Friday, December 26, 2025

अरण्यकाण्ड - Araṇyakāṇḍa (भाग - ५ ;;; Part – 5)

 

अरण्यकाण्ड - Arayakāṇḍa (भाग - ;;; Part – 5)

 

Sarga number as per Ramayana

Shlokas extracted

No. of shlokas

Cumulative number of shlokas in this Kanda

24

खरो निशाचरः महोग्रं भ्राता रावणस्य ।

जनस्थाने यथा दूषणश्च सह महाबाहुः ॥१॥

त्रिशिराश्च महातेजा राक्षसः पिशित अशनः ।

अन्ये च बहवः शूरा लब्ध लक्षा निशाचराः ॥२॥

वसन्ति नियोगेन अधिवासम् च राक्षसाः ।

बाधमाना महारण्ये मुनीन् ये धर्म चारिणः ॥३॥

अब्रवीत् दूषणम् नाम खरः सेना पतिम् तदा ॥४॥

चतुर्दश सहस्राणि मम चित्तानुवर्तिनाम् |

रक्षसीं भीमवेगानां समरेष्वनिवर्तिनाम् ||५ ||

तेषां शार्दूलदर्पाणां महास्यानाअ.म् महौजसाम् |

सर्वोद्योगमुदीर्णानां रक्षसां सौम्य कारय ||६||

अग्रे निर्यातुम् इच्छ्हामि पौलस्त्यानाम् महात्मनाम् |

वधार्थम् दुर्विनीतस्य रामस्य रण कोविद ॥७॥

निशाम्य तं रथगतं राअक्.ससा भीमविक्रमा् |
तस्थुः सम्परिवार्यैनं दूषणं च महाबलम् ||८ ||

खरस्तु तान्महेष्वासान्घोरचर्मायुधध्वजान् |
निर्यातेत्यब्रवीद्दृष्ट्वा रथस्थः सर्वराक्षसान् || ९||

ततस्तद्राक्षसं सैन्यं घोरचर्मायुधध्वजम् |
निर्जगाम जनस्थानान्महानादं महाजवम् || १०||

आश्रमं प्रति याते तु खरे खरपराक्रमे |
तानेवौत्पातिकान्रामः सह भ्रात्रा ददर्श ह || ११||

तानुत्पातान्महाघोरानुत्थितान्रोमहर्षणान् |
प्रजानामहितान्दृष्ट्वा वाक्यं लक्ष्मणमब्रवीत् || १२||

इमान्पश्य महाबाहो सर्वभूतापहारिणः |
समुत्थितान्महोत्पातान्संहर्तुं सर्वराक्षसान् || १३||

अमी रुधिरधारास्तु विसृजन्तः खरस्वनान् |
व्योम्नि मेघा विवर्तन्ते परुषा गर्दभारुणाः || १४||

सधूमाश्च शराः सर्वे मम युद्धाभिनन्दिनः |
रुक्मपृष्ठानि चापानि विवेष्टन्ते च लक्ष्मण || १५||

यादृशा इह कूजन्ति पक्षिणो वनचारिणः |
अग्रतो नो भयं प्राप्तं संशयो जीवितस्य च || १६||

सम्प्रहारस्तु सुमहान्भविष्यति न संशयः |
अयमाख्याति मे बाहुः स्फुरमाणो मुहुर्मुहुः || १७||

संनिकर्षे तु नः शूर जयं शत्रोः पराजयम् |
सुप्रभं च प्रसन्नं च तव वक्त्रं हि लक्ष्यते || १८||

उद्यतानां हि युद्धार्थं येषां भवति लक्ष्मणः |
निष्प्रभं वदनं तेषां भवत्यायुः परिक्षयः || १९||

अनागतविधानं तु कर्तव्यं शुभमिच्छता |
आपदं शङ्कमानेन पुरुषेण विपश्चिता || २०||

तस्माद्गृहीत्वा वैदेहीं शरपाणिर्धनुर्धरः |
गुहामाश्रयशैलस्य दुर्गां पादपसङ्कुलाम् || २१||

प्रतिकूलितुमिच्छामि न हि वाक्यमिदं त्वया |
शापितो मम पादाभ्यां गम्यतां वत्स माचिरम् || २२||

एवमुक्तस्तु रामेण लक्ष्मणः सह सीतया |
शरानादाय चापं च गुहां दुर्गां समाश्रयत् || २३||

तस्मिन्प्रविष्टे तु गुहां लक्ष्मणे सह सीतया |
हन्त निर्युक्तमित्युक्त्वा रामः कवचमाविशत् || २४||

सा तेनाग्निनिकाशेन कवचेन विभूषितः |
बभूव रामस्तिमिरे विधूमोऽग्निरिवोत्थितः || २५||

स चापमुद्यम्य महच्छरानादाय वीर्यवान् |
बभूवावस्थितस्तत्र ज्यास्वनैः पूरयन्दिशः || २६||

ततो गम्भीरनिर्ह्रादं घोरवर्मायुधध्वजम् |
अनीकं यातुधानानां समन्तात्प्रत्यदृश्यत || २७||

सिंहनादं विसृजतामन्योन्यमभिगर्जताम् |
चापानि विस्फरयतां जृम्भतां चाप्यभीक्ष्णशः || २८||

विप्रघुष्टस्वनानां च दुन्दुभींश्चापि निघ्नताम् |
तेषां सुतुमुलः शब्दः पूरयामास तद्वनम् || २९||

तेन शब्देन वित्रस्ताः श्वापदा वनचारिणः |
दुद्रुवुर्यत्र निःशब्दं पृष्ठतो नावलोकयन् || ३०||

तत्त्वनीकं महावेगं रामं समुपसर्पत |
घृतनानाप्रहरणं गम्भीरं सागरोपमम् || ३१||

रामोऽपि चारयंश्चक्षुः सर्वतो रणपण्डितः |
ददर्श खरसैन्यं तद्युद्धाभिमुखमुद्यतम् || ३२||

वितत्य च धनुर्भीमं तूण्याश्चोद्धृत्य सायकान् |
क्रोधमाहारयत्तीव्रं वधार्थं सर्वरक्षसाम् || ३३||

दुष्प्रेक्ष्यः सोऽभवत्क्रुद्धो युगान्ताग्निरिव ज्वलन् |
तं दृष्ट्वा तेजसाविष्टं प्राव्यथन्वनदेवताः || ३४||

तस्य क्रुद्धस्य रूपं तु रामस्य ददृशे तदा |
दक्षस्येव क्रतुं हन्तुमुद्यतस्य पिनाकिनः || ३५||

35

389

As per Ravana’s orders, his brother Khara, and the mighty armed Duushana, and even the highly fiery demon and devourer of raw-flesh Trishira, and even numerous other night-walking demons, who are cocksure of hitting their targets have made Janasthaana as their residency. While residing there, they put the sages of that great forest that tread a righteous path to torture.

Khara, along with army of 14,000 warriors, goes on to Panchavati for attacking Shri Rama.

Shri Rama experiences good omens of victory, but in order to safeguard Seetha, he sends her away with Lakshmana to take shelter in a mountain's cave till the war is over. Then, he proceeds in an aggressive form to face the demonic army.

 

इत्यार्षे श्री रामायणे अरण्यकाण्डे पञ्चम: भाग:

 

Araṇyakāṇḍa Part-4

Araṇyakāṇḍa Part-6

No comments:

Post a Comment