Saturday, December 27, 2025

अरण्यकाण्ड - Araṇyakāṇḍa (भाग - ६ ;;; Part – 6)

 

अरण्यकाण्ड - Arayakāṇḍa (भाग - ;;; Part – 6)

  

Sarga number as per Ramayana

Shlokas extracted

No. of shlokas

Cumulative number of shlokas in this Kanda

25

अवष्टब्धधनुं रामं क्रुद्धं च रिपुघातिनम् |
ददर्शाश्रममागम्य खरः सह पुरःसरैः || १||

तं दृष्ट्वा सगुणं चापमुद्यम्य खरनिःस्वनम् |
रामस्याभिमुखं सूतं चोद्यताम् इत्यचोदयत् || २||

स खरस्याज्ञया सूतस्तुरगान्समचोदयत् |
यत्र रामो महाबाहुरेको धुन्वन्धनुः स्थितः || ३||

तं तु निष्पतितं दृष्ट्वा सर्वे ते रजनीचराः |
नर्दमाना महानादं सचिवाः पर्यवारयन् || ४||

स तेषां यातुधानानां मध्ये रतो गतः खरः |
बभूव मध्ये ताराणां लोहिताङ्ग इवोदितः || ५||

ततस्तं भीमधन्वानं क्रुद्धाः सर्वे निशाचराः |
रामं नानाविधैः शस्त्रैरभ्यवर्षन्त दुर्जयम् || ६||

मुद्गरैरायसैः शूलैः प्रासैः खड्गैः परश्वधैः |
राक्षसाः समरे रामं निजघ्नू रोषतत्पराः || ७||

ते बलाहकसङ्काशा महानादा महाबलाः |
अभ्यधावन्त काकुत्स्थं रामं युद्धे जिघांसवः || ८||

ते रामे शरवर्षाणि व्यसृजन्रक्षसां गुणाः |
शैलेन्द्रमिव धाराभिर्वर्षमाणा महाधनाः || ९||

स तैः परिवृतो घोरै राघवो रक्षसां गणैः |
तिथिष्विव महादेवो वृतः पारिषदां गणैः || १०||

तानि मुक्तानि शस्त्राणि यातुधानैः स राघवः |
प्रतिजग्राह विशिखैर्नद्योघानिव सागरः || ११||

स तैः प्रहरणैर्घोरैर्भिन्नगात्रो न विव्यथे |
रामः प्रदीप्तैर्बहुभिर्वज्रैरिव महाचलः || १२||

स विद्धः क्षतजादिग्धः सर्वगात्रेषु राघवः |
बभूव रामः सन्ध्याभ्रैर्दिवाकर इवावृतः || १३||

विषेदुर्देवगन्धर्वाः सिद्धाश्च परमर्षयः |
एकं सहस्त्रैर्बहुभिस्तदा दृष्ट्वा समावृतम् || १४||

ततो रामः सुसङ्क्रुद्धो मण्डलीकृतकार्मुकः |
ससर्ज निशितान्बाणाञ्शतशोऽथ सहस्रशः || १५||

दुरावारान्दुर्विषहान्कालपाशोपमान्रणे |
मुमोच लीलया रामः कङ्कपत्रानजिह्मगान् || १६||

ते शराः शत्रुसैन्येषु मुक्ता रामेण लीलया |
आददू रक्षसां प्राणान्पाशाः कालकृता इव || १७||

भित्त्वा राक्षसदेहांस्तांस्ते शरा रुधिराप्लुताः |
अन्तरिक्षगता रेजुर्दीप्ताग्निसमतेजसः || १८||

असङ्ख्येयास्तु रामस्य सायकाश्चापमण्डलात् |
विनिष्पेतुरतीवोग्रा रक्षः प्राणापहारिणः || १९||

तैर्धनूंषि ध्वजाग्राणि वर्माणि च शिरांसि च |
बहून्सहस्ताभरणानूरून्करिकरोपमान् || २०||

ततो नालीकनाराचैस्तीक्ष्णाग्रैश्च विकर्णिभिः |
भीममार्तस्वरं चक्रुर्भिद्यमाना निशाचराः || २१||

तत्सैन्यं निशितैर्बाणैरर्दितं मर्मभेदिभिः |
रामेण न सुखं लेभे शुष्कं वनमिवाग्निना || २२||

के चिद्भीमबलाः शूराः शूलान्खड्गान्परश्वधान् |
चिक्षिपुः परमक्रुद्धा रामाय रजनीचराः || २३||

तानि बाणैर्महाबाहुः शस्त्राण्यावार्य राघवः |
जहार समरे प्राणांश्चिच्छेद च शिरोधरान् || २४||

अवशिष्टाश्च ये तत्र विषण्णाश्च निशाचराः |
खरमेवाभ्यधावन्त शरणार्थं शरार्दिताः || २५||

तान्सर्वान्पुनरादाय समाश्वास्य च दूषणः |
अभ्यधावत काकुत्स्थं क्रुद्धो रुद्रमिवान्तकः || २६||

निवृत्तास्तु पुनः सर्वे दूषणाश्रयनिर्भयाः |
राममेवाभ्यधावन्त सालतालशिलायुधाः || २७||

तद्बभूवाद्भुतं युद्धं तुमुलं रोमहर्षणम् |
रामस्यास्य महाघोरं पुनस्तेषां च रक्षसाम् || २८||

28

417

Shri Rama gives the demons warning, but as their attack is escalating, he uses a DIVINE missile and many other arrows, which eradicates the entire army of Dushana's brute force.

26

तद्द्रुमाणां शिलानां च वर्षं प्राणहरं महत् |
प्रतिजग्राह धर्मात्मा राघवस्तीक्ष्णसायकैः || १||

प्रतिगृह्य च तद्वरं निमीलित इवर्षभः |
रामः क्रोधं परं भेजे वधार्थं सर्वरक्षसाम् || २||

ततः क्रोधसमाविष्टः प्रदीप्त इव तेजसा |
शरैरभ्यकिरत्सैन्यं सर्वतः सहदूषणम् || ३||

ततः सेनापतिः क्रुद्धो दूषणः शत्रुदूषणः |
जग्राह गिरिशृङ्गाभं परिघं रोमहर्षणम् || ४||

वेष्टितं काञ्चनैः पट्टैर्देवसैन्याभिमर्दनम् |
आयसैः शङ्कुभिस्तीक्ष्णैः कीर्णं परवसोक्षिताम् || ५||

वज्राशनिसमस्पर्शं परगोपुरदारणम् |
तं महोरगसङ्काशं प्रगृह्य परिघं रणे |
दूषणोऽभ्यपतद्रामं क्रूरकर्मा निशाचरः || ६||

तस्याभिपतमानस्य दूषणस्य स राघवः |
द्वाभ्यां शराभ्यां चिच्छेद सहस्ताभरणौ भुजौ || ७||

भ्रष्टस्तस्य महाकायः पपात रणमूर्धनि |
परिघश्छिन्नहस्तस्य शक्रध्वज इवाग्रतः || ८||

स कराभ्यां विकीर्णाभ्यां पपात भुवि दूषणः |
विषाणाभ्यां विशीर्णाभ्यां मनस्वीव महागजः || ९||

दृष्ट्वा तं पतितं भूमौ दूषणं निहतं रणे |
साधु साध्विति काकुत्स्थं सर्वभूतान्यपूजयन् || १०||

एतस्मिन्नन्तरे क्रुद्धास्त्रयः सेनाग्रयायिनः |
संहत्याभ्यद्रवन्रामं मृत्युपाशावपाशिताः |
महाकपालः स्थूलाक्षः प्रमाथी च महाबलः || ११||

महाकपालो विपुलं शूलमुद्यम्य राक्षसः |
स्थूलाक्षः पट्टिशं गृह्य प्रमाथी च परश्वधम् || १२||

दृष्ट्वैवापततस्तांस्तु राघवः सायकैः शितैः |
तीक्ष्णाग्रैः प्रतिजग्राह सम्प्राप्तानतिथीनिव || १३||

महाकपालस्य शिरश्चिच्छेद रघुनङ्गनः |
असङ्ख्येयैस्तु बाणौघैः प्रममाथ प्रमाथिनम् || १४||

स्थूलाक्षस्याक्षिणी तीक्ष्णैः पूरयामास सायकैः |
स पपात हतो भूमौ विटपीव महाद्रुमः || १५||

ततः पावकसङ्काशैर्हेमवज्रविभूषितैः |
जघनशेषं तेजस्वी तस्य सैन्यस्य सायकैः || १६||

ते रुक्मपुङ्खा विशिखाः सधूमा इव पावकाः |
निजघ्नुस्तानि रक्षांसि वज्रा इव महाद्रुमान् || १७||

रक्षसां तु शतं रामः शतेनैकेन कर्णिना |
सहस्रं च सहस्रेण जघान रणमूर्धनि || १८||

तैर्भिन्नवर्माभरणाश्छिन्नभिन्नशरासनाः |
निपेतुः शोणितादिग्धा धरण्यां रजनीचराः || १९||

तैर्मुक्तकेशैः समरे पतितैः शोणितोक्षितैः |
आस्तीर्णा वसुधा कृत्स्ना महावेदिः कुशैरिव || २०||

क्षणेन तु महाघोरं वनं निहतराक्षसं |
बभूव निरय प्रख्यं मांसशोणितकर्दमम् || २१||

चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम् |
हतान्येकेन रामेण मानुषेण पदातिना || २२||

तस्य सैन्यस्य सर्वस्य खरः शेषो महारथः |
राक्षसस्त्रिशिराश्चैव रामश्च रिपुसूदनः || २३||

ततस्तु तद्भीमबलं महाहवे
समीक्ष्य रामेण हतं बलीयसा |
रथेन रामं महता खरस्ततः
समाससादेन्द्र इवोद्यताशनिः || २४||

24

441

Shri Rama eliminates fourteen thousand demons, followed by Dushana’s death, and Dushana's twelve other captains, leaving behind only two, Khara and Trishira, the chiefs of that demonic force in Janasthaana.

 

इत्यार्षे श्री रामायणे अरण्यकाण्डे षष्ठ: भाग:

 

Araṇyakāṇḍa Part-5

Araṇyakāṇḍa Part-7

 

No comments:

Post a Comment