Sunday, December 28, 2025

अरण्यकाण्ड - Araṇyakāṇḍa (भाग - १६ ;;; Part – 16)

 

अरण्यकाण्ड - Arayakāṇḍa (भाग - ;;; Part – 16)

Sarga number as per Ramayana

Shlokas extracted

No. of shlokas

Cumulative number of shlokas in this Kanda

67

पूर्वजोऽप्युक्तमात्रस्तु लक्ष्मणेन सुभाषितम् |
सारग्राही महासारं प्रतिजग्राह राघवः || ||

संनिगृह्य महाबाहुः प्रवृद्धं कोपमात्मनः |
अवष्टभ्य धनुश्चित्रं रामो लक्ष्मणमब्रवीत् || ||

किं करिष्यावहे वत्स क्व वा गच्छाव लक्ष्मण |
केनोपायेन पश्येयं सीताम् इति विचिन्तय || ||

तं तथा परितापार्तं लक्ष्मणो राममब्रवीत् |
इदमेव जनस्थानं त्वमन्वेषितुमर्हसि || ||

राक्षसैर्बहुभिः कीर्णं नानाद्रुमलतायुतम् |
सन्तीह गिरिदुर्गाणि निर्दराः कन्दराणि || ||

गुहाश्च विविधा घोरा नानामृगगणाकुलाः |
आवासाः किंनराणां गन्धर्वभवनानि || ||

तानि युक्तो मया सार्धं त्वमन्वेषितुमर्हसि |
त्वद्विधो बुद्धिसम्पन्ना माहात्मानो नरर्षभ || ||

आपत्सु प्रकम्पन्ते वायुवेगैरिवाचलाः |
इत्युक्तस्तद्वनं सर्वं विचचार सलक्ष्मणः || ||

क्रुद्धो रामः शरं घोरं सन्धाय धनुषि क्षुरम् |
ततः पर्वतकूटाभं महाभागं द्विजोत्तमम् || ||

ददर्श पतितं भूमौ क्षतजार्द्रं जटायुषम् |
तं दृष्ट्वा गिरिशृङ्गाभं रामो लक्ष्मणमब्रवीत् |
अनेन सीता वैदेही भक्षिता नात्र संशयः || १०||

गृध्ररूपमिदं व्यक्तं रक्षो भ्रमति काननम् |
भक्षयित्वा विशालाक्षीमास्ते सीतां यथासुखम् |
एनं वधिष्ये दीप्ताग्रैर्घोरैर्बाणैरजिह्मगैः || ११||

इत्युक्त्वाभ्यपतद्गृध्रं सन्धाय धनुषि क्षुरम् |
क्रुद्धो रामः समुद्रान्तां चालयन्निव मेदिनीम् || १२||

तं दीनदीनया वाचा सफेनं रुधिरं वमन् |
अभ्यभाषत पक्षी तु रामं दशरथात्मजम् || १३||

यामोषधिमिवायुष्मन्नन्वेषसि महावने |
सा देवी मम प्राणा रावणेनोभयं हृतम् || १४||

त्वया विरहिता देवी लक्ष्मणेन राघव |
ह्रियमाणा मया दृष्टा रावणेन बलीयसा || १५||

सीतामभ्यवपन्नोऽहं रावणश्च रणे मया |
विध्वंसितरथच्छत्रः पातितो धरणीतले || १६||

एतदस्य धनुर्भग्नमेतदस्य शरावरम् |
अयमस्य रणे राम भग्नः साङ्ग्रामिको रथः || १७||

परिश्रान्तस्य मे पक्षौ छित्त्वा खड्गेन रावणः |
सीतामादाय वैदेहीमुत्पपात विहायसं |
रक्षसा निहतं पूर्व्म मां हन्तुं त्वमर्हसि || १८||

रामस्तस्य तु विज्ञाय सीतासक्तां प्रियां कथाम् |
गृध्रराजं परिष्वज्य रुरोद सहलक्ष्मणः || १९||

एकमेकायने दुर्गे निःश्वसन्तं कथं चन |
समीक्ष्य दुःखितो रामः सौमित्रिमिदमब्रवीत् || २०||

राज्याद्भ्रंशो वने वासः सीता नष्टा हतो द्विजः |
ईदृशीयं ममालक्ष्मीर्निर्दहेदपि पावकम् || २१||

सम्पूर्णमपि चेदद्य प्रतरेयं महोदधिम् |
सोऽपि नूनं ममालक्ष्म्या विशुष्येत्सरितां पतिः || २२||

नास्त्यभाग्यतरो लोके मत्तोऽस्मिन्सचराचरे |
येनेयं महती प्राप्ता मया व्यसनवागुरा || २३||

अयं पितृवयस्यो मे गृध्रराजो जरान्वितः |
शेते विनिहतो भूमौ मम भाग्यविपर्ययात् || २४||

इत्येवमुक्त्वा बहुशो राघवः सहलक्ष्मणः |
जटायुषं पस्पर्श पितृस्नेहं निदर्शयन् || २५||

निकृत्तपक्षं रुधिरावसिक्तं
तं गृध्रराजं परिरभ्य रामः |
क्व मैथिलि प्राणसमा ममेति
विमुच्य वाचं निपपात भूमौ || २६||

26

1457

Shri Rama finds Jataayu, whose wings are hacked and who is breathing slowly, and is in his last moments. Mistaking him to be a demon, Shri Rama decides to kill and approaches Jataayu, but on hearing Jataayu's words, Shri Rama recognises and laments for his mutilated situation.

68

रामः प्रेक्ष्य तु तं गृध्रं भुवि रौद्रेण पातितम् |
सौमित्रिं मित्रसम्पन्नमिदं वचनमब्रवीत् || ||

ममायं नूनमर्थेषु यतमानो विहङ्गमः |
राक्षसेन हतः सङ्ख्ये प्राणांस्त्यजति दुस्त्यजान् || ||

अयमस्य शरीरेऽस्मिन्प्राणो लक्ष्मण विद्यते |
तथा स्वरविहीनोऽयं विक्लवं समुदीक्षते || ||

जटायो यदि शक्नोषि वाक्यं व्याहरितुं पुनः |
सीतामाख्याहि भद्रं ते वधमाख्याहि चात्मनः || ||

किंनिमित्तोऽहरत्सीतां रावणस्तस्य किं मया |
अपराद्धं तु यं दृष्ट्वा रावणेन हृता प्रिया || ||

कथं तच्चन्द्रसङ्काशं मुखमासीन्मनोहरम् |
सीतया कानि चोक्तानि तस्मिन्काले द्विजोत्तम || ||

कथंवीर्यः कथंरूपः किङ्कर्मा राक्षसः |
क्व चास्य भवनं तात ब्रूहि मे परिपृच्छतः || ||

तमुद्वीक्ष्याथ दीनात्मा विलपन्तमनन्तरम् |
वाचातिसन्नया रामं जटायुरिदमब्रवीत् || ||

सा हृता राक्षसेन्द्रेण रावणेन विहायसा |
मायामास्थाय विपुलां वातदुर्दिनसङ्कुलाम् || ||

परिश्रान्तस्य मे तात पक्षौ छित्त्वा निशाचरः |
सीतामादाय वैदेहीं प्रयातो दक्षिणा मुखः || १०||

उपरुध्यन्ति मे प्राणा दृष्टिर्भ्रमति राघव |
पश्यामि वृक्षान्सौवर्णानुशीरकृतमूर्धजान् || ११||

येन याति मुहूर्तेन सीतामादाय रावणः |
विप्रनष्टं धनं क्षिप्रं तत्स्वामिप्रतिपद्यते || १२||

विन्दो नाम मुहूर्तोऽसौ काकुत्स्थ नाबुधत् |
झषवद्बडिशं गृह्य क्षिप्रमेव विनश्यति || १३||

त्वया व्यथा कार्या जनकस्य सुतां प्रति |
वैदेह्या रंस्यसे क्षिप्रं हत्वा तं राक्षसं रणे || १४||

असंमूढस्य गृध्रस्य रामं प्रत्यनुभाषतः |
आस्यात्सुस्राव रुधिरं म्रियमाणस्य सामिषम् || १५||

पुत्रो विश्रवसः साक्षाद्भ्राता वैश्रवणस्य |
इत्युक्त्वा दुर्लभान्प्राणान्मुमोच पतगेश्वरः || १६||

ब्रूहि ब्रूहीति रामस्य ब्रुवाणस्य कृताञ्जलेः |
त्यक्त्वा शरीरं गृध्रस्य जग्मुः प्राणा विहायसं || १७||

निक्षिप्य शिरो भूमौ प्रसार्य चरणौ तदा |
विक्षिप्य शरीरं स्वं पपात धरणीतले || १८||

तं गृध्रं प्रेक्ष्य ताम्राक्षं गतासुमचलोपमम् |
रामः सुबहुभिर्दुःखैर्दीनः सौमित्रिमब्रवीत् || १९||

बहूनि रक्षसां वासे वर्षाणि वसता सुखम् |
अनेन दण्डकारण्ये विचीर्णमिह पक्षिणा || २०||

अनेकवार्षिको यस्तु चिरकालं समुत्थितः |
सोऽयमद्य हतः शेते कालो हि दुरतिक्रमः || २१||

पश्य लक्ष्मण गृध्रोऽयमुपकारी हतश् मे |
सीतामभ्यवपन्नो वै रावणेन बलीयसा || २२||

गृध्रराज्यं परित्यज्य पितृपैतामहं महत् |
मम हेतोरयं प्राणान्मुमोच पतगेश्वरः || २३||

सर्वत्र खलु दृश्यन्ते साधवो धर्मचारिणः |
शूराः शरण्याः सौमित्रे तिर्यग्योनिगतेष्वपि || २४||

सीताहरणजं दुःखं मे सौम्य तथागतम् |
यथा विनाशो गृध्रस्य मत्कृते परन्तप || २५||

राजा दशरथः श्रीमान्यथा मम मया यशाः |
पूजनीयश्च मान्यश्च तथायं पतगेश्वरः || २६||

सौमित्रे हर काष्ठानि निर्मथिष्यामि पावकम् |
गृध्रराजं दिधक्षामि मत्कृते निधनं गतम् || २७||

नाथं पतगलोकस्य चितामारोपयाम्यहम् |
इमं धक्ष्यामि सौमित्रे हतं रौद्रेण रक्षसा || २८||

या गतिर्यज्ञशीलानामाहिताग्नेश्च या गतिः |
अपरावर्तिनां या या भूमिप्रदायिनाम् || २९||

मया त्वं समनुज्ञातो गच्छ लोकाननुत्तमान् |
गृध्रराज महासत्त्व संस्कृतश्च मया व्रज || ३०||

एवमुक्त्वा चितां दीप्तामारोप्य पतगेश्वरम् |
ददाह रामो धर्मात्मा स्वबन्धुमिव दुःखितः || ३१||

रामोऽथ सहसौमित्रिर्वनं यात्वा वीर्यवान् |
स्थूलान्हत्वा महारोहीननु तस्तार तं द्विजम् || ३२||

रोहिमांसानि चोद्धृत्य पेशीकृत्वा महायशाः |
शकुनाय ददौ रामो रम्ये हरितशाद्वले || ३३||

यत्तत्प्रेतस्य मर्त्यस्य कथयन्ति द्विजातयः |
तत्स्वर्गगमनं तस्य क्षिप्रं रामो जजाप || ३४||

ततो गोदावरीं गत्वा नदीं नरवरात्मजौ |
उदकं चक्रतुस्तस्मै गृध्रराजाय तावुभौ || ३५||

गृध्रराजः कृतवान्यशस्करं
सुदुष्करं कर्म रणे निपातितः |
महर्षिकल्पेन संस्कृतस्तदा
जगाम पुण्यां गतिमात्मनः शुभाम् || ३६||

36

1493

Jataayu informs Shri Rama, Ravana as the abductor of Seetha. Though he tries his best to narrate completely as to what all had happened, death takes over. Shri Rama consigns Jataayu to funeral fire, like his own relative and performs other rites. Then, taking their bath, they proceed further in search of Seetha.

69

कृत्वैवमुदकं तस्मै प्रस्थितौ राघवौ तदा |
अवेक्षन्तौ वने सीतां पश्चिमां जग्मतुर्दिशम् || ||

तां दिशं दक्षिणां गत्वा शरचापासिधारिणौ |
अविप्रहतमैक्ष्वाकौ पन्थानं प्रतिपेदतुः || ||

गुल्मैर्वृक्षैश्च बहुभिर्लताभिश्च प्रवेष्टितम् |
आवृतं सर्वतो दुर्गं गहनं घोरदर्शनम् || ||

व्यतिक्रम्य तु वेगेन गृहीत्वा दक्षिणां दिशम् |
सुभीमं तन्महारण्यं व्यतियातौ महाबलौ || ||

ततः परं जनस्थानात्त्रिक्रोशं गम्य राघवौ |
क्रौञ्चारण्यं विविशतुर्गहनं तौ महौजसौ || ||

नानामेघघनप्रख्यं प्रहृष्टमिव सर्वतः |
नानावर्णैः शुभैः पुष्पैर्मृगपक्षिगणैर्युतम् || ||

दिदृक्षमाणौ वैदेहीं तद्वनं तौ विचिक्यतुः |
तत्र तत्रावतिष्ठन्तौ सीताहरणकर्शितौ || ||

लक्ष्मणस्तु महातेजाः सत्त्ववाञ्शीलवाञ्शुचिः |
अब्रवीत्प्राञ्जलिर्वाक्यं भ्रातरं दीप्ततेजसं || ||

स्पन्दते मे दृढं बाहुरुद्विग्नमिव मे मनः |
प्रायशश्चाप्यनिष्टानि निमित्तान्युपलक्षये || ||

तस्मात्सज्जीभवार्य त्वं कुरुष्व वचनं हितम् |
ममैव हि निमित्तानि सद्यः शंसन्ति सम्भ्रमम् || १०||

एष वञ्चुलको नाम पक्षी परमदारुणः |
आवयोर्विजयं युद्धे शंसन्निव विनर्दति || ११||

तयोरन्वेषतोरेवं सर्वं तद्वनमोजसा |
सञ्जज्ञे विपुलः शब्दः प्रभञ्जन्निव तद्वनम् || १२||

संवेष्टितमिवात्यर्थं गहनं मातरिश्वना |
वनस्य तस्य शब्दोऽभूद्दिवमापूरयन्निव || १३||

तं शब्दं काङ्क्षमाणस्तु रामः कक्षे सहानुजः |
ददर्श सुमहाकायं राक्षसं विपुलोरसं || १४||

आसेदतुस्ततस्तत्र तावुभौ प्रमुखे स्थितम् |
विवृद्धमशिरोग्रीवं कबन्धमुदरे मुखम् || १५||

रोमभिर्निचितैस्तीक्ष्णैर्महागिरिमिवोच्छ्रितम् |
नीलमेघनिभं रौद्रं मेघस्तनितनिःस्वनम् || १६||

महापक्ष्मेण पिङ्गेन विपुलेनायतेन |
एकेनोरसि घोरेण नयनेनाशुदर्शिना || १७||

महादंष्ट्रोपपन्नं तं लेलिहानं महामुखम् |
भक्षयन्तं महाघोरानृक्षसिंहमृगद्विपान् || १८||

घोरौ भुजौ विकुर्वाणमुभौ योजनमायतौ |
कराभ्यां विविधान्गृह्य ऋष्कान्पक्षिगणान्मृगान् || १९||

आकर्षन्तं विकर्षन्तमनेकान्मृगयूथपान् |
स्थितमावृत्य पन्थानं तयोर्भ्रात्रोः प्रपन्नयोः || २०||

अथ तौ समतिक्रम्य क्रोशमात्रे ददर्शतुः |
महान्तं दारुणं भीमं कबन्धं भुजसंवृतम् || २१||

महाबाहुरत्यर्थं प्रसार्य विपुलौ भुजौ |
जग्राह सहितावेव राघवौ पीडयन्बलात् || २२||

खड्गिनौ दृढधन्वानौ तिग्मतेजौ महाभुजौ |
भ्रातरौ विवशं प्राप्तौ कृष्यमाणौ महाबलौ || २३||

तावुवाच महाबाहुः कबन्धो दानवोत्तमः |
कौ युवां वृषभस्कन्धौ महाखड्गधनुर्धरौ || २४||

घोरं देशमिमं प्राप्तौ मम भक्षावुपस्थितौ |
वदतं कार्यमिह वां किमर्थं चागतौ युवाम् || २५||

इमं देशमनुप्राप्तौ क्षुधार्तस्येह तिष्ठतः |
सबाणचापखड्गौ तीक्ष्णशृङ्गाविवर्षभौ |
ममास्यमनुसम्प्राप्तौ दुर्लभं जीवितं पुनः || २६||

तस्य तद्वचनं श्रुत्वा कबन्धस्य दुरात्मनः |
उवाच लक्ष्मणं रामो मुखेन परिशुष्यता || २७||

कृच्छ्रात्कृच्छ्रतरं प्राप्य दारुणं सत्यविक्रम |
व्यसनं जीवितान्ताय प्राप्तमप्राप्य तां प्रियाम् || २८||

कालस्य सुमहद्वीर्यं सर्वभूतेषु लक्ष्मण |
त्वां मां नरव्याघ्र व्यसनैः पश्य मोहितौ |
नातिभारोऽस्ति दैवस्य सर्वभुतेषु लक्ष्मण || २९||

शूराश्च बलवन्तश्च कृतास्त्राश्च रणाजिरे |
कालाभिपन्नाः सीदन्ति यथा वालुकसेतवः || ३०||

इति ब्रुवाणो दृढसत्यविक्रमो
महायशा दाशरथिः प्रतापवान् |
अवेक्ष्य सौमित्रिमुदग्रविक्रमं
स्थिरां तदा स्वां मतिमात्मनाकरोत् || ३१||

31

1524

A demon Kabandha captures Shri Rama and Lakshmana, while they are searching the Forest for Seetha.

इत्यार्षे श्री रामायणे अरण्यकाण्डे षोडश: भाग:

 

Araṇyakāṇḍa Part-15

Araṇyakāṇḍa Part-17

 

No comments:

Post a Comment