Wednesday, January 7, 2026

युद्धकाण्ड - Yuddhakāṇḍa (भाग - १८ ;;; Part – 18)

 

युद्धकाण्ड - Yuddhakāṇḍa (भाग - १८ ;;; Part – 18)

Sarga number as per Ramayana

Shlokas extracted

No. of shlokas

Cumulative number of shlokas in this Kanda

62

स तु राक्षसशार्दूलो निद्रामदसमाकुलः |
राजमार्गं श्रिया जुष्टं ययौ विपुलविक्रमः || १||

राक्षसानां सहस्रैश्च वृतः परमदुर्जयः |
गृहेभ्यः पुष्पवर्षेण कार्यमाणस्तदा ययौ || २||

स हेमजालविततं भानुभास्वरदर्शनम् |
ददर्श विपुलं रम्यं राक्षसेन्द्रनिवेशनम् || ३||

स तत्तदा सूर्य इवाभ्रजालं
प्रविश्य रक्षोऽधिपतेर्निवेशनम् |
ददर्श दूरेऽग्रजमासनस्थं
स्वयम्भुवं शक्र इवासनस्थम् || ४||

सोऽभिगम्य गृहं भ्रातुः कक्ष्यामभिविगाह्य च |
ददर्शोद्विग्नमासीनं विमाने पुष्पके गुरुम् || ५||

अथ दृष्ट्वा दशग्रीवः कुम्भकर्णमुपस्थितम् |
तूर्णमुत्थाय संहृष्टः संनिकर्षमुपानयत् || ६||

अथासीनस्य पर्यङ्के कुम्भकर्णो महाबलः |
भ्रातुर्ववन्दे चरणां किं कृत्यमिति चाब्रवीत् |
उत्पत्य चैनं मुदितो रावणः परिषस्वजे || ७||

स भ्रात्रा सम्परिष्वक्तो यथावच्चाभिनन्दितः |
कुम्भकर्णः शुभं दिव्यं प्रतिपेदे वरासनम् || ८||

स तदासनमाश्रित्य कुम्भकर्णो महाबलः |
संरक्तनयनः कोपाद्रावणं वाक्यमब्रवीत् || ९||

किमर्थमहमादृत्य त्वया राजन्प्रबोधितः |
शंस कस्माद्भयं तेऽस्ति कोऽद्य प्रेतो भविष्यति || १०||

भ्रातरं रावणः क्रुद्धं कुम्भकर्णमवस्थितम् |
ईषत्तु परिवृत्ताभ्यां नेत्राभ्यां वाक्यमब्रवीत् || ११||

अद्य ते सुमहान्कालः शयानस्य महाबल |
सुखितस्त्वं न जानीषे मम रामकृतं भयम् || १२||

एष दाशरथी रामः सुग्रीवसहितो बली |
समुद्रं सबलस्तीर्त्वा मूलं नः परिकृन्तति || १३||

हन्त पश्यस्व लङ्काया वनान्युपवनानि च |
सेतुना सुखमागम्य वानरैकार्णवं कृतम् || १४||

ये राक्षसा मुख्यतमा हतास्ते वानरैर्युधि |
वानराणां क्षयं युद्धे न पश्यामि कदा चन || १५||

सर्वक्षपितकोशं च स त्वमभ्यवपद्य माम् |
त्रायस्वेमां पुरीं लङ्कां बालवृद्धावशेषिताम् || १६||

भ्रातुरर्थे महाबाहो कुरु कर्म सुदुष्करम् |
मयैवं नोक्तपूर्वो हि कश्चिद्भ्रातः परन्तप |
त्वय्यस्ति मम च स्नेहः परा सम्भावना च मे || १७||

देवासुरविमर्देषु बहुशो राक्षसर्षभ |
त्वया देवाः प्रतिव्यूह्य निर्जिताश्चासुरा युधि |
न हि ते सर्वभूतेषु दृश्यते सदृशो बली || १८||

कुरुष्व मे प्रियहितमेतदुत्तमं
यथाप्रियं प्रियरणबान्धवप्रिय |
स्वतेजसा विधम सपत्नवाहिनीं
शरद्घनं पवन इवोद्यतो महान् || १९||

19

1768

Kumbhakarna enters the abode of Ravana and sees his worried brother sitting in Pushpaka, a self-moving aerial car. Kumbhakarna asks Ravana about the nature of work to be done by him and whether he has to kill anyone. Ravana replies that Rama has come with troops of monkeys including Sugreeva, after crossing the ocean by a bridge, to wage a battle Ravana requests Kumbhakarna to show his terrible prowess in killing all the adversaries in battle.

63

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 65

तस्य राक्षसराजस्य निशम्य परिदेवितम् |
कुम्भकर्णो बभाषेऽथ वचनं प्रजहास च || १||

अलं राक्षसराजेन्द्र सन्तापमुपपद्य ते |

रोषं च सम्परित्यज्य स्वस्थो भवितुमर्हसि || २||

सदृशं यत्तु कालेऽस्मिन्कर्तुं स्निग्धेन बन्धुना |

शत्रूणां कदनं पश्य क्रियमाणं मया रणे || ३||

अद्य पश्य महाबाहो मया समरमूर्धनि |

हते रामे सह भ्रात्रा द्रवन्तीं हरिवाहिनीम् || ४||

अद्य रामस्य तद्दृष्ट्वा मयानीतं रणाच्छिरः |

सुखीभव महाबाहो सीता भवतु दुःखिता || ५||

अद्य रामस्य पश्यन्तु निधनं सुमहत्प्रियम् |

लङ्कायां राक्षसाः सर्वे ये ते निहतबान्धवाः || ६||

अद्य शोकपरीतानां स्वबन्धुवधकारणात् |

शत्रोर्युधि विनाशेन करोम्यस्रप्रमार्जनम् || ७||

अद्य पर्वतसङ्काशं ससूर्यमिव तोयदम् |

विकीर्णं पश्य समरे सुग्रीवं प्लवगेश्वरम् || ८||

न परः प्रेषणीयस्ते युद्धायातुल विक्रम |

अहमुत्सादयिष्यामि शत्रूंस्तव महाबल || ९||

यदि शक्रो यदि यमो यदि पावकमारुतौ |

तानहं योधयिष्यामि कुबेर वरुणावपि || १०||

गिरिमात्रशरीरस्य शितशूलधरस्य मे |

नर्दतस्तीक्ष्णदंष्ट्रस्य बिभीयाच्च पुरन्दरः || ११||

अथ वा त्यक्तशस्त्रस्य मृद्गतस्तरसा रिपून् |

न मे प्रतिमुखे कश्चिच्छक्तः स्थातुं जिजीविषुः || १२||

नैव शक्त्या न गदया नासिना न शितैः शरैः |

हस्ताभ्यामेव संरब्धो हनिष्याम्यपि वज्रिणम् || १३||

यदि मे मुष्टिवेगं स राघवोऽद्य सहिष्यति |

ततः पास्यन्ति बाणौघा रुधिरं राघवस्य ते || १४||

चिन्तया बाध्यसे राजन्किमर्थं मयि तिष्ठति |

सोऽहं शत्रुविनाशाय तव निर्यातुमुद्यतः || १५||

मुञ्च रामाद्भयं राजन्हनिष्यामीह संयुगे |

राघवं लक्ष्मणं चैव सुग्रीवं च महाबलम् |

असाधारणमिच्छामि तव दातुं महद्यशः || १६||

वधेन ते दाशरथेः सुखावहं

सुखं समाहर्तुमहं व्रजामि |

निहत्य रामं सहलक्ष्मणेन

खादामि सर्वान्हरियूथमुख्यान् || १७||

रमस्व कामं पिब चाग्र्यवारुणीं

कुरुष्व कृत्यानि विनीयतां ज्वरः |

मयाद्य रामे गमिते यमक्षयं

चिराय सीता वशगा भविष्यति || १८||

आददे निशितं शूलं वेगाच्छत्रुनिबर्हणः |

सर्वकालायसं दीप्तं तप्तकाञ्चनभूषणम् || १९||

इन्द्राशनिसमं भीमं वज्रप्रतिमगौरवम् |

देवदानवगन्धर्वयक्षकिंनरसूदनम् || २०||

रक्तमाल्य महादाम स्वतश्चोद्गतपावकम् |

आदाय निशितं शूलं शत्रुशोणितरञ्जितम् || २१||

कुम्भकर्णो महातेजा रावणं वाक्यमब्रवीत्

गमिष्याम्यहमेकाकी तिष्ठत्विह बलं महत् || २२||

अद्य तान्क्षुधितः क्रुद्धो भक्षयिष्यामि वानरान् |

कुम्भकर्णवचः श्रुत्वा रावणो वाक्यमब्रवीत् |

कश्चिन्मे त्वत्समो नास्ति सौहृदेन बलेन च || २३||

गच्छ शत्रुवधाय त्वं कुम्भकर्णजयाय च |

शयानः शत्रुनाशार्थम् भवान् सम्बोधितो मया || २४||
आयम् हि कालः सुमहान् राक्षानामरिंदम |

तद्गच्छ शूलमादाय पाशहस्त इवान्तकः || २५||
वानरान् राजपुत्रौ च भक्षयादित्यतेजसौ |

सैन्यैः परिवृतो गच्छ शूलमुद्गलपाणिभिः || २६||

वानरा हि महात्मानः शीघ्राश्च व्यवसायिनः |

एकाकिनं प्रमत्तं वा नयेयुर्दशनैः क्षयम् || २७||

तस्मात्परमदुर्धर्षैः सैन्यैः परिवृतो व्रज |

रक्षसामहितं सर्वं शत्रुपक्षं निसूदय || २८||

अथासनात्समुत्पत्य स्रजं मणिकृतान्तराम् |

आबबन्ध महातेजाः कुम्भकर्णस्य रावणः || २९||

अङ्गदानङ्गुलीवेष्टान्वराण्याभरणानि च |

हारं च शशिसङ्काशमाबबन्ध महात्मनः || ३०||

दिव्यानि च सुगन्धीनि माल्यदामानि रावणः |

श्रोत्रे चासज्जयामास श्रीमती चास्य कुण्डले || ३१||

काञ्चनाङ्गदकेयूरो निष्काभरणभूषितः |

कुम्भकर्णो बृहत्कर्णः सुहुतोऽग्निरिवाबभौ || ३२||

श्रोणीसूत्रेण महता मेचकेन विराजितः |

अमृतोत्पादने नद्धो भुजङ्गेनेव मन्दरः || ३३||

स काञ्चनं भारसहं निवातं

विद्युत्प्रभं दीप्तमिवात्मभासा |

आबध्यमानः कवचं रराज

सन्ध्याभ्रसंवीत इवाद्रिराजः || ३४||

सर्वाभरणनद्धाङ्गः शूलपाणिः स राक्षसः |

त्रिविक्रमकृतोत्साहो नारायण इवाबभौ || ३५||

भ्रातरं सम्परिष्वज्य कृत्वा चापि प्रदक्षिणम् |

प्रणम्य शिरसा तस्मै सम्प्रतस्थे महाबलिः |

तमाशीर्भिः प्रशस्ताभिः प्रेषयामास रावणः || ३६||

शङ्खदुन्दुभिनिर्घोषैः सैन्यैश्चापि वरायुधैः |

तं गजैश्च तुरङ्गैश्च स्यन्दनैश्चाम्बुदस्वनैः |

अनुजग्मुर्महात्मानं रथिनो रथिनां वरम् || ३७||

सर्पैरुष्ट्रैः खरैरश्वैः सिंहद्विपमृगद्विजैः |

अनुजग्मुश्च तं घोरं कुम्भकर्णं महाबलम् || ३८||

स पुष्पवर्णैरवकीर्यमाणो

धृतातपत्रः शितशूलपाणिः |

मदोत्कटः शोणितगन्धमत्तो

विनिर्ययौ दानवदेवशत्रुः || ३९||

पदातयश बहवो महानादा महाबलाः |

अन्वयू राक्षसा भीमा भीमाक्षाः शस्त्रपाणयः || ४०||

रक्ताक्षाः सुमहाकाया नीलाञ्जनचयोपमाः |

शूरानुद्यम्य खड्गांश्च निशितांश्च परश्वधान् || ४१||

बहुव्यामांश्च विपुलान्क्षेपणीयान्दुरासदान् |

तालस्कन्धांश्च विपुलान्क्षेपणीयान्दुरासदान् || ४२||

अथान्यद्वपुरादाय दारुणं लोमहर्षणम् |

निष्पपात महातेजाः कुम्भकर्णो महाबलः || ४३||

धनुःशतपरीणाहः स षट्शतसमुच्छितः |

रौद्रः शकटचक्राक्षो महापर्वतसंनिभः || ४४||

संनिपत्य च रक्षांसि दग्धशैलोपमो महान् |

कुम्भकर्णो महावक्त्रः प्रहसन्निदमब्रवीत् || ४५||

अद्य वानरमुख्यानां तानि यूथानि भागशः |

निर्दहिष्यामि सङ्क्रुद्धः शलभानिव पावकः || ४६||

नापराध्यन्ति मे कामं वानरा वनचारिणः |

जातिरस्मद्विधानां सा पुरोद्यानविभूषणम् || ४७||

पुररोधस्य मूलं तु राघवः सहलक्ष्मणः |

हते तस्मिन्हतं सर्वं तं वधिष्यामि संयुगे || ४८||

एवं तस्य ब्रुवाणस्य कुम्भकर्णस्य राक्षसाः |

नादं चक्रुर्महाघोरं कम्पयन्त इवार्णवम् || ४९||

तस्य निष्पततस्तूर्णं कुम्भकर्णस्य धीमतः |

बभूवुर्घोररूपाणि निमित्तानि समन्ततः || ५०||

उल्काशनियुता मेघा विनेदुश्च सुदारुणाः |

ससागरवना चैव वसुधा समकम्पत || ५१||

घोररूपाः शिवा नेदुः सज्वालकवलैर्मुखैः |

मण्डलान्यपसव्यानि बबन्धुश्च विहङ्गमाः || ५२||

निष्पपात च गृध्रेऽस्य शूले वै पथि गच्छतः |

प्रास्फुरन्नयनं चास्य सव्यो बाहुरकम्पत || ५३||

निष्पपात तदा चोक्ला ज्वलन्ती भीमनिस्वना |

आदित्यो निष्प्रभश्चासीन्न प्रवाति सुखोऽनिलः || ५४||

अचिन्तयन्महोत्पातानुत्थिताँल्लोमहर्षणान् |

निर्ययौ कुम्भकर्णस्तु कृतान्तबलचोदितः || ५५||

स लङ्घयित्वा प्राकारं पद्भ्यां पर्वतसंनिभः |

ददर्शाभ्रघनप्रख्यं वानरानीकमद्भुतम् || ५६||

ते दृष्ट्वा राक्षसश्रेष्ठं वानराः पर्वतोपमम् |

वायुनुन्ना इव घना ययुः सर्वा दिशस्तदा || ५७||

तद्वानरानीकमतिप्रचण्डं

दिशो द्रवद्भिन्नमिवाभ्रजालम् |

स कुम्भकर्णः समवेक्ष्य हर्षान्

ननाद भूयो घनवद्घनाभः || ५८||

ते तस्य घोरं निनदं निशम्य

यथा निनादं दिवि वारिदस्य |

पेतुर्धरण्यां बहवः प्लवङ्गा

निकृत्तमूला इव सालवृक्षाः || ५९||

विपुलपरिघवान्स कुम्भकर्णो

रिपुनिधनाय विनिःसृतो महात्मा |

कपि गणभयमाददत्सुभीमं

प्रभुरिव किङ्करदण्डवान्युगान्ते || ६०||

60

1828

Kumbhakarna consoles Ravana and assures him that all his enemies would be destroyed by him in the ensuing battle, so that he can enjoy with Seeta happily. 

Ravana is pleased and orders Kumbhakarna to eliminate the vanaras along with Shri Rama and Lakshmana in the battle. Then, Ravana decorates various limbs of Kumbhakarna with different ornaments, before sending him to the battle. Kumbhakarna surges ahead to the battle. Beholding the colossal form of Kumbhakarna, all the vanaras get terrified and run away in different directions.

66

स ननाद महानादं समुद्रमभिनादयन् |
जनयन्निव निर्घातान्विधमन्निव पर्वतान् || १||

तमवध्यं मघवता यमेन वरुणेन च |
प्रेक्ष्य भीमाक्षमायान्तं वानरा विप्रदुद्रुवुः || २||

तांस्तु विद्रवतो दृष्ट्वा वालिपुत्रोऽङ्गदोऽब्रवीत् |
नलं नीलं गवाक्षं च कुमुदं च महाबलम् || ३||

आत्मानमत्र विस्मृत्य वीर्याण्यभिजनानि च |
क्व गच्छत भयत्रस्ताः प्राकृता हरयो यथा || ४||

साधु सौम्या निवर्तध्वं किं प्राणान्परिरक्षथ |
नालं युद्धाय वै रक्षो महतीयं विभीषिकाः || ५||

महतीमुत्थितामेनां राक्षसानां विभीषिकाम् |
विक्रमाद्विधमिष्यामो निवर्तध्वं प्लवङ्गमाः || ६||

कृच्छ्रेण तु समाश्वास्य सङ्गम्य च ततस्ततः |
वृक्षाद्रिहस्ता हरयः सम्प्रतस्थू रणाजिरम् || ७||

ते निवृत्य तु सङ्क्रुद्धाः कुम्भकर्णं वनौकसः |
निजघ्नुः परमक्रुद्धाः समदा इव कुञ्जराः |
प्रांशुभिर्गिरिशृङ्गैश्च शिलाभिश्च महाबलाः || ८||

पादपैः पुष्पिताग्रैश्च हन्यमानो न कम्पते |
तस्य गात्रेषु पतिता भिद्यन्ते शतशः शिलाः |
पादपाः पुष्पिताग्राश्च भग्नाः पेतुर्महीतले || ९||

सोऽपि सैन्यानि सङ्क्रुद्धो वानराणां महौजसाम् |
ममन्थ परमायत्तो वनान्यग्निरिवोत्थितः || १०||

लोहितार्द्रास्तु बहवः शेरते वानरर्षभाः |
निरस्ताः पतिता भूमौ ताम्रपुष्पा इव द्रुमाः || ११||

लङ्घयन्तः प्रधावन्तो वानरा नावलोकयन् |
के चित्समुद्रे पतिताः के चिद्गगनमाश्रिताः || १२||

वध्यमानास्तु ते वीरा राक्षसेन बलीयसा |
सागरं येन ते तीर्णाः पथा तेनैव दुद्रुवुः || १३||

ते स्थलानि तथा निम्नं विषण्णवदना भयात् |
ऋक्षा वृक्षान्समारूढाः के चित्पर्वतमाश्रिताः || १४||

ममज्जुरर्णवे के चिद्गुहाः के चित्समाश्रिताः |
निषेदुः प्लवगाः के चित्के चिन्नैवावतस्थिरे || १५||

तान्समीक्ष्याङ्गदो भङ्गान्वानरानिदमब्रवीत् |
अवतिष्ठत युध्यामो निवर्तध्वं प्लवङ्गमाः || १६||

भग्नानां वो न पश्यामि परिगम्य महीमिमाम् |
स्थानं सर्वे निवर्तध्वं किं प्राणान्परिरक्षथ || १७||

निरायुधानां द्रवतामसङ्गगतिपौरुषाः |
दारा ह्यपहसिष्यन्ति स वै घातस्तु जीविताम् || १८||

कुलेषु जाताः सर्वे स्म विस्तीर्णेषु महत्सु च |
अनार्याः खलु यद्भीतास्त्यक्त्वा वीर्यं प्रधावत || १९||

विकत्थनानि वो यानि यदा वै जनसंसदि |
तानि वः क्व च यतानि सोदग्राणि महान्ति च || २०||

भीरुप्रवादाः श्रूयन्ते यस्तु जीवति धिक्कृतः |
मार्गः सत्पुरुषैर्जुष्टः सेव्यतां त्यज्यतां भयम् || २१||

शयामहे वा निहताः पृथिव्यामल्पजीविताः |
दुष्प्रापं ब्रह्मलोकं वा प्राप्नुमो युधि सूदिताः |
सम्प्राप्नुयामः कीर्तिं वा निहत्य शत्रुमाहवे || २२||

न कुम्भकर्णः काकुत्स्थं दृष्ट्वा जीवन्गमिष्यति |
दीप्यमानमिवासाद्य पतङ्गो ज्वलनं यथा || २३||

पलायनेन चोद्दिष्टाः प्राणान्रक्षामहे वयम् |
एकेन बहवो भग्ना यशो नाशं गमिष्यति || २४||

एवं ब्रुवाणं तं शूरमङ्गदं कनकाङ्गदम् |
द्रवमाणास्ततो वाक्यमूचुः शूरविगर्हितम् || २५||

कृतं नः कदनं घोरं कुम्भकर्णेन रक्षसा |
न स्थानकालो गच्छामो दयितं जीवितं हि नः || २६||

एतावदुक्त्वा वचनं सर्वे ते भेजिरे दिशः |
भीमं भीमाक्षमायान्तं दृष्ट्वा वानरयूथपाः || २७||

द्रवमाणास्तु ते वीरा अङ्गदेन वलीमुखाः |
सान्त्वैश्च बहुमानैश्च ततः सर्वे निवर्तिताः || २८||

ऋषभशरभमैन्दधूम्रनीलाः
कुमुदसुषेणगवाक्षरम्भताराः |
द्विविदपनसवायुपुत्रमुख्यास्
त्वरिततराभिमुखं रणं प्रयाताः || २९||

29

1857

Angada restores confidence in the frightened vanaras, who then return to the battle field and start attacking Kumbhakarna. Kumbhakarna crushes some vanaras with anger.

इत्यार्षे श्री रामायणे युद्धकाण्डे अष्टादश: भाग:

 

Yuddhakāṇḍa Part-17

Yuddhakāṇḍa Part-19

 

No comments:

Post a Comment