युद्धकाण्ड - Yuddhakāṇḍa (भाग - १४
;;; Part – 14)
|
Sarga
number as per Ramayana |
Shlokas
extracted |
No. of shlokas |
Cumulative number of shlokas in this
Kanda |
|
62 |
स
तु राक्षसशार्दूलो निद्रामदसमाकुलः | राक्षसानां सहस्रैश्च वृतः परमदुर्जयः | स
हेमजालविततं भानुभास्वरदर्शनम् | स
तत्तदा सूर्य इवाभ्रजालं सोऽभिगम्य गृहं भ्रातुः कक्ष्यामभिविगाह्य च | अथ
दृष्ट्वा दशग्रीवः कुम्भकर्णमुपस्थितम् | अथासीनस्य पर्यङ्के कुम्भकर्णो महाबलः | स
भ्रात्रा सम्परिष्वक्तो यथावच्चाभिनन्दितः | स
तदासनमाश्रित्य कुम्भकर्णो महाबलः | किमर्थमहमादृत्य त्वया राजन्प्रबोधितः | भ्रातरं रावणः क्रुद्धं कुम्भकर्णमवस्थितम् | अद्य
ते सुमहान्कालः शयानस्य महाबल | एष
दाशरथी रामः सुग्रीवसहितो बली | हन्त
पश्यस्व लङ्काया वनान्युपवनानि च | ये
राक्षसा मुख्यतमा हतास्ते वानरैर्युधि | सर्वक्षपितकोशं च स त्वमभ्यवपद्य माम् | भ्रातुरर्थे महाबाहो कुरु कर्म सुदुष्करम् | देवासुरविमर्देषु बहुशो राक्षसर्षभ | कुरुष्व मे प्रियहितमेतदुत्तमं |
19 |
1107 |
|
Kumbhakarna enters
the abode of Ravana and sees his worried brother sitting in Pushpaka, a
self-moving aerial car. Kumbhakarna asks Ravana about the nature of work to
be done by him and whether he has to kill anyone. Ravana replies that Rama
has come with troops of monkeys including Sugreeva, after crossing the ocean
by a bridge, to wage a battle Ravana requests Kumbhakarna to show his
terrible prowess in killing all the adversaries in battle. |
|||
|
63
65 |
तस्य
राक्षसराजस्य निशम्य परिदेवितम् | अलं
राक्षसराजेन्द्र सन्तापमुपपद्य ते | रोषं
च सम्परित्यज्य स्वस्थो भवितुमर्हसि || २|| सदृशं
यत्तु कालेऽस्मिन्कर्तुं स्निग्धेन बन्धुना | शत्रूणां कदनं पश्य क्रियमाणं मया रणे || ३|| अद्य
पश्य महाबाहो मया समरमूर्धनि | हते
रामे सह भ्रात्रा द्रवन्तीं हरिवाहिनीम् || ४|| अद्य
रामस्य तद्दृष्ट्वा मयानीतं रणाच्छिरः | सुखीभव महाबाहो सीता भवतु दुःखिता || ५|| अद्य
रामस्य पश्यन्तु निधनं सुमहत्प्रियम् | लङ्कायां राक्षसाः सर्वे ये ते निहतबान्धवाः || ६|| अद्य
शोकपरीतानां स्वबन्धुवधकारणात् | शत्रोर्युधि विनाशेन करोम्यस्रप्रमार्जनम् || ७|| चिन्तया बाध्यसे राजन्किमर्थं मयि तिष्ठति | सोऽहं
शत्रुविनाशाय तव निर्यातुमुद्यतः || ८|| मुञ्च
रामाद्भयं राजन्हनिष्यामीह संयुगे | राघवं
लक्ष्मणं चैव सुग्रीवं च महाबलम् | असाधारणमिच्छामि तव दातुं महद्यशः || ९|| आददे
निशितं शूलं वेगाच्छत्रुनिबर्हणः | सर्वकालायसं दीप्तं तप्तकाञ्चनभूषणम् || १०|| इन्द्राशनिसमं भीमं वज्रप्रतिमगौरवम् | देवदानवगन्धर्वयक्षकिंनरसूदनम् || ११|| रक्तमाल्य महादाम स्वतश्चोद्गतपावकम् | आदाय
निशितं शूलं शत्रुशोणितरञ्जितम् || १२|| कुम्भकर्णो महातेजा रावणं वाक्यमब्रवीत् गमिष्याम्यहमेकाकी तिष्ठत्विह बलं महत् || १३|| अद्य
तान्क्षुधितः क्रुद्धो भक्षयिष्यामि वानरान् | कुम्भकर्णवचः श्रुत्वा रावणो वाक्यमब्रवीत् | कश्चिन्मे त्वत्समो नास्ति सौहृदेन बलेन च || १४|| गच्छ
शत्रुवधाय त्वं कुम्भकर्णजयाय च | शयानः
शत्रुनाशार्थम् भवान् सम्बोधितो मया || १५|| तद्गच्छ शूलमादाय पाशहस्त इवान्तकः || १६|| सैन्यैः परिवृतो गच्छ शूलमुद्गलपाणिभिः || १७|| वानरा
हि महात्मानः शीघ्राश्च व्यवसायिनः | एकाकिनं प्रमत्तं वा नयेयुर्दशनैः क्षयम् || १८|| तस्मात्परमदुर्धर्षैः सैन्यैः परिवृतो व्रज | रक्षसामहितं सर्वं शत्रुपक्षं निसूदय || १९|| अथासनात्समुत्पत्य स्रजं मणिकृतान्तराम् | आबबन्ध महातेजाः कुम्भकर्णस्य रावणः || २०|| अङ्गदानङ्गुलीवेष्टान्वराण्याभरणानि च | हारं
च शशिसङ्काशमाबबन्ध महात्मनः || २१|| दिव्यानि च सुगन्धीनि माल्यदामानि रावणः | श्रोत्रे चासज्जयामास श्रीमती चास्य कुण्डले || २२|| काञ्चनाङ्गदकेयूरो निष्काभरणभूषितः | कुम्भकर्णो बृहत्कर्णः सुहुतोऽग्निरिवाबभौ || २३|| श्रोणीसूत्रेण महता मेचकेन विराजितः | अमृतोत्पादने नद्धो भुजङ्गेनेव मन्दरः || २४|| स
काञ्चनं भारसहं निवातं विद्युत्प्रभं दीप्तमिवात्मभासा | आबध्यमानः कवचं रराज सन्ध्याभ्रसंवीत इवाद्रिराजः || २५|| भ्रातरं सम्परिष्वज्य कृत्वा चापि प्रदक्षिणम् | प्रणम्य शिरसा तस्मै सम्प्रतस्थे महाबलिः | तमाशीर्भिः प्रशस्ताभिः प्रेषयामास रावणः || २६|| शङ्खदुन्दुभिनिर्घोषैः सैन्यैश्चापि वरायुधैः | तं
गजैश्च तुरङ्गैश्च स्यन्दनैश्चाम्बुदस्वनैः | अनुजग्मुर्महात्मानं रथिनो रथिनां वरम् || २७|| सर्पैरुष्ट्रैः खरैरश्वैः सिंहद्विपमृगद्विजैः | अनुजग्मुश्च तं घोरं कुम्भकर्णं महाबलम् || २८|| स
पुष्पवर्णैरवकीर्यमाणो धृतातपत्रः शितशूलपाणिः | मदोत्कटः शोणितगन्धमत्तो विनिर्ययौ दानवदेवशत्रुः || २९|| पदातयश बहवो महानादा महाबलाः | अन्वयू राक्षसा भीमा भीमाक्षाः शस्त्रपाणयः || ३०|| रक्ताक्षाः सुमहाकाया नीलाञ्जनचयोपमाः | शूरानुद्यम्य खड्गांश्च निशितांश्च परश्वधान् || ३१|| बहुव्यामांश्च विपुलान्क्षेपणीयान्दुरासदान् | तालस्कन्धांश्च विपुलान्क्षेपणीयान्दुरासदान् || ३२|| एवं
तस्य ब्रुवाणस्य कुम्भकर्णस्य राक्षसाः | नादं
चक्रुर्महाघोरं कम्पयन्त इवार्णवम् || ३३|| अचिन्तयन्महोत्पातानुत्थिताँल्लोमहर्षणान् | निर्ययौ कुम्भकर्णस्तु कृतान्तबलचोदितः || ३४|| स
लङ्घयित्वा प्राकारं पद्भ्यां पर्वतसंनिभः | ददर्शाभ्रघनप्रख्यं वानरानीकमद्भुतम् || ३५|| |
35 |
1142 |
|
Kumbhakarna consoles Ravana and assures him that all his enemies would be destroyed by him in the ensuing battle, so that he can enjoy with Seeta happily. Ravana is pleased and
orders Kumbhakarna to eliminate the vanaras along with Shri Rama and
Lakshmana in the battle. Then, Ravana decorates various limbs of Kumbhakarna
with different ornaments, before sending him to the battle. Kumbhakarna surges
ahead to the battle. Beholding the colossal form of Kumbhakarna, all the vanaras
get terrified and run away in different directions. |
|||
|
66 |
स
ननाद महानादं समुद्रमभिनादयन् | तमवध्यं मघवता यमेन वरुणेन च | तांस्तु विद्रवतो दृष्ट्वा वालिपुत्रोऽङ्गदोऽब्रवीत् | आत्मानमत्र विस्मृत्य वीर्याण्यभिजनानि च | साधु
सौम्या निवर्तध्वं किं प्राणान्परिरक्षथ | महतीमुत्थितामेनां राक्षसानां विभीषिकाम् | कृच्छ्रेण तु समाश्वास्य सङ्गम्य च ततस्ततः | ते
निवृत्य तु सङ्क्रुद्धाः कुम्भकर्णं वनौकसः | पादपैः पुष्पिताग्रैश्च हन्यमानो न कम्पते | सोऽपि
सैन्यानि सङ्क्रुद्धो वानराणां महौजसाम् | लोहितार्द्रास्तु बहवः शेरते वानरर्षभाः | लङ्घयन्तः प्रधावन्तो वानरा नावलोकयन् | वध्यमानास्तु ते वीरा राक्षसेन बलीयसा | ते
स्थलानि तथा निम्नं विषण्णवदना भयात् | ममज्जुरर्णवे के चिद्गुहाः के चित्समाश्रिताः | तान्समीक्ष्याङ्गदो भङ्गान्वानरानिदमब्रवीत् | भग्नानां वो न पश्यामि परिगम्य महीमिमाम् | निरायुधानां द्रवतामसङ्गगतिपौरुषाः | कुलेषु जाताः सर्वे स्म विस्तीर्णेषु महत्सु च | विकत्थनानि वो यानि यदा वै जनसंसदि | भीरुप्रवादाः श्रूयन्ते यस्तु जीवति धिक्कृतः | शयामहे वा निहताः पृथिव्यामल्पजीविताः | न
कुम्भकर्णः काकुत्स्थं दृष्ट्वा जीवन्गमिष्यति | पलायनेन चोद्दिष्टाः प्राणान्रक्षामहे वयम् | एवं
ब्रुवाणं तं शूरमङ्गदं कनकाङ्गदम् | कृतं
नः कदनं घोरं कुम्भकर्णेन रक्षसा | एतावदुक्त्वा वचनं सर्वे ते भेजिरे दिशः | द्रवमाणास्तु ते वीरा अङ्गदेन वलीमुखाः | ऋषभशरभमैन्दधूम्रनीलाः |
29 |
1161 |
|
Angada restores
confidence in the frightened vanaras, who then return to the battle field and
start attacking Kumbhakarna. Kumbhakarna crushes some vanaras with anger. |
|||
इत्यार्षे श्री रामायणे युद्धकाण्डे चतुर्दश: भाग:
No comments:
Post a Comment