Sunday, December 28, 2025

अरण्यकाण्ड - Araṇyakāṇḍa (भाग - ११ ;;; Part – 11)

 

अरण्यकाण्ड - Arayakāṇḍa (भाग - ११ ;;; Part – 11)

Sarga number as per Ramayana

Shlokas extracted

No. of shlokas

Cumulative number of shlokas in this Kanda

47

रावणेन तु वैदेही तदा पृष्टा जिहीर्षुणा |
परिव्राजकरूपेण शशंसात्मानमात्मना || १||

ब्राह्मणश्चातिथिश्चैष अनुक्तो हि शपेत माम् |
इति ध्यात्वा मुहूर्तं तु सीता वचनमब्रवीत् || २||

दुहिता जनकस्याहं मैथिलस्य महात्मनः |
सीता नाम्नास्मि भद्रं ते रामभार्या द्विजोत्तम || ३||

संवत्सरं चाध्युषिता राघवस्य निवेशने |
भुञ्जाना मानुषान्भोगान्सर्वकामसमृद्धिनी || ४||

ततः संवत्सरादूर्ध्वं सममन्यत मे पतिम् |
अभिषेचयितुं रामं समेतो राजमन्त्रिभिः || ५||

तस्मिन्सम्भ्रियमाणे तु राघवस्याभिषेचने |
कैकेयी नाम भर्तारं ममार्या याचते वरम् || ६||

प्रतिगृह्य तु कैकेयी श्वशुरं सुकृतेन मे |
मम प्रव्राजनं भर्तुर्भरतस्याभिषेचनम् |
द्वावयाचत भर्तारं सत्यसन्धं नृपोत्तमम् || ७||

नाद्य भोक्ष्ये न च स्वप्स्ये न पास्येऽहं कदा चन |
एष मे जीवितस्यान्तो रामो यद्यभिषिच्यते || ८||

इति ब्रुवाणां कैकेयीं श्वशुरो मे स मानदः |
अयाचतार्थैरन्वर्थैर्न च याच्ञां चकार सा || ९||

मम भर्ता महातेजा वयसा पञ्चविंशकः |
रामेति प्रथितो लोके गुणवान्सत्यवाक्षुचिः |
विशालाक्षो महाबाहुः सर्वभूतहिते रतः || १०||

अभिषेकाय तु पितुः समीपं राममागतम् |
कैकेयी मम भर्तारमित्युवाच द्रुतं वचः || ११||

तव पित्रा समाज्ञप्तं ममेदं शृणु राघव |
भरताय प्रदातव्यमिदं राज्यमकण्टकम् || १२||

त्वया तु खलु वस्तव्यं नव वर्षाणि पञ्च च |
वने प्रव्रज काकुत्स्थ पितरं मोचयानृतात् || १३||

तथेत्युवाच तां रामः कैकेयीमकुतोभयः |
चकार तद्वचस्तस्या मम भर्ता दृढव्रतः || १४||

दद्यान्न प्रतिगृह्णीयात्सत्यब्रूयान्न चानृतम् |
एतद्ब्राह्मण रामस्य व्रतं ध्रुवमनुत्तमम् || १५||

तस्य भ्राता तु वैमात्रो लक्ष्मणो नाम वीर्यवान् |
रामस्य पुरुषव्याघ्रः सहायः समरेऽरिहा || १६||

स भ्राता लक्ष्मणो नाम धर्मचारी दृढव्रतः |
अन्वगच्छद्धनुष्पाणिः प्रव्रजन्तं मया सह || १७||

ते वयं प्रच्युता राज्यात्कैलेय्यास्तु कृते त्रयः |
विचराम द्विजश्रेष्ठ वनं गम्भीरमोजसा || १८||

समाश्वस मुहूर्तं तु शक्यं वस्तुमिह त्वया |
आगमिष्यति मे भर्ता वन्यमादाय पुष्कलम् || १९||

स त्वं नाम च गोत्रं च कुलमाचक्ष्व तत्त्वतः |
एकश्च दण्डकारण्ये किमर्थं चरसि द्विज || २०||

एवं ब्रुवत्यां सीतायां रामपत्न्यां महाबलः |
प्रत्युवाचोत्तरं तीव्रं रावणो राक्षसाधिपः || २१||

येन वित्रासिता लोकाः सदेवासुरपन्नगाः |
अहं स रावणो नाम सीते रक्षोगणेश्वरः || २२||

त्वां तु काञ्चनवर्णाभां दृष्ट्वा कौशेयवासिनीम् |
रतिं स्वकेषु दारेषु नाधिगच्छाम्यनिन्दिते || २३||

बह्वीनामुत्तमस्त्रीणामाहृतानामितस्ततः |
सर्वासामेव भद्रं ते ममाग्रमहिषी भव || २४||

लङ्का नाम समुद्रस्य मध्ये मम महापुरी |
सागरेण परिक्षिप्ता निविष्टा गिरिमूर्धनि || २५||

तत्र सीते मया सार्धं वनेषु विचरिष्यसि |
न चास्यारण्यवासस्य स्पृहयिष्यसि भामिनि || २६||

पञ्चदास्यः सहस्राणि सर्वाभरणभूषिताः |
सीते परिचरिष्यन्ति भार्या भवसि मे यदि || २७||

रावणेनैवमुक्ता तु कुपिता जनकात्मजा |
प्रत्युवाचानवद्याङ्गी तमनादृत्य राक्षसं || २८||

महागिरिमिवाकम्प्यं महेन्द्रसदृशं पतिम् |
महोदधिमिवाक्षोभ्यमहं राममनुव्रता || २९||

महाबाहुं महोरस्कं सिंहविक्रान्तगामिनम् |
नृसिंहं सिंहसङ्काशमहं राममनुव्रता || ३०||

पूर्णचन्द्राननं वीरं राजवत्सं जितेन्द्रियम् |
पृथुकीर्तिं महाबाहुमहं राममनुव्रता || ३१||

त्वं पुनर्जम्बुकः सिंहीं मामिहेच्छसि दुर्लभाम् |
नाहं शक्या त्वया स्प्रष्टुमादित्यस्य प्रभा यथा || ३२||

पादपान्काञ्चनान्नूनं बहून्पश्यसि मन्दभाक् |
राघवस्य प्रियां भार्यां यस्त्वमिच्छसि रावण || ३३||

क्षुधितस्य च सिंहस्य मृगशत्रोस्तरस्विनः |
आशीविषस्य वदनाद्दंष्ट्रामादातुमिच्छसि || ३४||

मन्दरं पर्वतश्रेष्ठं पाणिना हर्तुमिच्छसि |
कालकूटं विषं पीत्वा स्वस्तिमान्गन्तुमिच्छसि || ३५||

अक्षिसूच्या प्रमृजसि जिह्वया लेढि च क्षुरम् |
राघवस्य प्रियां भार्यामधिगन्तुं त्वमिच्छसि || ३६||

अवसज्य शिलां कण्ठे समुद्रं तर्तुमिच्छसि |
सूर्या चन्द्रमसौ चोभौ प्राणिभ्यां हर्तुमिच्छसि |
यो रामस्य प्रियां भार्यां प्रधर्षयितुमिच्छसि || ३७||

अग्निं प्रज्वलितं दृष्ट्वा वस्त्रेणाहर्तुमिच्छसि |
कल्याण वृत्तां रामस्य यो भार्यां हर्तुमिच्छसि || ३८||

अयोमुखानां शूलानाम् अग्रे चरितुमिच्छसि |
रामस्य सदृशीं भार्यां योऽधिगन्तुं त्वमिच्छसि || ३९||

यदन्तरं सिंहशृगालयोर्वने
यदन्तरं स्यन्दनिकासमुद्रयोः |
सुराग्र्यसौवीरकयोर्यदन्तरं
तदन्तरं दाशरथेस्तवैव च || ४०||

यदन्तरं काञ्चनसीसलोहयोर्
यदन्तरं चन्दनवारिपङ्कयोः |
यदन्तरं हस्तिबिडालयोर्वने
तदन्तरं दशरथेस्तवैव च || ४१||

यदन्तरं वायसवैनतेययोर्
यदन्तरं मद्गुमयूरयोरपि |
यदन्तरं सारसगृध्रयोर्वने
तदन्तरं दाशरथेस्तवैव च || ४२||

तस्मिन्सहस्राक्षसमप्रभावे
रामे स्थिते कार्मुकबाणपाणौ |
हृतापि तेऽहं न जरां गमिष्ये
वज्रं यथा मक्षिकयावगीर्णम् || ४३||

इतीव तद्वाक्यमदुष्टभावा
सुदृष्टमुक्त्वा रजनीचरं तम् |
गात्रप्रकम्पाद्व्यथिता बभूव
वातोद्धता सा कदलीव तन्वी || ४४||

तां वेपमानामुपलक्ष्य सीतां
स रावणो मृत्युसमप्रभावः |
कुलं बलं नाम च कर्म चात्मनः
समाचचक्षे भयकारणार्थम् || ४५||

45

994

Initially, Seetha believes Ravana to be a Vedic Brahman but insists to know about him. Ravana reveals his identity and asks her to become his wife and enjoy all types of physical comforts. Thereafter, Sita rejects his proposal and curtly states that compared to Lion-like Shri Rama, Ravana was a like a Jackal.

48

एवं ब्रुवत्यां सीतायां संरब्धः परुषाक्षरम् |
ललाटे भ्रुकुटीं कृत्वा रावणः प्रत्युवाच ह || १||

भ्राता वैश्रवणस्याहं सापत्न्यो वरवर्णिनि |
रावणो नाम भद्रं ते दशग्रीवः प्रतापवान् || २||

यस्य देवाः सगन्धर्वाः पिशाचपतगोरगाः |
विद्रवन्ति भयाद्भीता मृत्योरिव सदा प्रजाः || ३||

येन वैश्रवणो भ्राता वैमात्रः कारणान्तरे |
द्वन्द्वमासादितः क्रोधाद्रणे विक्रम्य निर्जितः || ४||

मद्भयार्तः परित्यज्य स्वमधिष्ठानमृद्धिमत् |
कैलासं पर्वतश्रेष्ठमध्यास्ते नरवाहनः || ५||

यस्य तत्पुष्पकं नाम विमानं कामगं शुभम् |
वीर्यादावर्जितं भद्रे येन यामि विहायसं || ६||

मम सञ्जातरोषस्य मुखं दृष्ट्वैव मैथिलि |
विद्रवन्ति परित्रस्ताः सुराः शक्रपुरोगमाः || ७||

यत्र तिष्ठाम्यहं तत्र मारुतो वाति शङ्कितः |
तीव्रांशुः शिशिरांशुश्च भयात्सम्पद्यते रविः || ८||

निष्कम्पपत्रास्तरवो नद्यश्च स्तिमितोदकाः |
भवन्ति यत्र यत्राहं तिष्ठामि च चरामि च || ९||

मम पारे समुद्रस्य लङ्का नाम पुरी शुभा |
सम्पूर्णा राक्षसैर्घोरैर्यथेन्द्रस्यामरावती || १०||

प्राकारेण परिक्षिप्ता पाण्डुरेण विराजिता |
हेमकक्ष्या पुरी रम्या वैदूर्यमय तोरणा || ११||

हस्त्यश्वरथसम्भाधा तूर्यनादविनादिता |
सर्वकामफलैर्वृक्षैः सङ्कुलोद्यानशोभिता || १२||

तत्र त्वं वसती सीते राजपुत्रि मया सह |
न स्रमिष्यसि नारीणां मानुषीणां मनस्विनि || १३||

भुञ्जाना मानुषान्भोगान्दिव्यांश्च वरवर्णिनि |
न स्मरिष्यसि रामस्य मानुषस्य गतायुषः || १४||

स्थापयित्वा प्रियं पुत्रं राज्ञा दशरथेन यः |
मन्दवीर्यः सुतो ज्येष्ठस्ततः प्रस्थापितो वनम् || १५||

तेन किं भ्रष्टराज्येन रामेण गतचेतसा |
करिष्यसि विशालाक्षि तापसेन तपस्विना || १६||

सर्वराक्षसभर्तारं कामात्स्वयमिहागतम् |
न मन्मथशराविष्टं प्रत्याख्यातुं त्वमर्हसि || १७||

प्रत्याख्याय हि मां भीरु परितापं गमिष्यसि |
चरणेनाभिहत्येव पुरूरवसमुर्वशी || १८||

एवमुक्ता तु वैदेही क्रुद्धा संरक्तलोचना |
अब्रवीत्परुषं वाक्यं रहिते राक्षसाधिपम् || १९||

कथं वैश्रवणं देवं सर्वभूतनमस्कृतम् |
भ्रातरं व्यपदिश्य त्वमशुभं कर्तुमिच्छसि || २०||

अवश्यं विनशिष्यन्ति सर्वे रावण राक्षसाः |
येषां त्वं कर्कशो राजा दुर्बुद्धिरजितेन्द्रियः || २१||

अपहृत्य शचीं भार्यां शक्यमिन्द्रस्य जीवितुम् |
न तु रामस्य भार्यां मामपनीयास्ति जीवितम् || २२||

जीवेच्चिरं वज्रधरस्य हस्ताच्
छचीं प्रधृष्याप्रतिरूपरूपाम् |
न मादृशीं राक्षसधर्षयित्वा
पीतामृतस्यापि तवास्ति मोक्षः || २३||

23

1017

Ravana extols his great achievements and riches and tries to tempt Seetha with all comforts and luxuries, if she abandons Shri Rama, comes to Lanka with him and marries him. She curtly refuses his baiting and luring.

49

सीताया वचनं श्रुत्वा दशग्रीवः प्रतापवान् |
हस्ते हस्तं समाहत्य चकार सुमहद्वपुः || १||

स मैथिलीं पुनर्वाक्यं बभाषे च ततो भृशम् |
नोन्मत्तया श्रुतौ मन्ये मम वीर्यपराक्रमौ || २||

उद्वहेयं भुजाभ्यां तु मेदिनीमम्बरे स्थितः |
आपिबेयं समुद्रं च मृत्युं हन्यां रणे स्थितः || ३||

अर्कं रुन्ध्यां शरैस्तीक्ष्णैर्विभिन्द्यां हि महीतलम् |
कामरूपिणमुन्मत्ते पश्य मां कामदं पतिम् || ४||

एवमुक्तवतस्तस्य रावणस्य शिखिप्रभे |
क्रुद्धस्य हरिपर्यन्ते रक्ते नेत्रे बभूवतुः || ५||

सद्यः सौम्यं परित्यज्य भिक्षुरूपं स रावणः |
स्वं रूपं कालरूपाभं भेजे वैश्रवणानुजः || ६||

संरक्तनयनः श्रीमांस्तप्तकाञ्चनकुण्डलः |
दशास्यः कार्मुकी बाणी बभूव क्षणदाचरः || ७||

स परिव्राजकच्छद्म महाकायो विहाय तत् |
प्रतिपेदे स्वकं रूपं रावणो राक्षसाधिपः || ८||

संरक्तनयनः क्रोधाज्जीमूतनिचयप्रभः |
रक्ताम्बरधरस्तस्थौ स्त्रीरत्नं प्रेक्ष्य मैथिलीम् || ९||

स तामसितकेशान्तां भास्करस्य प्रभाम् इव |
वसनाभरणोपेतां मैथिलीं रावणोऽब्रवीत् || १०||

त्रिषु लोकेषु विख्यातं यदि भर्तारमिच्छसि |
मामाश्रय वरारोहे तवाहं सदृशः पतिः || ११||

मां भजस्व चिराय त्वमहं श्लाघ्यस्तव प्रियः |
नैव चाहं क्व चिद्भद्रे करिष्ये तव विप्रियम् |
त्यज्यतां मानुषो भावो मयि भावः प्रणीयताम् || १२||

राज्याच्च्युतमसिद्धार्थं रामं परिमितायुषम् |
कैर्गुणैरनुरक्तासि मूढे पण्डितमानिनि || १३||

यः स्त्रिया वचनाद्राज्यं विहाय ससुहृज्जनम् |
अस्मिन्व्यालानुचरिते वने वसति दुर्मतिः || १४||

इत्युक्त्वा मैथिलीं वाक्यं प्रियार्हां प्रियवादिनीम् |
जग्राह रावणः सीतां बुधः खे रोहिणीम् इव || १५||

वामेन सीतां पद्माक्षीं मूर्धजेषु करेण सः |
ऊर्वोस्तु दक्षिणेनैव परिजग्राह पाणिना || १६||

तं दृष्ट्वा गिरिशृङ्गाभं तीक्ष्णदंष्ट्रं महाभुजम् |
प्राद्रवन्मृत्युसङ्काशं भयार्ता वनदेवताः || १७||

स च मायामयो दिव्यः खरयुक्तः खरस्वनः |
प्रत्यदृश्यत हेमाङ्गो रावणस्य महारथः || १८||

ततस्तां परुषैर्वाक्यैरभितर्ज्य महास्वनः |
अङ्केनादाय वैदेहीं रथमारोपयत्तदा || १९||

सा गृहीतातिचुक्रोश रावणेन यशस्विनी |
रामेति सीता दुःखार्ता रामं दूरगतं वने || २०||

तामकामां स कामार्तः पन्नगेन्द्रवधूम् इव |
विवेष्टमानामादाय उत्पपाथाथ रावणः || २१||

ततः सा राक्षसेन्द्रेण ह्रियमाणा विहायसा |
भृशं चुक्रोश मत्तेव भ्रान्तचित्ता यथातुरा || २२||

हा लक्ष्मण महाबाहो गुरुचित्तप्रसादक |
ह्रियमाणां न जानीषे रक्षसा कामरूपिणा || २३||

जीवितं सुखमर्थांश्च धर्महेतोः परित्यजन् |
ह्रियमाणामधर्मेण मां राघव न पश्यसि || २४||

ननु नामाविनीतानां विनेतासि परन्तप |
कथमेवंविधं पापं न त्वं शाधि हि रावणम् || २५||

ननु सद्योऽविनीतस्य दृश्यते कर्मणः फलम् |
कालोऽप्यङ्गी भवत्यत्र सस्यानाम् इव पक्तये || २६||

स कर्म कृतवानेतत्कालोपहतचेतनः |
जीवितान्तकरं घोरं रामाद्व्यसनमाप्नुहि || २७||

हन्तेदानीं सकामा तु कैकेयी बान्धवैः सह |
ह्रियेयं धर्मकामस्य धर्मपत्नी यशस्विनः || २८||

आमन्त्रये जनस्थानं कर्णिकारांश्च पुष्पितान् |
क्षिप्रं रामाय शंसध्वं सीतां हरति रावणः || २९||

माल्यवन्तं शिखरिणं वन्दे प्रस्रवणं गिरिम् |
क्षिप्रं रामाय शंसध्वं सीतां हरति रावणः || ३०||

हंससारससङ्घुष्टां वन्दे गोदावरीं नदीम् |
क्षिप्रं रामाय शंसध्वं सीतां हरति रावणः || ३१||

दैवतानि च यान्त्यस्मिन्वने विविधपादपे |
नमस्करोम्यहं तेभ्यो भर्तुः शंसत मां हृताम् || ३२||

यानि कानि चिदप्यत्र सत्त्वानि निवसन्त्युत |
सर्वाणि शरणं यामि मृगपक्षिगणानपि || ३३||

ह्रियमाणां प्रियां भर्तुः प्राणेभ्योऽपि गरीयसीम् |
विवशापहृता सीता रावणेनेति शंसत || ३४||

विदित्वा मां महाबाहुरमुत्रापि महाबलः |
आनेष्यति पराक्रम्य वैवस्वतहृताम् अपि || ३५||

रामाय तु यथातत्त्वं जटायो हरणं मम |
लक्ष्मणाय च तत्सर्वमाख्यातव्यमशेषतः || ३६||

36

1053

Ravana abducts Seetha in his chariot, which can travel in air. She cries and shouts for Shri Rama and Lakshmana and appeals to all nature to inform Shri Rama about that abduction. Finally, she sees Jatayu, the old eagle and the friend of King Dasaratha, and asks him to inform her abduction to Shri Rama.

इत्यार्षे श्री रामायणे अरण्यकाण्डे एकादश: भाग:

 

Araṇyakāṇḍa Part-10

Araṇyakāṇḍa Part-12

 

No comments:

Post a Comment