अरण्यकाण्ड - Araṇyakāṇḍa (भाग - ७ ;;; Part – 7)
|
Sarga
number as per Ramayana |
Shlokas
extracted |
No. of shlokas |
Cumulative number of shlokas in this
Kanda |
|
27 |
खरं
तु रामाभिमुखं प्रयान्तं वाहिनीपतिः | मां
नियोजय विक्रान्त संनिवर्तस्व साहसात् | प्रतिजानामि ते सत्यमायुधं चाहमालभे | अहं
वास्य रणे मृत्युरेष वा समरे मम | प्रहृष्टो वा हते रामे जनस्थानं प्रयास्यसि | खरस्त्रिशिरसा तेन मृत्युलोभात्प्रसादितः | त्रिशिराश्च रथेनैव वाजियुक्तेन भास्वता | शरधारा समूहान्स महामेघ इवोत्सृजन् | आगच्छन्तं त्रिशिरसं राक्षसं प्रेक्ष्य राघवः | स
सम्प्रहारस्तुमुलो राम त्रिशिरसोर्महान् | ततस्त्रिशिरसा बाणैर्ललाटे ताडितस्त्रिभिः | अहो
विक्रमशूरस्य राक्षसस्येदृशं बलम् | एवमुक्त्वा तु संरब्धः शरानाशीविषोपमान् | चतुर्भिस्तुरगानस्य शरैः संनतपर्वभिः | अष्टभिः सायकैः सूतं रथोपस्थे न्यपातयत् | ततो
हतरथात्तस्मादुत्पतन्तं निशाचरम् | सायकैश्चाप्रमेयात्मा सामर्षस्तस्य रक्षसः | स
भूमौ शोणितोद्गारी रामबाणाभिपीडितः | |
18 |
459 |
|
Trishira, advances
first before Khara to fight Shri Rama and in that bitter battle Shri Rama
eliminates Trishira in the battle. |
|||
|
28
29
|
निहतं
दूषणं दृष्ट्वा रणे त्रिशिरसा सह | स
दृष्ट्वा राक्षसं सैन्यमविषह्यं महाबलम् | तद्बलं हतभूयिष्ठं विमनाः प्रेक्ष्य राक्षसः | विकृष्य बलवच्चापं नाराचान्रक्तभोजनान् | ज्यां
विधुन्वन्सुबहुशः शिक्षयास्त्राणि दर्शयन् | स
सर्वाश्च दिशो बाणैः प्रदिशश्च महारथः | स
सायकैर्दुर्विषहैः सस्फुलिङ्गैरिवाग्निभिः | तद्बभूव शितैर्बाणैः खररामविसर्जितैः | शरजालावृतः सूर्यो न तदा स्म प्रकाशते | ततः
कनकपुङ्खैस्तु शरैः संनतपर्वभिः | स
दर्शनीयो बहुधा विच्छिन्नः काञ्चनो ध्वजः | तं
चतुर्भिः खरः क्रुद्धो रामं गात्रेषु मार्गणैः | स
रामो बहुभिर्बाणैः खरकार्मुकनिःसृतैः | स
धनुर्धन्विनां श्रेष्ठः प्रगृह्य परमाहवे | शिरस्येकेन बाणेन द्वाभ्यां बाह्वोरथार्पयत् | ततः
पश्चान्महातेजा नाराचान्भास्करोपमान् | ततोऽस्य युगमेकेन चतुर्भिश्चतुरो हयान् | त्रिभिस्त्रिवेणुं बलवान्द्वाभ्यामक्षं महाबलः | प्रभग्नधन्वा विरथो हताश्वो हतसारथिः | कामं
बह्वपि वक्तव्यं त्वयि वक्ष्यामि न त्वहम् | अस्तं
गच्छेद्धि सविता युद्धविघ्रस्ततो भवेत् ||२०|| चतुर्दश सहस्राणि राक्षसानां हतानि ते | इत्युक्त्वा परमक्रुद्धस्तां गदां परमाङ्गदाम् | खरबाहुप्रमुक्ता सा प्रदीप्ता महती गदा | तामापतन्तीं ज्वलितां मृत्युपाशोपमां गदा | सा
विशीर्णा शरैर्भिन्ना पपात धरणीतले | |
25 |
484 |
|
Khara confronts Shri
Rama after elimination of his valiant warriors. He wages a fearful war and he
even brings down the armour of Shri Rama with his arrows. The combat of Shri
Rama and Khara takes a longer time, proving Khara a great warrior. |
|||
इत्यार्षे श्री
रामायणे अरण्यकाण्डे सप्तम: भाग:
No comments:
Post a Comment