Friday, January 9, 2026

युद्धकाण्ड - Yuddhakāṇḍa (भाग - २९ ;;; Part – 29)

 

युद्धकाण्ड - Yuddhakāṇḍa (भाग - २९ ;;; Part – 29)

Sarga number as per Ramayana

Shlokas extracted

No. of shlokas

Cumulative number of shlokas in this Kanda

98

हन्यमाने बले तूर्णमन्योन्यं ते महामृधे |
सरसीव महाघर्मे सूपक्षीणे बभूवतुः || १||

स्वबलस्य विघातेन विरूपाक्षवधेन च |
बभूव द्विगुणं क्रुद्धो रावणो राक्षसाधिपः || २||

प्रक्षीणं तु बलं दृष्ट्वा वध्यमानं वलीमुखैः |
बभूवास्य व्यथा युद्धे प्रेक्ष्य दैवविपर्ययम् || ३||

उवाच च समीपस्थं महोदरमरिन्दमम् |
अस्मिन्काले महाबाहो जयाशा त्वयि मे स्थिता || ४||

जहि शत्रुचमूं वीर दर्शयाद्य पराक्रमम् |
भर्तृपिण्डस्य कालोऽयं निर्वेष्टुं साधु युध्यताम् || ५||

एवमुक्तस्तथेत्युक्त्वा राक्षसेन्द्रं महोदरः |
प्रविवेशारिसेनां स पतङ्ग इव पावकम् || ६||

ततः स कदनं चक्रे वानराणां महाबलः |
भर्तृवाक्येन तेजस्वी स्वेन वीर्येण चोदितः || ७||

प्रभग्नां समरे दृष्ट्वा वानराणां महाचमूम् |
अभिदुद्राव सुग्रीवो महोदरमनन्तरम् || ८||

प्रगृह्य विपुलां घोरां महीधर समां शिलाम् |
चिक्षेप च महातेजास्तद्वधाय हरीश्वरः || ९||

तामापतन्तीं सहसा शिलां दृष्ट्वा महोदरः |
असम्भ्रान्तस्ततो बाणैर्निर्बिभेद दुरासदाम् || १०||

रक्षसा तेन बाणौघैर्निकृत्ता सा सहस्रधा |
निपपात शिलाभूमौ गृध्रचक्रमिवाकुलम् || ११||

तां तु भिन्नां शिलां दृष्ट्वा सुग्रीवः क्रोधमूर्छितः |
सालमुत्पाट्य चिक्षेप रक्षसे रणमूर्धनि |
शरैश्च विददारैनं शूरः परपुरञ्जयः || १२||

स ददर्श ततः क्रुद्धः परिघं पतितं भुवि |
आविध्य तु स तं दीप्तं परिघं तस्य दर्शयन् |
परिघाग्रेण वेगेन जघानास्य हयोत्तमान् || १३||

तस्माद्धतहयाद्वीरः सोऽवप्लुत्य महारथात् |
गदां जग्राह सङ्क्रुद्धो राक्षसोऽथ महोदरः || १४||

गदापरिघहस्तौ तौ युधि वीरौ समीयतुः |
नर्दन्तौ गोवृषप्रख्यौ घनाविव सविद्युतौ || १५||

आजघान गदां तस्य परिघेण हरीश्वरः |
पपात स गदोद्भिन्नः परिघस्तस्य भूतले || १६||

ततो जग्राह तेजस्वी सुग्रीवो वसुधातलात् |
आयसं मुसलं घोरं सर्वतो हेमभूषितम् || १७||

तं समुद्यम्य चिक्षेप सोऽप्यन्यां व्याक्षिपद्गदाम् |
भिन्नावन्योन्यमासाद्य पेततुर्धरणीतले || १८||

ततो भग्नप्रहरणौ मुष्टिभ्यां तौ समीयतुः |
तेजो बलसमाविष्टौ दीप्ताविव हुताशनौ || १९||

जघ्नतुस्तौ तदान्योन्यं नेदतुश्च पुनः पुनः |
तलैश्चान्योन्यमाहत्य पेततुर्धरणीतले || २०||

उत्पेततुस्ततस्तूर्णं जघ्नतुश् च परस्परम् |
भुजैश्चिक्षेपतुर्वीरावन्योन्यमपराजितौ || २१||

आजहार तदा खग्डमदूरपरिवर्तिनम् |
राक्षसश्चर्मणा सार्धं महावेगो महोदरः || २२||

तथैव च महाखड्गं चर्मणा पतितं सह |
जग्राह वानरश्रेष्ठः सुग्रीवो वेगवत्तरः || २३||

तौ तु रोषपरीताङ्गौ नर्दन्तावभ्यधावताम् |
उद्यतासी रणे हृष्टौ युधि शस्त्रविशारदौ || २४||

दक्षिणं मण्डलं चोभौ तौ तूर्णं सम्परीयतुः |
अन्योन्यमभिसङ्क्रुद्धौ जये प्रणिहितावुभौ || २५||

स तु शूरो महावेगो वीर्यश्लाघी महोदरः |
महाचर्मणि तं खड्गं पातयामास दुर्मतिः || २६||

लग्नमुत्कर्षतः खड्गं खड्गेन कपिकुञ्जरः |
जहार सशिरस्त्राणं कुण्डलोपहितं शिरः || २७||

निकृत्तशिरसस्तस्य पतितस्य महीतले |
तद्बलं राक्षसेन्द्रस्य दृष्ट्वा तत्र न तिष्ठति || २८||

हत्वा तं वानरैः सार्धं ननाद मुदितो हरिः |
चुक्रोध च दशग्रीवो बभौ हृष्टश्च राघवः || २९||

29

2958

Beholding the death of Virupaksha, Ravana directs Mahodara to lead the attack in the battle-field. Mahodara discharges arrows swiftly chops off the hands, feet and thighs of multiple vanaras. Terrified by that attack, vanaras sought refuge with Sugreeva and some ran away for life. A terrific fight ensues between them.  Finally, Sugreeva takes a sword lying there, and chops off Mahodara's head with the sword.

99

महोदरे तु निहते महापार्श्वो महाबलः |
अङ्गदस्य चमूं भीमां क्षोभयामास सायकैः || १||

स वानराणां मुख्यानामुत्तमाङ्गानि सर्वशः |
पातयामास कायेभ्यः फलं वृन्तादिवानिलः || २||

केषां चिदिषुभिर्बाहून्स्कन्धांश्चिछेद राक्षसः |
वानराणां सुसङ्क्रुद्धः पार्श्वं केषां व्यदारयत् || ३||

तेऽर्दिता बाणवर्षेण महापार्श्वेन वानराः |
विषादविमुखाः सर्वे बभूवुर्गतचेतसः || ४||

निरीक्ष्य बलमुद्विग्नमङ्गदो राक्षसार्दितम् |
वेगं चक्रे महाबाहुः समुद्र इव पर्वणि || ५||

आयसं परिघं गृह्य सूर्यरश्मिसमप्रभम् |
समरे वानरश्रेष्ठो महापार्श्वे न्यपातयत् || ६||

स तु तेन प्रहारेण महापार्श्वो विचेतनः |
ससूतः स्यन्दनात्तस्माद्विसंज्ञः प्रापतद्भुवि || ७||

सर्क्षराजस्तु तेजस्वी नीलाञ्जनचयोपमः |
निष्पत्य सुमहावीर्यः स्वाद्यूथान्मेघसंनिभात् || ८||

प्रगृह्य गिरिशृङ्गाभां क्रुद्धः स विपुलां शिलाम् |
अश्वाञ्जघान तरसा स्यन्दनं च बभञ्ज तम् || ९||

मुहूर्ताल्लब्धसंज्ञस्तु महापार्श्वो महाबलः |
अङ्गदं बहुभिर्बाणैर्भूयस्तं प्रत्यविध्यत || १०||

जाम्बवन्तं त्रिभिर्बाणैराजघान स्तनान्तरे |
ऋक्षराजं गवाक्षं च जघान बहुभिः शरैः || ११||

गवाक्षं जाम्बवन्तं च स दृष्ट्वा शरपीडितौ |
जग्राह परिघं घोरमङ्गदः क्रोधमूर्छितः || १२||

तस्याङ्गदः प्रकुपितो राक्षसस्य तमायसं |
दूरस्थितस्य परिघं रविरश्मिसमप्रभम् || १३||

द्वाभ्यां भुजाभ्यां सङ्गृह्य भ्रामयित्वा च वेगवान् |
महापार्श्वाय चिक्षेप वधार्थं वालिनः सुतः || १४||

स तु क्षिप्तो बलवता परिघस्तस्य रक्षसः |
धनुश्च सशरं हस्ताच्छिरस्त्रं चाप्यपातयत् || १५||

तं समासाद्य वेगेन वालिपुत्रः प्रतापवान् |
तलेनाभ्यहनत्क्रुद्धः कर्णमूले सकुण्डले || १६||

स तु क्रुद्धो महावेगो महापार्श्वो महाद्युतिः |
करेणैकेन जग्राह सुमहान्तं परश्वधम् || १७||

तं तैलधौतं विमलं शैलसारमयं दृढम् |
राक्षसः परमक्रुद्धो वालिपुत्रे न्यपातयत् || १८||

तेन वामांसफलके भृशं प्रत्यवपातितम् |
अङ्गदो मोक्षयामास सरोषः स परश्वधम् || १९||

स वीरो वज्रसङ्काशमङ्गदो मुष्टिमात्मनः |
संवर्तयन्सुसङ्क्रुद्धः पितुस्तुल्यपराक्रमः || २०||

राक्षसस्य स्तनाभ्याशे मर्मज्ञो हृदयं प्रति |
इन्द्राशनिसमस्पर्शं स मुष्टिं विन्यपातयत् || २१||

तेन तस्य निपातेन राक्षसस्य महामृधे |
पफाल हृदयं चाशु स पपात हतो भुवि || २२||

तस्मिन्निपतिते भूमौ तत्सैन्यं सम्प्रचुक्षुभे |
अभवच्च महान्क्रोधः समरे रावणस्य तु || २३||

23

2981

Then, Mahaparshva charges in the battle-field and creates havoc among vanaras. Angada and Jambavan attack him. After a fierce battle, Angada hits on Mahaparshva’s chest, which kills him.

100

महोदरमहापार्श्वौ हतौ दृष्ट्वा तु राक्षसौ |
तस्मिंश्च निहते वीरे विरूपाक्षे महाबले || १||

आविवेश महान्क्रोधो रावणं तु महामृधे |
सूतं सञ्चोदयामास वाक्यं चेदमुवाच ह || २||

निहतानाममात्यानां रुद्धस्य नगरस्य च |
दुःखमेषोऽपनेष्यामि हत्वा तौ रामलक्ष्मणौ || ३||

रामवृक्षं रणे हन्मि सीतापुष्पफलप्रदम् |
प्रशाखा यस्य सुग्रीवो जाम्बवान्कुमुदो नलः || ४||

स दिशो दश घोषेण रथस्यातिरथो महान् |
नादयन्प्रययौ तूर्णं राघवं चाभ्यवर्तत || ५||

पूरिता तेन शब्देन सनदीगिरिकानना |
सञ्चचाल मही सर्वा सवराहमृगद्विपा || ६||

तामसं सुमहाघोरं चकारास्त्रं सुदारुणम् |
निर्ददाह कपीन्सर्वांस्ते प्रपेतुः समन्ततः || ७||

तान्यनीकान्यनेकानि रावणस्य शरोत्तमैः |
दृष्ट्वा भग्नानि शतशो राघवः पर्यवस्थितः || ८||

स ददर्श ततो रामं तिष्ठन्तमपराजितम् |
लक्ष्मणेन सह भ्रात्रा विष्णुना वासवं यथा || ९||

आलिखन्तमिवाकाशमवष्टभ्य महद्धनुः |
पद्मपत्रविशालाक्षं दीर्घबाहुमरिन्दमम् || १०||

वानरांश्च रणे भग्नानापतन्तं च रावणम् |
समीक्ष्य राघवो हृष्टो मध्ये जग्राह कार्मुकम् || ११||

विस्फारयितुमारेभे ततः स धनुरुत्तमम् |
महावेगं महानादं निर्भिन्दन्निव मेदिनीम् || १२||

तयोः शरपथं प्राप्य रावणो राजपुत्रयोः |
स बभूव यथा राहुः समीपे शशिसूर्ययोः || १३||

रावणस्य च बाणौघै रामविस्फरितेन च |
शब्देन राक्षसास्तेन पेतुश्च शतशस्तदा || १४||

तमिच्छन्प्रथमं योद्धुं लक्ष्मणो निशितैः शरैः |
मुमोच धनुरायम्य शरानग्निशिखोपमान् || १५||

तान्मुक्तमात्रानाकाशे लक्ष्मणेन धनुष्मता |
बाणान्बाणैर्महातेजा रावणः प्रत्यवारयत् || १६||

एकमेकेन बाणेन त्रिभिस्त्रीन्दशभिर्दश |
लक्ष्मणस्य प्रचिच्छेद दर्शयन्पाणिलाघवम् || १७||

अभ्यतिक्रम्य सौमित्रिं रावणः समितिञ्जयः |
आससाद ततो रामं स्थितं शैलमिवाचलम् || १८||

स सङ्ख्ये राममासाद्य क्रोधसंरक्तलोचनः |
व्यसृजच्छरवर्णानि रावणो राघवोपरि || १९||

शरधारास्ततो रामो रावणस्य धनुश्च्युताः |
दृष्ट्वैवापतिताः शीघ्रं भल्लाञ्जग्राह सत्वरम् || २०||

ताञ्शरौघांस्ततो भल्लैस्तीक्ष्णैश्चिच्छेद राघवः |
दीप्यमानान्महावेगान्क्रुद्धानाशीविषानिव || २१||

राघवो रावणं तूर्णं रावणो राघवं तथा |
अन्योन्यं विविधैस्तीक्ष्णैः शरैरभिववर्षतुः || २२||

चेरतुश्च चिरं चित्रं मण्डलं सव्यदक्षिणम् |
बाणवेगान्समुदीक्ष्य समरेष्वपराजितौ || २३||

निहत्य राघवस्यास्त्रं रावणः क्रोधमूर्छितः |

आसुरं सुमहाघोरमन्यदस्त्रं समाददे || २४||

सिंहव्याघ्रमुखांश्चान्यान्कङ्ककाक मुखानपि |

गृध्रश्येनमुखांश्चापि सृगालवदनांस्तथा || २५||

ईहामृगमुहांश्चान्यान्व्यादितास्यान्भयावहान् |

पञ्चास्याँल्लेलिहानांश्च ससर्ज निशिताञ्शरान् || २६||

शरान्खरमुखांश्चान्यान्वराहमुखसंस्थितान् |

श्वानकुक्कुटवक्त्रांश्च मकराशीविषाननान् || २७||

एतांश्चान्यांश्च मायाभिः ससर्ज निशिताञ्शरान् |

रामं प्रति महातेजाः क्रुद्धः सर्प इव श्वसन् || २८||

आसुरेण समाविष्टः सोऽस्त्रेण रघुनन्दनः |

ससर्जास्त्रं महोत्साहः पावकं पावकोपमः || २९||

अग्निदीप्तमुखान्बाणांस्तथा सूर्यमुखानपि |

चन्द्रार्धचन्द्रवक्त्रांश्च धूमकेतुमुखानपि || ३०||

ग्रहनक्षत्रवर्णांश्च महोल्का मुखसंस्थितान् |

विद्युज्जिह्वोपमांश्चान्यान्ससर्ज निशिताञ्शरान् || ३१||

ते रावणशरा घोरा राघवास्त्रसमाहताः |

विलयं जग्मुराकाशे जग्मुश्चैव सहस्रशः || ३२||

तदस्त्रं निहतं दृष्ट्वा रामेणाक्लिष्टकर्मणा |

हृष्टा नेदुस्ततः सर्वे कपयः कामरूपिणः || ३३||

33

3014

Beholding the death of all of his ministers, Ravana enters the battle-field and with his mystic missile given by Brahma, frightens several vanaras and destroys them. Lakshmana comes forward and attack Ravana. Ignoring Lakshmana, Ravana surges ahead and enters into a battle with Shri Rama. Then, Shri Rama and Ravana fight each other with various kinds of DIVINE astras.

101

तस्मिन्प्रतिहतेऽस्त्रे तु रावणो राक्षसाधिपः |
क्रोधं च द्विगुणं चक्रे क्रोधाच्चास्त्रमनन्तरम् || १||

मयेन विहितं रौद्रमन्यदस्त्रं महाद्युतिः |
उत्स्रष्टुं रावणो घोरं राघवाय प्रचक्रमे || २||

ततः शूलानि निश्चेरुर्गदाश्च मुसलानि च |
कार्मुकाद्दीप्यमानानि वज्रसाराणि सर्वशः || ३||

कूटमुद्गरपाशाश्च दीप्ताश्चाशनयस्तथा |
निष्पेतुर्विविधास्तीक्ष्णा वाता इव युगक्षये || ४||

तदस्त्रं राघवः श्रीमानुत्तमास्त्रविदां वरः |
जघान परमास्त्रेण गन्धर्वेण महाद्युतिः || ५||

तस्मिन्प्रतिहतेऽस्त्रे तु राघवेण महात्मना |
रावणः क्रोधताम्राक्षः सौरमस्त्रमुदीरयत् || ६||

ततश्चक्राणि निष्पेतुर्भास्वराणि महान्ति च |
कार्मुकाद्भीमवेगस्य दशग्रीवस्य धीमतः || ७||

तैरासीद्गगनं दीप्तं सम्पतद्भिरितस्ततः |
पतद्भिश्च दिशो दीप्तैश्चन्द्रसूर्यग्रहैरिव || ८||

तानि चिच्छेद बाणौघैश्चक्राणि तु स राघवः |
आयुधानि विचित्राणि रावणस्य चमूमुखे || ९||

तदस्त्रं तु हतं दृष्ट्वा रावणो राक्षसाधिपः |
विव्याध दशभिर्बाणै रामं सर्वेषु मर्मसु || १०||

स विद्धो दशभिर्बाणैर्महाकार्मुकनिःसृतैः |
रावणेन महातेजा न प्राकम्पत राघवः || ११||

ततो विव्याध गात्रेषु सर्वेषु समितिञ्जयः |
राघवस्तु सुसङ्क्रुद्धो रावणं बहुभिः शरैः || १२||

एतस्मिन्नन्तरे क्रुद्धो राघवस्यानुजो बली |
लक्ष्मणः सायकान्सप्त जग्राह परवीरहा || १३||

तैः सायकैर्महावेगै रावणस्य महाद्युतिः |
ध्वजं मनुष्यशीर्षं तु तस्य चिच्छेद नैकधा || १४||

सारथेश्चापि बाणेन शिरो ज्वलितकुण्डलम् |
जहार लक्ष्मणः श्रीमान्नैरृतस्य महाबलः || १५||

तस्य बाणैश् च चिच्छेद धनुर्गजकरोपमम् |
लक्ष्मणो राक्षसेन्द्रस्य पञ्चभिर्निशितैः शरैः || १६||

नीलमेघनिभांश्चास्य सदश्वान्पर्वतोपमान् |
जघानाप्लुत्य गदया रावणस्य विभीषणः || १७||

हताश्वाद्वेगवान्वेगादवप्लुत्य महारथात् |
क्रोधमाहारयत्तीव्रं भ्रातरं प्रति रावणः || १८||

ततः शक्तिं महाशक्तिर्दीप्तां दीप्ताशनीम् इव |
विभीषणाय चिक्षेप राक्षसेन्द्रः प्रतापवान् || १९||

अप्राप्तामेव तां बाणैस्त्रिभिश्चिच्छेद लक्ष्मणः |
अथोदतिष्ठत्संनादो वानराणां तदा रणे || २०||

स पपात त्रिधा छिन्ना शक्तिः काञ्चनमालिनी |
सविस्फुलिङ्गा ज्वलिता महोल्केव दिवश्च्युता || २१||

ततः सम्भाविततरां कालेनापि दुरासदाम् |
जग्राह विपुलां शक्तिं दीप्यमानां स्वतेजसा || २२||

सा वेगिना बलवता रावणेन दुरात्मना |
जज्वाल सुमहाघोरा शक्राशनिसमप्रभा || २३||

एतस्मिन्नन्तरे वीरो लक्ष्मणस्तं विभीषणम् |
प्राणसंशयमापन्नं तूर्णमेवाभ्यपद्यत || २४||

तं विमोक्षयितुं वीरश्चापमायम्य लक्ष्मणः |
रावणं शक्तिहस्तं तं शरवर्षैरवाकिरत् || २५||

कीर्यमाणः शरौघेण विसृष्ट्तेन महात्मना |
न प्रहर्तुं मनश्चक्रे विमुखीकृतविक्रमः || २६||

मोक्षितं भ्रातरं दृष्ट्वा लक्ष्मणेन स रावणः |
लक्ष्मणाभिमुखस्तिष्ठन्निदं वचनमब्रवीत् || २७||

मोक्षितस्ते बलश्लाघिन्यस्मादेवं विभीषणः |
विमुच्य राक्षसं शक्तिस्त्वयीयं विनिपात्यते || २८||

एषा ते हृदयं भित्त्वा शक्तिर्लोहितलक्षणा |
मद्बाहुपरिघोत्सृष्टा प्राणानादाय यास्यति || २९||

इत्येवमुक्त्वा तां शक्तिमष्टघण्टां महास्वनाम् |
मयेन मायाविहिताममोघां शत्रुघातिनीम् || ३०||

लक्ष्मणाय समुद्दिश्य ज्वलन्तीमिव तेजसा |
रावणः परमक्रुद्धश्चिक्षेप च ननाद च || ३१||

सा क्षिप्ता भीमवेगेन शक्राशनिसमस्वना |
शक्तिरभ्यपतद्वेगाल्लक्ष्मणं रणमूर्धनि || ३२||

तामनुव्याहरच्छक्तिमापतन्तीं स राघवः |
स्वस्त्यस्तु लक्ष्मणायेति मोघा भव हतोद्यमा || ३३||

न्यपतत्सा महावेगा लक्ष्मणस्य महोरसि |
जिह्वेवोरगराजस्य दीप्यमाना महाद्युतिः || ३४||

ततो रावणवेगेन सुदूरमवगाढया |
शक्त्या निर्भिन्नहृदयः पपात भुवि लक्ष्मणः || ३५||

तदवस्थं समीपस्थो लक्ष्मणं प्रेक्ष्य राघवः |
भ्रातृस्नेहान्महातेजा विषण्णहृदयोऽभवत् || ३६||

तामपि प्रहितां शक्तिं रावणेन बलीयसा |
यत्नतस्ते हरिश्रेष्ठा न शेकुरवमर्दितुम् |
अर्दिताश्चैव बाणौघैः क्षिप्रहस्तेन रक्षसा || ३७||

सौमित्रिं सा विनिर्भिद्य प्रविष्टा धरणीतलम् |
तां कराभ्यां परामृश्य रामः शक्तिं भयावहाम् |
बभञ्ज समरे क्रुद्धो बलवद्विचकर्ष च || ३८||

तस्य निष्कर्षतः शक्तिं रावणेन बलीयसा |
शराः सर्वेषु गात्रेषु पातिता मर्मभेदिनः || ३९||

अचिन्तयित्वा तान्बाणान्समाश्लिष्या च लक्ष्मणम् |
अब्रवीच्च हनूमन्तं सुग्रीवं चैव राघवः |
लक्ष्मणं परिवार्येह तिष्ठध्वं वानरोत्तमाः || ४०||

पराक्रमस्य कालोऽयं सम्प्राप्तो मे चिरेप्सितः |
पापात्मायं दशग्रीवो वध्यतां पापनिश्चयः |
काङ्क्षितः स्तोककस्येव घर्मान्ते मेघदर्शनम् || ४१||

एवमुक्त्वा शितैर्बाणैस्तप्तकाञ्चनभूषणैः |
आजघान दशग्रीवं रणे रामः समाहितः || ४२||

अथ प्रदीप्तैर्नाराचैर्मुसलैश्चापि रावणः |
अभ्यवर्षत्तदा रामं धाराभिरिव तोयदः || ४३||

रामरावणमुक्तानामन्योन्यमभिनिघ्नताम् |
शराणां च शराणां च बभूव तुमुलः स्वनः || ४४||

ते भिन्नाश्च विकीर्णाश्च रामरावणयोः शराः |
अन्तरिक्षात्प्रदीप्ताग्रा निपेतुर्धरणीतले || ४५||

तयोर्ज्यातलनिर्घोषो रामरावणयोर्महान् |
त्रासनः सर्वबूतानां स बभूवाद्भुतोपमः || ४६||

स कीर्यमाणः शरजालवृष्टिभिर्
महात्मना दीप्तधनुष्मतार्दितः |
भयात्प्रदुद्राव समेत्य रावणो
यथानिलेनाभिहतो बलाहकः || ४७||

47

3061

In a one-to-one battle that ensued, Shri Rama and Ravana employed various astras. Lakshmana joins the fight and shatters Ravana's bow with his arrows. Vibhishana also fights and kills Ravana's horses.

Infuriated, Ravana aims a powerful Shakti spear at Vibhishana and before he can throw, Lakshmana intervenes and thwarts his attempt by discharging continuous flow of arrows. 

Frustrated by Lakshamana, Ravana directs his ire on him and throws that spear on Lakshmana, which penetrates Lakshmana's chest and Lakshmana falls down unconscious. Shri Rama discharges arrows on Ravana and Ravana runs away from the battlefield, out of fear.

इत्यार्षे श्री रामायणे युद्धकाण्डे एकोनत्रिंशतिः भाग:

 

Yuddhakāṇḍa Part-28

Yuddhakāṇḍa Part-30

 

No comments:

Post a Comment