आज्यगन्धप्रतिवहः सुरभिर्मारुतो ववौ || २१||

स्रजश्च विविधाकारा जगृहुस्त्वभिमन्त्रिताः |
सङ्ग्रामसज्जाः संहृष्टा धारयन्राक्षसास्तदा || २२||

सधनुष्काः कवचिनो वेगादाप्लुत्य राक्षसाः |
रावणं प्रेक्ष्य राजानं प्रहस्तं पर्यवारयन् || २३||

अथामन्त्र्य च राजानं भेरीमाहत्य भैरवाम् |
आरुरोह रथं दिव्यं प्रहस्तः सज्जकल्पितम् || २४||

हयैर्महाजवैर्युक्तं सम्यक्सूतसुसंयुतम् |
महाजलदनिर्घोषं साक्षाच्चन्द्रार्कभास्वरम् || २५||

उरगध्वजदुर्धर्षं सुवरूथं स्वपस्करम् |
सुवर्णजालसंयुक्तं प्रहसन्तमिव श्रिया || २६||

ततस्तं रथमास्थाय रावणार्पितशासनः |
लङ्काया निर्ययौ तूर्णं बलेन महता वृतः || २७||

ततो दुन्दुभिनिर्घोषः पर्जन्यनिनदोपमः |
शुश्रुवे शङ्खशब्दश्च प्रयाते वाहिनीपतौ || २८||

निनदन्तः स्वरान्घोरान्राक्षसा जग्मुरग्रतः |
भीमरूपा महाकायाः प्रहस्तस्य पुरःसराः || २९||

व्यूढेनैव सुघोरेण पूर्वद्वारात्स निर्ययौ |
गजयूथनिकाशेन बलेन महता वृतः || ३०||

सागरप्रतिमौघेन वृतस्तेन बलेन सः |
प्रहस्तो निर्ययौ तूर्णं क्रुद्धः कालान्तकोपमः || ३१||

प्रहस्तं त्वभिनिर्यान्तं प्रख्यात बलपौरुषम् |
युधि नानाप्रहरणा कपिसेनाभ्यवर्तत || ३२||

अथ घोषः सुतुमुलो हरीणां समजायत |
वृक्षानारुजतां चैव गुर्वीश्चागृह्णतां शिलाः || ३३||

उभे प्रमुदिते सैन्ये रक्षोगणवनौकसाम् |
वेगितानां समर्थानामन्योन्यवधकाङ्क्षिणाम् |
परस्परं चाह्वयतां निनादः श्रूयते महान् || ३४||

34

1439

Ravana hears the news of the death of Akampana.  He reviews the security arrangements and says with Prahasta that Lanka was left with only 5 major warriors, ie., Ravana himself, Kumbhakarna, Indrajit, Prahasta and Nikhumbha, who can face enemy’s army now and asks for his opinion. 

Prahasta says that he had already advised to Ravana to restore Seeta to Shri Rama, otherwise serious consequences would be faced by Ravana.  He added that the present situation vindicated his view. 

Nevertheless, he stated that he was prepared to go the battlefield for the sake of Ravana.  And, Prahasta sets out for the combat along with his ministers Narantaka, Kumbhahana, Mahaanaada, Samunnata and a huge army and exited from the eastern gate. Bad omens appeared, as Prahasta enters the battle-field.

58

ततः प्रहस्तं निर्यान्तं भीमं भीमपराक्रमम् |
गर्जन्तं सुमहाकायं राक्षसैरभिसंवृतम् || १||

ददर्श महती सेना वानराणां बलीयसाम् |
अतिसञ्जातरोषाणां प्रहस्तमभिगर्जताम् || २||

खड्गशक्त्यष्टिबाणाश्च शूलानि मुसलानि च |
गदाश्च परिघाः प्रासा विविधाश्च परश्वधाः || ३||

धनूंषि च विचित्राणि राक्षसानां जयैषिणाम् |
प्रगृहीतान्यशोभन्त वानरानभिधावताम् || ४||

जगृहुः पादपांश्चापि पुष्पितान्वानरर्षभाः |
शिलाश्च विपुला दीर्घा योद्धुकामाः प्लवङ्गमाः || ५||

तेषामन्योन्यमासाद्य सङ्ग्रामः सुमहानभूत् |
बहूनामश्मवृष्टिं च शरवृष्टिं च वर्षताम् || ६||

बहवो राक्षसा युद्धे बहून्वानरयूथपान् |
वानरा राक्षसांश्चापि निजघ्नुर्बहवो बहून् || ७||

शूलैः प्रमथिताः के चित्के चित्तु परमायुधैः |
परिघैराहताः के चित्के चिच्छिन्नाः परश्वधैः || ८||

निरुच्छ्वासाः पुनः के चित्पतिता धरणीतले |
विभिन्नहृदयाः के चिदिषुसन्तानसन्दिताः || ९||

के चिद्द्विधाकृताः खड्गैः स्फुरन्तः पतिता भुवि |
वानरा राक्षसैः शूलैः पार्श्वतश्च विदारिताः || १०||

वानरैश्चापि सङ्क्रुद्धै राक्षसौघाः समन्ततः |
पादपैर्गिरिशृङ्गैश्च सम्पिष्टा वसुधातले || ११||

वज्रस्पर्शतलैर्हस्तैर्मुष्टिभिश्च हता भृशम् |
वेमुः शोणितमास्येभ्यो विशीर्णदशनेक्षणः || १२||

आर्तस्वरं च स्वनतां सिंहनादं च नर्दताम् |
बभूव तुमुलः शब्दो हरीणां रक्षसां युधि || १३||

वानरा राक्षसाः क्रुद्धा वीरमार्गमनुव्रताः |
विवृत्तनयनाः क्रूराश्चक्रुः कर्माण्यभीतवत् || १४||

नरान्तकः कुम्भहनुर्महानादः समुन्नतः |
एते प्रहस्तसचिवाः सर्वे जघ्नुर्वनौकसः || १५||

तेषामापततां शीघ्रं निघ्नतां चापि वानरान् |
द्विविदो गिरिशृङ्गेण जघानैकं नरान्तकम् || १६||

दुर्मुखः पुनरुत्पाट्य कपिः स विपुलद्रुमम् |
राक्षसं क्षिप्रहस्तस्तु समुन्नतमपोथयत् || १७||

जाम्बवांस्तु सुसङ्क्रुद्धः प्रगृह्य महतीं शिलाम् |
पातयामास तेजस्वी महानादस्य वक्षसि || १८||

अथ कुम्भहनुस्तत्र तारेणासाद्य वीर्यवान् |
वृक्षेणाभिहतो मूर्ध्नि प्राणांस्तत्याज राक्षसः || १९||

अमृष्यमाणस्तत्कर्म प्रहस्तो रथमास्थितः |
चकार कदनं घोरं धनुष्पाणिर्वनौकसाम् || २०||

आवर्त इव सञ्जज्ञे उभयोः सेनयोस्तदा |
क्षुभितस्याप्रमेयस्य सागरस्येव निस्वनः || २१||

महता हि शरौघेण प्रहस्तो युद्धकोविदः |
अर्दयामास सङ्क्रुद्धो वानरान्परमाहवे || २२||

वानराणां शरीरैस्तु राक्षसानां च मेदिनी |
बभूव निचिता घोरा पतितैरिव पर्वतैः || २३||

सा महीरुधिरौघेण प्रच्छन्ना सम्प्रकाशते |
सञ्चन्ना माधवे मासि पलाशैरिव पुष्पितैः || २४||

हतवीरौघवप्रां तु भग्नायुधमहाद्रुमाम् |
शोणितौघमहातोयां यमसागरगामिनीम् || २५||

यकृत्प्लीहमहापङ्कां विनिकीर्णान्त्रशैवलाम् |
भिन्नकायशिरोमीनामङ्गावयवशाड्वलाम् || २६||

गृध्रहंसगणाकीर्णां कङ्कसारससेविताम् |
मेधःफेनसमाकीर्णामार्तस्तनितनिस्वनाम् || २७||

तां कापुरुषदुस्तारां युद्धभूमिमयीं नदीम् |
नदीमिव घनापाये हंससारससेविताम् || २८||

राक्षसाः कपिमुख्याश्च तेरुस्तां दुस्तरां नदीम् |
यथा पद्मरजोध्वस्तां नलिनीं गजयूथपाः || २९||

ततः सृजन्तं बाणौघान्प्रहस्तं स्यन्दने स्थितम् |
ददर्श तरसा नीलो विनिघ्नन्तं प्लवङ्गमान् || ३०||

स तं परमदुर्धर्षमापतन्तं महाकपिः |
प्रहस्तं ताडयामास वृक्षमुत्पाट्य वीर्यवान् || ३१||

स तेनाभिहतः क्रुद्धो नदन्राक्षसपुङ्गवः |
ववर्ष शरवर्षाणि प्लवगानां चमूपतौ || ३२||

अपारयन्वारयितुं प्रत्यगृह्णान्निमीलितः |
यथैव गोवृषो वर्षं शारदं शीघ्रमागतम् || ३३||

एवमेव प्रहस्तस्य शरवर्षं दुरासदम् |
निमीलिताक्षः सहसा नीलः सेहे सुदारुणम् || ३४||

रोषितः शरवर्षेण सालेन महता महान् |
प्रजघान हयान्नीलः प्रहस्तस्य मनोजवान् || ३५||

विधनुस्तु कृतस्तेन प्रहस्तो वाहिनीपतिः |
प्रगृह्य मुसलं घोरं स्यन्दनादवपुप्लुवे || ३६||

तावुभौ वाहिनीमुख्यौ जातरोषौ तरस्विनौ |
स्थितौ क्षतजदिग्धाङ्गौ प्रभिन्नाविव कुञ्जरौ || ३७||

उल्लिखन्तौ सुतीक्ष्णाभिर्दंष्ट्राभिरितरेतरम् |
सिंहशार्दूलसदृशौ सिंहशार्दूलचेष्टितौ || ३८||

विक्रान्तविजयौ वीरौ समरेष्वनिवर्तिनौ |
काङ्क्षमाणौ यशः प्राप्तुं वृत्रवासवयोः समौ || ३९||

आजघान तदा नीलं ललाटे मुसलेन सः |
प्रहस्तः परमायस्तस्तस्य सुस्राव शोणितम् || ४०||

ततः शोणितदिग्धाङ्गः प्रगृह्य सुमहातरुम् |
प्रहस्तस्योरसि क्रुद्धो विससर्ज महाकपिः || ४१||

तमचिन्त्यप्रहारं स प्रगृह्य मुसलं महत् |
अभिदुद्राव बलिनं बली नीलं प्लवङ्गमम् || ४२||

तमुग्रवेगं संरब्धमापतन्तं महाकपिः |
ततः सम्प्रेक्ष्य जग्राह महावेगो महाशिलाम् || ४३||

तस्य युद्धाभिकामस्य मृधे मुसलयोधिनः |
प्रहस्तस्य शिलां नीलो मूर्ध्नि तूर्णमपातयत् || ४४||

सा तेन कपिमुख्येन विमुक्ता महती शिला |
बिभेद बहुधा घोरा प्रहस्तस्य शिरस्तदा || ४५||

स गतासुर्गतश्रीको गतसत्त्वो गतेन्द्रियः |
पपात सहसा भूमौ छिन्नमूल इव द्रुमः || ४६||

विभिन्नशिरसस्तस्य बहु सुस्रावशोणितम् |
शरीरादपि सुस्राव गिरेः प्रस्रवणं यथा || ४७||

हते प्रहस्ते नीलेन तदकम्प्यं महद्बलम् |
रक्षसामप्रहृष्टानां लङ्कामभिजगाम ह || ४८||

न शेकुः समवस्थातुं निहते वाहिनीपतौ |
सेतुबन्धं समासाद्य विशीर्णं सलिलं यथा || ४९||

हते तस्मिंश्चमूमुख्ये राक्षसस्ते निरुद्यमाः |
रक्षःपतिगृहं गत्वा ध्यानमूकत्वमागताः || ५०||

ततस्तु नीलो विजयी महाबलः
प्रशस्यमानः स्वकृतेन कर्मणा |
समेत्य रामेण सलक्ष्मणेन
प्रहृष्टरूपस्तु बभूव यूथपः || ५१||

51

1490

In reply to Shri Rama’s query as to who the great warrior coming to the battlefield is, Vibhishana replies that he was Prahasta, the Commander-in-Chief of Ravana’s army.

The demons with their arrows and the Vanaras with their trees and rocks attacked each other and many vanaras and demons were killed in the battle. Prahasta’s ministers were killed one each by Vanara generals Dwivida, Durmukha, Jambavan and Tara.

Prahasta and Nila entered into a one-to-one combat. Prahasta discharged multiple arrows on Nila. Nila kills Prahasta's horses by throwing a huge tree and breaks his bow. Finally, a huge rock hurled by Nila breaks Prahasta's head into pieces and he dies.

इत्यार्षे श्री रामायणे युद्धकाण्डे पञ्चदश: भाग:

 

Yuddhakāṇḍa Part-14

Yuddhakāṇḍa Part-16

 

No comments:

Post a Comment