अरण्यकाण्ड
- Araṇyakāṇḍa
(भाग - १६
;;; Part – 16)
|
Sarga
number as per Ramayana |
Shlokas
extracted |
No. of shlokas |
Cumulative number of shlokas in this
Kanda |
|
67 |
पूर्वजोऽप्युक्तमात्रस्तु लक्ष्मणेन सुभाषितम् | संनिगृह्य महाबाहुः प्रवृद्धं कोपमात्मनः | किं
करिष्यावहे वत्स क्व वा गच्छाव लक्ष्मण | तं
तथा परितापार्तं लक्ष्मणो राममब्रवीत् | राक्षसैर्बहुभिः कीर्णं नानाद्रुमलतायुतम् | गुहाश्च विविधा घोरा नानामृगगणाकुलाः | तानि
युक्तो मया सार्धं त्वमन्वेषितुमर्हसि | आपत्सु न प्रकम्पन्ते वायुवेगैरिवाचलाः | क्रुद्धो रामः शरं घोरं सन्धाय धनुषि क्षुरम् | ददर्श
पतितं भूमौ क्षतजार्द्रं जटायुषम् | गृध्ररूपमिदं व्यक्तं रक्षो भ्रमति काननम् | इत्युक्त्वाभ्यपतद्गृध्रं सन्धाय धनुषि क्षुरम् | तं
दीनदीनया वाचा सफेनं रुधिरं वमन् | यामोषधिमिवायुष्मन्नन्वेषसि महावने | त्वया
विरहिता देवी लक्ष्मणेन च राघव | सीतामभ्यवपन्नोऽहं रावणश्च रणे मया | एतदस्य धनुर्भग्नमेतदस्य शरावरम् | परिश्रान्तस्य मे पक्षौ छित्त्वा खड्गेन रावणः | रामस्तस्य तु विज्ञाय सीतासक्तां प्रियां कथाम् | एकमेकायने दुर्गे निःश्वसन्तं कथं चन | राज्याद्भ्रंशो वने वासः सीता नष्टा हतो द्विजः | सम्पूर्णमपि चेदद्य प्रतरेयं महोदधिम् | नास्त्यभाग्यतरो लोके मत्तोऽस्मिन्सचराचरे | अयं
पितृवयस्यो मे गृध्रराजो जरान्वितः | इत्येवमुक्त्वा बहुशो राघवः सहलक्ष्मणः | निकृत्तपक्षं रुधिरावसिक्तं |
26 |
1353 |
|
Shri Rama finds
Jataayu, whose wings are hacked and who is breathing slowly, and is in his
last moments. Mistaking him to be a demon, Shri Rama decides to kill and
approaches Jataayu, but on hearing Jataayu's words, Shri Rama recognises and
laments for his mutilated situation. |
|||
|
68 |
रामः
प्रेक्ष्य तु तं गृध्रं भुवि रौद्रेण पातितम् | ममायं
नूनमर्थेषु यतमानो विहङ्गमः | अयमस्य शरीरेऽस्मिन्प्राणो लक्ष्मण विद्यते | जटायो
यदि शक्नोषि वाक्यं व्याहरितुं पुनः | किंनिमित्तोऽहरत्सीतां रावणस्तस्य किं मया | कथं
तच्चन्द्रसङ्काशं मुखमासीन्मनोहरम् | कथंवीर्यः कथंरूपः किङ्कर्मा स च राक्षसः | तमुद्वीक्ष्याथ दीनात्मा विलपन्तमनन्तरम् | सा
हृता राक्षसेन्द्रेण रावणेन विहायसा | परिश्रान्तस्य मे तात पक्षौ छित्त्वा निशाचरः | उपरुध्यन्ति मे प्राणा दृष्टिर्भ्रमति राघव | येन
याति मुहूर्तेन सीतामादाय रावणः | विन्दो नाम मुहूर्तोऽसौ स च काकुत्स्थ नाबुधत् | न
च त्वया व्यथा कार्या जनकस्य सुतां प्रति | असंमूढस्य गृध्रस्य रामं प्रत्यनुभाषतः | पुत्रो विश्रवसः साक्षाद्भ्राता वैश्रवणस्य च | ब्रूहि ब्रूहीति रामस्य ब्रुवाणस्य कृताञ्जलेः | स
निक्षिप्य शिरो भूमौ प्रसार्य चरणौ तदा | तं
गृध्रं प्रेक्ष्य ताम्राक्षं गतासुमचलोपमम् | बहूनि
रक्षसां वासे वर्षाणि वसता सुखम् | अनेकवार्षिको यस्तु चिरकालं समुत्थितः | पश्य
लक्ष्मण गृध्रोऽयमुपकारी हतश् च मे | गृध्रराज्यं परित्यज्य पितृपैतामहं महत् | सर्वत्र खलु दृश्यन्ते साधवो धर्मचारिणः | सीताहरणजं दुःखं न मे सौम्य तथागतम् | राजा
दशरथः श्रीमान्यथा मम मया यशाः | सौमित्रे हर काष्ठानि निर्मथिष्यामि पावकम् | नाथं
पतगलोकस्य चितामारोपयाम्यहम् | या
गतिर्यज्ञशीलानामाहिताग्नेश्च या गतिः | मया
त्वं समनुज्ञातो गच्छ लोकाननुत्तमान् | एवमुक्त्वा चितां दीप्तामारोप्य पतगेश्वरम् | रामोऽथ सहसौमित्रिर्वनं यात्वा स वीर्यवान् | रोहिमांसानि चोद्धृत्य पेशीकृत्वा महायशाः | यत्तत्प्रेतस्य मर्त्यस्य कथयन्ति द्विजातयः | ततो
गोदावरीं गत्वा नदीं नरवरात्मजौ | स
गृध्रराजः कृतवान्यशस्करं |
36 |
1389 |
|
Jataayu informs Shri
Rama, Ravana as the abductor of Seetha. Though he tries his best to narrate
completely as to what all had happened, death takes over. Shri Rama consigns
Jataayu to funeral fire, like his own relative and performs other rites.
Then, taking their bath, they proceed further in search of Seetha. |
|||
|
69 |
कृत्वैवमुदकं तस्मै प्रस्थितौ राघवौ तदा | तां
दिशं दक्षिणां गत्वा शरचापासिधारिणौ | गुल्मैर्वृक्षैश्च बहुभिर्लताभिश्च प्रवेष्टितम् | व्यतिक्रम्य तु वेगेन गृहीत्वा दक्षिणां दिशम् | ततः
परं जनस्थानात्त्रिक्रोशं गम्य राघवौ | नानामेघघनप्रख्यं प्रहृष्टमिव सर्वतः | दिदृक्षमाणौ वैदेहीं तद्वनं तौ विचिक्यतुः | लक्ष्मणस्तु महातेजाः सत्त्ववाञ्शीलवाञ्शुचिः | स्पन्दते मे दृढं बाहुरुद्विग्नमिव मे मनः | तस्मात्सज्जीभवार्य त्वं कुरुष्व वचनं हितम् | एष
वञ्चुलको नाम पक्षी परमदारुणः | तयोरन्वेषतोरेवं सर्वं तद्वनमोजसा | संवेष्टितमिवात्यर्थं गहनं मातरिश्वना | तं
शब्दं काङ्क्षमाणस्तु रामः कक्षे सहानुजः | आसेदतुस्ततस्तत्र तावुभौ प्रमुखे स्थितम् | रोमभिर्निचितैस्तीक्ष्णैर्महागिरिमिवोच्छ्रितम् | महापक्ष्मेण पिङ्गेन विपुलेनायतेन च | महादंष्ट्रोपपन्नं तं लेलिहानं महामुखम् | घोरौ
भुजौ विकुर्वाणमुभौ योजनमायतौ | आकर्षन्तं विकर्षन्तमनेकान्मृगयूथपान् | अथ
तौ समतिक्रम्य क्रोशमात्रे ददर्शतुः | स
महाबाहुरत्यर्थं प्रसार्य विपुलौ भुजौ | खड्गिनौ दृढधन्वानौ तिग्मतेजौ महाभुजौ | तावुवाच महाबाहुः कबन्धो दानवोत्तमः | घोरं
देशमिमं प्राप्तौ मम भक्षावुपस्थितौ | इमं
देशमनुप्राप्तौ क्षुधार्तस्येह तिष्ठतः | तस्य
तद्वचनं श्रुत्वा कबन्धस्य दुरात्मनः | कृच्छ्रात्कृच्छ्रतरं प्राप्य दारुणं सत्यविक्रम | कालस्य सुमहद्वीर्यं सर्वभूतेषु लक्ष्मण | शूराश्च बलवन्तश्च कृतास्त्राश्च रणाजिरे | इति
ब्रुवाणो दृढसत्यविक्रमो |
31 |
1420 |
|
A demon Kabandha
captures Shri Rama and Lakshmana, while they are searching the Forest for
Seetha. |
|||
इत्यार्षे श्री रामायणे अरण्यकाण्डे षोडश: भाग:
No comments:
Post a Comment