अरण्यकाण्ड
- Araṇyakāṇḍa
(भाग - ३
;;; Part – 3)
|
Sarga
number as per Ramayana |
Shlokas
extracted |
No. of shlokas |
Cumulative number of shlokas in this
Kanda |
|
10 |
वाक्यमेतत्तु वैदेह्या व्याहृतं भर्तृभक्तया | हितमुक्तं त्वया देवि स्निग्धया सदृशं वचः | किं
तु वक्ष्याम्यहं देवि त्वयैवोक्तमिदं वचः | ते
चार्ता दण्डकारण्ये मुनयः संशितव्रताः | वसन्तो धर्मनिरता वने मूलफलाशनाः | काले
काले च निरता नियमैर्विविधैर्वने | ते
भक्ष्यमाणा मुनयो दण्डकारण्यवासिनः | मया
चैतद्वचः श्रुत्वा कार्त्स्न्येन परिपालनम् | संश्रुत्य च न शक्ष्यामि जीवमानः प्रतिश्रवम् | अप्यहं जीवितं जह्यां त्वां वा सीते सलक्ष्मणाम् | तदवश्यं मया कार्यमृषीणां परिपालनम् | मम
स्नेहाच्च सौहार्दादिदमुक्तं त्वया वचः | इत्येवमुक्त्वा वचनं महात्मा |
13 |
201 |
|
Shri Rama replies
Seetha's enquiry as to why he should wage war to eliminate the demons. He
says that it was only to protect the land from the atrocities of demons, and
for safeguarding the decrepit sages under his idea of protecting the
helpless. |
|||
|
11 |
अग्रतः प्रययौ रामः सीता मध्ये सुमध्यमा | तौ
पश्यमानौ विविधाञ्शैलप्रस्थान्वनानि च | सारसांश्चक्रवाकांश्च नदीपुलिनचारिणः | यूथबद्धांश्च पृषतान्मदोन्मत्तान्विषाणिनः | येषामुषितवान्पूर्वं सकाशे स महास्त्रवित् | क्व
चिच्च चतुरो मासान्पञ्चषट्चापरान्क्व चित् | त्रीन्मासानष्टमासांश्च राघवो न्यवसत्सुखम् | परिसृत्य च धर्मज्ञो राघवः सह सीतया | स
तमाश्रममागम्य मुनिभिः प्रतिपूजितः | अथाश्रमस्थो विनयात्कदा चित्तं महामुनिम् | अस्मिन्नरण्ये भगवन्नगस्त्यो मुनिसत्तमः | न
तु जानामि तं देशं वनस्यास्य महत्तया | प्रसादात्तत्र भवतः सानुजः सह सीतया | मनोरथो महानेष हृदि सम्परिवर्तते | इति
रामस्य स मुनिः श्रुत्वा धर्मात्मनो वचः | अहमप्येतदेव त्वां वक्तुकामः सलक्ष्मणम् | दिष्ट्या त्विदानीमर्थेऽस्मिन्स्वयमेव ब्रवीषि माम् | योजनान्याश्रमात्तात याहि चत्वारि वै ततः | स्थलप्राये वनोद्देशे पिप्पलीवनशोभिते | पद्मिन्यो विविधास्तत्र प्रसन्नसलिलाः शिवाः | तत्रैकां रजनीमुष्य प्रभाते राम गम्यताम् | तत्रागस्त्याश्रमपदं गत्वा योजनमन्तरम् | स
हि रम्यो वनोद्देशो बहुपादपसङ्कुलः | इति
रामो मुनेः श्रुत्वा सह भ्रात्राभिवाद्य च | पश्यन्वनानि चित्राणि पर्वपांश्चाभ्रसंनिभान् | सुतीक्ष्णेनोपदिष्टेन गत्वा तेन पथा सुखम् | एतदेवाश्रमपदं नूनं तस्य महात्मनः | यथा
हीमे वनस्यास्य ज्ञाताः पथि सहस्रशः | पिप्पलीनां च पक्वानां वनादस्मादुपागतः | तत्र
तत्र च दृश्यन्ते सङ्क्षिप्ताः काष्ठसञ्चयाः | एतच्च
वनमध्यस्थं कृष्णाभ्रशिखरोपमम् | विविक्तेषु च तीर्थेषु कृतस्नाना द्विजातयः | तत्सुतीक्ष्णस्य वचनं यथा सौम्य मया श्रुतम् | निगृह्य तरसा मृत्युं लोकानां हितकाम्यया | तस्यायमाश्रमो भ्रातुस्तटाकवनशोभितः | एवं
कथयमानस्य तस्य सौमित्रिणा सह | उपास्य पश्चिमां सन्ध्यां सह भ्रात्रा यथाविधि | सम्यक्प्रतिगृहीतस्तु मुनिना तेन राघवः | तस्यां रात्र्यां व्यतीतायां विमले सूर्यमण्डले | अभिवादये त्वा भगवन्सुखमध्युषितो निशाम् | गम्यतामिति तेनोक्तो जगाम रघुनन्दनः | नीवारान्पनसांस्तालांस्तिमिशान्वञ्जुलान्धवान् | पुष्पितान्पुष्पिताग्राभिर्लताभिरनुवेष्टितान् | हस्तिहस्तैर्विमृदितान्वानरैरुपशोभितान् | ततोऽब्रवीत्समीपस्थं रामो राजीवलोचनः | स्निग्धपत्रा यथा वृक्षा यथा क्षान्ता मृगद्विजाः | अगस्त्य इति विख्यातो लोके स्वेनैव कर्मणा | प्राज्यधूमाकुलवनश्चीरमालापरिष्कृतः | निगृह्य तरसा मृत्युं लोकानां हितकाम्यया | तस्येदमाश्रमपदं प्रभावाद्यस्य राक्षसैः | यदा
प्रभृति चाक्रान्ता दिगियं पुण्यकर्मणा | नाम्ना चेयं भगवतो दक्षिणा दिक्प्रदक्षिणा | मार्गं निरोद्धुं सततं भास्करस्याचलोत्तमः | अयं
दीर्घायुषस्तस्य लोके विश्रुतकर्मणः | एष
लोकार्चितः साधुर्हिते नित्यं रतः सताम् | आराधयिष्याम्यत्राहमगस्त्यं तं महामुनिम् | अत्र
देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः | नात्र
जीवेन्मृषावादी क्रूरो वा यदि वा शठः | अत्र
देवाश्च यक्षाश्च नागाश्च पतगैः सह | अत्र
सिद्धा महात्मानो विमानैः सूर्यसंनिभैः | यक्षत्वममरत्वं च राज्यानि विविधानि च | आगताः
स्माश्रमपदं सौमित्रे प्रविशाग्रतः | |
63 |
264 |
|
Shri Rama roamed in the
Dandaka Forest for Ten years and returned to the hermitage of Sage Suteekhsna. Then, they took leave of that sage and
proceed to see Sage Agastya. |
|||
|
12 |
स
प्रविश्याश्रमपदं लक्ष्मणो राघवानुजः | राजा
दशरथो नाम ज्येष्ठस्तस्य सुतो बली | लक्ष्मणो नाम तस्याहं भ्राता त्ववरजो हितः | ते
वयं वनमत्युग्रं प्रविष्टाः पितृशासनात् | तस्य
तद्वचनं श्रुत्वा लक्ष्मणस्य तपोधनः | स
प्रविश्य मुनि श्रेष्ठं तपसा दुष्प्रधर्षणम् | पुत्रौ दशरथस्येमौ रामो लक्ष्मण एव च | द्रष्टुं भवन्तमायातौ शुश्रूषार्थमरिन्दमौ | ततः
शिष्यादुपश्रुत्य प्राप्तं रामं सलक्ष्मणम् | गम्यतां सत्कृतो रामः सभार्यः सहलक्ष्मणः | एवमुक्तस्तु मुनिना धर्मज्ञेन महात्मना | ततो
निष्क्रम्य सम्भ्रान्तः शिष्यो लक्ष्मणमब्रवीत् | ततो
गत्वाश्रमपदं शिष्येण सहलक्ष्मणः | तं
शिष्यः प्रश्रितं वाक्यमगस्त्यवचनं ब्रुवन् | प्रविवेश ततो रामः सीतया सहलक्ष्मणः | स
तत्र ब्रह्मणः स्थानमग्नेः स्थानं तथैव च | सोमस्थानं भगस्थानं स्थानं कौबेरमेव च | ततः
शिष्यैः परिवृतो मुनिरप्यभिनिष्पतत् | एष
लक्ष्मण निष्क्रामत्यगस्त्यो भगवानृषिः | एवमुक्त्वा महाबाहुरगस्त्यं सूर्यवर्चसं | अभिवाद्य तु धर्मात्मा तस्थौ रामः कृताञ्जलिः | प्रतिगृह्य च काकुत्स्थमर्चयित्वासनोदकैः | अग्निं हुत्वा प्रदायार्घ्यमतिथिं प्रतिपूज्य च | प्रथमं चोपविश्याथ धर्मज्ञो मुनिपुङ्गवः | अन्यथा खलु काकुत्स्थ तपस्वी समुदाचरन् | राजा
सर्वस्य लोकस्य धर्मचारी महारथः | एवमुक्त्वा फलैर्मूलैः पुष्पैश्चान्यैश्च राघवम् | |
27 |
291 |
|
Shri Rama, Lakshmana,
and Seetha enter the hermitage of Sage Agastya. Sage Agastya received Shri Rama
with all honours. |
|||
इत्यार्षे श्री
रामायणे अरण्यकाण्डे तृतीय: भाग:
No comments:
Post a Comment