Sunday, December 28, 2025

अरण्यकाण्ड - Araṇyakāṇḍa (भाग - १२ ;;; Part – 12)

 

अरण्यकाण्ड - Arayakāṇḍa (भाग - १२ ;;; Part – 12)

Sarga number as per Ramayana

Shlokas extracted

No. of shlokas

Cumulative number of shlokas in this Kanda

50

तं शब्दमवसुप्तस्य जटायुरथ शुश्रुवे |
निरैक्षद्रावणं क्षिप्रं वैदेहीं च ददर्श सः || १||

ततः पर्वतकूटाभस्तीक्ष्णतुण्डः खगोत्तमः |
वनस्पतिगतः श्रीमान्व्याजहार शुभां गिरम् || २||

दशग्रीवस्थितो धर्मे पुराणे सत्यसंश्रयः |
जटायुर्नाम नाम्नाहं गृध्रराजो महाबलः || ३||

राजा सर्वस्य लोकस्य महेन्द्रवरुणोपमः |
लोकानां च हिते युक्तो रामो दशरथात्मजः || ४||

तस्यैषा लोकनाथस्य धर्मपत्नी यशस्विनी |
सीता नाम वरारोहा यां त्वं हर्तुमिहेच्छसि || ५||

कथं राजा स्थितो धर्मे परदारान्परामृशेत् |
रक्षणीया विशेषेण राजदारा महाबलः |
निवर्तय मतिं नीचां परदाराभिमर्शनम् || ६||

न तत्समाचरेद्धीरो यत्परोऽस्य विगर्हयेत् |
यथात्मनस्तथान्येषां दारा रक्ष्या विमर्शनात् || ७||

अर्थं वा यदि वा कामं शिष्टाः शास्त्रेष्वनागतम् |
व्यवस्यन्त्यनु राजानं धर्मं पौरस्त्यनन्दन || ८||

राजा धर्मश्च कामश्च द्रव्याणां चोत्तमो निधिः |
धर्मः शुभं वा पापं वा राजमूलं प्रवर्तते || ९||

पापस्वभावश्चपलः कथं त्वं रक्षसां वर |
ऐश्वर्यमभिसम्प्राप्तो विमानमिव दुष्कृती || १०||

कामस्वभावो यो यस्य न स शक्यः प्रमार्जितुम् |
न हि दुष्टात्मनामार्य मा वसत्यालये चिरम् || ११||

विषये वा पुरे वा ते यदा रामो महाबलः |
नापराध्यति धर्मात्मा कथं तस्यापराध्यसि || १२||

यदि शूर्पणखाहेतोर्जनस्थानगतः खरः |
अतिवृत्तो हतः पूर्वं रामेणाक्लिष्टकर्मणा || १३||

अत्र ब्रूहि यथासत्यं को रामस्य व्यतिक्रमः |
यस्य त्वं लोकनाथस्य हृत्वा भार्यां गमिष्यसि || १४||

क्षिप्रं विसृज वैदेहीं मा त्वा घोरेण चक्षुषा |
दहेद्दहन भूतेन वृत्रमिन्द्राशनिर्यथा || १५||

सर्पमाशीविषं बद्ध्वा वस्त्रान्ते नावबुध्यसे |
ग्रीवायां प्रतिमुक्तं च कालपाशं न पश्यसि || १६||

स भारः सौम्य भर्तव्यो यो नरं नावसादयेत् |
तदन्नमुपभोक्तव्यं जीर्यते यदनामयम् || १७||

यत्कृत्वा न भवेद्धर्मो न कीर्तिर्न यशो भुवि |
शरीरस्य भवेत्खेदः कस्तत्कर्म समाचरेत् || १८||

षष्टिवर्षसहस्राणि मम जातस्य रावण |
पितृपैतामहं राज्यं यथावदनुतिष्ठतः || १९||

वृद्धोऽहं त्वं युवा धन्वी सरथः कवची शरी |
तथाप्यादाय वैदेहीं कुशली न गमिष्यसि || २०||

न शक्तस्त्वं बलाद्धर्तुं वैदेहीं मम पश्यतः |
हेतुभिर्न्यायसंयुक्तैर्ध्रुवां वेदश्रुतीम् इव || २१||

युध्यस्व यदि शूरोऽसि मुहूर्तं तिष्ठ रावण |
शयिष्यसे हतो भूमौ यथापूर्वं खरस्तथा || २२||

असकृत्संयुगे येन निहता दैत्यदानवाः |
नचिराच्चीरवासास्त्वां रामो युधि वधिष्यति || २३||

किं नु शक्यं मया कर्तुं गतौ दूरं नृपात्मजौ |
क्षिप्रं त्वं नश्यसे नीच तयोर्भीतो न संशयः || २४||

न हि मे जीवमानस्य नयिष्यसि शुभामिमाम् |
सीतां कमलपत्राक्षीं रामस्य महषीं प्रियाम् || २५||

अवश्यं तु मया कार्यं प्रियं तस्य महात्मनः |
जीवितेनापि रामस्य तथा दशरथस्य च || २६||

तिष्ठ तिष्ठ दशग्रीव मुहूर्तं पश्य रावण |
युद्धातिथ्यं प्रदास्यामि यथाप्राणं निशाचर |
वृन्तादिव फलं त्वां तु पातयेयं रथोत्तमात् || २७||

27

1080

Upon hearing the wailing of Seetha, Jataayu, inspite of his old age, confronts Ravana. He advises Ravana to desist from abduct other’s wife, but invain. Then, he courageously attacks Ravana.

51

इत्युक्तस्य यथान्यायं रावणस्य जटायुषा |
क्रुद्धस्याग्निनिभाः सर्वा रेजुर्विंशतिदृष्टयः || १||

संरक्तनयनः कोपात्तप्तकाञ्चनकुण्डलः |
राक्षसेन्द्रोऽभिदुद्राव पतगेन्द्रममर्षणः || २||

स सम्प्रहारस्तुमुलस्तयोस्तस्मिन्महावने |
बभूव वातोद्धतयोर्मेघयोर्गगने यथा || ३||

तद्बभूवाद्भुतं युद्धं गृध्रराक्षसयोस्तदा |
सपक्षयोर्माल्यवतोर्महापर्वतयोरिव || ४||

ततो नालीकनाराचैस्तीक्ष्णाग्रैश्च विकर्णिभिः |
अभ्यवर्षन्महाघोरैर्गृध्रराजं महाबलः || ५||

स तानि शरजालानि गृध्रः पत्ररथेश्वरः |
जटायुः प्रतिजग्राह रावणास्त्राणि संयुगे || ६||

तस्य तीक्ष्णनखाभ्यां तु चरणाभ्यां महाबलः |
चकार बहुधा गात्रे व्रणान्पतगसत्तमः || ७||

अथ क्रोधाद्दशग्रीवो जग्राह दशमार्गणान् |
मृत्युदण्डनिभान्घोराञ्शत्रुमर्दनकाङ्क्षया || ८||

स तैर्बाणैर्महावीर्यः पूर्णमुक्तैरजिह्मगैः |
बिभेद निशितैस्तीक्ष्णैर्गृध्रं घोरैः शिलीमुखैः || ९||

स राक्षसरथे पश्यञ्जानकीं बाष्पलोचनाम् |
अचिन्तयित्वा बाणांस्तान्राक्षसं समभिद्रवत् || १०||

ततोऽस्य सशरं चापं मुक्तामणिविभूषितम् |
चरणाभ्यां महातेजा बभञ्ज पतगेश्वरः || ११||

तच्चाग्निसदृशं दीप्तं रावणस्य शरावरम् |
पक्षाभ्यां च महातेजा व्यधुनोत्पतगेश्वरः || १२||

काञ्चनोरश्छदान्दिव्यान्पिशाचवदनान्खरान् |
तांश्चास्य जवसम्पन्नाञ्जघान समरे बली || १३||

वरं त्रिवेणुसम्पन्नं कामगं पावकार्चिषम् |
मणिहेमविचित्राङ्गं बभञ्ज च महारथम् |
पूर्णचन्द्रप्रतीकाशं छत्रं च व्यजनैः सह || १४||

स भग्नधन्वा विरथो हताश्वो हतसारथिः |
अङ्केनादाय वैदेहीं पपात भुवि रावणः || १५||

दृष्ट्वा निपतितं भूमौ रावणं भग्नवाहनम् |
साधु साध्विति भूतानि गृध्रराजमपूजयन् || १६||

परिश्रान्तं तु तं दृष्ट्वा जरया पक्षियूथपम् |
उत्पपात पुनर्हृष्टो मैथिलीं गृह्य रावणः || १७||

तं प्रहृष्टं निधायाङ्के गच्छन्तं जनकात्मजाम् |
गृध्रराजः समुत्पत्य जटायुरिदमब्रवीत् || १८||

वज्रसंस्पर्शबाणस्य भार्यां रामस्य रावण |
अल्पबुद्धे हरस्येनां वधाय खलु रक्षसाम् || १९||

समित्रबन्धुः सामात्यः सबलः सपरिच्छदः |
विषपानं पिबस्येतत्पिपासित इवोदकम् || २०||

अनुबन्धमजानन्तः कर्मणामविचक्षणाः |
शीघ्रमेव विनश्यन्ति यथा त्वं विनशिष्यसि || २१||

बद्धस्त्वं कालपाशेन क्व गतस्तस्य मोक्ष्यसे |
वधाय बडिशं गृह्य सामिषं जलजो यथा || २२||

न हि जातु दुराधर्षौ काकुत्स्थौ तव रावण |
धर्षणं चाश्रमस्यास्य क्षमिष्येते तु राघवौ || २३||

यथा त्वया कृतं कर्म भीरुणा लोकगर्हितम् |
तस्कराचरितो मार्गो नैष वीरनिषेवितः || २४||

युध्यस्व यदि शूरोऽसि मुहूर्तं तिष्ठ रावण |
शयिष्यसे हतो भूमौ यथा भ्राता खरस्तथा || २५||

परेतकाले पुरुषो यत्कर्म प्रतिपद्यते |
विनाशायात्मनोऽधर्म्यं प्रतिपन्नोऽसि कर्म तत् || २६||

पापानुबन्धो वै यस्य कर्मणः को नु तत्पुमान् |
कुर्वीत लोकाधिपतिः स्वयम्भूर्भगवानपि || २७||

एवमुक्त्वा शुभं वाक्यं जटायुस्तस्य रक्षसः |
निपपात भृशं पृष्ठे दशग्रीवस्य वीर्यवान् || २८||

तं गृहीत्वा नखैस्तीक्ष्णैर्विरराद समन्ततः |
अधिरूढो गजारोहि यथा स्याद्दुष्टवारणम् || २९||

विरराद नखैरस्य तुण्डं पृष्ठे समर्पयन् |
केशांश्चोत्पाटयामास नखपक्षमुखायुधः || ३०||

स तथा गृध्रराजेन क्लिश्यमानो मुहुर्मुहुः |
अमर्षस्फुरितौष्ठः सन्प्राकम्पत स राक्षसः || ३१||

सम्परिष्वज्य वैदेहीं वामेनाङ्केन रावणः |
तलेनाभिजघानार्तो जटायुं क्रोधमूर्छितः || ३२||

जटायुस्तमतिक्रम्य तुण्डेनास्य खराधिपः |
वामबाहून्दश तदा व्यपाहरदरिन्दमः || ३३||

ततः क्रुद्धो दशक्रीवः सीतामुत्सृज्य वीर्यवान् |
मुष्टिभ्यां चरणाभ्यां च गृध्रराजमपोथयत् || ३४||

ततो मुहूर्तं सङ्ग्रामो बभूवातुलवीर्ययोः |
राक्षसानां च मुख्यस्य पक्षिणां प्रवरस्य च || ३५||

तस्य व्यायच्छमानस्य रामस्यार्थेऽथ रावणः |
पक्षौ पादौ च पार्श्वौ च खड्गमुद्धृत्य सोऽच्छिनत् || ३६||

स छिन्नपक्षः सहसा रक्षसा रौद्रकर्मणा |
निपपात हतो गृध्रो धरण्यामल्पजीवितः || ३७||

तं दृष्ट्वा पतितं भूमौ क्षतजार्द्रं जटायुषम् |
अभ्यधावत वैदेही स्वबन्धुमिव दुःखिता || ३८||

तं नीलजीमूतनिकाशकल्पं
सुपाण्डुरोरस्कमुदारवीर्यम् |
ददर्श लङ्काधिपतिः पृथिव्यां
जटायुषं शान्तमिवाग्निदावम् || ३९||

ततस्तु तं पत्ररथं महीतले
निपातितं रावणवेगमर्दितम् |
पुनः परिष्वज्य शशिप्रभानना
रुरोद सीता जनकात्मजा तदा || ४०||

40

1120

Then Jataayu shatters Ravana's bows, arrows, and chariot and kills the mules of the chariot and plucks off the head of the charioteer with his beak. Further, Jataayu attacks on the body of Ravana wounding him severally. Enraged at the Jatayu’s attack, Ravana severs that eagle's wings, feet, and sides. Then, seeing that fallen eagle Seetha weeps over, as if Jataayu is her own relative.

52

तमल्पजीवितं भूमौ स्फुरन्तं राक्षसाधिपः |
ददर्श गृध्रं पतितं समीपे राघवाश्रमात् || १||

सा तु ताराधिपमुखी रावणेन समीक्ष्य तम् |
गृध्रराजं विनिहतं विललाप सुदुःखिता || २||

निमित्तं लक्षणज्ञानं शकुनिस्वरदर्शनम् |
अवश्यं सुखदुःखेषु नराणां प्रतिदृश्यते || ३||

न नूनं राम जानासि महद्व्यसनमात्मजः |
धावन्ति नूनं काकुत्स्थ मदर्थं मृगपक्षिणः || ४||

त्राहि मामद्य काकुत्स्थ लक्ष्मणेति वराङ्गना |
सुसन्त्रस्ता समाक्रन्दच्छृण्वतां तु यथान्तिके || ५||

तां क्लिष्टमाल्याभरणां विलपन्तीमनाथवत् |
अभ्यधावत वैदेहीं रावणो राक्षसाधिपः || ६||

तां लतामिव वेष्टन्तीमालिङ्गन्तीं महाद्रुमान् |
मुञ्च मुञ्चेति बहुशः प्रवदन्राक्षसाधिपः || ७||

क्रोशन्तीं राम रामेति रामेण रहितां वने |
जीवितान्ताय केशेषु जग्राहान्तकसंनिभः || ८||

प्रधर्षितायां वैदेह्यां बभूव सचराचरम् |
जगत्सर्वममर्यादं तमसान्धेन संवृतम् || ९||

दृष्ट्वा सीतां परामृष्टां दीनां दिव्येन चक्षुषा |
कृतं कार्यमिति श्रीमान्व्याजहार पितामहः || १०||

प्रहृष्टा व्यथिताश्चासन्सर्वे ते परमर्षयः |
दृष्ट्वा सीतां परामृष्टां दण्डकारण्यवासिनः || ११||

स तु तां राम रामेति रुदन्तीं लक्ष्मणेति च |
जगामाकाशमादाय रावणो राक्षसाधिपः || १२||

तप्ताभरणसर्वाङ्गी पीतकौशेयवासनी |
रराज राजपुत्री तु विद्युत्सौदामनी यथा || १३||

उद्धूतेन च वस्त्रेण तस्याः पीतेन रावणः |
अधिकं परिबभ्राज गिरिर्दीप इवाग्निना || १४||

तस्याः परमकल्याण्यास्ताम्राणि सुरभीणि च |
पद्मपत्राणि वैदेह्या अभ्यकीर्यन्त रावणम् || १५||

तस्याः कौशेयमुद्धूतमाकाशे कनकप्रभम् |
बभौ चादित्यरागेण ताम्रमभ्रमिवातपे || १६||

तस्यास्तद्विमलं वक्त्रमाकाशे रावणाङ्कगम् |
न रराज विना रामं विनालमिव पङ्कजम् || १७||

बभूव जलदं नीलं भित्त्वा चन्द्र इवोदितः |
सुललाटं सुकेशान्तं पद्मगर्भाभमव्रणम् |
शुक्लैः सुविमलैर्दन्तैः प्रभावद्भिरलङ्कृतम् || १८||

रुदितं व्यपमृष्टास्त्रं चन्द्रवत्प्रियदर्शनम् |
सुनासं चारुताम्रौष्ठमाकाषे हाटकप्रभम् || १९||

राक्षसेन्द्रसमाधूतं तस्यास्तद्वचनं शुभम् |
शुशुभे न विना रामं दिवा चन्द्र इवोदितः || २०||

सा हेमवर्णा नीलाङ्गं मैथिली राक्षसाधिपम् |
शुशुभे काञ्चनी काञ्ची नीलं मणिमिवाश्रिता || २१||

सा पद्मगौरी हेमाभा रावणं जनकात्मजा |
विद्युद्घनमिवाविश्य शुशुभे तप्तभूषणा || २२||

तस्या भूषणघोषेण वैदेह्या राक्षसाधिपः |
बभूव विमलो नीलः सघोष इव तोयदः || २३||

उत्तमाङ्गच्युता तस्याः पुष्पवृष्टिः समन्ततः |
सीताया ह्रियमाणायाः पपात धरणीतले || २४||

सा तु रावणवेगेन पुष्पवृष्टिः समन्ततः |
समाधूता दशग्रीवं पुनरेवाभ्यवर्तत || २५||

अभ्यवर्तत पुष्पाणां धारा वैश्रवणानुजम् |
नक्षत्रमालाविमला मेरुं नगमिवोत्तमम् || २६||

चरणान्नूपुरं भ्रष्टं वैदेह्या रत्नभूषितम् |
विद्युन्मण्डलसङ्काशं पपात मधुरस्वनम् || २७||

तरुप्रवालरक्ता सा नीलाङ्गं राक्षसेश्वरम् |
प्राशोभयत वैदेही गजं कष्येव काञ्चनी || २८||

तां महोल्कामिवाकाशे दीप्यमानां स्वतेजसा |
जहाराकाशमाविश्य सीतां वैश्रवणानुजः || २९||

तस्यास्तान्यग्निवर्णानि भूषणानि महीतले |
सघोषाण्यवकीर्यन्त क्षीणास्तारा इवाम्बरात् || ३०||

तस्याः स्तनान्तराद्भ्रष्टो हारस्ताराधिपद्युतिः |
वैदेह्या निपतन्भाति गङ्गेव गगनाच्च्युता || ३१||

उत्पात वाताभिहता नानाद्विज गणायुताः |
मा भैरिति विधूताग्रा व्याजह्रुरिव पादपाः || ३२||

नलिन्यो ध्वस्तकमलास्त्रस्तमीनजले चराः |
सखीमिव गतोत्साहां शोचन्तीव स्म मैथिलीम् || ३३||

समन्तादभिसम्पत्य सिंहव्याघ्रमृगद्विजाः |
अन्वधावंस्तदा रोषात्सीताच्छायानुगामिनः || ३४||

जलप्रपातास्रमुखाः शृङ्गैरुच्छ्रितबाहवः |
सीतायां ह्रियमाणायां विक्रोशन्तीव पर्वताः || ३५||

ह्रियमाणां तु वैदेहीं दृष्ट्वा दीनो दिवाकरः |
प्रविध्वस्तप्रभः श्रीमानासीत्पाण्डुरमण्डलः || ३६||

नास्ति धर्मः कुतः सत्यं नार्जवं नानृशंसता |
यत्र रामस्य वैदेहीं भार्यां हरति रावणः || ३७||

इति सर्वाणि भूतानि गणशः पर्यदेवयन् |
वित्रस्तका दीनमुखा रुरुदुर्मृगपोतकाः || ३८||

उद्वीक्ष्योद्वीक्ष्य नयनैरास्रपाताविलेक्षणाः |
सुप्रवेपितगात्राश्च बभूवुर्वनदेवताः || ३९||

विक्रोशन्तीं दृढं सीतां दृष्ट्वा दुःखं तथा गताम् |
तां तु लक्ष्मण रामेति क्रोशन्तीं मधुरस्वराम् || ४०||

अवेक्षमाणां बहुषो वैदेहीं धरणीतलम् |
स तामाकुलकेशान्तां विप्रमृष्टविशेषकाम् |
जहारात्मविनाशाय दशग्रीवो मनस्विनाम् || ४१||

ततस्तु सा चारुदती शुचिस्मिता
विनाकृता बन्धुजनेन मैथिली |
अपश्यती राघवलक्ष्मणावुभौ
विवर्णवक्त्रा भयभारपीडिता || ४२||

42

1162

With his charioteer dead and chariot gone, Ravana catches hold of Seeta with his hand, and rises into the sky and quickly moves towards his Lanka, while Seeta was crying “Rama , Lakshmana”.

इत्यार्षे श्री रामायणे अरण्यकाण्डे द्वादश: भाग:

 

Araṇyakāṇḍa Part-11

Araṇyakāṇḍa Part-13

 

No comments:

Post a Comment