अरण्यकाण्ड - Araṇyakāṇḍa (भाग - १४
;;; Part – 14)
|
Sarga
number as per Ramayana |
Shlokas
extracted |
No. of shlokas |
Cumulative number of shlokas in this
Kanda |
|
56 |
सा
तथोक्ता तु वैदेही निर्भया शोककर्षिता | राजा
दशरथो नाम धर्मसेतुरिवाचलः | रामो
नाम स धर्मात्मा त्रिषु लोकेषु विश्रुतः | इक्ष्वाकूणां कुले जातः सिंहस्कन्धो महाद्युतिः | प्रत्यक्षं यद्यहं तस्य त्वया स्यां धर्षिता बलात् | य
एते राक्षसाः प्रोक्ता घोररूपा महाबलाः | तस्य
ज्याविप्रमुक्तास्ते शराः काञ्चनभूषणाः | असुरैर्वा सुरैर्वा त्वं यद्यवधोऽसि रावण | स
ते जीवितशेषस्य राघवोऽन्तकरो बली | यदि
पश्येत्स रामस्त्वां रोषदीप्तेन चक्षुषा | यश्चन्द्रं नभसो भूमौ पातयेन्नाशयेत वा | गतायुस्त्वं गतश्रीको गतसत्त्वो गतेन्द्रियः | न
ते पापमिदं कर्म सुखोदर्कं भविष्यति | स
हि दैवतसंयुक्तो मम भर्ता महाद्युतिः | स
ते दर्पं बलं वीर्यमुत्सेकं च तथाविधम् | यदा
विनाशो भूतानां दृश्यते कालचोदितः | मां
प्रधृष्य स ते कालः प्राप्तोऽयं रक्षसाधम | न
शक्या यज्ञमध्यस्था वेदिः स्रुग्भाण्ड मण्डिता | इदं
शरीरं निःसंज्ञं बन्ध वा घातयस्व वा | एवमुक्त्वा तु वैदेही क्रोद्धात्सुपरुषं वचः | सीताया वचनं श्रुत्वा परुषं रोमहर्षणम् | शृणु
मैथिलि मद्वाक्यं मासान्द्वादश भामिनि | इत्युक्त्वा परुषं वाक्यं रावणः शत्रुरावणः | शीघ्रमेवं हि राक्षस्यो विकृता घोरदर्शनाः | वचनादेव तास्तस्य विकृता घोरदर्शनाः | स
ताः प्रोवाच राजा तु रावणो घोरदर्शनः | अशोकवनिकामध्ये मैथिली नीयताम् इति | तत्रैनां तर्जनैर्घोरैः पुनः सान्त्वैश्च मैथिलीम् | इति
प्रतिसमादिष्टा राक्षस्यो रावणेन ताः | सर्वकामफलैर्वृक्षैर्नानापुष्पफलैर्वृताम् | सा
तु शोकपरीताङ्गी मैथिली जनकात्मजा | न
विन्दते तत्र तु शर्म मैथिली |
32 |
1283 |
|
Seetha retorts Ravana’s
vainglorious boast of his riches, strength of army, with her devotion towards
her husband. When he finds that Seeta
is not easily to be convinced, he ordered Seeta to be stationed in Ashoka
Garden, in the care of women demons. |
|||
|
57 |
तं
दीनमानसं दीनमासेदुर्मृगपक्षिणः | तानि
दृष्ट्वा निमित्तानि महाघोराणि राघवः | ततोऽविदूरे रामेण समीयाय स लक्ष्मणः | सञ्जगर्हेऽथ तं भ्राता जेष्ठो लक्ष्मणमागतम् | गृहीत्वा च करं सव्यं लक्ष्मणं रघुनन्दनः | अहो
लक्ष्मण गर्ह्यं ते कृतं यत्त्वं विहाय ताम् | न
मेऽस्ति संशयो वीर सर्वथा जनकात्मजा | अशुभान्येव भूयिष्ठं यथा प्रादुर्भवन्ति मे | मनश्च
मे दीनमिहाप्रहृष्टं एवमुक्तस्तु सौमित्रिर्लक्ष्मणः शुभलक्षणः | भूयो
दुःखसमाविष्टो दुःखितं राममब्रवीत् || १०|| आर्येणेव परिक्रुष्टं हा सीते लक्ष्मणेति च | परित्राहीति यद्वाक्यं मैथिल्यास्तच्छ्रुतिं गतम् || ११|| सा
तमार्तस्वरं श्रुत्वा तव स्नेहेन मैथिली | गच्छ
गच्छेति मामाह रुदन्ती भयविह्वला || १२|| एवमुक्तो हि वैदेह्या संरब्धो रक्तलोचनः | क्रोधात्प्रस्फुरमाणौष्ठ आश्रमादभिनिर्गतः || १३|| एवं
ब्रुवाणं सौमित्रिं रामः सन्तापमोहितः | अब्रवीद्दुष्कृतं सौम्य तां विना यत्त्वमागतः || १४|| जानन्नपि समर्थं मां रक्षसां विनिवारणे | अनेन
क्रोधवाक्येन मैथिल्या निःसृतो भवान् || १५|| न
हि ते परितुष्यामि त्यक्त्वा यद्यासि मैथिलीम् | क्रुद्धायाः परुषं श्रुत्वा स्त्रिया यत्त्वमिहागतः || १६|| |
16 |
1299 |
|
Shri Rama meets
Lakshmana while returning to hermitage. He also experiences some ill omens
and worries why Lakshmana left Seetha alone and came to him. |
|||
|
60 |
भृशमाव्रजमानस्य तस्याधोवामलोचनम् | उपालक्ष्य निमित्तानि सोऽशुभानि मुहुर्मुहुः | त्वरमाणो जगामाथ सीतादर्शनलालसः | उद्भ्रमन्निव वेगेन विक्षिपन्रघुनन्दनः | ददर्श
पर्णशालां च रहितां सीतया तदा | रुदन्तमिव वृक्षैश्च म्लानपुष्पमृगद्विजम् | विप्रकीर्णाजिनकुशं विप्रविद्धबृसीकटम् | हृता
मृता वा नष्टा वा भक्षिता वा भविष्यति | गता
विचेतुं पुष्पाणि फलान्यपि च वा पुनः | यत्नान्मृगयमाणस्तु नाससाद वने प्रियाम् | वृक्षाद्वृक्षं प्रधावन्स गिरींश्चापि नदीन्नदीम् | अस्ति
कच्चित्त्वया दृष्टा सा कदम्बप्रिया प्रिया | स्निग्धपल्लवसङ्काशां पीतकौशेयवासिनीम् | अथ
वार्जुन शंस त्वं प्रियां तामर्जुनप्रियाम् | ककुभः
ककुभोरुं तां व्यक्तं जानाति मैथिलीम् | भ्रमरैरुपगीतश्च यथा द्रुमवरो ह्ययम् | अशोकशोकापनुद शोकोपहतचेतसं | यदि
ताल त्वया दृष्टा पक्वतालफलस्तनी | यदि
दृष्टा त्वया सीता जम्बुजाम्बूनदप्रभा | अथ
वा मृगशावाक्षीं मृग जानासि मैथिलीम् | गज
सा गजनासोरुर्यदि दृष्टा त्वया भवेत् | शार्दूल यदि सा दृष्टा प्रिया चन्द्रनिभानना | किं
धावसि प्रिये नूनं दृष्टासि कमलेक्षणे | तिष्ठ
तिष्ठ वरारोहे न तेऽस्ति करुणा मयि | पीतकौशेयकेनासि सूचिता वरवर्णिनि | नैव
सा नूनमथ वा हिंसिता चारुहासिनी | व्यक्तं सा भक्षिता बाला राक्षसैः पिशिताशनैः | नूनं
तच्छुभदन्तौष्ठं मुखं निष्प्रभतां गतम् | कोमला
विलपन्त्यास्तु कान्ताया भक्षिता शुभा | भक्षितौ वेपमानाग्रौ सहस्ताभरणाङ्गदौ | सार्थेनेव परित्यक्ता भक्षिता बहुबान्धवा | हा
प्रिये क्व गता भद्रे हा सीतेति पुनः पुनः | क्व
चिदुद्भ्रमते वेगात्क्व चिद्विभ्रमते बलात् | स
वनानि नदीः शैलान्गिरिप्रस्रवणानि च | तथा
स गत्वा विपुलं महद्वनं |
35 |
1334 |
|
Shri Rama laments for
Seetha's separation. He and Lakshmana start searching for her. |
|||
इत्यार्षे श्री
रामायणे अरण्यकाण्डे चतुर्दश: भाग:
No comments:
Post a Comment