Wednesday, January 7, 2026

युद्धकाण्ड - Yuddhakāṇḍa (भाग - १७ ;;; Part – 17)

 

युद्धकाण्ड - Yuddhakāṇḍa (भाग - १७ ;;; Part – 17)

Sarga number as per Ramayana

Shlokas extracted

No. of shlokas

Cumulative number of shlokas in this Kanda

60

प्रविश्य पुरीं लङ्कां रामबाणभयार्दितः |
भग्नदर्पस्तदा राजा बभूव व्यथितेन्द्रियः || ||

मातङ्ग इव सिंहेन गरुडेनेव पन्नगः |
अभिभूतोऽभवद्राजा राघवेण महात्मना || ||

ब्रह्मदण्डप्रकाशानां विद्युत्सदृशवर्चसाम् |
स्मरन्राघवबाणानां विव्यथे राक्षसेश्वरः || ||

काञ्चनमयं दिव्यमाश्रित्य परमासनम् |
विक्प्रेक्षमाणो रक्षांसि रावणो वाक्यमब्रवीत् || ||

सर्वं तत्खलु मे मोघं यत्तप्तं परमं तपः |
यत्समानो महेन्द्रेण मानुषेणास्मि निर्जितः || ||

इदं तद्ब्रह्मणो घोरं वाक्यं माम् अभ्युपस्थितम् |
मानुषेभ्यो विजानीहि भयं त्वमिति तत्तथा || ||

देवदानवगन्धर्वैर्यक्षराक्षसपन्नगैः |
अवध्यत्वं मया प्राप्तं मानुषेभ्यो याचितम् || ||

एतदेवाभ्युपागम्य यत्नं कर्तुमिहार्हथ |
राक्षसाश्चापि तिष्ठन्तु चर्यागोपुरमूर्धसु || ||

चाप्रतिमगम्भीरो देवदानवदर्पहा |
ब्रह्मशापाभिभूतस्तु कुम्भकर्णो विबोध्यताम् || ||

पराजितमात्मानं प्रहस्तं निषूदितम् |
ज्ञात्वा रक्षोबलं भीममादिदेश महाबलः || १०||

द्वारेषु यत्नः क्रियतां प्राकाराश्चाधिरुह्यताम् |
निद्रावशसमाविष्टः कुम्भकर्णो विबोध्यताम् || ११||

नव षट्सप्त चाष्टौ मासान्स्वपिति राक्षसः |
तं तु बोधयत क्षिप्रं कुम्भकर्णं महाबलम् || १२||

हि सङ्ख्ये महाबाहुः ककुदं सर्वरक्षसाम् |
वानरान्राजपुत्रौ क्षिप्रमेव वधिष्यति || १३||

कुम्भकर्णः सदा शेते मूढो ग्राम्यसुखे रतः |
रामेणाभिनिरस्तस्य सङ्ग्रामोऽस्मिन्सुदारुणे || १४||

भविष्यति मे शोकः कुम्भकर्णे विबोधिते |
किं करिष्याम्यहं तेन शक्रतुल्यबलेन हि || १५||

ईदृशे व्यसने प्राप्ते यो साह्याय कल्पते |
ते तु तद्वचनं श्रुत्वा राक्षसेन्द्रस्य राक्षसाः || १६||

जग्मुः परमसम्भ्रान्ताः कुम्भकर्णनिवेशनम् |
ते रावणसमादिष्टा मांसशोणितभोजनाः || १७||

गन्धमाल्यांस्तथा भक्ष्यानादाय सहसा ययुः |
तां प्रविश्य महाद्वारां सर्वतो योजनायताम् || १८||

कुम्भकर्णगुहां रम्यां सर्वगन्धप्रवाहिनीम् |
प्रतिष्ठमानाः कृच्छ्रेण यत्नात्प्रविविशुर्गुहाम् || १९||

तां प्रविश्य गुहां रम्यां शुभां काञ्चनकुट्टिमाम् |
ददृशुर्नैरृतव्याघ्रं शयानं भीमदर्शनम् || २०||

ते तु तं विकृतं सुप्तं विकीर्णमिव पर्वतम् |
कुम्भकर्णं महानिद्रं सहिताः प्रत्यबोधयन् || २१||

ऊर्ध्वरोमाञ्चिततनुं श्वसन्तमिव पन्नगम् |
त्रासयन्तं महाश्वासैः शयानं भीमदर्शनम् || २२||

भीमनासापुटं तं तु पातालविपुलाननम् |
ददृशुर्नैरृतव्याघ्रं कुम्भकर्णं महाबलम् || २३||

ततश्चक्रुर्महात्मानः कुम्भकर्णाग्रतस्तदा |
मांसानां मेरुसङ्काशं राशिं परमतर्पणम् || २४||

मृगाणां महिषाणां वराहाणां सञ्चयान् |
चक्रुर्नैरृतशार्दूला राशिमन्नस्य चाद्भुतम् || २५||

ततः शोणितकुम्भांश्च मद्यानि विविधानि |
पुरस्तात्कुम्भकर्णस्य चक्रुस्त्रिदशशत्रवः || २६||

लिलिपुश्च परार्ध्येन चन्दनेन परन्तपम् |
दिव्यैराच्छादयामासुर्माल्यैर्गन्धैः सुगन्धिभिः || २७||

धूपं सुगन्धं ससृजुस्तुष्टुवुश्च परन्तपम् |
जलदा इव चोनेदुर्यातुधानाः सहस्रशः || २८||

शङ्खानापूरयामासुः शशाङ्कसदृशप्रभान् |
तुमुलं युगपच्चापि विनेदुश्चाप्यमर्षिताः || २९||

नेदुरास्फोटयामासुश्चिक्षिपुस्ते निशाचराः |
कुम्भकर्णविबोधार्थं चक्रुस्ते विपुलं स्वनम् || ३०||

सशङ्खभेरीपटहप्रणादम्
आस्फोटितक्ष्वेडितसिंहनादम् |
दिशो द्रवन्तस्त्रिदिवं किरन्तः
श्रुत्वा विहङ्गाः सहसा निपेतुः || ३१||

यदा भृशं तैर्निनदैर्महात्मा
कुम्भकर्णो बुबुधे प्रसुप्तः |
ततो मुसुण्डीमुसलानि सर्वे
रक्षोगणास्ते जगृहुर्गदाश् || ३२||

तं शैलशृङ्गैर्मुसलैर्गदाभिर्
वृक्षैस्तलैर्मुद्गरमुष्टिभिश् |
सुखप्रसुप्तं भुवि कुम्भकर्णं
रक्षांस्युदग्राणि तदा निजघ्नुः || ३३||

तस्य निश्वासवातेन कुम्भकर्णस्य रक्षसः |
राक्षसा बलवन्तोऽपि स्थातुं नाशक्नुवन्पुरः || ३४||

ततोऽस्य पुरतो गाढं राक्षसा भीमविक्रमाः |
मृदङ्गपणवान्भेरीः शङ्खकुम्भगणांस्तथा |
दशराक्षससाहस्रं युगपत्पर्यवादयन् || ३५||

नीलाञ्जनचयाकारं ते तु तं प्रत्यबोधयन् |
अभिघ्नन्तो नदन्तश्च नैव संविविदे तु सः || ३६||

यदा चैनं शेकुस्ते प्रतिबोधयितुं तदा |
ततो गुरुतरं यत्नं दारुणं समुपाक्रमन् || ३७||

अश्वानुष्ट्रान्खरान्नागाञ्जघ्नुर्दण्डकशाङ्कुशैः |
भेरीशङ्खमृदङ्गांश्च सर्वप्राणैरवादयन् || ३८||

निजघ्नुश्चास्य गात्राणि महाकाष्ठकटं करैः |
मुद्गरैर्मुसलैश्चैव सर्वप्राणसमुद्यतैः || ३९||

तेन शब्देन महता लङ्का समभिपूरिता |
सपर्वतवना सर्वा सोऽपि नैव प्रबुध्यते || ४०||

ततः सहस्रं भेरीणां युगपत्समहन्यत |
मृष्टकाञ्चनकोणानामसक्तानां समन्ततः || ४१||

एवमप्यतिनिद्रस्तु यदा नैव प्रबुध्यत |
शापस्य वशमापन्नस्ततः क्रुद्धा निशाचराः || ४२||

महाक्रोधसमाविष्टाः सर्वे भीमपराक्रमाः |
तद्रक्षोबोधयिष्यन्तश्चक्रुरन्ये पराक्रमम् || ४३||

अन्ये भेरीः समाजघ्नुरन्ये चक्रुर्महास्वनम् |
केशानन्ये प्रलुलुपुः कर्णावन्ये दशन्ति |
कुम्भकर्णः पस्पन्दे महानिद्रावशं गतः || ४४||

अन्ये बलिनस्तस्य कूटमुद्गरपाणयः |
मूर्ध्नि वक्षसि गात्रेषु पातयन्कूटमुद्गरान् || ४५||

रज्जुबन्धनबद्धाभिः शतघ्नीभिश्च सर्वतः |
वध्यमानो महाकायो प्राबुध्यत राक्षसः || ४६||

वारणानां सहस्रं तु शरीरेऽस्य प्रधावितम् |
कुम्भकर्णस्ततो बुद्धः स्पर्शं परमबुध्यत || ४७||

पात्यमानैर्गिरिशृङ्गवृक्षैर्
अचिन्तयंस्तान्विपुलान्प्रहारान् |
निद्राक्षयात्क्षुद्भयपीडितश्
विजृम्भमाणः सहसोत्पपात || ४८||

नागभोगाचलशृङ्गकल्पौ
विक्षिप्य बाहू गिरिशृङ्गसारौ |
विवृत्य वक्त्रं वडवामुखाभं
निशाचरोऽसौ विकृतं जजृम्भे || ४९||

तस्य जाजृम्भमाणस्य वक्त्रं पातालसंनिभम् |
ददृशे मेरुशृङ्गाग्रे दिवाकर इवोदितः || ५०||

विजृम्भमाणोऽतिबलः प्रतिबुद्धो निशाचरः |
निश्वासश्चास्य सञ्जज्ञे पर्वतादिव मारुतः || ५१||

रूपमुत्तिष्ठतस्तस्य कुम्भकर्णस्य तद्बभौ |
तपान्ते सबलाकस्य मेघस्येव विवर्षतः || ५२||

तस्य दीप्ताग्निसदृशे विद्युत्सदृशवर्चसी |
ददृशाते महानेत्रे दीप्ताविव महाग्रहौ || ५३||

आदद्बुभुक्षितो मांसं शोणितं तृषितोऽपिबत् |
मेदः कुम्भं मद्यं पपौ शक्ररिपुस्तदा || ५४||

ततस्तृप्त इति ज्ञात्वा समुत्पेतुर्निशाचराः |
शिरोभिश्च प्रणम्यैनं सर्वतः पर्यवारयन् || ५५||

सर्वान्सान्त्वयामास नैरृतान्नैरृतर्षभः |
बोधनाद्विस्मितश्चापि राक्षसानिदमब्रवीत् || ५६||

किमर्थमहमाहत्य भवद्भिः प्रतिबोधितः |
कच्चित्सुकुशलं राज्ञो भयं वा नेह किं चन || ५७||

अथ वा ध्रुवमन्येभ्यो भयं परमुपस्थितम् |
यदर्थमेव त्वरितैर्भवद्भिः प्रतिबोधितः || ५८||

अद्य राक्षसराजस्य भयमुत्पाटयाम्यहम् |
पातयिष्ये महेन्द्रं वा शातयिष्ये तथानलम् || ५९||

ह्यल्पकारणे सुप्तं बोधयिष्यति मां भृशम् |
तदाख्यातार्थतत्त्वेन मत्प्रबोधनकारणम् || ६०||

एवं ब्रुवाणं संरब्धं कुम्भकर्णमरिन्दमम् |
यूपाक्षः सचिवो राज्ञः कृताञ्जलिरुवाच || ६१||

नो देवकृतं किं चिद्भयमस्ति कदा चन |
दैत्यदानवेभ्यो वा भयमस्ति हि तादृशम् |
यादृशं मानुषं राजन्भयमस्मानुपस्थितम् || ६२||

वानरैः पर्वताकारैर्लङ्केयं परिवारिता |
सीताहरणसन्तप्ताद्रामान्नस्तुमुलं भयम् || ६३||

एकेन वानरेणेयं पूर्वं दग्धा महापुरी |
कुमारो निहतश्चाक्षः सानुयात्रः सकुञ्जरः || ६४||

स्वयं रक्षोऽधिपश्चापि पौलस्त्यो देवकण्टकः |
मृतेति संयुगे मुक्तारामेणादित्यतेजसा || ६५||

यन्न देवैः कृतो राजा नापि दैत्यैर्न दानवैः |
कृतः इह रामेण विमुक्तः प्राणसंशयात् || ६६||

यूपाक्षवचः श्रुत्वा भ्रातुर्युधि पराजयम् |
कुम्भकर्णो विवृत्ताक्षो यूपाक्षमिदमब्रवीत् || ६७||

सर्वमद्यैव यूपाक्ष हरिसैन्यं सलक्ष्मणम् |
राघवं रणे हत्वा पश्चाद्द्रक्ष्यामि रावणम् || ६८||

राक्षसांस्तर्पयिष्यामि हरीणां मांसशोणितैः |
रामलक्ष्मणयोश्चापि स्वयं पास्यामि शोणितम् || ६९||

तत्तस्य वाक्यं ब्रुवतो निशम्य
सगर्वितं रोषविवृद्धदोषम् |
महोदरो नैरृतयोधमुख्यः
कृताञ्जलिर्वाक्यमिदं बभाषे || ७०||

रावणस्य वचः श्रुत्वा गुणदोषु विमृश्य |
पश्चादपि महाबाहो शत्रून्युधि विजेष्यसि || ७१||

महोदरवचः श्रुत्वा राक्षसैः परिवारितः |
कुम्भकर्णो महातेजाः सम्प्रतस्थे महाबलः || ७२||

तं समुत्थाप्य भीमाक्षं भीमरूपपराक्रमम् |
राक्षसास्त्वरिता जग्मुर्दशग्रीवनिवेशनम् || ७३||

ततो गत्वा दशग्रीवमासीनं परमासने |
ऊचुर्बद्धाञ्जलिपुटाः सर्व एव निशाचराः || ७४||

प्रबुद्धः कुम्भकर्णोऽसौ भ्राता ते राक्षसर्षभ |
कथं तत्रैव निर्यातु द्रक्ष्यसे तमिहागतम् || ७५||

रावणस्त्वब्रवीद्धृष्टो यथान्यायं पूजितम् |
द्रष्टुमेनमिहेच्छामि यथान्यायं पूजितम् || ७६||

तथेत्युक्त्वा तु ते सर्वे पुनरागम्य राक्षसाः |
कुम्भकर्णमिदं वाक्यमूचू रावणचोदिताः || ७७||

द्रष्टुं त्वां काङ्क्षते राजा सर्वराक्षसपुङ्गवः |
गमने क्रियतां बुद्धिर्भ्रातरं सम्प्रहर्षय || ७८||

कुम्भकर्णस्तु दुर्धर्षो भ्रातुराज्ञाय शासनम् |
तथेत्युक्त्वा महावीर्यः शयनादुत्पपात || ७९||

प्रक्षाल्य वदनं हृष्टः स्नातः परमभूषितः |
पिपासुस्त्वरयामास पानं बलसमीरणम् || ८०||

ततस्ते त्वरितास्तस्य राज्षसा रावणाज्ञया |
मद्यं भक्ष्यांश्च विविधान्क्षिप्रमेवोपहारयन् || ८१||

पीत्वा घटसहस्रं गमनायोपचक्रमे || ८२||

ईषत्समुत्कटो मत्तस्तेजोबलसमन्वितः |
कुम्भकर्णो बभौ हृष्टः कालान्तकयमोपमः || ८३||

भ्रातुः भवनं गच्छन्रक्षोबलसमन्वितः |
कुम्भकर्णः पदन्यासैरकम्पयत मेदिनीम् || ८४||

राजमार्गं वपुषा प्रकाशयन्
सहस्ररश्मिर्धरणीमिवांशुभिः |
जगाम तत्राञ्जलिमालया वृतः
शतक्रतुर्गेहमिव स्वयम्भुवः || ८५||

के चिच्छरण्यं शरणं स्म रामं
व्रजन्ति के चिद्व्यथिताः पतन्ति |
के चिद्दिशः स्म व्यथिताः प्रयान्ति
के चिद्भयार्ता भुवि शेरते स्म || ८६||

तमद्रिशृङ्गप्रतिमं किरीटिनं
स्पृशन्तमादित्यमिवात्मतेजसा |
वनौकसः प्रेक्ष्य विवृद्धमद्भुतं
भयार्दिता दुद्रुविरे ततस्ततः || ८७||

87

1712

The humiliated Ravana returns to Lanka and directs demons to go to the abode of Kumbhakarna, who is in a deep slumber, to wake him up and request him to come to him. The slumbering Kumbhakarna has been woken up by the demons after prolonged struggle. Kumbhakarna, having a colossal body, sets out on the high way to see Ravana and the vanaras get terrified to see the demon with a colossal body.

61

ततो रामो महातेजा धनुरादाय वीर्यवान् |
किरीटिनं महाकायं कुम्भकर्णं ददर्श || ||

तं दृष्ट्वा राक्षसश्रेष्ठं पर्वताकारदर्शनम् |
क्रममाणमिवाकाशं पुरा नारायणं प्रभुम् || ||

सतोयाम्बुदसङ्काशं काञ्चनाङ्गदभूषणम् |
दृष्ट्वा पुनः प्रदुद्राव वानराणां महाचमूः || ||

विद्रुतां वाहिनीं दृष्ट्वा वर्धमानं राक्षसं |
सविस्मयमिदं रामो विभीषणमुवाच || ||

कोऽसौ पर्वतसङ्कशः किरीटी हरिलोचनः |
लङ्कायां दृश्यते वीरः सविद्युदिव तोयदः || ||

पृथिव्याः केतुभूतोऽसौ महानेकोऽत्र दृश्यते |
यं दृष्ट्वा वानराः सर्वे विद्रवन्ति ततस्ततः || ||

आचक्ष्व मे महान्कोऽसौ रक्षो वा यदि वासुरः |
मयैवंविधं भूतं दृष्टपूर्वं कदा चन || ||

पृष्टो राजपुत्रेण रामेणाक्लिष्टकारिणा |
विभीषणो महाप्राज्ञः काकुत्स्थमिदमब्रवीत् || ||

येन वैवस्वतो युद्धे वासवश्च पराजितः |
सैष विश्रवसः पुत्रः कुम्भकर्णः प्रतापवान् || ||

एतेन देवा युधि दानवाश्
यक्षा भुजङ्गाः पिशिताशनाश् |
गन्धर्वविद्याधरकिंनराश्
सहस्रशो राघव सम्प्रभग्नाः || १०||

शूलपाणिं विरूपाक्षं कुम्भकर्णं महाबलम् |
हन्तुं शेकुस्त्रिदशाः कालोऽयमिति मोहिताः || ११||

प्रकृत्या ह्येष तेजस्वी कुम्भकर्णो महाबलः |
अन्येषां राक्षसेन्द्राणां वरदानकृतं बलम् || १२||

एतेन जातमात्रेण क्षुधार्तेन महात्मना |
भक्षितानि सहस्राणि सत्त्वानां सुबहून्यपि || १३||

तेषु सम्भक्ष्यमाणेषु प्रजा भयनिपीडिताः |
यान्ति स्म शरणं शक्रं तमप्यर्थं न्यवेदयन् || १४||

कुम्भकर्णं कुपितो महेन्द्रो
जघान वज्रेण शितेन वज्री |
शक्रवज्राभिहतो महात्मा
चचाल कोपाच्च भृशं ननाद || १५||

तस्य नानद्यमानस्य कुम्भकर्णस्य धीमतः |
श्रुत्वा निनादं वित्रस्ता भूयो भूमिर्वितत्रसे || १६||

ततः कोपान्महेन्द्रस्य कुम्भकर्णो महाबलः |
विकृष्यैरावताद्दन्तं जघानोरसि वासवम् || १७||

कुम्भकर्णप्रहारार्तो विचचाल वासवः |
ततो विषेदुः सहसा देवब्रह्मर्षिदानवाः || १८||

प्रजाभिः सह शक्रश्च ययौ स्थानं स्वयम्भुवः |
कुम्भकर्णस्य दौरात्म्यं शशंसुस्ते प्रजापतेः |
प्रजानां भक्षणं चापि देवानां चापि धर्षणम् || १९||

एवं प्रजा यदि त्वेष भक्षयिष्यति नित्यशः |
अचिरेणैव कालेन शून्यो लोको भविष्यति || २०||

वासवस्य वचः श्रुत्वा सर्वलोकपितामहः |
रक्षांस्यावाहयामास कुम्भकर्णं ददर्श || २१||

कुम्भकर्णं समीक्ष्यैव वितत्रास प्रजापतिः |
दृष्ट्वा निश्वस्य चैवेदं स्वयम्भूरिदमब्रवीत् || २२||

ध्रुवं लोकविनाशाय पौरस्त्येनासि निर्मितः |
तस्मात्त्वमद्य प्रभृति मृतकल्पः शयिष्यसि |
ब्रह्मशापाभिभूतोऽथ निपपाताग्रतः प्रभोः || २३||

ततः परमसम्भ्रान्तो रावणो वाक्यमब्रवीत् |
विवृद्धः काञ्चनो वृक्षः फलकाले निकृत्यते || २४||

नप्तारं स्वकं न्याय्यं शप्तुमेवं प्रजापते |
मिथ्यावचनश्च त्वं स्वप्स्यत्येष संशयः |
कालस्तु क्रियतामस्य शयने जागरे तथा || २५||

रावणस्य वचः श्रुत्वा स्वयम्भूरिदमब्रवीत् |
शयिता ह्येष षण्मासानेकाहं जागरिष्यति || २६||

एकेनाह्ना त्वसौ वीरश्चरन्भूमिं बुभुक्षितः |
व्यात्तास्यो भक्षयेल्लोकान्सङ्क्रुद्ध इव पावकः || २७||

सोऽसौ व्यसनमापन्नः कुम्भकर्णमबोधयत् |
त्वत्पराक्रमभीतश्च राजा सम्प्रति रावणः || २८||

एष निर्गतो वीरः शिबिराद्भीमविक्रमः |
वानरान्भृशसङ्क्रुद्धो भक्षयन्परिधावति || २९||

कुम्भकर्णं समीक्ष्यैव हरयो विप्रदुद्रुवुः |
कथमेनं रणे क्रुद्धं वारयिष्यन्ति वानराः || ३०||

उच्यन्तां वानराः सर्वे यन्त्रमेतत्समुच्छ्रितम् |
इति विज्ञाय हरयो भविष्यन्तीह निर्भयाः || ३१||

विभीषणवचः श्रुत्वा हेतुमत्सुमुखोद्गतम् |
उवाच राघवो वाक्यं नीलं सेनापतिं तदा || ३२||

गच्छ सैन्यानि सर्वाणि व्यूह्य तिष्ठस्व पावके |
द्वाराण्यादाय लङ्कायाश्चर्याश्चाप्यथ सङ्क्रमान् || ३३||

शैलशृङ्गाणि वृक्षांश्च शिलाश्चाप्युपसंहरन् |
तिष्ठन्तु वानराः सर्वे सायुधाः शैलपाणयः || ३४||

राघवेण समादिष्टो नीलो हरिचमूपतिः |
शशास वानरानीकं यथावत्कपिकुञ्जरः || ३५||

ततो गवाक्षः शरभो हनुमानङ्गदो नलः |
शैलशृङ्गाणि शैलाभा गृहीत्वा द्वारमभ्ययुः || ३६||

ततो हरीणां तदनीकमुग्रं
रराज शैलोद्यतवृक्षहस्तम् |
गिरेः समीपानुगतं यथैव
महन्महाम्भोधरजालमुग्रम् || ३७||

37

1749

Shri Rama sees Kumbhakarna with a colossal body and enquires Vibhishana as to who he is. Then, Vibhishana informs that he was born between Ravana and himself. 

He explains that Kumbhakarna was born with a great body and used to devour many living beings at a go.  Angered and irritated by his behaviour, Indra complained to Brahma about Kumbhakarna.

Brahma curses Kumbhakarna to be in a sleep mode continuously.  At the request of Ravana, Brahma makes slight alteration to the curse, stating that Kumbhakarna would be keep sleeping for six months and then waking up for a day in a year. And, having starved for six months, Kumbhakarna would wander over the earth and eat the human race with his month wide open, like an augmented fire.

Vibhishana states that Ravana, humiliated and worried after his defeat at Shri Rama’s hands, might have woken up Kumbhakarna for sending him to the battlefield. Shri Rama then orders Nila, the commander-in-chief, to keep his entire army of vanaras ready, apprehending a gruesome war with Kumbhakarna.

इत्यार्षे श्री रामायणे युद्धकाण्डे सप्तदश: भाग:

 

Yuddhakāṇḍa Part-16

Yuddhakāṇḍa Part-18

 

No comments:

Post a Comment