Saturday, December 27, 2025

अरण्यकाण्ड - Araṇyakāṇḍa (भाग - ९ ;;; Part – 9)

 

अरण्यकाण्ड - Arayakāṇḍa (भाग - ;;; Part – 9)


Sarga number as per Ramayana

Shlokas extracted

No. of shlokas

Cumulative number of shlokas in this Kanda

35

ततः शूर्पणखा वाक्यं तच्छ्रुत्वा रोमहर्षणम् |
सचिवानभ्यनुज्ञाय कार्यं बुद्ध्वा जगाम ह || १||

तत्कार्यमनुगम्याथ यथावदुपलभ्य च |
दोषाणां च गुणानां च सम्प्रधार्य बलाबलम् || २||

इति कर्तव्यमित्येव कृत्वा निश्चयमात्मनः |
स्थिरबुद्धिस्ततो रम्यां यानशालां जगाम ह || ३||

यानशालां ततो गत्वा प्रच्छन्नं राक्षसाधिपः |
सूतं सञ्चोदयामास रथः संयुज्यताम् इति || ४||

एवमुक्तः क्षणेनैव सारथिर्लघुविक्रमः |
रथं संयोजयामास तस्याभिमतमुत्तमम् || ५||

काञ्चनं रथमास्थाय कामगं रत्नभूषितम् |
पिशाचवदनैर्युक्तं खरैः कनकभूषणैः || ६||

मेघप्रतिमनादेन स तेन धनदानुजः |
राक्षसाधिपतिः श्रीमान्ययौ नदनदीपतिम् || ७||

तं तु गत्वा परं पारं समुद्रस्य नदीपतेः |

ददर्श दण्डकारण्यं राघवस्याश्रमं ततः|

मृगो भूत्वाश्रमद्वारि रामस्य विचचार ह || ८||

8

742

Ravana proceeds to Dandakaranya for the abduction of Seetha. He travels by his aircraft-like chariot and arrives at the hermitage of Shri Rama and takes the form of a Golden deer.

42

 

मणिप्रवरशृङ्गाग्रः सितासितमुखाकृतिः |
रक्तपद्मोत्पलमुख इन्द्रनीलोत्पलश्रवाः || १||

किं चिदभ्युन्नत ग्रीव इन्द्रनीलनिभोदरः |
मधूकनिभपार्श्वश्च कञ्जकिञ्जल्कसंनिभः || २||

वैदूर्यसङ्काशखुरस्तनुजङ्घः सुसंहतः |
इन्द्रायुधसवर्णेन पुच्छेनोर्ध्वं विराजितः || ३||

मनोहरस्निग्धवर्णो रत्नैर्नानाविधैर्वृतः |
क्षणेन राक्षसो जातो मृगः परमशोभनः || ४||

वनं प्रज्वलयन्रम्यं रामाश्रमपदं च तत् |
मनोहरं दर्शनीयं रूपं कृत्वा स राक्षसः || ५||

प्रलोभनार्थं वैदेह्या नानाधातुविचित्रितम् |
विचरन्गच्छते सम्यक्षाद्वलानि समन्ततः || ६||

रूप्यबिन्दुशतैश्चित्रो भूत्वा च प्रियदर्शनः |
विटपीनां किसलयान्भङ्क्त्वादन्विचचार ह || ७||

कदलीगृहकं गत्वा कर्णिकारानितस्ततः |
समाश्रयन्मन्दगतिः सीतासन्दर्शनं तदा || ८||

राजीवचित्रपृष्ठः स विरराज महामृगः |
रामाश्रमपदाभ्याशे विचचार यथासुखम् || ९||

पुनर्गत्वा निवृत्तश्च विचचार मृगोत्तमः |
गत्वा मुहूर्तं त्वरया पुनः प्रतिनिवर्तते || १०||

विक्रीडंश्च पुनर्भूमौ पुनरेव निषीदति |
आश्रमद्वारमागम्य मृगयूथानि गच्छति || ११||

मृगयूथैरनुगतः पुनरेव निवर्तते |
सीतादर्शनमाकाङ्क्षन्राक्षसो मृगतां गतः || १२||

परिभ्रमति चित्राणि मण्डलानि विनिष्पतन् |
समुद्वीक्ष्य च सर्वे तं मृगा येऽन्ये वनेचराः || १३||

उपगम्य समाघ्राय विद्रवन्ति दिशो दश |
राक्षसः सोऽपि तान्वन्यान्मृगान्मृगवधे रतः || १४||

प्रच्छादनार्थं भावस्य न भक्षयति संस्पृशन् |
तस्मिन्नेव ततः काले वैदेही शुभलोचना || १५||

कुसुमापचये व्यग्रा पादपानत्यवर्तत |
कर्णिकारानशोकांश्च चूटांश्च मदिरेक्षणा || १६||

कुसुमान्यपचिन्वन्ती चचार रुचिरानना |
अनर्हारण्यवासस्य सा तं रत्नमयं मृगम् |
मुक्तामणिविचित्राङ्गं ददर्श परमाङ्गना || १७||

तं वै रुचिरदण्तौष्ठं रूप्यधातुतनूरुहम् |
विस्मयोत्फुल्लनयना सस्नेहं समुदैक्षत || १८||

स च तां राम दयितां पश्यन्मायामयो मृगः |
विचचार ततस्तत्र दीपयन्निव तद्वनम् || १९||

अदृष्टपूर्वं दृष्ट्वा तं नानारत्नमयं मृगम् |
विस्मयं परमं सीता जगाम जनकात्मजा || २०||

20

762

After assuming the form of a golden deer, Ravana roams in the vicinity of Shri Rama’s ashrama, and Seetha catches a sight of that deer.

इत्यार्षे श्री रामायणे अरण्यकाण्डे नवम: भाग:

 

Araṇyakāṇḍa Part-8

Araṇyakāṇḍa Part-10

 

 

No comments:

Post a Comment