Tuesday, January 6, 2026

युद्धकाण्ड - Yuddhakāṇḍa (भाग - १५ ;;; Part – 15)

 

युद्धकाण्ड - Yuddhakāṇḍa (भाग - १५ ;;; Part – 15)

 

Sarga number as per Ramayana

Shlokas extracted

No. of shlokas

Cumulative number of shlokas in this Kanda

67

ते निवृत्ता महाकायाः श्रुत्वाङ्गदवचस्तदा |
नैष्ठिकीं बुद्धिमास्थाय सर्वे सङ्ग्रामकाङ्क्षिणः || १||

समुदीरितवीर्यास्ते समारोपितविक्रमाः |
पर्यवस्थापिता वाक्यैरङ्गदेन वलीमुखाः || २||

प्रयाताश्च गता हर्षं मरणे कृतनिश्चयाः |
चक्रुः सुतुमुलं युद्धं वानरास्त्यक्तजीविताः || ३||

अथ वृक्षान्महाकायाः सानूनि सुमहान्ति च |
वानरास्तूर्णमुद्यम्य कुम्भकर्णमभिद्रवन् || ४||

स कुम्भकर्णः सङ्क्रुद्धो गदामुद्यम्य वीर्यवान् |
अर्दयन्सुमहाकायः समन्ताद्व्याक्षिपद्रिपून् || ५||

शतानि सप्त चाष्टौ च सहस्राणि च वानराः |
प्रकीर्णाः शेरते भूमौ कुम्भकर्णेन पोथिताः || ६||

षोडशाष्टौ च दश च विंशत्त्रिंशत्तथैव च |
परिक्षिप्य च बाहुभ्यां खादन्विपरिधावति |
भक्षयन्भृशसङ्क्रुद्धो गरुडः पन्नगानिव || ७||

हनूमाञ्शैलशृङ्गाणि वृक्षांश्च विविधान्बहून् |
ववर्ष कुम्भकर्णस्य शिरस्यम्बरमास्थितः || ८||

तानि पर्वतशृङ्गाणि शूलेन तु बिभेद ह |
बभञ्ज वृक्षवर्षं च कुम्भकर्णो महाबलः || ९||

ततो हरीणां तदनीकमुग्रं
दुद्राव शूलं निशितं प्रगृह्य |
तस्थौ ततोऽस्यापततः पुरस्तान्
महीधराग्रं हनुमान्प्रगृह्य || १०||

स कुम्भकर्णं कुपितो जघान
वेगेन शैलोत्तमभीमकायम् |
स चुक्षुभे तेन तदाभिबूतो
मेदार्द्रगात्रो रुधिरावसिक्तः || ११||

स शूलमाविध्य तडित्प्रकाशं
गिरिं यथा प्रज्वलिताग्रशृङ्गम् |
बाह्वन्तरे मारुतिमाजघान
गुहोऽचलं क्रौञ्चमिवोग्रशक्त्या || १२||

स शूलनिर्भिन्न महाभुजान्तरः
प्रविह्वलः शोणितमुद्वमन्मुखात् |
ननाद भीमं हनुमान्महाहवे
युगान्तमेघस्तनितस्वनोपमम् || १३||

ततो विनेदुः सहसा प्रहृष्टा
रक्षोगणास्तं व्यथितं समीक्ष्य |
प्लवङ्गमास्तु व्यथिता भयार्ताः
प्रदुद्रुवुः संयति कुम्भकर्णात् || १४||

नीलश्चिक्षेप शैलाग्रं कुम्भकर्णाय धीमते |
तमापतन्तं सम्प्रेक्ष्य मुष्टिनाभिजघान ह || १५||

मुष्टिप्रहाराभिहतं तच्छैलाग्रं व्यशीर्यत |
सविस्फुलिङ्गं सज्वालं निपपात महीतले || १६||

ऋषभः शरभो नीलो गवाक्षो गन्धमादनः |
पञ्चवानरशार्दूलाः कुम्भकर्णमुपाद्रवन् || १७||

शैलैर्वृक्षैस्तलैः पादैर्मुष्टिभिश्च महाबलाः |
कुम्भकर्णं महाकायं सर्वतोऽभिनिजघ्निरे || १८||

स्पर्शानिव प्रहारांस्तान्वेदयानो न विव्यथे |
ऋषभं तु महावेगं बाहुभ्यां परिषस्वजे || १९||

कुम्भकर्णभुजाभ्यां तु पीडितो वानरर्षभः |
निपपातर्षभो भीमः प्रमुखागतशोणितः || २०||

मुष्टिना शरभं हत्वा जानुना नीलमाहवे |
आजघान गवाक्षं च तलेनेन्द्ररिपुस्तदा || २१||

दत्तप्रहरव्यथिता मुमुहुः शोणितोक्षिताः |
निपेतुस्ते तु मेदिन्यां निकृत्ता इव किंशुकाः || २२||

तेषु वानरमुख्येषु पतितेषु महात्मसु |
वानराणां सहस्राणि कुम्भकर्णं प्रदुद्रुवुः || २३||

तं शैलमिव शैलाभाः सर्वे तु प्लवगर्षभाः |
समारुह्य समुत्पत्य ददंशुश्च महाबलाः || २४||

तं नखैर्दशनैश्चापि मुष्टिभिर्जानुभिस्तथा |
कुम्भकर्णं महाकायं ते जघ्नुः प्लवगर्षभाः || २५||

स वानरसहस्रैस्तैराचितः पर्वतोपमः |
रराज राक्षसव्याघ्रो गिरिरात्मरुहैरिव || २६||

बाहुभ्यां वानरान्सर्वान्प्रगृह्य स महाबलः |
भक्षयामास सङ्क्रुद्धो गरुडः पन्नगानिव || २७||

प्रक्षिप्ताः कुम्भकर्णेन वक्त्रे पातालसंनिभे |
नासा पुटाभ्यां निर्जग्मुः कर्णाभ्यां चैव वानराः || २८||

भक्षयन्भृशसङ्क्रुद्धो हरीन्पर्वतसंनिभः |
बभञ्ज वानरान्सर्वान्सङ्क्रुद्धो राक्षसोत्तमः || २९||

मांसशोणितसङ्क्लेदां भूमिं कुर्वन्स राक्षसः |
चचार हरिसैन्येषु कालाग्निरिव मूर्छितः || ३०||

वज्रहस्तो यथा शक्रः पाशहस्त इवान्तकः |
शूलहस्तो बभौ तस्मिन्कुम्भकर्णो महाबलः || ३१||

यथा शुष्काण्यरण्यानि ग्रीष्मे दहति पावकः |
तथा वानरसैन्यानि कुम्भकर्णो विनिर्दहत् || ३२||

ततस्ते वध्यमानास्तु हतयूथा विनायकाः |
वानरा भयसंविग्ना विनेदुर्विस्वरं भृशम् || ३३||

अनेकशो वध्यमानाः कुम्भकर्णेन वानराः |
राघवं शरणं जग्मुर्व्यथिताः खिन्नचेतसः || ३४||

तमापतन्तं सम्प्रेक्ष्य कुम्भकर्णं महाबलम् |
उत्पपात तदा वीरः सुग्रीवो वानराधिपः || ३५||

स पर्वताग्रमुत्क्षिप्य समाविध्य महाकपिः |
अभिदुद्राव वेगेन कुम्भकर्णं महाबलम् || ३६||

तमापतन्तं सम्प्रेक्ष्य कुम्भकर्णः प्लवङ्गमम् |
तस्थौ विवृतसर्वाङ्गो वानरेन्द्रस्य संमुखः || ३७||

कपिशोणितदिग्धाङ्गं भक्षयन्तं महाकपीन् |
कुम्भकर्णं स्थितं दृष्ट्वा सुग्रीवो वाक्यमब्रवीत् || ३८||

पातिताश्च त्वया वीराः कृतं कर्म सुदुष्करम् |
भक्षितानि च सैन्यानि प्राप्तं ते परमं यशः || ३९||

त्यज तद्वानरानीकं प्राकृतैः किं करिष्यसि |
सहस्वैकं निपातं मे पर्वतस्यास्य राक्षस || ४०||

तद्वाक्यं हरिराजस्य सत्त्वधैर्यसमन्वितम् |
श्रुत्वा राक्षसशार्दूलः कुम्भकर्णोऽब्रवीद्वचः || ४१||

प्रजापतेस्तु पौत्रस्त्वं तथैवर्क्षरजःसुतः |
श्रुतपौरुषसम्पन्नस्तस्माद्गर्जसि वानर || ४२||

स कुम्भकर्णस्य वचो निशम्य
व्याविध्य शैलं सहसा मुमोच |
तेनाजघानोरसि कुम्भकर्णं
शैलेन वज्राशनिसंनिभेन || ४३||

तच्छैलशृङ्गं सहसा विकीर्णं
भुजान्तरे तस्य तदा विशाले |
ततो विषेदुः सहसा प्लवङ्गमा
रक्षोगणाश्चापि मुदा विनेदुः || ४४||

स शैलशृङ्गाभिहतश् चुकोप
ननाद कोपाच्च विवृत्य वक्त्रम् |
व्याविध्य शूलं च तडित्प्रकाशं
चिक्षेप हर्यृक्षपतेर्वधाय || ४५||

तत्कुम्भकर्णस्य भुजप्रविद्धं
शूलं शितं काञ्चनदामजुष्टम् |
क्षिप्रं समुत्पत्य निगृह्य दोर्भ्यां
बभञ्ज वेगेन सुतोऽनिलस्य || ४६||

कृतं भारसहस्रस्य शूलं कालायसं महत् |
बभञ्ज जनौमारोप्य प्रहृष्टः प्लवगर्षभः || ४७||

स तत्तदा भग्नमवेक्ष्य शूलं
चुकोप रक्षोऽधिपतिर्महात्मा |
उत्पाट्य लङ्कामलयात्स शृङ्गं
जघान सुग्रीवमुपेत्य तेन || ४८||

स शैलशृङ्गाभिहतो विसंज्ञः
पपात भूमौ युधि वानरेन्द्रः |
तं प्रेक्ष्य भूमौ पतितं विसंज्ञं
नेदुः प्रहृष्टा युधि यातुधानाः || ४९||

तमभ्युपेत्याद्भुतघोरवीर्यं
स कुम्भकर्णो युधि वानरेन्द्रम् |
जहार सुग्रीवमभिप्रगृह्य
यथानिलो मेघमतिप्रचण्डः || ५०||

स तं महामेघनिकाशरूपम्
उत्पाट्य गच्छन्युधि कुम्भकर्णः |
रराज मेरुप्रतिमानरूपो
मेरुर्यथात्युच्छ्रितघोरशृङ्गः || ५१||

ततः समुत्पाट्य जगाम वीरः
संस्तूयमानो युधि राक्षसेन्द्रैः |
शृण्वन्निनादं त्रिदशालयानां
प्लवङ्गराजग्रहविस्मितानाम् || ५२||

ततस्तमादाय तदा स मेने
हरीन्द्रमिन्द्रोपममिन्द्रवीर्यः |
अस्मिन्हृते सर्वमिदं हृतं स्यात्
सराघवं सैन्यमितीन्द्रशत्रुः || ५३||

स कुम्भकर्णोऽथ विवेश लङ्कां
स्फुरन्तमादाय महाहरिं तम् |
विमानचर्यागृहगोपुरस्थैः
पुष्पाग्र्यवर्षैरवकीर्यमाणः || ५४||

ततः स संज्ञामुपलभ्य कृच्छ्राद्
बलीयसस्तस्य भुजान्तरस्थः |
अवेक्षमाणः पुरराजमार्गं
विचिन्तयामास मुहुर्महात्मा || ५५||

एवं गृहीतेन कथं नु नाम
शक्यं मया सम्प्रति कर्तुमद्य |
तथा करिष्यामि यथा हरीणां
भविष्यतीष्टं च हितं च कार्यम् || ५६||

ततः कराग्रैः सहसा समेत्य
राजा हरीणाममरेन्द्रशत्रोः |
नखैश्च कर्णौ दशनैश्च नासां
ददंश पार्श्वेषु च कुम्भकर्णम् || ५७||

स कुम्भकर्णौ हृतकर्णनासो
विदारितस्तेन विमर्दितश् च |
रोषाभिभूतः क्षतजार्द्रगात्रः
सुग्रीवमाविध्य पिपेष भूमौ || ५८||

स भूतले भीमबलाभिपिष्टः
सुरारिभिस्तैरभिहन्यमानः |
जगाम खं वेगवदभ्युपेत्य
पुनश्च रामेण समाजगाम || ५९||

कर्णनासा विहीनस्य कुम्भकर्णो महाबलः |
रराज शोणितोत्सिक्तो गिरिः प्रस्रवणैरिव || ६०||

ततः स पुर्याः सहसा महात्मा
निष्क्रम्य तद्वानरसैन्यमुग्रम् |
बभक्ष रक्षो युधि कुम्भकर्णः
प्रजा युगान्ताग्निरिव प्रदीप्तः || ६१||

बुभुक्षितः शोणितमांसगृध्नुः
प्रविश्य तद्वानरसैन्यमुग्रम् |
चखाद रक्षांसि हरीन्पिशाचान्
ऋक्षांश्च मोहाद्युधि कुम्भकर्णः || ६२||

एकं द्वौ त्रीन्बहून्क्रुद्धो वानरान्सह राक्षसैः |
समादायैकहस्तेन प्रचिक्षेप त्वरन्मुखे || ६३||

सम्प्रस्रवंस्तदा मेदः शोणितं च महाबलः |
वध्यमानो नगेन्द्राग्रैर्भक्षयामास वानरान् |
ते भक्ष्यमाणा हरयो रामं जग्मुस्तदा गतिम् || ६४||

तस्मिन्काले सुमित्रायाः पुत्रः परबलार्दनः |
चकार लक्ष्मणः क्रुद्धो युद्धं परपुरञ्जयः || ६५||

स कुम्भकर्णस्य शराञ्शरीरे सप्त वीर्यवान् |
निचखानाददे चान्यान्विससर्ज च लक्ष्मणः || ६६||

अतिक्रम्य च सौमित्रिं कुम्भकर्णो महाबलः |
राममेवाभिदुद्राव दारयन्निव मेदिनीम् || ६७||

तं दृष्ट्वा राक्षसश्रेष्ठं प्रदीप्तानलवर्चसं |
विस्फारयामास तदा कार्मुकं पुरुषर्षभः || ६८||

स तस्य चापनिर्घोषात्कुपितो नैरृतर्षभः |
अमृष्यमाणस्तं घोषमभिदुद्राव राघवम् || ६९||

यैः सायकैः सालवरा निकृत्ता
वाली हतो वानरपुङ्गवश् च |
ते कुम्भकर्णस्य तदा शरीरं
वज्रोपमा न व्यथयां प्रचक्रुः || ७०||

स वारिधारा इव सायकांस्तान्
पिबञ्शरीरेण महेन्द्रशत्रुः |
जघान रामस्य शरप्रवेगं
व्याविध्य तं मुद्गरमुग्रवेगम् || ७१||

ततस्तु रक्षः क्षतजानुलिप्तं
वित्रासनं देवमहाचमूनाम् |
व्याविध्य तं मुद्गरमुग्रवेगं
विद्रावयामास चमूं हरीणाम् || ७२||

वायव्यमादाय ततो वरास्त्रं
रामः प्रचिक्षेप निशाचराय |
समुद्गरं तेन जहार बाहुं
स कृत्तबाहुस्तुमुलं ननाद || ७३||

स तस्य बाहुर्गिरिशृङ्गकल्पः
समुद्गरो राघवबाणकृत्तः |
पपात तस्मिन्हरिराजसैन्ये
जघान तां वानरवाहिनीं च || ७४||

ते वानरा भग्नहतावशेषाः
पर्यन्तमाश्रित्य तदा विषण्णाः |
प्रवेपिताङ्गा ददृशुः सुघोरं
नरेन्द्ररक्षोऽधिपसंनिपातम् || ७५||

स कुम्भकर्णोऽस्त्रनिकृत्तबाहुर्
महान्निकृत्ताग्र इवाचलेन्द्रः |
उत्पाटयामास करेण वृक्षं
ततोऽभिदुद्राव रणे नरेन्द्रम् || ७६||

तं तस्य बाहुं सह सालवृक्षं
समुद्यतं पन्नगभोगकल्पम् |
ऐन्द्रास्त्रयुक्तेन जहार रामो
बाणेन जाम्बूनदचित्रितेन || ७७||

स कुम्भकर्णस्य भुजो निकृत्तः
पपात भूमौ गिरिसंनिकाशः |
विवेष्टमानो निजघान वृक्षाञ्
शैलाञ्शिलावानरराक्षसांश् च || ७८||

तं छिन्नबाहुं समवेक्ष्य रामः
समापतन्तं सहसा नदन्तम् |
द्वावर्धचन्द्रौ निशितौ प्रगृह्य
चिच्छेद पादौ युधि राक्षसस्य || ७९||

निकृत्तबाहुर्विनिकृत्तपादो
विदार्य वक्त्रं वडवामुखाभम् |
दुद्राव रामं सहसाभिगर्जन्
राहुर्यथा चन्द्रमिवान्तरिक्षे || ८०||

अपूरयत्तस्य मुखं शिताग्रै
रामः शरैर्हेमपिनद्धपुङ्खैः |
स पूर्णवक्त्रो न शशाक वक्तुं
चुकूज कृच्छ्रेण मुमोह चापि || ८१||

अथाददे सूर्यमरीचिकल्पं
स ब्रह्मदण्डान्तककालकल्पम् |
अरिष्टमैन्द्रं निशितं सुपुङ्खं
रामः शरं मारुततुल्यवेगम् || ८२||

तं वज्रजाम्बूनदचारुपुङ्खं
प्रदीप्तसूर्यज्वलनप्रकाशम् |
महेन्द्रवज्राशनितुल्यवेगं
रामः प्रचिक्षेप निशाचराय || ८३||

स सायको राघवबाहुचोदितो
दिशः स्वभासा दश सम्प्रकाशयन् |
विधूमवैश्वानरदीप्तदर्शनो
जगाम शक्राशनितुल्यविक्रमः || ८४||

स तन्महापर्वतकूटसंनिभं
विवृत्तदंष्ट्रं चलचारुकुण्डलम् |
चकर्त रक्षोऽधिपतेः शिरस्तदा
यथैव वृत्रस्य पुरा पुरन्दरः || ८५||

तद्रामबाणाभिहतं पपात
रक्षःशिरः पर्वतसंनिकाशम् |
बभञ्ज चर्यागृहगोपुराणि
प्राकारमुच्चं तमपातयच्च || ८६||

तच्चातिकायं हिमवत्प्रकाशं
रक्षस्तदा तोयनिधौ पपात |
ग्राहान्महामीनचयान्भुजङ्गमान्
ममर्द भूमिं च तथा विवेश || ८७||

तस्मिर्हते ब्राह्मणदेवशत्रौ
महाबले संयति कुम्भकर्णे |
चचाल भूर्भूमिधराश् च सर्वे
हर्षाच्च देवास्तुमुलं प्रणेदुः || ८८||

प्रहर्षमीयुर्बहवस्तु वानराः
प्रबुद्धपद्मप्रतिमैरिवाननैः |
अपूजयन्राघवमिष्टभागिनं
हते रिपौ भीमबले दुरासदे || ८९||

स कुम्भकर्णं सुरसैन्यमर्दनं
महत्सु युद्धेष्वपराजितश्रमम् |
ननन्द हत्वा भरताग्रजो रणे
महासुरं वृत्रमिवामराधिपः || ९०||

90

1251

Dvivida, a leader of the vanaras throws a mountain towards Kumbhakarna, but it falls on horses, elephants and chariots of the enemy. Shri Hanuma attacks Kumbhakarna with a large mountain-peak and injures him severely. Angered, Kumbhakarna strikes on Shri Hanuman's chest with his spike, due to which Shri Hanuman fell unconscious. Then, Kumbhakarna strikes other vanara-chiefs, who attack him, with his spike. Thousands of vanaras then ascend Kumbhakarna's body and bites him with their nails, fists, teeth and arms. Annoyed, Kumbhakarna destroys all those vanaras with his spike.

When Kumbhakarna throws his spike on Sugreeva, Shri Hanuman intervenes and holds that spike and breaks into two halves. Then, Kumbhakarna attacks Sugreeva with a mountain-crust that make him unconscious.  Kumbhakarna takes him away on his shoulders to Lanka, thinking that when the king was captured, Vanaras would lose hope and go back. 

Though Shri Hanuman thinks of releasing his king, but chooses to remain silent for some time, as Sugreeva’s ego may get hurt, if released by him.

Meanwhile, Sugreeva regains consciousness, he tears off the ears and nose of Kumbhakarna with his sharp nails and teeth and bounces into the air and gets reaches back to Shri Rama. Kumbhakarna thereafter takes his mace and begins to attack the vanaras and bears.

Then, Lakshmana comes to attack Kumbhakarna with his arrows. However, Kumbhakarna neglects his attack and rushes towards Shri Rama to fight with him.

Initially, Shri Rama attacks him with the arrows that were used against demons in Janasthana, but in vain. Then, Shri Rama discharges Vayavya astra, which severed one arm of Kumbhakarna. When Kumbhakarna uprooted tree with his remaining arm and rushed towards Shri Rama, he discharged Aindrastra, which chopped off the second arm of Kumbhakarna. Then, Shri Rama then severed the feet of Kumbhakarna with two powerful arrows and finally severed his head with Aindrastra. 

Kumbhakarna’s head fell into Lanka and his body fell into the ocean.

इत्यार्षे श्री रामायणे युद्धकाण्डे पञ्चदश: भाग:

 

Yuddhakāṇḍa Part-14

Yuddhakāṇḍa Part-16

 

No comments:

Post a Comment