Saturday, December 27, 2025

अरण्यकाण्ड - Araṇyakāṇḍa (भाग - ९ ;;; Part – 9)

 

अरण्यकाण्ड - Arayakāṇḍa (भाग - ;;; Part – 9)

Sarga number as per Ramayana

Shlokas extracted

No. of shlokas

Cumulative number of shlokas in this Kanda

35

ततः शूर्पणखा वाक्यं तच्छ्रुत्वा रोमहर्षणम् |
सचिवानभ्यनुज्ञाय कार्यं बुद्ध्वा जगाम ह || १||

तत्कार्यमनुगम्याथ यथावदुपलभ्य च |
दोषाणां च गुणानां च सम्प्रधार्य बलाबलम् || २||

इति कर्तव्यमित्येव कृत्वा निश्चयमात्मनः |
स्थिरबुद्धिस्ततो रम्यां यानशालां जगाम ह || ३||

यानशालां ततो गत्वा प्रच्छन्नं राक्षसाधिपः |
सूतं सञ्चोदयामास रथः संयुज्यताम् इति || ४||

एवमुक्तः क्षणेनैव सारथिर्लघुविक्रमः |
रथं संयोजयामास तस्याभिमतमुत्तमम् || ५||

काञ्चनं रथमास्थाय कामगं रत्नभूषितम् |
पिशाचवदनैर्युक्तं खरैः कनकभूषणैः || ६||

मेघप्रतिमनादेन स तेन धनदानुजः |
राक्षसाधिपतिः श्रीमान्ययौ नदनदीपतिम् || ७||

स श्वेतबालव्यसनः श्वेतच्छत्रो दशाननः |
स्निग्धवैदूर्यसङ्काशस्तप्तकाञ्चनभूषणः || ८||

दशास्यो विंशतिभुजो दर्शनीय परिच्छदः |
त्रिदशारिर्मुनीन्द्रघ्नो दशशीर्ष इवाद्रिराट् || ९||

कामगं रथमास्थाय शुशुभे राक्षसाधिपः |
विद्युन्मण्डलवान्मेघः सबलाक इवाम्बरे || १०||

सशैलं सागरानूपं वीर्यवानवलोकयन् |
नानापुष्पफलैर्वृक्षैरनुकीर्णं सहस्रशः || ११||

शीतमङ्गलतोयाभिः पद्मिनीभिः समन्ततः |
विशालैराश्रमपदैर्वेदिमद्भिः समावृतम् || १२||

कदल्याढकिसम्बाधं नालिकेरोपशोभितम् |
सालैस्तालैस्तमालैश्च तरुभिश्च सुपुष्पितैः || १३||

अत्यन्तनियताहारैः शोभितं परमर्षिभिः |
नागैः सुपर्णैर्गन्धर्वैः किंनरैश्च सहस्रशः || १४||

जितकामैश्च सिद्धैश्च चामणैश्चोपशोभितम् |
आजैर्वैखानसैर्माषैर्वालखिल्यैर्मरीचिपैः || १५||

दिव्याभरणमाल्याभिर्दिव्यरूपाभिरावृतम् |
क्रीडा रतिविधिज्ञाभिरप्सरोभिः सहस्रशः || १६||

सेवितं देवपत्नीभिः श्रीमतीभिः श्रिया वृतम् |
देवदानवसङ्घैश्च चरितं त्वमृताशिभिः || १७||

हंसक्रौञ्चप्लवाकीर्णं सारसैः सम्प्रणादितम् |
वैदूर्यप्रस्तरं रम्यं स्निग्धं सागरतेजसा || १८||

पाण्डुराणि विशालानि दिव्यमाल्ययुतानि च |
तूर्यगीताभिजुष्टानि विमानानि समन्ततः || १९||

तपसा जितलोकानां कामगान्यभिसम्पतन् |
गन्धर्वाप्सरसश्चैव ददर्श धनदानुजः || २०||

निर्यासरसमूलानां चन्दनानां सहस्रशः |
वनानि पश्यन्सौम्यानि घ्राणतृप्तिकराणि च || २१||

अगरूणां च मुख्यानां वनान्युपवनानि च |
तक्कोलानां च जात्यानां फलानां च सुगन्धिनाम् || २२||

पुष्पाणि च तमालस्य गुल्मानि मरिचस्य च |
मुक्तानां च समूहानि शुष्यमाणानि तीरतः || २३||

तं तु गत्वा परं पारं समुद्रस्य नदीपतेः |
ददर्शाश्रममेकान्ते पुण्ये रम्ये वनान्तरे || २४||

तत्र कृष्णाजिनधरं जटावल्कलधारिणम् |
ददर्श नियताहारं मारीचं नाम राक्षसं || २५||

स रावणः समागम्य विधिवत्तेन रक्षसा |
ततः पश्चादिदं वाक्यमब्रवीद्वाक्यकोविदः || २६||

26

773

Ravana proceeds to Maareecha seeking his help in the abduction of Seetha. He travels by his aircraft-like chariot and on way he sees many locations along the seacoast that are affluent and divine. He arrives at the hermitage of Maareecha.

36

मारीच श्रूयतां तात वचनं मम भाषतः |
आर्तोऽस्मि मम चार्तस्य भवान्हि परमा गतिः || १||

जानीषे त्वं जनस्थानं भ्राता यत्र खरो मम |
दूषणश्च महाबाहुः स्वसा शूर्पणखा च मे || २||

त्रिशिराश्च महातेजा राक्षसः पिशिताशनः |
अन्ये च बहवः शूरा लब्धलक्षा निशाचराः || ३||

वसन्ति मन्नियोगेन अधिवासं च राक्षसः |
बाधमाना महारण्ये मुनीन्ये धर्मचारिणः || ४||

चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम् |
शूराणां लब्धलक्षाणां खरचित्तानुवर्तिनाम् || ५||

ते त्विदानीं जनस्थाने वसमाना महाबलाः |
सङ्गताः परमायत्ता रामेण सह संयुगे || ६||

तेन सञ्जातरोषेण रामेण रणमूर्धनि |
अनुक्त्वा परुषं किं चिच्छरैर्व्यापारितं धनुः || ७||

चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम् |
निहतानि शरैस्तीक्ष्णैर्मानुषेण पदातिना || ८||

खरश्च निहतः सङ्ख्ये दूषणश्च निपातितः |
हत्वा त्रिशिरसं चापि निर्भया दण्डकाः कृताः || ९||

पित्रा निरस्तः क्रुद्धेन सभार्यः क्षीणजीवितः |
स हन्ता तस्य सैन्यस्य रामः क्षत्रियपांसनः || १०||

अशीलः कर्कशस्तीक्ष्णो मूर्खो लुब्धोऽजितेन्द्रियः |
त्यक्तधर्मस्त्वधर्मात्मा भूतानामहिते रतः || ११||

येन वैरं विनारण्ये सत्त्वमाश्रित्य केवलम् |
कर्णनासापहारेण भगिनी मे विरूपिता || १२||

तस्य भार्यां जनस्थानात्सीतां सुरसुतोपमाम् |
आनयिष्यामि विक्रम्य सहायस्तत्र मे भव || १३||

त्वया ह्यहं सहायेन पार्श्वस्थेन महाबल |
भ्रातृभिश्च सुरान्युद्धे समग्रान्नाभिचिन्तये || १४||

तत्सहायो भव त्वं मे समर्थो ह्यसि राक्षस |
वीर्ये युद्धे च दर्पे च न ह्यस्ति सदृशस्तव || १५||

एतदर्थमहं प्राप्तस्त्वत्समीपं निशाचर |
शृणु तत्कर्म साहाय्ये यत्कार्यं वचनान्मम || १६||

सौवर्णस्त्वं मृगो भूत्वा चित्रो रजतबिन्दुभिः |
आश्रमे तस्य रामस्य सीतायाः प्रमुखे चर || १७||

त्वां तु निःसंशयं सीता दृष्ट्वा तु मृगरूपिणम् |
गृह्यतामिति भर्तारं लक्ष्मणं चाभिधास्यति || १८||

ततस्तयोरपाये तु शून्ये सीतां यथासुखम् |
निराबाधो हरिष्यामि राहुश्चन्द्रप्रभाम् इव || १९||

ततः पश्चात्सुखं रामे भार्याहरणकर्शिते |
विस्रब्धं प्रहरिष्यामि कृतार्थेनान्तरात्मना || २०||

तस्य रामकथां श्रुत्वा मारीचस्य महात्मनः |
शुष्कं समभवद्वक्त्रं परित्रस्तो बभूव च || २१||

स रावणं त्रस्तविषण्णचेता
महावने रामपराक्रमज्ञः |
कृताञ्जलिस्तत्त्वमुवाच वाक्यं
हितं च तस्मै हितमात्मनश् च || २२||

22

795

Ravana seeks Maareecha's help to abduct Seetha. He asks Maareecha to assume the form of a golden-deer and lure Seetha. If Seetha asks, Shri Rama and Lakshmana will go to fetch that golden-deer and are distracted from the hermitage, Ravana can comfortably abduct Seetha. Listening to this Maareecha is struck dead, because he is already struck with the arrow of Shri Rama when he tried to spoil the ritual of Sage Vishvamitra.

37

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 39

 

तच्छ्रुत्वा राक्षसेन्द्रस्य वाक्यं वाक्यविशारदः |
प्रत्युवाच महाप्राज्ञो मारीचो राक्षसेश्वरम् || १||

सुलभाः पुरुषा राजन्सततं प्रियवादिनः |
अप्रियस्य च पथ्यस्य वक्ता श्रोता च दुर्लभः || २||

न नूनं बुध्यसे रामं महावीर्यं गुणोन्नतम् |
अयुक्तचारश्चपलो महेन्द्रवरुणोपमम् || ३||

अपि स्वस्ति भवेत्तात सर्वेषां भुवि रक्षसाम् |
अपि रामो न सङ्क्रुद्धः कुर्याल्लोकमराक्षसं || ४||

अपि ते जीवितान्ताय नोत्पन्ना जनकात्मजा |
अपि सीता निमित्तं च न भवेद्व्यसनं महत् || ५||

अपि त्वामीश्वरं प्राप्य कामवृत्तं निरङ्कुशम् |
न विनश्येत्पुरी लङ्का त्वया सह सराक्षसा || ६||

त्वद्विधः कामवृत्तो हि दुःशीलः पापमन्त्रितः |
आत्मानं स्वजनं राष्ट्रं स राजा हन्ति दुर्मतिः || ७||

न च पित्रा परित्यक्तो नामर्यादः कथं चन |
न लुब्धो न च दुःशीलो न च क्षत्रियपांसनः || ८||

न च धर्मगुणैर्हीनैः कौसल्यानन्दवर्धनः |
न च तीक्ष्णो हि भूतानां सर्वेषां च हिते रतः || ९||

वञ्चितं पितरं दृष्ट्वा कैकेय्या सत्यवादिनम् |
करिष्यामीति धर्मात्मा ततः प्रव्रजितो वनम् || १०||

कैकेय्याः प्रियकामार्थं पितुर्दशरथस्य च |
हित्वा राज्यं च भोगांश्च प्रविष्टो दण्डकावनम् || ११||

न रामः कर्कशस्तात नाविद्वान्नाजितेन्द्रियः |
अनृतं न श्रुतं चैव नैव त्वं वक्तुमर्हसि || १२||

रामो विग्रहवान्धर्मः साधुः सत्यपराक्रमः |
राजा सर्वस्य लोकस्य देवानामिव वासवः || १३||

कथं त्वं तस्य वैदेहीं रक्षितां स्वेन तेजसा |
इच्छसि प्रसभं हर्तुं प्रभामिव विवस्वतः || १४||

शरार्चिषमनाधृष्यं चापखड्गेन्धनं रणे |
रामाग्निं सहसा दीप्तं न प्रवेष्टुं त्वमर्हसि || १५||

धनुर्व्यादितदीप्तास्यं शरार्चिषममर्षणम् |
चापबाणधरं वीरं शत्रुसेनापहारिणम् || १६||

राज्यं सुखं च सन्त्यज्य जीवितं चेष्टमात्मनः |
नात्यासादयितुं तात रामान्तकमिहार्हसि || १७||

अप्रमेयं हि तत्तेजो यस्य सा जनकात्मजा |
न त्वं समर्थस्तां हर्तुं रामचापाश्रयां वने || १८||

प्राणेभ्योऽपि प्रियतरा भार्या नित्यमनुव्रता |
दीप्तस्येव हुताशस्य शिखा सीता सुमध्यमा || १९||

किमुद्यमं व्यर्थमिमं कृत्वा ते राक्षसाधिप |
दृष्टश्चेत्त्वं रणे तेन तदन्तं तव जीवितम् |
जीवितं च सुखं चैव राज्यं चैव सुदुर्लभम् || २०||

स सर्वैः सचिवैः सार्धं विभीषणपुरस्कृतैः |
मन्त्रयित्वा तु धर्मिष्ठैः कृत्वा निश्चयमात्मनः || २१||

दोषाणां च गुणानां च सम्प्रधार्य बलाबलम् |
आत्मनश्च बलं ज्ञात्वा राघवस्य च तत्त्वतः |
हितं हि तव निश्चित्य क्षमं त्वं कर्तुमर्हसि || २२||

अहं तस्य प्रभावज्ञो न युद्धं तेन ते क्षमम् |
रणे रामेण युध्यस्व क्षमां वा कुरु राक्षस |
न ते रामकथा कार्या यदि मां द्रष्टुमिच्छसि || २३||

इदं वचो बन्धुहितार्थिना मया
यथोच्यमानं यदि नाभिपत्स्यसे |
सबान्धवस्त्यक्ष्यसि जीवितं रणे
हतोऽद्य रामेण शरैरजिह्मगैः || २४||

24

819

Maareecha tries to explain Ravana about Shri Rama's valour and dissuade him from going ahead with his plan, as that action will be fatal for the entire demon race.

40

 

 

 

 

 

 

 

 

 

 

 42

तं पथ्यहितवक्तारं मारीचं राक्षसाधिपः |
अब्रवीत्परुषं वाक्यमयुक्तं कालचोदितः || १||

त्वं तु धर्ममविज्ञाय केवलं मोहमास्थितः |

अभ्यागतं मां दौरात्म्यात्परुषं वदसीदृशम्   || २||
गुणदोषौ न पृच्छामि क्षमं चात्मनि राक्षस |
अस्मिंस्तु स भवान्कृत्ये साहार्य्यं कर्तुमर्हसि || ३||

सौवर्णस्त्वं मृगो भूत्वा चित्रो रजतबिन्दुभिः |
प्रलोभयित्वा वैदेहीं यथेष्टं गन्तुमर्हसि || ४||

त्वां तु माया मृगं दृष्ट्वा काञ्चनं जातविस्मया |
आनयैनमिति क्षिप्रं रामं वक्ष्यति मैथिली || ५||

अपक्रान्ते च काकुत्स्थे लक्ष्मणे च यथासुखम् |
आनयिष्यामि वैदेहीं सहस्राक्षः शचीम् इव || ६||

एवं कृत्वा त्विदं कार्यं यथेष्टं गच्छ राक्षस |

ततो रावणमारीचौ विमानमिव तं रथम् |
आरुह्य ययतुः शीघ्रं तस्मादाश्रममण्डलात् || ७||

तथैव तत्र पश्यन्तौ पत्तनानि वनानि च |
गिरींश्च सरितः सर्वा राष्ट्राणि नगराणि च || ८||

समेत्य दण्डकारण्यं राघवस्याश्रमं ततः |
ददर्श सहमरीचो रावणो राक्षसाधिपः || ९||

अवतीर्य रथात्तस्मात्ततः काञ्चनभूषणात् |
हस्ते गृहीत्वा मारीचं रावणो वाक्यमब्रवीत् || १०||

एतद्रामाश्रमपदं दृश्यते कदलीवृतम् |
क्रियतां तत्सखे शीघ्रं यदर्थं वयमागताः || ११||

स रावणवचः श्रुत्वा मारीचो राक्षसस्तदा |
मृगो भूत्वाश्रमद्वारि रामस्य विचचार ह || १२||

मणिप्रवरशृङ्गाग्रः सितासितमुखाकृतिः |
रक्तपद्मोत्पलमुख इन्द्रनीलोत्पलश्रवाः || १३||

किं चिदभ्युन्नत ग्रीव इन्द्रनीलनिभोदरः |
मधूकनिभपार्श्वश्च कञ्जकिञ्जल्कसंनिभः || १४||

वैदूर्यसङ्काशखुरस्तनुजङ्घः सुसंहतः |
इन्द्रायुधसवर्णेन पुच्छेनोर्ध्वं विराजितः || १५||

मनोहरस्निग्धवर्णो रत्नैर्नानाविधैर्वृतः |
क्षणेन राक्षसो जातो मृगः परमशोभनः || १६||

वनं प्रज्वलयन्रम्यं रामाश्रमपदं च तत् |
मनोहरं दर्शनीयं रूपं कृत्वा स राक्षसः || १७||

प्रलोभनार्थं वैदेह्या नानाधातुविचित्रितम् |
विचरन्गच्छते सम्यक्षाद्वलानि समन्ततः || १८||

रूप्यबिन्दुशतैश्चित्रो भूत्वा च प्रियदर्शनः |
विटपीनां किसलयान्भङ्क्त्वादन्विचचार ह || १९||

कदलीगृहकं गत्वा कर्णिकारानितस्ततः |
समाश्रयन्मन्दगतिः सीतासन्दर्शनं तदा || २०||

राजीवचित्रपृष्ठः स विरराज महामृगः |
रामाश्रमपदाभ्याशे विचचार यथासुखम् || २१||

पुनर्गत्वा निवृत्तश्च विचचार मृगोत्तमः |
गत्वा मुहूर्तं त्वरया पुनः प्रतिनिवर्तते || २२||

विक्रीडंश्च पुनर्भूमौ पुनरेव निषीदति |
आश्रमद्वारमागम्य मृगयूथानि गच्छति || २३||

मृगयूथैरनुगतः पुनरेव निवर्तते |
सीतादर्शनमाकाङ्क्षन्राक्षसो मृगतां गतः || २४||

परिभ्रमति चित्राणि मण्डलानि विनिष्पतन् |
समुद्वीक्ष्य च सर्वे तं मृगा येऽन्ये वनेचराः || २५||

उपगम्य समाघ्राय विद्रवन्ति दिशो दश |
राक्षसः सोऽपि तान्वन्यान्मृगान्मृगवधे रतः || २६||

प्रच्छादनार्थं भावस्य न भक्षयति संस्पृशन् |
तस्मिन्नेव ततः काले वैदेही शुभलोचना || २७||

कुसुमापचये व्यग्रा पादपानत्यवर्तत |
कर्णिकारानशोकांश्च चूटांश्च मदिरेक्षणा || २८||

कुसुमान्यपचिन्वन्ती चचार रुचिरानना |
अनर्हारण्यवासस्य सा तं रत्नमयं मृगम् |
मुक्तामणिविचित्राङ्गं ददर्श परमाङ्गना || २९||

तं वै रुचिरदण्तौष्ठं रूप्यधातुतनूरुहम् |
विस्मयोत्फुल्लनयना सस्नेहं समुदैक्षत || ३०||

स च तां राम दयितां पश्यन्मायामयो मृगः |
विचचार ततस्तत्र दीपयन्निव तद्वनम् || ३१||

अदृष्टपूर्वं दृष्ट्वा तं नानारत्नमयं मृगम् |
विस्मयं परमं सीता जगाम जनकात्मजा || ३२||

32

851

Provoked/Instigated by his destiny/God, the king of demons Ravana, disregarding beneficial words of advise of Maareecha, spoke harshly and ordered him to stop advising the king of demons and assist him.

And such as you are you may now listen to that task which you have to undertake during the course of your assistance as I detail it to you. On becoming an amazing silver-potted golden deer, you move in front of Seetha in the hermitage of Rama, and on verily alluring Vaidehi you can go away as you like. On seeing you as a wholly illusory golden deer curiosity arises in Vaidehi, and indeed she tells Rama, 'bring that one quickly.'

"Further, on Rama's coming out of his hermitage you go distantly and blurt out in this way, 'ha Seetha' and even as, 'ha, Lakshmana,' mimicking Rama's voice. On hearing that, and further hastened by Seetha, even Soumitri apprehensively follows the path of Rama in all his fondness for Rama. When Rama is diverted from hermitage, Lakshmana as well, I will carry off Vaidehi effortlessly. Oh, demon, on carrying out this stint in this manner you may go as you like.

With no option left, Mareecha accompanies Ravana and both reach the hermitage of Raghava in Janasthana. Then at the insistence of Ravana Maareecha assumes the form of an amazing golden Deer, and Seetha catches a sight of that deer.

इत्यार्षे श्री रामायणे अरण्यकाण्डे नवम: भाग:

 

Araṇyakāṇḍa Part-8

Araṇyakāṇḍa Part-10

 

 

No comments:

Post a Comment