Friday, December 26, 2025

अरण्यकाण्ड - Araṇyakāṇḍa (भाग - ५ ;;; Part – 5)

 

अरण्यकाण्ड - Arayakāṇḍa (भाग - ;;; Part – 5)

Sarga number as per Ramayana

Shlokas extracted

No. of shlokas

Cumulative number of shlokas in this Kanda

17

वसतस्तस्य तु मुखं राघवस्य महात्मनः |

शरद्व्यपाये हेमन्त ऋतुरिष्टः प्रवर्तते || १||

तर्पयित्वाथ सलिलैस्ते पितॄन्दैवतानि च |

स्तुवन्ति स्मोदितं सूर्यं देवताश्च समाहिताः || २||

स रामः पर्णशालायामासीनः सह सीतया |
विरराज महाबाहुश्चित्रया चन्द्रमा इव |
लक्ष्मणेन सह भ्रात्रा चकार विविधाः कथाः || ३||

तदासीनस्य रामस्य कथासंसक्तचेतसः |
तं देशं राक्षसी का चिदाजगाम यदृच्छया || ४||

सा तु शूर्पणखा नाम दशग्रीवस्य रक्षसः |
भगिनी राममासाद्य ददर्श त्रिदशोपमम् || ५||

सिंहोरस्कं महाबाहुं पद्मपत्रनिभेक्षणम् |
सुकुमारं महासत्त्वं पार्थिवव्यञ्जनान्वितम् || ६||

राममिन्दीवरश्यामं कन्दर्पसदृशप्रभम् |
बभूवेन्द्रोपमं दृष्ट्वा राक्षसी काममोहिता || ७||

सुमुखं दुर्मुखी रामं वृत्तमध्यं महोदरी |
विशालाक्षं विरूपाक्षी सुकेशं ताम्रमूर्धजा || ८||

प्रियरूपं विरूपा सा सुस्वरं भैरवस्नवा |
तरुणं दारुणा वृद्धा दक्षिणं वामभाषिणी || ९||

न्यायवृत्तं सुदुर्वृत्ता प्रियमप्रियदर्शना |
शरीरजसमाविष्टा राक्षसी राममब्रवीत् || १०||

जटी तापसरूपेण सभार्यः शरचापधृक् |
आगतस्त्वमिमं देशं कथं राक्षससेवितम् || ११||

एवमुक्तस्तु राक्षस्या शूर्पणख्या परन्तपः |
ऋजुबुद्धितया सर्वमाख्यातुमुपचक्रमे || १२||

आसीद्दशरथो नाम राजा त्रिदशविक्रमः |
तस्याहमग्रजः पुत्रो रामो नाम जनैः श्रुतः || १३||

भ्रातायं लक्ष्मणो नाम यवीयान्मामनुव्रतः |
इयं भार्या च वैदेही मम सीतेति विश्रुता || १४||

नियोगात्तु नरेन्द्रस्य पितुर्मातुश्च यन्त्रितः |
धर्मार्थं धर्मकाङ्क्षी च वनं वस्तुमिहागतः || १५||

त्वां तु वेदितुमिच्छामि कथ्यतां कासि कस्य वा |
इह वा किंनिमित्तं त्वमागता ब्रूहि तत्त्वतः || १६||

साब्रवीद्वचनं श्रुत्वा राक्षसी मदनार्दिता |
श्रूयतां राम वक्ष्यामि तत्त्वार्थं वचनं मम || १७||

अहं शूर्पणखा नाम राक्षसी कामरूपिणी |
अरण्यं विचरामीदमेका सर्वभयङ्करा || १८||

रावणो नाम मे भ्राता राक्षसो राक्षसेश्वरः |
प्रवृद्धनिद्रश्च सदा कुम्भकर्णो महाबलः || १९||

विभीषणस्तु धर्मात्मा न तु राक्षसचेष्टितः |
प्रख्यातवीर्यौ च रणे भ्रातरौ खरदूषणौ || २०||

तानहं समतिक्रान्ता राम त्वापूर्वदर्शनात् |
समुपेतास्मि भावेन भर्तारं पुरुषोत्तमम् |
चिराय भव भर्ता मे सीतया किं करिष्यसि || २१||

विकृता च विरूपा च न सेयं सदृशी तव |
अहमेवानुरूपा ते भार्या रूपेण पश्य माम् || २२||

इमां विरूपामसतीं करालां निर्णतोदरीम् |
अनेन सह ते भ्रात्रा भक्षयिष्यामि मानुषीम् || २३||

ततः पर्वतशृङ्गाणि वनानि विविधानि च |
पश्यन्सह मया कान्त दण्डकान्विचरिष्यसि || २४||

इत्येवमुक्तः काकुत्स्थः प्रहस्य मदिरेक्षणाम् |
इदं वचनमारेभे वक्तुं वाक्यविशारदः || २५||

25

392

Shurpanakha, an old demoness and the sister of Ravana enters the hermitage of Shri Rama and was smitten by his handsome figure.  She wanted to marry him.  She was informed by Shri Rama that he was married to Sita.

Sage Valmiki presents here subtly, the tussle between Dakshinachara and Vamachara.

18

तां तु शूर्पणखां रामः कामपाशावपाशिताम् |
स्वेच्छया श्लक्ष्णया वाचा स्मितपूर्वमथाब्रवीत् || १||

कृतदारोऽस्मि भवति भार्येयं दयिता मम |
त्वद्विधानां तु नारीणां सुदुःखा ससपत्नता || २||

अनुजस्त्वेष मे भ्राता शीलवान्प्रियदर्शनः |
श्रीमानकृतदारश्च लक्ष्मणो नाम वीर्यवान् || ३||

अपूर्वी भार्यया चार्थी तरुणः प्रियदर्शनः |
अनुरूपश्च ते भर्ता रूपस्यास्य भविष्यति || ४||

एनं भज विशालाक्षि भर्तारं भ्रातरं मम |
असपत्ना वरारोहे मेरुमर्कप्रभा यथा || ५||

इति रामेण सा प्रोक्ता राक्षसी काममोहिता |
विसृज्य रामं सहसा ततो लक्ष्मणमब्रवीत् || ६||

अस्य रूपस्य ते युक्ता भार्याहं वरवर्णिनी |
मया सह सुखं सर्वान्दण्डकान्विचरिष्यसि || ७||

एवमुक्तस्तु सौमित्री राक्षस्या वाक्यकोविदः |
ततः शूर्पणखीं स्मित्वा लक्ष्मणो युक्तमब्रवीत् || ८||

कथं दासस्य मे दासी भार्या भवितुमिच्छसि |
सोऽहमार्येण परवान्भात्रा कमलवर्णिनी || ९||

समृद्धार्थस्य सिद्धार्था मुदितामलवर्णिनी |
आर्यस्य त्वं विशालाक्षि भार्या भव यवीयसी || १०||

एतां विरूपामसतीं करालां निर्णतोदरीम् |
भार्यां वृद्धां परित्यज्य त्वामेवैष भजिष्यति || ११||

को हि रूपमिदं श्रेष्ठं सन्त्यज्य वरवर्णिनि |
मानुषेषु वरारोहे कुर्याद्भावं विचक्षणः || १२||

इति सा लक्ष्मणेनोक्ता कराला निर्णतोदरी |
मन्यते तद्वचः सत्यं परिहासाविचक्षणा || १३||

सा रामं पर्णशालायामुपविष्टं परन्तपम् |
सीतया सह दुर्धर्षमब्रवीत्काममोहिता || १४||

इमां विरूपामसतीं करालां निर्णतोदरीम् |
वृद्धां भार्यामवष्टभ्य न मां त्वं बहु मन्यसे || १५||

अद्येमां भक्षयिष्यामि पश्यतस्तव मानुषीम् |
त्वया सह चरिष्यामि निःसपत्ना यथासुखम् || १६||

इत्युक्त्वा मृगशावाक्षीमलातसदृशेक्षणा |
अभ्यधावत्सुसङ्क्रुद्धा महोल्का रोहिणीम् इव || १७||

तां मृत्युपाशप्रतिमामापतन्तीं महाबलः |
निगृह्य रामः कुपितस्ततो लक्ष्मणमब्रवीत् || १८||

क्रूरैरनार्यैः सौमित्रे परिहासः कथं चन |
न कार्यः पश्य वैदेहीं कथं चित्सौम्य जीवतीम् || १९||

इमां विरूपामसतीमतिमत्तां महोदरीम् |
राक्षसीं पुरुषव्याघ्र विरूपयितुमर्हसि || २०||

इत्युक्तो लक्ष्मणस्तस्याः क्रुद्धो रामस्य पश्यतः |
उद्धृत्य खड्गं चिच्छेद कर्णनासं महाबलः || २१||

निकृत्तकर्णनासा तु विस्वरं सा विनद्य च |
यथागतं प्रदुद्राव घोरा शूर्पणखा वनम् || २२||

सा विरूपा महाघोरा राक्षसी शोणितोक्षिता |
ननाद विविधान्नादान्यथा प्रावृषि तोयदः || २३||

सा विक्षरन्ती रुधिरं बहुधा घोरदर्शना |
प्रगृह्य बाहू गर्जन्ती प्रविवेश महावनम् || २४||

ततस्तु सा राक्षससङ्घ संवृतं
खरं जनस्थानगतं विरूपिता |
उपेत्य तं भ्रातरमुग्रतेजसं
पपात भूमौ गगनाद्यथाशनिः || २५||

ततः सभार्यं भयमोहमूर्छिता
सलक्ष्मणं राघवमागतं वनम् |
विरूपणं चात्मनि शोणितोक्षिता
शशंस सर्वं भगिनी खरस्य सा || २६||

26

418

Shri Rama averts Shurpanakha's advances toward him and asks her to seek Lakshmana instead. Lakshmana uses wordplay in retorting her in her own words. Thereafter, Shurpanakha rushes to eat away Seetha. Shri Rama stops her and orders her to punish her befittingly.  Lakshmana defaces her and she runs away from there wailing, only to report to her brother Khara, a great demon warrior stationed in Janasthana by Ravana.

This is the beginning of a serious war between Demons, led by Ravana and Shri Rama.

19

तां तथा पतितां दृष्ट्वा विरूपां शोणितोक्षिताम् |
भगिनीं क्रोधसन्तप्तः खरः पप्रच्छ राक्षसः || १||

बलविक्रमसम्पन्ना कामगा कामरूपिणी |
इमामवस्थां नीता त्वं केनान्तकसमा गता || २||

देवगन्धर्वभूतानामृषीणां च महात्मनाम् |
कोऽयमेवं महावीर्यस्त्वां विरूपां चकार ह || ३||

न हि पश्याम्यहं लोके यः कुर्यान्मम विप्रियम् |
अन्तरेन सहस्राक्षं महेन्द्रं पाकशासनम् || ४||

अद्याहं मार्गणैः प्राणानादास्ये जीवितान्तकैः |
सलिले क्षीरमासक्तं निष्पिबन्निव सारसः || ५||

निहतस्य मया सङ्ख्ये शरसङ्कृत्तमर्मणः |
सफेनं रुधिरं रक्तं मेदिनी कस्य पास्यति || ६||

कस्य पत्ररथाः कायान्मांसमुत्कृत्य सङ्गताः |
प्रहृष्टा भक्षयिष्यन्ति निहतस्य मया रणे || ७||

तं न देवा न गन्धर्वा न पिशाचा न राक्षसाः |
मयापकृष्टं कृपणं शक्तास्त्रातुं महाहवे || ८||

उपलभ्य शनैः संज्ञां तं मे शंसितुमर्हसि |
येन त्वं दुर्विनीतेन वने विक्रम्य निर्जिता || ९||

इति भ्रातुर्वचः श्रुत्वा क्रुद्धस्य च विशेषतः |
ततः शूर्पणखा वाक्यं सबाष्पमिदमब्रवीत् || १०||

तरुणौ रूपसम्पन्नौ सुकूमारौ महाबलौ |
पुण्डरीकविशालाक्षौ चीरकृष्णाजिनाम्बरौ || ११||

गन्धर्वराजप्रतिमौ पार्थिवव्यञ्जनान्वितौ |
देवौ वा मानुषौ वा तौ न तर्कयितुमुत्सहे || १२||

तरुणी रूपसम्पन्ना सर्वाभरणभूषिता |
दृष्टा तत्र मया नारी तयोर्मध्ये सुमध्यमा || १३||

ताभ्यामुभाभ्यां सम्भूय प्रमदामधिकृत्य ताम् |
इमामवस्थां नीताहं यथानाथासती तथा || १४||

तस्याश्चानृजुवृत्तायास्तयोश् च हतयोरहम् |
सफेनं पातुमिच्छामि रुधिरं रणमूर्धनि || १५||

एष मे प्रथमः कामः कृतस्तात त्वया भवेत् |
तस्यास्तयोश्च रुधिरं पिबेयमहमाहवे || १६||

इति तस्यां ब्रुवाणायां चतुर्दश महाबलान् |
व्यादिदेश खरः क्रुद्धो राक्षसानन्तकोपमान् || १७||

मानुषौ शस्त्रसम्पन्नौ चीरकृष्णाजिनाम्बरौ |
प्रविष्टौ दण्डकारण्यं घोरं प्रमदया सह || १८||

तौ हत्वा तां च दुर्वृत्तामुपावर्तितुमर्हथ |
इयं च रुधिरं तेषां भगिनी मम पास्यति || १९||

मनोरथोऽयमिष्टोऽस्या भगिन्या मम राक्षसाः |
शीघ्रं सम्पद्यतां गत्वा तौ प्रमथ्य स्वतेजसा || २०||

इति प्रतिसमादिष्टा राक्षसास्ते चतुर्दश |
तत्र जग्मुस्तया सार्धं घना वातेरिता यथा || २१||

21

439

Shurpanakha narrates her woeful story to her brother Khara. She wants Khara to wage a war so that she could drink Seetha's blood. Khara in order to appease his sister sends fourteen demons to eliminate Shri Rama.

20

ततः शूर्पणखा घोरा राघवाश्रममागता |
रक्षसामाचचक्षे तौ भ्रातरौ सह सीतया || १||

ते रामं पर्णशालायामुपविष्टं महाबलम् |
ददृशुः सीतया सार्धं वैदेह्या लक्ष्मणेन च || २||

तान्दृष्ट्वा राघवः श्रीमानागतां तां च राक्षसीम् |
अब्रवीद्भ्रातरं रामो लक्ष्मणं दीप्ततेजसं || ३||

मुहूर्तं भव सौमित्रे सीतायाः प्रत्यनन्तरः |
इमानस्या वधिष्यामि पदवीमागतानिह || ४||

वाक्यमेतत्ततः श्रुत्वा रामस्य विदितात्मनः |
तथेति लक्ष्मणो वाक्यं रामस्य प्रत्यपूजयत् || ५||

राघवोऽपि महच्चापं चामीकरविभूषितम् |
चकार सज्यं धर्मात्मा तानि रक्षांसि चाब्रवीत् || ६||

पुत्रौ दशरथस्यावां भ्रातरौ रामलक्ष्मणौ |
प्रविष्टौ सीतया सार्धं दुश्चरं दण्डकावनम् || ७||

फलमूलाशनौ दान्तौ तापसौ धर्मचारिणौ |
वसन्तौ दण्डकारण्ये किमर्थमुपहिंसथ || ८||

युष्मान्पापात्मकान्हन्तुं विप्रकारान्महावने |
ऋषीणां तु नियोगेन प्राप्तोऽहं सशरासनः || ९||

तिष्ठतैवात्र सन्तुष्टा नोपसर्पितुमर्हथ |
यदि प्राणैरिहार्थो वो निवर्तध्वं निशाचराः || १०||

तस्य तद्वचनं श्रुत्वा राक्षसास्ते चतुर्दश |
ऊचुर्वाचं सुसङ्क्रुद्धा ब्रह्मघ्नः शूलपाणयः || ११||

संरक्तनयना घोरा रामं रक्तान्तलोचनम् |
परुषा मधुराभाषं हृष्टादृष्टपराक्रमम् || १२||

क्रोधमुत्पाद्य नो भर्तुः खरस्य सुमहात्मनः |
त्वमेव हास्यसे प्राणानद्यास्माभिर्हतो युधि || १३||

का हि ते शक्तिरेकस्य बहूनां रणमूर्धनि |
अस्माकमग्रतः स्थातुं किं पुनर्योद्धुमाहवे || १४||

एभिर्बाहुप्रयुक्तैर्नः परिघैः शूलपट्टिशैः |
प्राणांस्त्यक्ष्यसि वीर्यं च धनुश्च करपीडितम् || १५||

इत्येवमुक्त्वा संरब्धा राक्षसास्ते चतुर्दश |
उद्यतायुधनिस्त्रिंशा राममेवाभिदुद्रुवुः |
चिक्षिपुस्तानि शूलानि राघवं प्रति दुर्जयम् || १६||

तानि शूलानि काकुत्स्थः समस्तानि चतुर्दश |
तावद्भिरेव चिच्छेद शरैः काञ्चनभूषणैः || १७||

ततः पश्चान्महातेजा नाराचान्सूर्यसंनिभान् |
जग्राह परमक्रुद्धश्चतुर्दश शिलाशितान् || १८||

गृहीत्वा धनुरायम्य लक्ष्यानुद्दिश्य राक्षसान् |
मुमोच राघवो बाणान्वज्रानिव शतक्रतुः || १९||

रुक्मपुङ्खाश्च विशिखाः प्रदीप्ता हेमभूषणाः |
अन्तरिक्षे महोल्कानां बभूवुस्तुल्यवर्चसः || २०||

ते भित्त्वा रक्षसां वेगाद्वक्षांसि रुधिराप्लुताः |
विनिष्पेतुस्तदा भूमौ न्यमज्जन्ताशनिस्वनाः || २१||

ते भिन्नहृदया भूमौ छिन्नमूला इव द्रुमाः |
निपेतुः शोणितार्द्राङ्गा विकृता विगतासवः || २२||

तान्भूमौ पतितान्दृष्ट्वा राक्षसी क्रोधमूर्छिता |
परित्रस्ता पुनस्तत्र व्यसृजद्भैरवं रवम् || २३||

सा नदन्ती महानादं जवाच्छूर्पणखा पुनः |
उपगम्य खरं सा तु किं चित्संशुष्क शोणिता |
पपात पुनरेवार्ता सनिर्यासेव वल्लरी || २४||

निपातितान्प्रेक्ष्य रणे तु राक्षसान्
प्रधाविता शूर्पणखा पुनस्ततः |
वधं च तेषां निखिलेन रक्षसां
शशंस सर्वं भगिनी खरस्य सा || २५||

25

464

The fourteen demons arrive at Shri Rama's hermitage guided by Shurpanakha and Shri Rama destructs all their weaponry and eliminates them all. Seeing their annihilation, Shurpanakha rushes back to Khara about the destruction of the army.

इत्यार्षे श्री रामायणे अरण्यकाण्डे पञ्चम: भाग:

 

Araṇyakāṇḍa Part-4

Araṇyakāṇḍa Part-6

No comments:

Post a Comment