Saturday, December 27, 2025

अरण्यकाण्ड - Araṇyakāṇḍa (भाग - १० ;;; Part – 10)

 

अरण्यकाण्ड - Arayakāṇḍa (भाग - १० ;;; Part – 10)


Sarga number as per Ramayana

Shlokas extracted

No. of shlokas

Cumulative number of shlokas in this Kanda

43

सा तं सम्प्रेक्ष्य सुश्रोणी कुसुमानि विचिन्वती |
हेमराजत वर्णाभ्यां पार्श्वाभ्यामुपशोभितम् || १||

प्रहृष्टा चानवद्याङ्गी मृष्टहाटकवर्णिनी |
भर्तारमपि चाक्रन्दल्लक्ष्मणं चैव सायुधम् || २||

तयाहूतौ नरव्याघ्रौ वैदेह्या रामलक्ष्मणौ |
वीक्षमाणौ तु तं देशं तदा ददृशतुर्मृगम् || ३||

शङ्कमानस्तु तं दृष्ट्वा लक्ष्मणो राममब्रवीत् |
भानुमत्पुरुषव्याघ्र गन्धर्वपुरसंनिभम् || ४||

मृगो ह्येवंविधो रत्नविचित्रो नास्ति राघव |
जगत्यां जगतीनाथ मायैषा हि न संशयः || ५||

एवं ब्रुवाणं काकुत्स्थं प्रतिवार्य शुचिस्मिता |
उवाच सीता संहृष्टा छद्मना हृतचेतना || ६||

आर्यपुत्राभिरामोऽसौ मृगो हरति मे मनः |
आनयैनं महाबाहो क्रीडार्थं नो भविष्यति || ७||

इहाश्रमपदेऽस्माकं बहवः पुण्यदर्शनाः |
मृगाश्चरन्ति सहिताश्चमराः सृमरास्तथा || ८||

ऋक्षाः पृषतसङ्घाश्च वानराः किनरास्तथा |
विचरन्ति महाबाहो रूपश्रेष्ठा महाबलाः || ९ ||

न चास्य सदृशो राजन्दृष्टपूर्वो मृगः पुरा |
तेजसा क्षमया दीप्त्या यथायं मृगसत्तमः || १०||

नानावर्णविचित्राङ्गो रत्नबिन्दुसमाचितः |
द्योतयन्वनमव्यग्रं शोभते शशिसंनिभः || ११||

अहो रूपमहो लक्ष्मीः स्वरसम्पच्च शोभना |
मृगोऽद्भुतो विचित्रोऽसौ हृदयं हरतीव मे || १२||

यदि ग्रहणमभ्येति जीवन्नेव मृगस्तव |
आश्चर्यभूतं भवति विस्मयं जनयिष्यति || १३||

समाप्तवनवासानां राज्यस्थानां च नः पुनः |
अन्तःपुरविभूषार्थो मृग एष भविष्यति || १४||

भरतस्यार्यपुत्रस्य श्वश्रूणां मम च प्रभो |
मृगरूपमिदं दिव्यं विस्मयं जनयिष्यति || १५||

जीवन्न यदि तेऽभ्येति ग्रहणं मृगसत्तमः |
अजिनं नरशार्दूल रुचिरं मे भविष्यति || १६||

निहतस्यास्य सत्त्वस्य जाम्बूनदमयत्वचि |
शष्पबृस्यां विनीतायामिच्छाम्यहमुपासितुम् || १७||

कामवृत्तमिदं रौद्रं स्त्रीणामसदृशं मतम् |
वपुषा त्वस्य सत्त्वस्य विस्मयो जनितो मम ||१८ ||

तेन काञ्चनरोंणा तु मणिप्रवरशृङ्गिणा |
तरुणादित्यवर्णेन नक्षत्रपथवर्चसा |
बभूव राघवस्यापि मनो विस्मयमागतम् ||१९ ||

एवं सीतावचः श्रुत्वा दृष्ट्वा च मृगमद्भुतम् |
उवाच राघवो हृष्टो भ्रातरं लक्ष्मणं वचः || २०||

पश्य लक्ष्मण वैदेह्याः स्पृहां मृगगतामिमाम् |
रूपश्रेष्ठतया ह्येष मृगोऽद्य न भविष्यति || २१||

न वने नन्दनोद्देशे न चैत्ररथसंश्रये |
कुतः पृथिव्यां सौमित्रे योऽस्य कश्चित्समो मृगः || २२||

प्रतिलोमानुलोमाश्च रुचिरा रोमराजयः |
शोभन्ते मृगमाश्रित्य चित्राः कनकबिन्दुभिः || २३||

पश्यास्य जृम्भमाणस्य दीप्तामग्निशिखोपमाम् |
जिह्वां मुखान्निःसरन्तीं मेघादिव शतह्रदाम् || २४||

मसारगल्वर्कमुखः शङ्खमुक्तानिभोदरः |
कस्य नामानिरूप्योऽसौ न मनो लोभयेन्मृगः || २५||

कस्य रूपमिदं दृष्ट्वा जाम्बूनदमय प्रभम् |
नानारत्नमयं दिव्यं न मनो विस्मयं व्रजेत् || २६||

मांसहेतोरपि मृगान्विहारार्थं च धन्विनः |
घ्नन्ति लक्ष्मण राजानो मृगयायां महावने || २७||

धनानि व्यवसायेन विचीयन्ते महावने |
धातवो विविधाश्चापि मणिरत्नसुवर्णिनः |

इह त्वं भव संनद्धो यन्त्रितो रक्ष मैथिलीम् || २८||

अस्यामायत्तमस्माकं यत्कृत्यं रघुनन्दन |
अहमेनं वधिष्यामि ग्रहीष्याम्यथ वा मृगम् || २९||

यावद्गच्छामि सौमित्रे मृगमानयितुं द्रुतम् |
पश्य लक्ष्मण वैदेहीं मृगत्वचि गतस्पृहाम् || ३०||

त्वचा प्रधानया ह्येष मृगोऽद्य न भविष्यति |
अप्रमत्तेन ते भाव्यमाश्रमस्थेन सीतया || ३१||

यावत्पृषतमेकेन सायकेन निहन्म्यहम् |
हत्वैतच्चर्म आदाय शीघ्रमेष्यामि लक्ष्मण || ३२||

प्रदक्षिणेनातिबलेन पक्षिणा
जटायुषा बुद्धिमता च लक्ष्मण |
भवाप्रमत्तः प्रतिगृह्य मैथिलीं
प्रतिक्षणं सर्वत एव शङ्कितः || ३३||

33

795

On spotting the deer Seetha calls Shri Rama and Lakshmana to have sight of it. Lakshmana immediately concludes it to be an illusion, but Seetha, keeping his observation aside asks Shri Rama to fetch it. Shri Rama is also fascinated when he looked at that deer and he explains to Lakshmana as to why that particular deer is to be hunted down.

44

तथा तु तं समादिश्य भ्रातरं रघुनन्दनः |
बबन्धासिं महातेजा जाम्बूनदमयत्सरुम् || १||

ततस्त्रिविणतं चापमादायात्मविभूषणम् |
आबध्य च कलापौ द्वौ जगामोदग्रविक्रमः || २||

तं वञ्चयानो राजेन्द्रमापतन्तं निरीक्ष्य वै |
बभूवान्तर्हितस्त्रासात्पुनः सन्दर्शनेऽभवत् || ३||

बद्धासिर्धनुरादाय प्रदुद्राव यतो मृगः |
तं स पश्यति रूपेण द्योतमानमिवाग्रतः || ४||

अवेक्ष्यावेक्ष्य धावन्तं धनुष्पाणिर्महावने |
अतिवृत्तमिषोः पाताल्लोभयानं कदा चन || ५||

शङ्कितं तु समुद्भ्रान्तमुत्पतन्तमिवाम्बरे |
दश्यमानमदृश्यं च नवोद्देशेषु केषु चित् || ६||

छिन्नाभ्रैरिव संवीतं शारदं चन्द्रमण्डलम् |
मुहूर्तादेव ददृशे मुहुर्दूरात्प्रकाशते || ७||

दर्शनादर्शनेनैव सोऽपाकर्षत राघवम् |
आसीत्क्रुद्धस्तु काकुत्स्थो विवशस्तेन मोहितः || ८||

अथावतस्थे सुश्रान्तश्छायामाश्रित्य शाद्वले |

स तम् उन्मादयामास मृगरूपो निशाचर || ९||

मृगैः परिवृतो अथ वन्यैः अदूरात् प्रत्यदृश्यत |

ग्रहीतु कामम् दृष्ट्वा तम् पुनः एव अभ्यधावत || १०||

तत् क्षणात् एव संत्रासात् पुनर् अंतर्हितो अभवत् ||

स प्राप्त कालम् अज्ञाय चकार च ततः स्वरम्  || ११ ||
सदृशम् राघवस्य एव हा सीते लक्ष्मण इति च |

तत् क्षणात् एव संत्रासात् पुनर् अंतर्हितो अभवत् || १२ ||

हा सीते लक्ष्मणेत्येवमाक्रुश्य तु महास्वरम् |

लक्ष्मणश्च महाबाहुः कामवस्थां गमिष्यति  || १३||
इति सञ्चिन्त्य धर्मात्मा रामो हृष्टतनूरुहः |

त्वरमाणो जनस्थानं ससाराभिमुखस्तदा || १४||

14

809

Shri Rama proceeded after the Golden deer, with his bow and two quivers with arrows. That Golden deer ran swiftly and went away into deep of the forest and away from the hermitage. Then, Ravana yelled 'Ha, Seetha...' also thus 'Ha Lakshmana.', mimicking Shri Rama’s voice, and vanished as if with extreme fear. 

Finally, Ravana shouted out for Seetha and Lakshmana, to deviate Lakshmana. Rama is perplexed at this oddity and presumes that some danger is immanent and then returns to hermitage. 

Thus, on thinking over them that Shri Rama then hurried himself towards his hermitage in Janasthaana.

45

 

 

 

 

 

 

 

 

 

 

 

 

 46

आर्तस्वरं तु तं भर्तुर्विज्ञाय सदृशं वने |
उवाच लक्ष्मणं सीता गच्छ जानीहि राघवम् || १||

न हि मे जीवितं स्थाने हृदयं वावतिष्ठते |
क्रोशतः परमार्तस्य श्रुतः शब्दो मया भृशम् || २||

आक्रन्दमानं तु वने भ्रातरं त्रातुमर्हसि |
तं क्षिप्रमभिधाव त्वं भ्रातरं शरणैषिणम् || ३||

अब्रवीत् लक्ष्मणः सीताम् प्रांजलिः विजितेन्द्रियः |

गमिष्ये यत्र काकुत्स्थः स्वस्ति तेऽस्तु वरानने |
रक्षन्तु त्वां विशालाक्षि समग्रा वनदेवताः || ४||

निमित्तानि हि घोराणि यानि प्रादुर्भवन्ति मे |
अपि त्वां सह रामेण पश्येयं पुनरागतः || ५||

न स तस्य स्वरो व्यक्तं न कश्चिदपि दैवतः |
गन्धर्वनगरप्रख्या माया सा तस्य रक्षसः || ६||

अवेक्षमाणो बहुशश्च मैथिलीं
जगाम रामस्य समीपमात्मवान् || ७||

रामस्य त्वन्तरं प्रेप्सुर्दशग्रीवस्तदन्तरे |

उपतस्थे च वैदेहीं भिक्षुरूपेण रावणः || ८||

अभव्यो भव्यरूपेण भर्तारमनुशोचतीम् |

अभ्यवर्तत वैदेहीं चित्रामिव शनैश्चरः || ९||

स पापो भव्यरूपेण तृणैः कूप इवावृतः |

अतिष्ठत्प्रेक्ष्य वैदेहीं रामपत्नीं यशस्विनीम् || १०||

शुभां रुचिरदन्तौष्ठीं पूर्णचन्द्रनिभाननाम् |

आसीनां पर्णशालायां बाष्पशोकाभिपीडिताम् || ११||

स तां पद्मपलाशाक्षीं पीतकौशेयवासिनीम् |

अभ्यगच्छत वैदेहीं दुष्टचेता निशाचरः || १२||

स मन्मथशराविष्टो ब्रह्मघोषमुदीरयन् |

अब्रवीत्प्रश्रितं वाक्यं रहिते राक्षसाधिपः || १३||

तामुत्तमां त्रिलोकानां पद्महीनामिव श्रियम् |

विभ्राजमानां वपुषा रावणः प्रशशंस ह || १४||

का त्वं काञ्चनवर्णाभे पीतकौशेयवासिनि |

कमलानां शुभां मालां पद्मिनीव च बिभ्रती || १५||

ह्रीः श्रीः कीर्तिः शुभा लक्ष्मीरप्सरा वा शुभानने |

भूतिर्वा त्वं वरारोहे रतिर्वा स्वैरचारिणी || १६||

समाः शिखरिणः स्निग्धाः पाण्डुरा दशनास्तव |

विशाले विमले नेत्रे रक्तान्ते कृष्णतारके || १७||

विशालं जघनं पीनमूरू करिकरोपमौ |

एतावुपचितौ वृत्तौ सहितौ सम्प्रगल्भितौ || १८||

पीनोन्नतमुखौ कान्तौ स्निग्धतालफलोपमौ |

मणिप्रवेकाभरणौ रुचिरौ ते पयोधरौ || १९||

चारुस्मिते चारुदति चारुनेत्रे विलासिनि |

मनो हरसि मे रामे नदीकूलमिवाम्भसा || २०||

करान्तमितमध्यासि सुकेशी संहतस्तनी |

नैव देवी न गन्धर्वी न यक्षी न च किंनरी || २१||

नैवंरूपा मया नारी दृष्टपूर्वा महीतले |

इह वासश्च कान्तारे चित्तमुन्माथयन्ति मे || २२||

सा प्रतिक्राम भद्रं ते न त्वं वस्तुमिहार्हसि |

राक्षसानामयं वासो घोराणां कामरूपिणाम् || २३||

प्रासादाग्र्याणि रम्याणि नगरोपवनानि च |

सम्पन्नानि सुगन्धीनि युक्तान्याचरितुं त्वया || २४||

वरं माल्यं वरं पानं वरं वस्त्रं च शोभने |

भर्तारं च वरं मन्ये त्वद्युक्तमसितेक्षणे || २५||

का त्वं भवसि रुद्राणां मरुतां वा शुचिस्मिते |

वसूनां वा वरारोहे देवता प्रतिभासि मे || २६||

नेह गच्छन्ती गन्धर्वा न देवा न च किंनराः |

राक्षसानामयं वासः कथं नु त्वमिहागता || २७||

इह शाखामृगाः सिंहा द्वीपिव्याघ्रमृगास्तथा |

ऋक्षास्तरक्षवः कङ्काः कथं तेभ्यो न बिभ्यसे || २८||

मदान्वितानां घोराणां कुञ्जराणां तरस्विनाम् |

कथमेका महारण्ये न बिभेषि वनानने || २९||

कासि कस्य कुतश्च त्वं किंनिमित्तं च दण्डकान् |

एका चरसि कल्याणि घोरान्राक्षससेवितान् || ३०||

इति प्रशस्ता वैदेही रावणेन दुरात्मना |

द्विजातिवेषेण हि तं दृष्ट्वा रावणमागतम् |

सर्वैरतिथिसत्कारैः पूजयामास मैथिली || ३१||

उपानीयासनं पूर्वं पाद्येनाभिनिमन्त्र्य च |

अब्रवीत्सिद्धमित्येव तदा तं सौम्यदर्शनम् || ३२||

द्विजातिवेषेण समीक्ष्य मैथिली

तमागतं पात्रकुसुम्भधारिणम् |

अशक्यमुद्द्वेष्टुमुपायदर्शनान्

न्यमन्त्रयद्ब्राह्मणवद्यथागतम् || ३३||

इयं बृसी ब्राह्मण काममास्यताम्

इदं च पाद्यं प्रतिगृह्यताम् इति |

इदं च सिद्धं वनजातमुत्तमं

त्वदर्थमव्यग्रमिहोपभुज्यताम् || ३४||

निमन्त्र्यमाणः प्रतिपूर्णभाषिणीं

नरेन्द्रपत्नीं प्रसमीक्ष्य मैथिलीम् |

प्रहस्य तस्या हरणे धृतं मनः

समर्पयामास वधाय रावणः || ३५||

ततः सुवेषं मृगया गतं पतिं

प्रतीक्षमाणा सहलक्ष्मणं तदा |

निरीक्षमाणा हरितं ददर्श तन्

महद्वनं नैव तु रामलक्ष्मणौ || ३६||

36

845

On identifying the grievous voice that is identifiable with her husband's voice, Seetha spoke to Lakshmana, "you go at once, and check up on Raghava. I have heard the loud yelling voice of highly fretful Rama whereby my heart, or my very entity, is not abiding in its place, and it will be apt of you to protect such a brother of yours who is screaming in the forest.” 

Lakshmana spoke to Seetha,”I am going there where Rama is, oh, lady with best visage, you be blest, and oh, broad-eyed one, let all of the forest deities protect you. Gauging by those dangerous forebodings that are now bidding fair, can I to see you again along with Rama on my return? Evidently it is not the voice of Rama, nor that of any other god, but someone mimicked that voice for chicanery, and that must be the illusory voice of that demon Maareecha, similar in effect to the magical city of gandharva-s usually created by magicians in general”. 

Then he proceeded to the proximity of Shri Rama, while repeatedly looking back at that lonely lady in the thick of forest. 

In the meanwhile, Ravana, who is all the while waiting for some lapse of Shri Rama, neared Vaidehi in the getup of a sanyaasi. Ravana praises Seetha's beauty by extolling every limb of hers, though he enters like a Brahman sanyasi.. He indulges in a most untoward laudation that is unbefitting for a saintly and elderly almsman. Unable to refute him, because he is in such a pious garb, she had to invite him as an untimely guest.

इत्यार्षे श्री रामायणे अरण्यकाण्डे दशम: भाग:

 

Araṇyakāṇḍa Part-9

Araṇyakāṇḍa Part-11

 

No comments:

Post a Comment