Friday, December 26, 2025

अरण्यकाण्ड - Araṇyakāṇḍa (भाग - ४ ;;; Part – 4)

 

अरण्यकाण्ड - Arayakāṇḍa (भाग - ;;; Part – 4)

Sarga number as per Ramayana

Shlokas extracted

No. of shlokas

Cumulative number of shlokas in this Kanda

13

राम प्रीतोऽस्मि भद्रं ते परितुष्टोऽस्मि लक्ष्मण |
अभिवादयितुं यन्मां प्राप्तौ स्थः सह सीतया || १||

अध्वश्रमेण वां खेदो बाधते प्रचुरश्रमः |
व्यक्तमुत्कण्ठते चापि मैथिली जनकात्मजा || २||

एषा हि सुकुमारी च दुःखैश्च न विमानिता |
प्राज्यदोषं वनं प्रप्ता भर्तृस्नेहप्रचोदिता || ३||

यथैषा रमते राम इह सीता तथा कुरु |
दुष्करं कृतवत्येषा वने त्वामनुगच्छती || ४||

एषा हि प्रकृतिः स्त्रीणामासृष्टे रघुनन्दन |
समस्थमनुरज्यन्ते विषमस्थं त्यजन्ति च || ५||

शतह्रदानां लोलत्वं शस्त्राणां तीक्ष्णतां तथा |
गरुडानिलयोः शैघ्र्यमनुगच्छन्ति योषितः || ६||

इयं तु भवतो भार्या दोषैरेतैर्विवर्जिताः |
श्लाघ्या च व्यपदेश्या च यथा देवी ह्यरुन्धती || ७||

अलङ्कृतोऽयं देशश्च यत्र सौमित्रिणा सह |
वैदेह्या चानया राम वत्स्यसि त्वमरिन्दम || ८||

एवमुक्तस्तु मुनिना राघवः संयताञ्जलिः |
उवाच प्रश्रितं वाक्यमृषिं दीप्तमिवानलम् || ९||

धन्योऽस्म्यनुगृहीतोऽस्मि यस्य मे मुनिपुङ्गवः |
गुणैः सभ्रातृभार्यस्य वरदः परितुष्यति || १०||

किं तु व्यादिश मे देशं सोदकं बहुकाननम् |
यत्राश्रमपदं कृत्वा वसेयं निरतः सुखम् || ११||

ततोऽब्रवीन्मुनि श्रेष्ठः श्रुत्वा रामस्य भाषितम् |
ध्यात्वा मुहूर्तं धर्मात्मा धीरो धीरतरं वचः || १२||

इतो द्वियोजने तात बहुमूलफलोदकः |
देशो बहुमृगः श्रीमान्पञ्चवट्यभिविश्रुतः || १३||

तत्र गत्वाश्रमपदं कृत्वा सौमित्रिणा सह |
रमस्व त्वं पितुर्वाक्यं यथोक्तमनुपालयन् || १४||

विदितो ह्येष वृत्तान्तो मम सर्वस्तवानघ |
तपसश्च प्रभावेन स्नेहाद्दशरथस्य च || १५||

हृदयस्थश्च ते छन्दो विज्ञातस्तपसा मया |
इह वासं प्रतिज्ञाय मया सह तपोवने || १६||

अतश्च त्वामहं ब्रूमि गच्छ पञ्चवटीम् इति |
स हि रम्यो वनोद्देशो मैथिली तत्र रंस्यते || १७||

स देशः श्लाघनीयश्च नातिदूरे च राघव |
गोदावर्याः समीपे च मैथिली तत्र रंस्यते || १८||

प्राज्यमूलफलैश्चैव नानाद्विज गणैर्युतः |
विविक्तश्च महाबाहो पुण्यो रम्यस्तथैव च || १९||

भवानपि सदारश्च शक्तश्च परिरक्षणे |
अपि चात्र वसन्रामस्तापसान्पालयिष्यसि || २०||

एतदालक्ष्यते वीर मधुकानां महद्वनम् |
उत्तरेणास्य गन्तव्यं न्यग्रोधमभिगच्छता || २१||

ततः स्थलमुपारुह्य पर्वतस्याविदूरतः |
ख्यातः पञ्चवटीत्येव नित्यपुष्पितकाननः || २२||

अगस्त्येनैवमुक्तस्तु रामः सौमित्रिणा सह |
सात्कृत्यामन्त्रयामास तमृषिं सत्यवादिनम् || २३||

तौ तु तेनाभ्यनुज्ञातौ कृतपादाभिवन्दनौ |
तदाश्रमात्पञ्चवटीं जग्मतुः सह सीतया || २४||

गृहीतचापौ तु नराधिपात्मजौ
विषक्ततूणी समरेष्वकातरौ |
यथोपदिष्टेन पथा महर्षिणा
प्रजग्मतुः पञ्चवटीं समाहितौ || २५||

25

316

Shri Rama requests Sage Agastya to indicate a place in the forest to make a residence during the remaining days of exile. Sage Agastya suggests Shri Rama to proceed to Panchavati, where Seetha would be delightful of its surroundings.

14

अथ पञ्चवटीं गच्छन्नन्तरा रघुनन्दनः |
आससाद महाकायं गृध्रं भीमपराक्रमम् || १||

तं दृष्ट्वा तौ महाभागौ वनस्थं रामलक्ष्मणौ |
मेनाते राक्षसं पक्षिं ब्रुवाणौ को भवानिति || २||

स तौ मधुरया वाचा सौम्यया प्रीणयन्निव |
उवाच वत्स मां विद्धि वयस्यं पितुरात्मनः || ३||

स तं पितृसखं बुद्ध्वा पूजयामास राघवः |
स तस्य कुलमव्यग्रमथ पप्रच्छ नाम च || ४||

रामस्य वचनं श्रुत्वा कुलमात्मानमेव च |
आचचक्षे द्विजस्तस्मै सर्वभूतसमुद्भवम् || ५||

पूर्वकाले महाबाहो ये प्रजापतयोऽभवन् |
तान्मे निगदतः सर्वानादितः शृणु राघव || ६||

कर्दमः प्रथमस्तेषां विकृतस्तदनन्तरम् |
शेषश्च संश्रयश्चैव बहुपुत्रश्च वीर्यवान् || ७||

स्थाणुर्मरीचिरत्रिश्च क्रतुश्चैव महाबलः |
पुलस्त्यश्चाङ्गिराश्चैव प्रचेताः पुलहस्तथा || ८||

दक्षो विवस्वानपरोऽरिष्टनेमिश्च राघव |
कश्यपश्च महातेजास्तेषामासीच्च पश्चिमः || ९||

प्रजापतेस्तु दक्षस्य बभूवुरिति नः श्रुतम् |
षष्टिर्दुहितरो राम यशस्विन्यो महायशः || १०||

कश्यपः प्रतिजग्राह तासामष्टौ सुमध्यमाः |
अदितिं च दितिं चैव दनूमपि च कालकाम् || ११||

ताम्रां क्रोधवशां चैव मनुं चाप्यनलाम् अपि |
तास्तु कन्यास्ततः प्रीतः कश्यपः पुनरब्रवीत् || १२||

पुत्रांस्त्रैलोक्यभर्तॄन्वै जनयिष्यथ मत्समान् |
अदितिस्तन्मना राम दितिश् च दनुरेव च || १३||

कालका च महाबाहो शेषास्त्वमनसोऽभवन् |
अदित्यां जज्ञिरे देवास्त्रयस्त्रिंशदरिन्दम || १४||

आदित्या वसवो रुद्रा अश्विनौ च परन्तप |
दितिस्त्वजनयत्पुत्रान्दैत्यांस्तात यशस्विनः || १५||

तेषामियं वसुमती पुरासीत्सवनार्णवा |
दनुस्त्वजनयत्पुत्रमश्वग्रीवमरिन्दम || १६||

नरकं कालकं चैव कालकापि व्यजायत |
क्रौञ्चीं भासीं तथा श्येनीं धृतराष्ट्रीं तथा शुकीम् || १७||

ताम्रापि सुषुवे कन्याः पञ्चैता लोकविश्रुताः |
शुकी नतां विजज्ञे तु नताया विनता सुता |

द्वौ पुत्रौ विनतायास्तु गरुडोऽरुण एव च || १८||

तस्माज्जातोऽहमरुणात्सम्पातिश्च ममाग्रजः |
जटायुरिति मां विद्धि श्येनीपुत्रमरिन्दम || १९||

सोऽहं वाससहायस्ते भविष्यामि यदीच्छसि |
सीतां च तात रक्षिष्ये त्वयि याते सलक्ष्मणे || २०||

जटायुषं तु प्रतिपूज्य राघवो
मुदा परिष्वज्य च संनतोऽभवत् |
पितुर्हि शुश्राव सखित्वमात्मवाञ्
जटायुषा सङ्कथितं पुनः पुनः || २१||

स तत्र सीतां परिदाय मैथिलीं
सहैव तेनातिबलेन पक्षिणा |
जगाम तां पञ्चवटीं सलक्ष्मणो
रिपून्दिधक्षञ्शलभानिवानलः || २२||

22

338

Shri Rama and the other two on their way to Panchavati come in contact with Jatayu, the mighty eagle and a friend of King Dasaratha and assures help Shri Rama in exile.

15

ततः पञ्चवटीं गत्वा नानाव्यालमृगायुताम् |
उवाच भ्रातरं रामो लक्ष्मणं दीप्ततेजसं || १||

आगताः स्म यथोद्दिष्टममुं देशं महर्षिणा |
अयं पञ्चवटी देशः सौम्य पुष्पितकाननः || २||

सर्वतश्चार्यतां दृष्टिः कानने निपुणो ह्यसि |
आश्रमः कतरस्मिन्नो देशे भवति संमतः || ३||

रमते यत्र वैदेही त्वमहं चैव लक्ष्मण |
तादृशो दृश्यतां देशः संनिकृष्टजलाशयः || ४||

वनरामण्यकं यत्र जलरामण्यकं तथा |
संनिकृष्टं च यत्र स्यात्समित्पुष्पकुशोदकम् || ५||

एवमुक्तस्तु रामेण लक्मणः संयताञ्जलिः |
सीता समक्षं काकुत्स्थमिदं वचनमब्रवीत् || ६||

परवानस्मि काकुत्स्थ त्वयि वर्षशतं स्थिते |
स्वयं तु रुचिरे देशे क्रियतामिति मां वद || ७||

सुप्रीतस्तेन वाक्येन लक्ष्मणस्य महाद्युतिः |
विमृशन्रोचयामास देशं सर्वगुणान्वितम् || ८||

स तं रुचिरमाक्रम्य देशमाश्रमकर्मणि |
हस्ते गृहीत्वा हस्तेन रामः सौमित्रिमब्रवीत् || ९||

अयं देशः समः श्रीमान्पुष्पितैर्तरुभिर्वृतः |
इहाश्रमपदं सौम्य यथावत्कर्तुमर्हसि || १०||

इयमादित्यसङ्काशैः पद्मैः सुरभिगन्धिभिः |
अदूरे दृश्यते रम्या पद्मिनी पद्मशोभिता || ११||

यथाख्यातमगस्त्येन मुनिना भावितात्मना |
इयं गोदावरी रम्या पुष्पितैस्तरुभिर्वृता || १२||

हंसकारण्डवाकीर्णा चक्रवाकोपशोभिता |
नातिदूरे न चासन्ने मृगयूथनिपीडिता || १३||

मयूरनादिता रम्याः प्रांशवो बहुकन्दराः |
दृश्यन्ते गिरयः सौम्य फुल्लैस्तरुभिरावृताः || १४||

सौवर्णे राजतैस्ताम्रैर्देशे देशे च धातुभिः |
गवाक्षिता इवाभान्ति गजाः परमभक्तिभिः || १५||

सालैस्तालैस्तमालैश्च खर्जूरैः पनसाम्रकैः |
नीवारैस्तिमिशैश्चैव पुंनागैश्चोपशोभिताः || १६||

चूतैरशोकैस्तिलकैश्चम्पकैः केतकैरपि |
पुष्पगुल्मलतोपेतैस्तैस्तैस्तरुभिरावृताः || १७||

चन्दनैः स्यन्दनैर्नीपैः पनसैर्लकुचैरपि |
धवाश्वकर्णखदिरैः शमीकिंशुकपाटलैः || १८||

इदं पुण्यमिदं मेध्यमिदं बहुमृगद्विजम् |
इह वत्स्याम सौमित्रे सार्धमेतेन पक्षिणा || १९||

एवमुक्तस्तु रामेण लक्ष्मणः परवीरहा |
अचिरेणाश्रमं भ्रातुश्चकार सुमहाबलः || २०||

पर्णशालां सुविपुलां तत्र सङ्घातमृत्तिकाम् |
सुस्तम्भां मस्करैर्दीर्घैः कृतवंशां सुशोभनाम् || २१||

स गत्वा लक्ष्मणः श्रीमान्नदीं गोदावरीं तदा |
स्नात्वा पद्मानि चादाय सफलः पुनरागतः || २२||

ततः पुष्पबलिं कृत्वा शान्तिं च स यथाविधि |
दर्शयामास रामाय तदाश्रमपदं कृतम् || २३||

स तं दृष्ट्वा कृतं सौम्यमाश्रमं सह सीतया |
राघवः पर्णशालायां हर्षमाहारयत्परम् || २४||

सुसंहृष्टः परिष्वज्य बाहुभ्यां लक्ष्मणं तदा |
अतिस्निग्धं च गाढं च वचनं चेदमब्रवीत् || २५||

प्रीतोऽस्मि ते महत्कर्म त्वया कृतमिदं प्रभो |
प्रदेयो यन्निमित्तं ते परिष्वङ्गो मया कृतः || २६||

भावज्ञेन कृतज्ञेन धर्मज्ञेन च लक्ष्मण |
त्वया पुत्रेण धर्मात्मा न संवृत्तः पिता मम || २७||

एवं लक्ष्मणमुक्त्वा तु राघवो लक्ष्मिवर्धनः |
तस्मिन्देशे बहुफले न्यवसत्स सुखं वशी || २८||

कं चित्कालं स धर्मात्मा सीतया लक्ष्मणेन च |
अन्वास्यमानो न्यवसत्स्वर्गलोके यथामरः || २९||

29

367

Shri Rama entrusts to Lakshmana the construction work of a straw-cottage in Panchavati, nearby river Godavari. Lakshmana constructs a cosy cottage and they enter it after performing the Vaastu puja/the ritual of house-entering ceremony.

इत्यार्षे श्री रामायणे अरण्यकाण्डे चतुर्थ: भाग:

Arayakāṇḍa Part-3

Arayakāṇḍa Part-5

No comments:

Post a Comment