अरण्यकाण्ड - Araṇyakāṇḍa (भाग - १७
;;; Part – 17)
|
Sarga
number as per Ramayana |
Shlokas
extracted |
No. of shlokas |
Cumulative number of shlokas in this
Kanda |
|
70 |
तौ
तु तत्र स्थितौ दृष्ट्वा भ्रातरौ रामलक्ष्मणौ | तिष्ठतः किं नु मां दृष्ट्वा क्षुधार्तं क्षत्रियर्षभौ | तच्छ्रुत्वा लक्ष्मणो वाक्यं प्राप्तकालं हितं तदा | त्वां
च मां च पुरा तूर्णमादत्ते राक्षसाधमः | ततस्तौ देशकालज्ञौ खड्गाभ्यामेव राघवौ | दक्षिणो दक्षिणं बाहुमसक्तमसिना ततः | स
पपात महाबाहुश्छिन्नबाहुर्महास्वनः | स
निकृत्तौ भुजौ दृष्ट्वा शोणितौघपरिप्लुतः | इति
तस्य ब्रुवाणस्य लक्ष्मणः शुभलक्षणः | अयमिक्ष्वाकुदायादो रामो नाम जनैः श्रुतः | अस्य
देवप्रभावस्य वसतो विजने वने | त्वं
तु को वा किमर्थं वा कबन्ध सदृशो वने | एवमुक्तः कबन्धस्तु लक्ष्मणेनोत्तरं वचः | स्वागतं वां नरव्याघ्रौ दिष्ट्या पश्यामि चाप्यहम् | विरूपं यच्च मे रूपं प्राप्तं ह्यविनयाद्यथा | |
15 |
1539 |
|
Kabandha's long arms were
cut off when he wanted to devour Shri Rama and Lakshmana as food provided by
the God. Then, Kabandha wishes to know who these two are. When Lakshmana informs about themselves, Kabandha
feels happy for his accursed state is over at the hands of Shri Rama. |
|||
|
71 |
पुरा
राम महाबाहो महाबलपराक्रम | सोऽहं
रूपमिदं कृत्वा लोकवित्रासनं महत् | ततः
स्थूलशिरा नाम महर्षिः कोपितो मया | तेनाहमुक्तः प्रेक्ष्यैवं घोरशापाभिधायिना | स
मया याचितः क्रुद्धः शापस्यान्तो भवेदिति | यदा
छित्त्वा भुजौ रामस्त्वां दहेद्विजने वने | श्रिया विराजितं पुत्रं दनोस्त्वं विद्धि लक्ष्मण | अहं
हि तपसोग्रेण पितामहमतोषयम् | दीर्घमायुर्मया प्राप्तं किं मे शक्रः करिष्यति | तस्य
बाहुप्रमुक्तेन वज्रेण शतपर्वणा | स
मया याच्यमानः सन्नानयद्यमसादनम् | अनाहारः कथं शक्तो भग्नसक्थिशिरोमुखः | एवमुक्तस्तु मे शक्रो बाहू योजनमायतौ | सोऽहं
भुजाभ्यां दीर्घाभ्यां समाकृष्य वनेचरान् | स
तु मामब्रवीदिन्द्रो यदा रामः सलक्ष्मणः | स
त्वं रामोऽसि भद्रं ते नाहमन्येन राघव | अहं
हि मतिसाचिव्यं करिष्यामि नरर्षभ | एवमुक्तस्तु धर्मात्मा दनुना तेन राघवः | रावणेन हृता सीता मम भार्या यशस्विनी | नाममात्रं तु जानामि न रूपं तस्य रक्षसः | शोकार्तानामनाथानामेवं विपरिधावताम् | काष्ठान्यानीय शुष्काणि काले भग्नानि कुञ्जरैः | स
त्वं सीतां समाचक्ष्व येन वा यत्र वा हृता | एवमुक्तस्तु रामेण वाक्यं दनुरनुत्तमम् | दिव्यमस्ति न मे ज्ञानं नाभिजानामि मैथिलीम् | अदग्धस्य हि विज्ञातुं शक्तिरस्ति न मे प्रभो | विज्ञानं हि महद्भ्रष्टं शापदोषेण राघव | किं
तु यावन्न यात्यस्तं सविता श्रान्तवाहनः | दग्धस्त्वयाहमवटे न्यायेन रघुनन्दन | तेन
सख्यं च कर्तव्यं न्याय्यवृत्तेन राघव | न
हि तस्यास्त्यविज्ञातं त्रिषु लोकेषु राघव | |
31 |
1570 |
|
Kabandha requests Shri
Rama to incinerate him, so that he would get his divine form and then would
be able to give some clues in regaining Seetha. |
|||
|
72 |
एवमुक्तौ तु तौ वीरौ कबन्धेन नरेश्वरौ | लक्ष्मणस्तु महोल्काभिर्ज्वलिताभिः समन्ततः | तच्छरीरं कबन्धस्य घृतपिण्डोपमं महत् | स
विधूय चितामाशु विधूमोऽग्निरिवोत्थितः | ततश्चिताया वेगेन भास्वरो विरजाम्बरः | विमाने भास्वरे तिष्ठन्हंसयुक्ते यशस्करे | सोऽन्तरिक्षगतो रामं कबन्धो वाक्यमब्रवीत् | राम
षड्युक्तयो लोके याभिः सर्वं विमृश्यते | दशाभागगतो हीनस्त्वं राम सहलक्ष्मणः | तदवश्यं त्वया कार्यः स सुहृत्सुहृदां वर | श्रूयतां राम वक्ष्यामि सुग्रीवो नाम वानरः | ऋष्यमूके गिरिवरे पम्पापर्यन्तशोभिते | वयस्यं तं कुरु क्षिप्रमितो गत्वाद्य राघव | न
च ते सोऽवमन्तव्यः सुग्रीवो वानराधिपः | शक्तौ
ह्यद्य युवां कर्तुं कार्यं तस्य चिकीर्षितम् | स
ऋक्षरजसः पुत्रः पम्पामटति शङ्कितः | संनिधायायुधं क्षिप्रमृष्यमूकालयं कपिम् | स
हि स्थानानि सर्वाणि कार्त्स्न्येन कपिकुञ्जरः | न
तस्याविदितं लोके किं चिदस्ति हि राघव | स
नदीर्विपुलाञ्शैलान्गिरिदुर्गाणि कन्दरान् | वानरांश्च महाकायान्प्रेषयिष्यति राघव | स
मेरुशृङ्गाग्रगतामनिन्दितां |
22 |
1592 |
|
When Shri Rama
incinerates Kabandha, a celestial comes out of the flames and provides information
about Sugreeva and urges Shri Rama to befriend him. He informs Shri Rama that
Sugreeva is also in a similar condition and he needs someone to rely upon, in
order to overcome his problems, and thus Kabandha asks Shri Rama to help
Sugreeva, and get help, to provide assistance in searching for Seeta, as
requital from Sugreeva. |
|||
इत्यार्षे श्री
रामायणे अरण्यकाण्डे सप्तदश: भाग:
No comments:
Post a Comment