Saturday, December 27, 2025

अरण्यकाण्ड - Araṇyakāṇḍa (भाग - ७ ;;; Part – 7)

 

अरण्यकाण्ड - Arayakāṇḍa (भाग - ;;; Part – 7)

 

Sarga number as per Ramayana

Shlokas extracted

No. of shlokas

Cumulative number of shlokas in this Kanda

27

खरं तु रामाभिमुखं प्रयान्तं वाहिनीपतिः |
राक्षसस्त्रिशिरा नाम संनिपत्येदमब्रवीत् || १||

मां नियोजय विक्रान्त संनिवर्तस्व साहसात् |
पश्य रामं महाबाहुं संयुगे विनिपातितम् || २||

प्रतिजानामि ते सत्यमायुधं चाहमालभे |
यथा रामं वधिष्यामि वधार्हं सर्वरक्षसाम् || ३||

अहं वास्य रणे मृत्युरेष वा समरे मम |
विनिवर्त्य रणोत्साहं मुहूर्तं प्राश्निको भव || ४||

प्रहृष्टो वा हते रामे जनस्थानं प्रयास्यसि |
मयि वा निहते रामं संयुगायोपयास्यसि || ५||

खरस्त्रिशिरसा तेन मृत्युलोभात्प्रसादितः |
गच्छ युध्येत्यनुज्ञातो राघवाभिमुखो ययौ || ६||

त्रिशिराश्च रथेनैव वाजियुक्तेन भास्वता |
अभ्यद्रवद्रणे रामं त्रिशृङ्ग इव पर्वतः || ७||

शरधारा समूहान्स महामेघ इवोत्सृजन् |
व्यसृजत्सदृशं नादं जलार्द्रस्येव दुन्दुभेः || ८||

आगच्छन्तं त्रिशिरसं राक्षसं प्रेक्ष्य राघवः |
धनुषा प्रतिजग्राह विधुन्वन्सायकाञ्शितान् || ९||

स सम्प्रहारस्तुमुलो राम त्रिशिरसोर्महान् |
बभूवातीव बलिनोः सिंहकुञ्जरयोरिव || १०||

ततस्त्रिशिरसा बाणैर्ललाटे ताडितस्त्रिभिः |
अमर्षी कुपितो रामः संरब्धमिदमब्रवीत् || ११||

अहो विक्रमशूरस्य राक्षसस्येदृशं बलम् |
पुष्पैरिव शरैर्यस्य ललाटेऽस्मि परिक्षतः |
ममापि प्रतिगृह्णीष्व शरांश्चापगुणच्युतान् || १२||

एवमुक्त्वा तु संरब्धः शरानाशीविषोपमान् |
त्रिशिरो वक्षसि क्रुद्धो निजघान चतुर्दश || १३||

चतुर्भिस्तुरगानस्य शरैः संनतपर्वभिः |
न्यपातयत तेजस्वी चतुरस्तस्य वाजिनः || १४||

अष्टभिः सायकैः सूतं रथोपस्थे न्यपातयत् |
रामश्चिच्छेद बाणेन ध्वजं चास्य समुच्छ्रितम् || १५||

ततो हतरथात्तस्मादुत्पतन्तं निशाचरम् |
बिभेद रामस्तं बाणैर्हृदये सोऽभवज्जडः || १६||

सायकैश्चाप्रमेयात्मा सामर्षस्तस्य रक्षसः |
शिरांस्यपातयत्त्रीणि वेगवद्भिस्त्रिभिः शतैः || १७||

स भूमौ शोणितोद्गारी रामबाणाभिपीडितः |
न्यपतत्पतितैः पूर्वं स्वशिरोभिर्निशाचरः || १८||

18

459

Trishira, advances first before Khara to fight Shri Rama and in that bitter battle Shri Rama eliminates Trishira in the battle.

28

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

29

 

 

 

निहतं दूषणं दृष्ट्वा रणे त्रिशिरसा सह |
खरस्याप्यभवत्त्रासो दृष्ट्वा रामस्य विक्रमम् || १||

स दृष्ट्वा राक्षसं सैन्यमविषह्यं महाबलम् |
हतमेकेन रामेण दूषणस्त्रिशिरा अपि || २||

तद्बलं हतभूयिष्ठं विमनाः प्रेक्ष्य राक्षसः |
आससाद खरो रामं नमुचिर्वासवं यथा || ३||

विकृष्य बलवच्चापं नाराचान्रक्तभोजनान् |
खरश्चिक्षेप रामाय क्रुद्धानाशीविषानिव || ४||

ज्यां विधुन्वन्सुबहुशः शिक्षयास्त्राणि दर्शयन् |
चचार समरे मार्गाञ्शरै रथगतः खरः || ५||

स सर्वाश्च दिशो बाणैः प्रदिशश्च महारथः |
पूरयामास तं दृष्ट्वा रामोऽपि सुमहद्धनुः || ६||

स सायकैर्दुर्विषहैः सस्फुलिङ्गैरिवाग्निभिः |
नभश्चकाराविवरं पर्जन्य इव वृष्टिभिः || ७||

तद्बभूव शितैर्बाणैः खररामविसर्जितैः |
पर्याकाशमनाकाशं सर्वतः शरसङ्कुलम् || ८||

शरजालावृतः सूर्यो न तदा स्म प्रकाशते |
अन्योन्यवधसंरम्भादुभयोः सम्प्रयुध्यतोः || ९||

ततः कनकपुङ्खैस्तु शरैः संनतपर्वभिः |
चिच्छेद रामः सङ्क्रुद्धः खरस्य समरे ध्वजम् || १०||

स दर्शनीयो बहुधा विच्छिन्नः काञ्चनो ध्वजः |
जगाम धरणीं सूर्यो देवतानामिवाज्ञया || ११||

तं चतुर्भिः खरः क्रुद्धो रामं गात्रेषु मार्गणैः |
विव्याध हृदि मर्मज्ञो मातङ्गमिव तोमरैः || १२||

स रामो बहुभिर्बाणैः खरकार्मुकनिःसृतैः |
विद्धो रुधिरसिक्ताङ्गो बभूव रुषितो भृशम् || १३||

स धनुर्धन्विनां श्रेष्ठः प्रगृह्य परमाहवे |
मुमोच परमेष्वासः षट्शरानभिलक्षितान् || १४||

शिरस्येकेन बाणेन द्वाभ्यां बाह्वोरथार्पयत् |
त्रिभिश्चन्द्रार्धवक्त्रैश्च वक्षस्यभिजघान ह || १५||

ततः पश्चान्महातेजा नाराचान्भास्करोपमान् |
जिघांसू राक्षसं क्रुद्धस्त्रयोदश शिलाशितान् || १६||

ततोऽस्य युगमेकेन चतुर्भिश्चतुरो हयान् |
षष्ठेन च शिरः सङ्ख्ये चिच्छेद खरसारथेः || १७||

त्रिभिस्त्रिवेणुं बलवान्द्वाभ्यामक्षं महाबलः |
द्वादशेन तु बाणेन खरस्य सशरं धनुः |
छित्त्वा वज्रनिकाशेन राघवः प्रहसन्निव |
त्रयोदशेनेन्द्रसमो बिभेद समरे खरम् || १८||

प्रभग्नधन्वा विरथो हताश्वो हतसारथिः |
गदापाणिरवप्लुत्य तस्थौ भूमौ खरस्तदा || १९||

कामं बह्वपि वक्तव्यं त्वयि वक्ष्यामि न त्वहम् |

अस्तं गच्छेद्धि सविता युद्धविघ्रस्ततो भवेत् ||२०||

चतुर्दश सहस्राणि राक्षसानां हतानि ते |
त्वद्विनाशात्करोम्यद्य तेषामश्रुप्रमार्जनम् || २१||

इत्युक्त्वा परमक्रुद्धस्तां गदां परमाङ्गदाम् |
खरश्चिक्षेप रामाय प्रदीप्तामशनिं यथा ||२२ ||

खरबाहुप्रमुक्ता सा प्रदीप्ता महती गदा |
भस्मवृक्षांश्च गुल्मांश्च कृत्वागात्तत्समीपतः ||२३||

तामापतन्तीं ज्वलितां मृत्युपाशोपमां गदा |
अन्तरिक्षगतां रामश्चिच्छेद बहुधा शरैः ||२४||

सा विशीर्णा शरैर्भिन्ना पपात धरणीतले |
गदामन्त्रौषधिबलैर्व्यालीव विनिपातिता || २५||

25

484

Khara confronts Shri Rama after elimination of his valiant warriors. He wages a fearful war and he even brings down the armour of Shri Rama with his arrows. The combat of Shri Rama and Khara takes a longer time, proving Khara a great warrior.

इत्यार्षे श्री रामायणे अरण्यकाण्डे सप्तम: भाग:

 

Araṇyakāṇḍa Part-6

Araṇyakāṇḍa Part-8

 

No comments:

Post a Comment