Tuesday, January 6, 2026

युद्धकाण्ड - Yuddhakāṇḍa (भाग - १४ ;;; Part – 14)

 

युद्धकाण्ड - Yuddhakāṇḍa (भाग - १४ ;;; Part – 14)

Sarga number as per Ramayana

Shlokas extracted

No. of shlokas

Cumulative number of shlokas in this Kanda

51

तेषां सुतुमुलं शब्दं वानराणां तरस्विनाम् |
नर्दतां राक्षसैः सार्धं तदा शुश्राव रावणः || १||

स्निग्धगम्भीरनिर्घोषं श्रुत्वा स निनदं भृशम् |
सचिवानां ततस्तेषां मध्ये वचनमब्रवीत् || २||

यथासौ सम्प्रहृष्टानां वानराणां समुत्थितः |
बहूनां सुमहान्नादो मेघानामिव गर्जताम् || ३||

व्यक्तं सुमहती प्रीतिरेतेषां नात्र संशयः |
तथा हि विपुलैर्नादैश्चुक्षुभे वरुणालयः || ४||

तौ तु बद्धौ शरैस्तीष्क्णैर्भ्रातरौ रामलक्ष्मणौ |
अयं च सुमहान्नादः शङ्कां जनयतीव मे || ५||

एतत्तु वचनं चोक्त्वा मन्त्रिणो राक्षसेश्वरः |
उवाच नैरृतांस्तत्र समीपपरिवर्तिनः || ६||

ज्ञायतां तूर्णमेतषां सर्वेषां वनचारिणाम् |
शोककाले समुत्पन्ने हर्षकारणमुत्थितम् || ७||

तथोक्तास्तेन सम्भ्रान्ताः प्राकारमधिरुह्य ते |
ददृशुः पालितां सेनां सुग्रीवेण महात्मना || ८||

तौ च मुक्तौ सुघोरेण शरबन्धेन राघवौ |
समुत्थितौ महाभागौ विषेदुः प्रेक्ष्य राक्षसाः || ९||

सन्त्रस्तहृदया सर्वे प्राकारादवरुह्य ते |
विषण्णवदनाः सर्वे राक्षसेन्द्रमुपस्थिताः || १०||

तदप्रियं दीनमुखा रावणस्य निशाचराः |
कृत्स्नं निवेदयामासुर्यथावद्वाक्यकोविदाः || ११||

यौ ताविन्द्रजिता युद्धे भ्रातरौ रामलक्ष्मणौ |
निबद्धौ शरबन्धेन निष्प्रकम्पभुजौ कृतौ || १२||

विमुक्तौ शरबन्धेन तौ दृश्येते रणाजिरे |
पाशानिव गजाउ चित्त्वा गजेन्द्रसमविक्रमौ || १३||

तच्छ्रुत्वा वचनं तेषां राक्षसेन्द्रो महाबलः |
चिन्ताशोकसमाक्रान्तो विषण्णवदनोऽब्रवीत् || १४||

घोरैर्दत्तवरैर्बद्धौ शरैराशीविषोमपैः |
अमोघैः सूर्यसङ्काशैः प्रमथ्येन्द्रजिता युधि || १५||

तमस्त्रबन्धमासाद्य यदि मुक्तौ रिपू मम |
संशयस्थमिदं सर्वमनुपश्याम्यहं बलम् || १६||

निष्फलाः खलु संवृत्ताः शरा वासुकितेजसः |
आदत्तं यैस्तु सङ्ग्रामे रिपूणां मम जीवितम् || १७||

एवमुक्त्वा तु सङ्क्रुद्धो निश्वसन्नुरगो यथा |
अब्रवीद्रक्षसां मध्ये धूम्राक्षं नाम राकसं || १८||

बलेन महता युक्तो रक्षसां भीमकर्मणाम् |
त्वं वधायाभिनिर्याहि रामस्य सह वानरैः || १९||

एवमुक्तस्तु धूम्राक्षो राक्षसेन्द्रेण धीमता |
कृत्वा प्रणामं संहृष्टो निर्जगाम नृपालयात् || २०||

अभिनिष्क्रम्य तद्द्वारं बलाध्यक्षमुवाच ह |
त्वरयस्व बलं तूर्णं किं चिरेण युयुत्सतः || २१||

धूम्राक्षस्य वचः श्रुत्वा बलाध्यक्षो बलानुगः |
बलमुद्योजयामास रावणस्याज्ञया द्रुतम् || २२||

ते बद्धघण्टा बलिनो घोररूपा निशाचराः |
विनर्दमानाः संहृष्टा धूम्राक्षं पर्यवारयन् || २३||

विविधायुधहस्ताश्च शूलमुद्गरपाणयः |
गदाभिः पट्टसैर्दण्डैरायसैर्मुसलैर्भृशम् || २४||

परिघैर्भिण्डिपालैश्च भल्लैः प्रासैः परश्वधैः |
निर्ययू राक्षसा घोरा नर्दन्तो जलदा यथा || २५||

रथैः कवचिनस्त्वन्ये ध्वजैश्च समलङ्कृतैः |
सुवर्णजालविहितैः खरैश्च विविधाननैः || २६||

हयैः परमशीघ्रैश्च गजेन्द्रैश्च मदोत्कटैः |
निर्ययू राक्षसव्याघ्रा व्याघ्रा इव दुरासदाः || २७||

वृकसिंहमुखैर्युक्तं खरैः कनकभूषणैः |
आरुरोह रथं दिव्यं धूम्राक्षः खरनिस्वनः || २८||

स निर्यातो महावीर्यो धूम्राक्षो राक्षसैर्वृतः |
प्रहसन्पश्चिमद्वारं हनूमान्यत्र यूथपः || २९||

प्रयान्तं तु महाघोरं राक्षसं भीमदर्शनम् |
अन्तरिक्षगताः क्रूराः शकुनाः प्रत्यवारयन् || ३०||

रथशीर्षे महाभीमो गृध्रश्च निपपात ह |
ध्वजाग्रे ग्रथिताश्चैव निपेतुः कुणपाशनाः || ३१||

रुधिरार्द्रो महाञ्श्वेतः कबन्धः पतितो भुवि |
विस्वरं चोत्सृजन्नादं धूम्राक्षस्य समीपतः || ३२||

ववर्ष रुधिरं देवः सञ्चचाल च मेदिनी |
प्रतिलोमं ववौ वायुर्निर्घातसमनिस्वनः |
तिमिरौघावृतास्तत्र दिशश्च न चकाशिरे || ३३||

स तूत्पातांस्ततो दृष्ट्वा राक्षसानां भयावहान् |
प्रादुर्भूतान्सुघोरांश्च धूम्राक्षो व्यथितोऽभवत् || ३४||

ततः सुभीमो बहुभिर्निशाचरैर्
वृतोऽभिनिष्क्रम्य रणोत्सुको बली |
ददर्श तां राघवबाहुपालितां
समुद्रकल्पां बहुवानरीं चमूम् || ३५||

35

1305

Hearing the jubilant war cries of the vanaras, Ravana sensed that something was wrong. He ordered some demons to discover the cause of happiness among the vanaras. The demons ascend the rampart and discover that Shri Rama and Lakshmana were relieved of the bondage of serpentine arrows and ready for war. 

They report the same to Ravana. Ravana feels dejected for the powerful web of serpentine arrows becoming ineffective so soon.  He orders Dhumraksha to go with an army and kill Shri Rama, Lakshmana and the Vanaras. 

Dhumraksha along with his army enters the western gate of Lanka, where the army-chief Shri Hanuman is awaiting them for war. As Dhumraksha advances in the battle-field, he experiences several bad omens and feels disturbed.

52

धूम्राक्षं प्रेक्ष्य निर्यान्तं राक्षसं भीमनिस्वनम् |
विनेदुर्वानराः सर्वे प्रहृष्टा युद्धकाङ्क्षिणः || १||

तेषां तु तुमुलं युद्धं सञ्जज्ञे हरिरक्षसाम् |
अन्योन्यं पादपैर्घोरैर्निघ्नतं शूलमुद्गरैः || २||

राक्षसैर्वानरा घोरा विनिकृत्ताः समन्ततः |
वानरै राक्षसाश्चापि द्रुमैर्भूमौ समीकृताः || ३||

राक्षसाश्चापि सङ्क्रुद्धा वानरान्निशितैः शरैः |
विव्यधुर्घोरसङ्काशैः कङ्कपत्रैरजिह्मगैः || ४||

ते गदाभिश्च भीमाभिः पट्टसैः कूटमुद्गरैः |
घोरैश्च परिघैश्चित्रैस्त्रिशूलैश्चापि संशितैः || ५||

विदार्यमाणा रक्षोभिर्वानरास्ते महाबलाः |
अमर्षाज्जनितोद्धर्षाश्चक्रुः कर्माण्यभीतवत् || ६||

शरनिर्भिन्नगात्रास्ते शूलनिर्भिन्नदेहिनः |
जगृहुस्ते द्रुमांस्तत्र शिलाश्च हरियूथपाः || ७||

ते भीमवेगा हरयो नर्दमानास्ततस्ततः |
ममन्थू राक्षसान्भीमान्नामानि च बभाषिरे || ८||

तद्बभूवाद्भुतं घोरं युद्धं वानररक्षसाम् |
शिलाभिर्विविधाभिश्च बहुशाखैश्च पादपैः || ९||

राक्षसा मथिताः के चिद्वानरैर्जितकाशिभिः |
ववर्षू रुधिरं के चिन्मुखै रुधिरभोजनाः || १०||

पार्श्वेषु दारिताः के चित्के चिद्राशीकृता द्रुमैः |
शिलाभिश्चूर्णिताः के चित्के चिद्दन्तैर्विदारिताः || ११||

ध्वजैर्विमथितैर्भग्नैः खरैश्च विनिपातितैः |
रथैर्विध्वंसितैश्चापि पतितै रजनीचरैः || १२||

वानरैर्भीमविक्रान्तैराप्लुत्याप्लुत्य वेगितैः |
राक्षसाः करजैस्तीक्ष्णैर्मुखेषु विनिकर्तिताः || १३||

विवर्णवदना भूयो विप्रकीर्णशिरोरुहाः |
मूढाः शोणितगन्धेन निपेतुर्धरणीतले || १४||

नये तु परमक्रुद्धा राक्षसा भीमविक्रमाः |
तलैरेवाभिधावन्ति वज्रस्पर्शसमैर्हरीन् || १५||

वनरैरापतन्तस्ते वेगिता वेगवत्तरैः |
मुष्टिभिश्चरणैर्दन्तैः पादपैश्चापपोथिताः || १६||

सन्यं तु विद्रुतं दृष्ट्वा धूम्राक्षो राक्षसर्षभः |
क्रोधेन कदनं चक्रे वानराणां युयुत्सताम् || १७||

प्रासैः प्रमथिताः के चिद्वानराः शोणितस्रवाः |
मुद्गरैराहताः के चित्पतिता धरणीतले || १८||

परिघैर्मथितः के चिद्भिण्डिपालैर्विदारिताः |
पट्टसैराहताः के चिद्विह्वलन्तो गतासवः || १९||

के चिद्विनिहता भूमौ रुधिरार्द्रा वनौकसः |
के चिद्विद्राविता नष्टाः सङ्क्रुद्धै राक्षसैर्युधि || २०||

विभिन्नहृदयाः के चिदेकपार्श्वेन शायिताः |
विदारितास्त्रशूलै च के चिदान्त्रैर्विनिस्रुताः || २१||

तत्सुभीमं महद्युद्धं हरिराकस सङ्कुलम् |
प्रबभौ शस्त्रबहुलं शिलापादपसङ्कुलम् || २२||

धनुर्ज्यातन्त्रिमधुरं हिक्कातालसमन्वितम् |
मन्द्रस्तनितसङ्गीतं युद्धगान्धर्वमाबभौ || २३||

धूम्राक्षस्तु धनुष्पाणिर्वानरान्रणमूर्धनि |
हसन्विद्रावयामास दिशस्ताञ्शरवृष्टिभिः || २४||

धूम्राक्षेणार्दितं सैन्यं व्यथितं दृश्य मारुतिः |
अभ्यवर्तत सङ्क्रुद्धः प्रगृह्य विपुलां शिलाम् || २५||

क्रोधाद्द्विगुणताम्राक्षः पितृतुल्यपराक्रमः |
शिलां तां पातयामास धूम्राक्षस्य रथं प्रति || २६||

आपतन्तीं शिलां दृष्ट्वा गदामुद्यम्य सम्भ्रमात् |
रथादाप्लुत्य वेगेन वसुधायां व्यतिष्ठत || २७||

सा प्रमथ्य रथं तस्य निपपात शिलाभुवि |
सचक्रकूबरं साश्वं सध्वजं सशरासनम् || २८||

स भङ्क्त्वा तु रथं तस्य हनूमान्मारुतात्मजः |
रक्षसां कदनं चक्रे सस्कन्धविटपैर्द्रुमैः || २९||

विभिन्नशिरसो भूत्वा राक्षसाः शोणितोक्षिताः |
द्रुमैः प्रमथिताश्चान्ये निपेतुर्धरणीतले || ३०||

विद्राव्य राक्षसं सैन्यं हनूमान्मारुतात्मजः |
गिरेः शिखरमादाय धूम्राक्षमभिदुद्रुवे || ३१||

तमापतन्तं धूम्राक्षो गदामुद्यम्य वीर्यवान् |
विनर्दमानः सहसा हनूमन्तमभिद्रवत् || ३२||

ततः क्रुद्धस्तु वेगेन गदां तां बहुकण्टकाम् |
पातयामास धूम्राक्षो मस्तके तु हनूमतः || ३३||

ताडितः स तया तत्र गदया भीमरूपया |
स कपिर्मारुतबलस्तं प्रहारमचिन्तयन् |
धूम्राक्षस्य शिरो मध्ये गिरिशृङ्गमपातयत् || ३४||

स विह्वलितसर्वाङ्गो गिरिशृङ्गेण ताडितः |
पपात सहसा भूमौ विकीर्ण इव पर्वतः || ३५||

धूम्राक्षं निहतं दृष्ट्वा हतशेषा निशाचराः |
त्रस्ताः प्रविविशुर्लङ्कां वध्यमानाः प्लवङ्गमैः || ३६||

स तु पवनसुतो निहत्य शत्रुं
क्षतजवहाः सरितश्च संविकीर्य |
रिपुवधजनितश्रमो महात्मा
मुदमगमत्कपिभिश्च पूज्यमानः || ३७||

37

1342

Dhumraksha along with army attacks the vanaras. In the turbulent battle that ensued both the vanaras and demons were killed in large numbers. When Dhumraksha was killing large number of vanaras, Shri Hanuman intervenes and throws a big rock on Dhumraksha’s chariot. 

Sensing the danger, Dhumraksha jumps out of his chariot with his mace in hand. And, the rock thrown by Shri Hanuman shattered the chariot. Thereupon, Dhumraksha attacks Shri Hanuman with his mace. Not bothering with the blow of mace, Shri Hanuman throws another big rock on Dhumraksha due to which impact his head got shattered and he dies.

55

धूम्राक्षं निहतं श्रुत्वा रावणो राक्षसेश्वरः |
बलाध्यक्षमुवाचेदं कृताञ्जलिमुपस्थितम् || १||

शीघ्रं निर्यान्तु दुर्धर्षा राक्षसा भीमविक्रमाः |
अकम्पनं पुरस्कृत्य सर्वशस्त्रप्रकोविदम् || २||

ततो नानाप्रहरणा भीमाक्षा भीमदर्शनाः |
निष्पेतू राक्षसा मुख्या बलाध्यक्षप्रचोदिताः || ३||

रथमास्थाय विपुलं तप्तकाञ्चनकुण्डलः |
राकसैः संवृतो घोरैस्तदा निर्यात्यकम्पनः || ४||

न हि कम्पयितुं शक्यः सुरैरपि महामृधे |
अकम्पनस्ततस्तेषामादित्य इव तेजसा || ५||

तस्य निधावमानस्य संरब्धस्य युयुत्सया |
अकस्माद्दैन्यमागच्छद्धयानां रथवाहिनाम् || ६||

व्यस्फुरन्नयनं चास्य सव्यं युद्धाभिनन्दिनः |
विवर्णो मुखवर्णश्च गद्गदश्चाभवत्स्वरः || ७||

अभवत्सुदिने चापि दुर्दिने रूक्षमारुतम् |
ऊचुः खगा मृगाः सर्वे वाचः क्रूरा भयावहाः || ८||

स सिंहोपचितस्कन्धः शार्दूलसमविक्रमः |
तानुत्पातानचिन्त्यैव निर्जगाम रणाजिरम् || ९||

तदा निर्गच्छतस्तस्य रक्षसः सह राक्षसैः |
बभूव सुमहान्नादः क्षोभयन्निव सागरम् || १०||

तेन शब्देन वित्रस्ता वानराणां महाचमूः |
द्रुमशैलप्रहरणा योद्धुं समवतिष्ठत || ११||

तेषां युद्धं महारौद्रं सञ्जज्ञे कपिरक्षसाम् |
रामरावणयोरर्थे समभित्यक्तजीविनाम् || १२||

सर्वे ह्यतिबलाः शूराः सर्वे पर्वतसंनिभाः |
हरयो राक्षसाश्चैव परस्परजिघंसवः || १३||

तेषां विनर्दातां शब्दः संयुगेऽतितरस्विनाम् |
शुश्रुवे सुमहान्क्रोधादन्योन्यमभिगर्जताम् || १४||

रजश्चारुणवर्णाभं सुभीममभवद्भृशम् |
उद्धूतं हरिरक्षोभिः संरुरोध दिशो दश || १५||

अन्योन्यं रजसा तेन कौशेयोद्धूतपाण्डुना |
संवृतानि च भूतानि ददृशुर्न रणाजिरे || १६||

न ध्वजो न पताकावा वर्म वा तुरगोऽपि वा |
आयुधं स्यन्दनं वापि ददृशे तेन रेणुना || १७||

शब्दश्च सुमहांस्तेषां नर्दतामभिधावताम् |
श्रूयते तुमुले युद्धे न रूपाणि चकाशिरे || १८||

हरीनेव सुसङ्क्रुद्धा हरयो जघ्नुराहवे |
राक्षसाश्चापि रक्षांसि निजघ्नुस्तिमिरे तदा || १९||

परांश्चैव विनिघ्नन्तः स्वांश्च वानरराक्षसाः |
रुधिरार्द्रं तदा चक्रुर्महीं पङ्कानुलेपनाम् || २०||

ततस्तु रुधिरौघेण सिक्तं व्यपगतं रजः |
शरीरशवसङ्कीर्णा बभूव च वसुन्धरा || २१||

द्रुमशक्तिशिलाप्रासैर्गदापरिघतोमरैः |
हरयो राक्षसास्तूर्णं जघ्नुरन्योन्यमोजसा || २२||

बाहुभिः परिघाकारैर्युध्यन्तः पर्वतोपमाः |
हरयो भीमकर्माणो राक्षसाञ्जघ्नुराहवे || २३||

राक्षसाश्चापि सङ्क्रुद्धाः प्रासतोमरपाणयः |
कपीन्निजघ्निरे तत्र शस्त्रैः परमदारुणैः || २४||

हरयस्त्वपि रक्षांसि महाद्रुममहाश्मभिः |
विदारयन्त्यभिक्रम्य शस्त्राण्याच्छिद्य वीर्यतः || २५||

एतस्मिन्नन्तरे वीरा हरयः कुमुदो नलः |
मैन्दश्च परमक्रुद्धश् चक्रुर्वेगमनुत्तमम् || २६||

ते तु वृक्षैर्महावेगा राक्षसानां चमूमुखे |
कदनं सुमह चक्रुर्लीलया हरियूथपाः || २७||

27

1369

Upon hearing the news of death of Dhumraksha, Ravana sends Akampana for the battle. As Akampana along with his army sets out for the war, he experiences various bad portents.  

Akampana moves ahead, disregarding the bad portents, in the battlefield.  A deadly conflict ensued between vanaras and demons. Kumuda, Nala, Mainda and Dwivida,  the chiefs of vanaras create a great slaughter among demons.

इत्यार्षे श्री रामायणे युद्धकाण्डे चतुर्दश: भाग:

 

Yuddhakāṇḍa Part-13

Yuddhakāṇḍa Part-15

 

No comments:

Post a Comment