Sunday, December 28, 2025

अरण्यकाण्ड - Araṇyakāṇḍa (भाग - १५ ;;; Part – 15)

 

अरण्यकाण्ड - Arayakāṇḍa (भाग - १५ ;;; Part – 15)

Sarga number as per Ramayana

Shlokas extracted

No. of shlokas

Cumulative number of shlokas in this Kanda

61

दृष्टाश्रमपदं शून्यं रामो दशरथात्मजः |
रहितां पर्णशालां च विध्वस्तान्यासनानि च || १||

अदृष्ट्वा तत्र वैदेहीं संनिरीक्ष्य च सर्वशः |
उवाच रामः प्राक्रुश्य प्रगृह्य रुचिरौ भुजौ || २||

क्व नु लक्ष्मण वैदेही कं वा देशमितो गता |
केनाहृता वा सौमित्रे भक्षिता केन वा प्रिया || ३||

वृष्केणावार्य यदि मां सीते हसितुमिच्छसि |
अलं ते हसितेनाद्य मां भजस्व सुदुःखितम् || ४||

यैः सह क्रीडसे सीते विश्वस्तैर्मृगपोतकैः |
एते हीनास्त्वया सौम्ये ध्यायन्त्यस्राविलेक्षणाः || ५||

मृतं शोकेन महता सीताहरणजेन माम् |
परलोके महाराजो नूनं द्रक्ष्यति मे पिता || ६||

कथं प्रतिज्ञां संश्रुत्य मया त्वमभियोजितः |
अपूरयित्वा तं कालं मत्सकाशमिहागतः || ७||

कामवृत्तमनार्यं मां मृषावादिनमेव च |
धिक्त्वामिति परे लोके व्यक्तं वक्ष्यति मे पिता || ८||

विवशं शोकसन्तप्तं दीनं भग्नमनोरथम् |
मामिहोत्सृज्य करुणं कीर्तिर्नरमिवानृजुम् || ९||

क्व गच्छसि वरारोहे मामुत्सृज्य सुमध्यमे |
त्वया विरहितश्चाहं मोक्ष्ये जीवितमात्मनः || १०||

इतीव विलपन्रामः सीतादर्शनलालसः |
न ददर्श सुदुःखार्तो राघवो जनकात्मजाम् || ११||

अनासादयमानं तं सीतां दशरथात्मजम् |
पङ्कमासाद्य विपुलं सीदन्तमिव कुञ्जरम् |
लक्ष्मणो राममत्यर्थमुवाच हितकाम्यया || १२||

मा विषादं महाबाहो कुरु यत्नं मया सह |
इदं च हि वनं शूर बहुकन्दरशोभितम् || १३||

प्रियकाननसञ्चारा वनोन्मत्ता च मैथिली |
सा वनं वा प्रविष्टा स्यान्नलिनीं वा सुपुष्पिताम् || १४||

सरितं वापि सम्प्राप्ता मीनवञ्जुरसेविताम् |
वित्रासयितुकामा वा लीना स्यात्कानने क्व चित् |
जिज्ञासमाना वैदेही त्वां मां च पुरुषर्षभ || १५||

तस्या ह्यन्वेषणे श्रीमन्क्षिप्रमेव यतावहे |
वनं सर्वं विचिनुवो यत्र सा जनकात्मजा |
मन्यसे यदि काकुत्स्थ मा स्म शोके मनः कृथाः || १६||

एवमुक्तस्तु सौहार्दाल्लक्ष्मणेन समाहितः |
सह सौमित्रिणा रामो विचेतुमुपचक्रमे |
तौ वनानि गिरींश्चैव सरितश्च सरांसि च || १७||

निखिलेन विचिन्वन्तौ सीतां दशरथात्मजौ |
तस्य शैलस्य सानूनि गुहाश्च शिखराणि च || १८||

निखिलेन विचिन्वन्तौ नैव तामभिजग्मतुः |
विचित्य सर्वतः शैलं रामो लक्ष्मणमब्रवीत् || १९||

नेह पश्यामि सौमित्रे वैदेहीं पर्वते शुभे |
ततो दुःखाभिसन्तप्तो लक्ष्मणो वाक्यमब्रवीत् || २०||

विचरन्दण्डकारण्यं भ्रातरं दीप्ततेजसं |
प्राप्स्यसि त्वं महाप्राज्ञ मैथिलीं जनकात्मजाम् || २१||

यथा विष्णुर्महाबाहुर्बलिं बद्ध्वा महीमिमाम् |
एवमुक्तस्तु वीरेण लक्ष्मणेन स राघवः || २२||

उवाच दीनया वाचा दुःखाभिहतचेतनः |
वनं सर्वं सुविचितं पद्मिन्यः फुल्लपङ्कजाः || २३||

गिरिश्चायं महाप्राज्ञ बहुकन्दरनिर्झरः |
न हि पश्यामि वैदेहीं प्राणेभ्योऽपि गरीयसीम् || २४||

एवं स विलपन्रामः सीताहरणकर्शितः |
दीनः शोकसमाविष्टो मुहूर्तं विह्वलोऽभवत् || २५||

स विह्वलितसर्वाङ्गो गतबुद्धिर्विचेतनः |
विषसादातुरो दीनो निःश्वस्याशीतमायतम् || २६||

बहुशः स तु निःश्वस्य रामो राजीवलोचनः |
हा प्रियेति विचुक्रोश बहुशो बाष्पगद्गदः || २७||

तं सान्त्वयामास ततो लक्ष्मणः प्रियबान्धवः |
बहुप्रकारं धर्मज्ञः प्रश्रितः प्रश्रिताञ्जलिः || २८||

अनादृत्य तु तद्वाक्यं लक्ष्मणौष्ठपुटच्युतम् |
अपश्यंस्तां प्रियां सीतां प्राक्रोशत्स पुनः पुनः || २९||

29

1363

Shri Rama laments for Seetha and becomes despondent, but at the advice of Lakshmana both of them start a search for Seetha, presuming that she might be available in the proximity.

64

स दीनो दीनया वाचा लक्ष्मणं वाक्यमब्रवीत् |
शीघ्रं लक्ष्मण जानीहि गत्वा गोदावरीं नदीम् |
अपि गोदावरीं सीता पद्मान्यानयितुं गता || १||

एवमुक्तस्तु रामेण लक्ष्मणः पुनरेव हि |
नदीं गोदावरीं रम्यां जगाम लघुविक्रमः || २||

तां लक्ष्मणस्तीर्थवतीं विचित्वा राममब्रवीत् |
नैनां पश्यामि तीर्थेषु क्रोशतो न शृणोति मे || ३||

कं नु सा देशमापन्ना वैदेही क्लेशनाशिनी |
न हि तं वेद्मि वै राम यत्र सा तनुमध्यमा || ४||

लक्ष्मणस्य वचः श्रुत्वा दीनः सन्ताप मोहितः |
रामः समभिचक्राम स्वयं गोदावरीं नदीम् || ५||

स तामुपस्थितो रामः क्व सीतेत्येवमब्रवीत् || ६||

भूतानि राक्षसेन्द्रेण वधार्हेण हृताम् अपि |
न तां शशंसू रामाय तथा गोदावरी नदी || ७||

ततः प्रचोदिता भूतैः शंसास्मै तां प्रियाम् इति |
न च साभ्यवदत्सीतां पृष्टा रामेण शोचिता || ८||

रावणस्य च तद्रूपं कर्माणि च दुरात्मनः |
ध्यात्वा भयात्तु वैदेहीं सा नदी न शशंस ताम् || ९||

निराशस्तु तया नद्या सीताया दर्शने कृतः |
उवाच रामः सौमित्रिं सीतादर्शनकर्शितः || १०||

किं नु लक्ष्मण वक्ष्यामि समेत्य जनकं वचः |
मातरं चैव वैदेह्या विना ताम् अहमप्रियम् || ११||

या मे राज्यविहीनस्य वने वन्येन जीवतः |
सर्वं व्यपनयच्छोकं वैदेही क्व नु सा गता || १२||

ज्ञातिपक्षविहीनस्य राजपुत्रीमपश्यतः |
मन्ये दीर्घा भविष्यन्ति रात्रयो मम जाग्रतः || १३||

गोदावरीं जनस्थानमिमं प्रस्रवणं गिरिम् |
सर्वाण्यनुचरिष्यामि यदि सीता हि दृश्यते || १४||

एवं सम्भाषमाणौ तावन्योन्यं भ्रातरावुभौ |
वसुन्धरायां पतितं पुष्पमार्गमपश्यताम् || १५||

तां पुष्पवृष्टिं पतितां दृष्ट्वा रामो महीतले |
उवाच लक्ष्मणं वीरो दुःखितो दुःखितं वचः || १६||

अभिजानामि पुष्पाणि तानीमामीह लक्ष्मण |
अपिनद्धानि वैदेह्या मया दत्तानि कानने || १७||

एवमुक्त्वा महाबाहुर्लक्ष्मणं पुरुषर्षभम् |
क्रुद्धोऽब्रवीद्गिरिं तत्र सिंहः क्षुद्रमृगं यथा || १८||

तां हेमवर्णां हेमाभां सीतां दर्शय पर्वत |
यावत्सानूनि सर्वाणि न ते विध्वंसयाम्यहम् || १९||

मम बाणाग्निनिर्दग्धो भस्मीभूतो भविष्यसि |
असेव्यः सततं चैव निस्तृणद्रुमपल्लवः || २०||

इमां वा सरितं चाद्य शोषयिष्यामि लक्ष्मण |
यदि नाख्याति मे सीतामद्य चन्द्रनिभाननाम् || २१||

एवं स रुषितो रामो दिधक्षन्निव चक्षुषा |
ददर्श भूमौ निष्क्रान्तं राक्षसस्य पदं महत् || २२||

स समीक्ष्य परिक्रान्तं सीताया राक्षसस्य च |
सम्भ्रान्तहृदयो रामः शशंस भ्रातरं प्रियम् || २३||

पश्य लक्ष्मण वैदेह्याः शीर्णाः कनकबिन्दवः |
भूषणानां हि सौमित्रे माल्यानि विविधानि च || २४||

तप्तबिन्दुनिकाशैश्च चित्रैः क्षतजबिन्दुभिः |
आवृतं पश्य सौमित्रे सर्वतो धरणीतलम् || २५||

मन्ये लक्ष्मण वैदेही राक्षसैः कामरूपिभिः |
भित्त्वा भित्त्वा विभक्ता वा भक्षिता वा भविष्यति || २६||

तस्य निमित्तं वैदेह्या द्वयोर्विवदमानयोः |
बभूव युद्धं सौमित्रे घोरं राक्षसयोरिह || २७||

मुक्तामणिचितं चेदं तपनीयविभूषितम् |
धरण्यां पतितं सौम्य कस्य भग्नं महद्धनुः || २८||

तरुणादित्यसङ्काशं वैदूर्यगुलिकाचितम् |
विशीर्णं पतितं भूमौ कवचं कस्य काञ्चनम् || २९||

छत्रं शतशलाकं च दिव्यमाल्योपशोभितम् |
भग्नदण्डमिदं कस्य भूमौ सौम्य निपातितम् || ३०||

काञ्चनोरश्छदाश्चेमे पिशाचवदनाः खराः |
भीमरूपा महाकायाः कस्य वा निहता रणे || ३१||

दीप्तपावकसङ्काशो द्युतिमान्समरध्वजः |
अपविद्धश्च भग्नश्च कस्य साङ्ग्रामिको रथः || ३२||

रथाक्षमात्रा विशिखास्तपनीयविभूषणाः |
कस्येमेऽभिहता बाणाः प्रकीर्णा घोरकर्मणः || ३३||

वैरं शतगुणं पश्य ममेदं जीवितान्तकम् |
सुघोरहृदयैः सौम्य राक्षसैः कामरूपिभिः || ३४||

हृता मृता वा सीता हि भक्षिता वा तपस्विनी |
न धर्मस्त्रायते सीतां ह्रियमाणां महावने || ३५||

भक्षितायां हि वैदेह्यां हृतायामपि लक्ष्मण |
के हि लोके प्रियं कर्तुं शक्ताः सौम्य ममेश्वराः || ३६||

कर्तारमपि लोकानां शूरं करुणवेदिनम् |
अज्ञानादवमन्येरन्सर्वभूतानि लक्ष्मण || ३७||

मृदुं लोकहिते युक्तं दान्तं करुणवेदिनम् |
निर्वीर्य इति मन्यन्ते नूनं मां त्रिदशेश्वराः || ३८||

मां प्राप्य हि गुणो दोषः संवृत्तः पश्य लक्ष्मण |
अद्यैव सर्वभूतानां रक्षसामभवाय च |
संहृत्यैव शशिज्योत्स्नां महान्सूर्य इवोदितः || ३९||

नैव यक्षा न गन्धर्वा न पिशाचा न राक्षसाः |
किंनरा वा मनुष्या वा सुखं प्राप्स्यन्ति लक्ष्मण || ४०||

ममास्त्रबाणसम्पूर्णमाकाशं पश्य लक्ष्मण |
निःसम्पातं करिष्यामि ह्यद्य त्रैलोक्यचारिणाम् || ४१||

संनिरुद्धग्रहगणमावारितनिशाकरम् |
विप्रनष्टानलमरुद्भास्करद्युतिसंवृतम् || ४२||

विनिर्मथितशैलाग्रं शुष्यमाणजलाशयम् |
ध्वस्तद्रुमलतागुल्मं विप्रणाशितसागरम् || ४३||

न तां कुशलिनीं सीतां प्रदास्यन्ति ममेश्वराः |
अस्मिन्मुहूर्ते सौमित्रे मम द्रक्ष्यन्ति विक्रमम् || ४४||

नाकाशमुत्पतिष्यन्ति सर्वभूतानि लक्ष्मण |
मम चापगुणान्मुक्तैर्बाणजालैर्निरन्तरम् || ४५||

अर्दितं मम नाराचैर्ध्वस्तभ्रान्तमृगद्विजम् |
समाकुलममर्यादं जगत्पश्याद्य लक्ष्मण || ४६||

आकर्णपूर्णैरिषुभिर्जीवलोकं दुरावरैः |
करिष्ये मैथिलीहेतोरपिशाचमराक्षसं || ४७||

मम रोषप्रयुक्तानां सायकानां बलं सुराः |
द्रक्ष्यन्त्यद्य विमुक्तानाममर्षाद्दूरगामिनाम् || ४८||

नैव देवा न दैतेया न पिशाचा न राक्षसाः |
भविष्यन्ति मम क्रोधात्त्रैलोक्ये विप्रणाशिते || ४९||

देवदानवयक्षाणां लोका ये रक्षसाम् अपि |
बहुधा निपतिष्यन्ति बाणौघैः शकुलीकृताः |
निर्मर्यादानिमाँल्लोकान्करिष्याम्यद्य सायकैः || ५०||

यथा जरा यथा मृत्युर्यथाकालो यथाविधिः |
नित्यं न प्रतिहन्यन्ते सर्वभूतेषु लक्ष्मण |
तथाहं क्रोधसंयुक्तो न निवार्योऽस्म्यसंशयम् || ५१||

पुरेव मे चारुदतीमनिन्दितां
दिशन्ति सीतां यदि नाद्य मैथिलीम् |
सदेवगन्धर्वमनुष्य पन्नगं
जगत्सशैलं परिवर्तयाम्यहम् || ५२||

52

1415

Shri Rama finds flowers worn by Seetha and her footprints, followed by heavy footprints of some big male demon. On detailed probing, they found some ruins of a combat between two warriors. Concluding that Seetha is definitely abducted by a massive demon, Shri Rama wants to annihilate the universe, even by waging a war with gods.

65

तप्यमानं तथा रामं सीताहरणकर्शितम् |
लोकानामभवे युक्तं साम्वर्तकमिवानलम् || १||

वीक्षमाणं धनुः सज्यं निःश्वसन्तं मुहुर्मुहुः |
हन्तुकामं पशुं रुद्रं क्रुद्धं दक्षक्रतौ यथा || २||

अदृष्टपूर्वं सङ्क्रुद्धं दृष्ट्वा रामं स लक्ष्मणः |
अब्रवीत्प्राञ्जलिर्वाक्यं मुखेन परिशुष्यता || ३||

पुरा भूत्वा मृदुर्दान्तः सर्वभूतहिते रतः |
न क्रोधवशमापन्नः प्रकृतिं हातुमर्हसि || ४||

चन्द्रे लक्ष्णीः प्रभा सूर्ये गतिर्वायौ भुवि क्षमा |
एतच्च नियतं सर्वं त्वयि चानुत्तमं यशः || ५||

न तु जानामि कस्यायं भग्नः साङ्ग्रामिको रथः |
केन वा कस्य वा हेतोः सायुधः सपरिच्छदः || ६||

खुरनेमिक्षतश्चायं सिक्तो रुधिरबिन्दुभिः |
देशो निवृत्तसङ्ग्रामः सुघोरः पार्थिवात्मज || ७||

एकस्य तु विमर्दोऽयं न द्वयोर्वदतां वर |
न हि वृत्तं हि पश्यामि बलस्य महतः पदम् || ८||

नैकस्य तु कृते लोकान्विनाशयितुमर्हसि |
युक्तदण्डा हि मृदवः प्रशान्ता वसुधाधिपाः || ९||

सदा त्वं सर्वभूतानां शरण्यः परमा गतिः |
को नु दारप्रणाशं ते साधु मन्येत राघव || १०||

सरितः सागराः शैला देवगन्धर्वदानवाः |
नालं ते विप्रियं कर्तुं दीक्षितस्येव साधवः || ११||

येन राजन्हृता सीता तमन्वेषितुमर्हसि |
मद्द्वितीयो धनुष्पाणिः सहायैः परमर्षिभिः || १२||

समुद्रं च विचेष्यामः पर्वतांश्च वनानि च |
गुहाश्च विविधा घोरा नलिनीः पार्वतीश् च ह || १३||

देवगन्धर्वलोकांश्च विचेष्यामः समाहिताः |
यावन्नाधिगमिष्यामस्तव भार्यापहारिणम् || १४||

न चेत्साम्ना प्रदास्यन्ति पत्नीं ते त्रिदशेश्वराः |
कोसलेन्द्र ततः पश्चात्प्राप्तकालं करिष्यसि || १५||

शीलेन साम्ना विनयेन सीतां
नयेन न प्राप्स्यसि चेन्नरेन्द्र |
ततः समुत्सादय हेमपुङ्खैर्
महेन्द्रवज्रप्रतिमैः शरौघैः || १६||

16

1431

Lakshmana pacifies Shri Rama with a sound argument stating that, due to the wrong committed by a single demon, the entire world cannot be annihilated. A humanly search is to be conducted first to find who actually abducted Seetha. If she is still cannot be found even after a thorough search, then that which is appropriate to the situation prevailing then can be implemented.

इत्यार्षे श्री रामायणे अरण्यकाण्डे पञ्चदश: भाग:

 

Araṇyakāṇḍa Part-14

Araṇyakāṇḍa Part-16

 

No comments:

Post a Comment