Saturday, December 27, 2025

अरण्यकाण्ड - Araṇyakāṇḍa (भाग - ८ ;;; Part – 8)

 

अरण्यकाण्ड - Arayakāṇḍa (भाग - ;;; Part – 8)

Sarga number as per Ramayana

Shlokas extracted

No. of shlokas

Cumulative number of shlokas in this Kanda

30

भित्त्वा तु तां गदां बाणै राघवो धर्मवत्सलः |
स्मयमानः खरं वाक्यं संरब्धमिदमब्रवीत् || १||

एतत्ते बलसर्वस्वं दर्शितं राक्षसाधम |
शक्तिहीनतरो मत्तो वृथा त्वमुपगर्जितम् || २||

एषा बाणविनिर्भिन्ना गदा भूमितलं गता |
अभिधानप्रगल्भस्य तव प्रत्ययघातिनी || ३||

यत्त्वयोक्तं विनष्टानामिदमश्रुप्रमार्जनम् |
राक्षसानां करोमीति मिथ्या तदपि ते वचः || ४||

एवमुक्त्वा ततो रामं संरुध्य भृकुटिं ततः |
स ददर्श महासालमविदूरे निशाचरः || ५||

रणे प्रहरणस्यार्थे सर्वतो ह्यवलोकयन् |
स तमुत्पाटयामास सन्दृश्य दशनच्छदम् || ६||

तं समुत्क्षिप्य बाहुभ्यां विनर्दित्वा महाबलः |
राममुद्दिश्य चिक्षेप हतस्त्वमिति चाब्रवीत् || ७||

तमापतन्तं बाणौघैश्छित्त्वा रामः प्रतापवान् |
रोषमाहारयत्तीव्रं निहन्तुं समरे खरम् || ८||

जातस्वेदस्ततो रामो रोषाद्रक्तान्तलोचनः |
निर्बिभेद सहस्रेण बाणानां समरे खरम् || ९||

तस्य बाणान्तराद्रक्तं बहु सुस्राव फेनिलम् |
गिरेः प्रस्रवणस्येव तोयधारापरिस्रवः || १०||

विह्वलः स कृतो बाणैः खरो रामेण संयुगे |
मत्तो रुधिरगन्धेन तमेवाभ्यद्रवद्द्रुतम् || ११||

तमापतन्तं संरब्धं कृतास्त्रो रुधिराप्लुतम् |
अपसर्पत्प्रतिपदं किं चित्त्वरितविक्रमः ||१२||

ततः पावकसङ्काशं बधाय समरे शरम् |
खरस्य रामो जग्राह ब्रह्मदण्डमिवापरम् || १३||

स तद्दत्तं मघवता सुरराजेन धीमता |
सन्दधे च स धर्मात्मा मुमोच च खरं प्रति || १४||

स विमुक्तो महाबाणो निर्घातसमनिःस्वनः |
रामेण धनुरुद्यम्य खरस्योरसि चापतत् || १५||

स पपात खरो भूमौ दह्यमानः शराग्निना |
रुद्रेणैव विनिर्दग्धः श्वेतारण्ये यथान्धकः || १६||

स वृत्र इव वज्रेण फेनेन नमुचिर्यथाअ |
बलो वेन्द्राशनिहतो निपपात हतः खरः || १७||

एतस्मिन्नन्तरे वीरो लक्ष्मणः सह सीतया |
गिरिदुर्गाद्विनिष्क्रम्य संविवेशाश्रमं सुखी ||१८ ||

ततो रामस्तु विजयी पूज्यमानो महर्षिभिः |
प्रविवेशाश्रमं वीरो लक्ष्मणेनाभिवादितः || १९||

तं दृष्ट्वा शत्रुहन्तारं महर्षीणां सुखावहम् |
बभूव हृष्टा वैदेही भर्तारं परिषस्वजे ||२० ||

20

678

Shri Rama eliminates Khara and Seetha and Lakshmana return from their hiding cave. Seetha becomes very happy on seeing her victorious and indefatigable husband.

32

ततः शूर्पणखा दृष्ट्वा सहस्राणि चतुर्दश |
हतान्येकेन रामेण रक्षसां भीमकर्मणाम् || १||

दूषणं च खरं चैव हतं त्रिशिरसं रणे |
दृष्ट्वा पुनर्महानादं ननाद जलदोपमा || २||

सा दृष्ट्वा कर्म रामस्य कृतमन्यैः सुदुष्करम् |
जगाम परमौद्विग्ना लङ्कां रावणपालिताम् || ३||

स ददर्श विमानाग्रे रावणं दीप्ततेजसं |
उपोपविष्टं सचिवैर्मरुद्भिरिव वासवम् || ४||

आसीनं सूर्यसङ्काशे काञ्चने परमासने |
रुक्मवेदिगतं प्राज्यं ज्वलन्तमिव पावकम् || ५||

देवगन्धर्वभूतानामृषीणां च महात्मनाम् |
अजेयं समरे शूरं व्यात्ताननमिवान्तकम् || ६||

देवासुरविमर्देषु वज्राशनिकृतव्रणम् |
ऐरावतविषाणाग्रैरुत्कृष्टकिणवक्षसं || ७||

विंशद्भुजं दशग्रीवं दर्शनीयपरिच्छदम् |
विशालवक्षसं वीरं राजलक्ष्मणलक्षितम् || ८||

स्निग्धवैदूर्यसङ्काशं तप्तकाञ्चनकुण्डलम् |
सुभुजं शुक्लदशनं महास्यं पर्वतोपमम् || ९||

विष्णुचक्रनिपातैश्च शतशो देवसंयुगे |
आहताङ्गं समस्तैश्च देवप्रहरणैस्तथा || १०||

अक्षोभ्याणां समुद्राणां क्षोभणं क्षिप्रकारिणम् |
क्षेप्तारं पर्वताग्राणां सुराणां च प्रमर्दनम् || ११||

उच्छेत्तारं च धर्माणां परदाराभिमर्शनम् |
सर्वदिव्यास्त्रयोक्तारं यज्ञविघ्नकरं सदा || १२||

पुरीं भोगवतीं गत्वा पराजित्य च वासुकिम् |
तक्षकस्य प्रियां भार्यां पराजित्य जहार यः || १३||

कैलासं पर्वतं गत्वा विजित्य नरवाहनम् |
विमानं पुष्पकं तस्य कामगं वै जहार यः || १४||

वनं चैत्ररथं दिव्यं नलिनीं नन्दनं वनम् |
विनाशयति यः क्रोधाद्देवोद्यानानि वीर्यवान् || १५||

चन्द्रसूर्यौ महाभागावुत्तिष्ठन्तौ परन्तपौ |
निवारयति बाहुभ्यां यः शैलशिखरोपमः || १६||

दशवर्षसहस्राणि तपस्तप्त्वा महावने |
पुरा स्वयम्भुवे धीरः शिरांस्युपजहार यः || १७||

देवदानवगन्धर्वपिशाचपतगोरगैः |
अभयं यस्य सङ्ग्रामे मृत्युतो मानुषादृते || १८||

मन्त्ररभितुष्टं पुण्यमध्वरेषु द्विजातिभिः |
हविर्धानेषु यः सोममुपहन्ति महाबलः || १९||

आप्तयज्ञहरं क्रूरं ब्रह्मघ्नं दुष्टचारिणम् |
कर्कशं निरनुक्रोशं प्रजानाम् अहिते रतम् |
रावणं सर्वभूतानां सर्वलोकभयावहम् || २०||

राक्षसी भ्रातरं क्रूरं सा ददर्श महाबलम् |
तं दिव्यवस्त्राभरणं दिव्यमाल्योपशोभितम् |
राक्षसेन्द्रं महाभागं पौलस्त्य कुलनन्दनम् || २१||

तमब्रवीद्दीप्तविशाललोचनं
प्रदर्शयित्वा भयमोहमूर्छिता |
सुदारुणं वाक्यमभीतचारिणी
महात्मना शूर्पणखा विरूपिता || २२||

22

700

Ravana is introduced here and his triumphs and victories in various battles are narrated here.  Shurpanakha approaches him to inform as to what had transpired in Janasthana.

33

ततः शूर्पणखा दीना रावणं लोकरावणम् |
अमात्यमध्ये सङ्क्रुद्धा परुषं वाक्यमब्रवीत् || १||

प्रमत्तः कामभोगेषु स्वैरवृत्तो निरङ्कुशः |
समुत्पन्नं भयं घोरं बोद्धव्यं नावबुध्यसे || २||

सक्तं ग्राम्येषु भोगेषु कामवृत्तं महीपतिम् |
लुब्धं न बहु मन्यन्ते श्मशानाग्निमिव प्रजाः || ३||

स्वयं कार्याणि यः काले नानुतिष्ठति पार्थिवः |
स तु वै सह राज्येन तैश्च कार्यैर्विनश्यति || ४||

अयुक्तचारं दुर्दर्शमस्वाधीनं नराधिपम् |
वर्जयन्ति नरा दूरान्नदीपङ्कमिव द्विपाः || ५||

ये न रक्षन्ति विषयमस्वाधीना नराधिपः |
ते न वृद्ध्या प्रकाशन्ते गिरयः सागरे यथा || ६||

आत्मवद्भिर्विगृह्य त्वं देवगन्धर्वदानवैः |
अयुक्तचारश्चपलः कथं राजा भविष्यसि || ७||

येषां चारश्च कोशश्च नयश्च जयतां वर |
अस्वाधीना नरेन्द्राणां प्राकृतैस्ते जनैः समाः || ८||

यस्मात्पश्यन्ति दूरस्थान्सर्वानर्थान्नराधिपाः |
चारेण तस्मादुच्यन्ते राजानो दीर्घचक्षुषः || ९||

अयुक्तचारं मन्ये त्वां प्राकृतैः सचिवैर्वृतम् |
स्वजनं च जनस्थानं हतं यो नावबुध्यसे || १०||

चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम् |
हतान्येकेन रामेण खरश्च सहदूषणः || ११||

ऋषीणामभयं दत्तं कृतक्षेमाश्च दण्डकाः |
धर्षितं च जनस्थानं रामेणाक्लिष्टकर्मणा || १२||

त्वं तु लुब्धः प्रमत्तश्च पराधीनश्च रावण |
विषये स्वे समुत्पन्नं भयं यो नावबुध्यसे || १३||

तीक्ष्णमल्पप्रदातारं प्रमत्तं गर्वितं शठम् |
व्यसने सर्वभूतानि नाभिधावन्ति पार्थिवम् || १४||

अतिमानिनमग्राह्यमात्मसम्भावितं नरम् |
क्रोधनं व्यसने हन्ति स्वजनोऽपि नराधिपम् || १५||

नानुतिष्ठति कार्याणि भयेषु न बिभेति च |
क्षिप्रं राज्याच्च्युतो दीनस्तृणैस्तुल्यो भविष्यति || १६||

शुष्ककाष्ठैर्भवेत्कार्यं लोष्टैरपि च पांसुभिः |
न तु स्थानात्परिभ्रष्टैः कार्यं स्याद्वसुधाधिपैः || १७||

उपभुक्तं यथा वासः स्रजो वा मृदिता यथा |
एवं राज्यात्परिभ्रष्टः समर्थोऽपि निरर्थकः || १८||

अप्रमत्तश्च यो राजा सर्वज्ञो विजितेन्द्रियः |
कृतज्ञो धर्मशीलश्च स राजा तिष्ठते चिरम् || १९||

नयनाभ्यां प्रसुप्तोऽपि जागर्ति नयचक्षुषा |
व्यक्तक्रोधप्रसादश्च स राजा पूज्यते जनैः || २०||

त्वं तु रावणदुर्बुद्धिर्गुणैरेतैर्विवर्जितः |
यस्य तेऽविदितश्चारै रक्षसां सुमहान्वधः || २१||

परावमन्ता विषयेषु सङ्गतो
नदेश कालप्रविभाग तत्त्ववित् |
अयुक्तबुद्धिर्गुणदोषनिश्चये
विपन्नराज्यो न चिराद्विपत्स्यते || २२||

इति स्वदोषान्परिकीर्तितांस्तया
समीक्ष्य बुद्ध्या क्षणदाचरेश्वरः |
धनेन दर्पेण बलेन चान्वितो
विचिन्तयामास चिरं स रावणः || २३||

23

723

Shurpanakha sneered at Ravana for his ignorance of what is going on in Janasthana, and due to which his kingdom is going to face a problematic situation soon.

34

ततः शूर्पणखां क्रुद्धां ब्रुवतीं परुषं वचः |
अमात्यमध्ये सङ्क्रुद्धः परिपप्रच्छ रावणः || १||

कश्च रामः कथं वीर्यः किं रूपः किं पराक्रमः |
किमर्थं दण्डकारण्यं प्रविष्टश्च सुदुश्चरम् || २||

आयुधं किं च रामस्य निहता येन राक्षसाः |
खरश्च निहतं सङ्ख्ये दूषणस्त्रिशिरास्तथा || ३||

इत्युक्ता राक्षसेन्द्रेण राक्षसी क्रोधमूर्छिता |
ततो रामं यथान्यायमाख्यातुमुपचक्रमे || ४||

दीर्घबाहुर्विशालाक्षश्चीरकृष्णाजिनाम्बरः |
कन्दर्पसमरूपश्च रामो दशरथात्मजः || ५||

शक्रचापनिभं चापं विकृष्य कनकाङ्गदम् |
दीप्तान्क्षिपति नाराचान्सर्पानिव महाविषान् || ६||

नाददानं शरान्घोरान्न मुञ्चन्तं महाबलम् |
न कार्मुकं विकर्षन्तं रामं पश्यामि संयुगे || ७||

हन्यमानं तु तत्सैन्यं पश्यामि शरवृष्टिभिः |
इन्द्रेणैवोत्तमं सस्यमाहतं त्वश्मवृष्टिभिः || ८||

रक्षसां भीमवीर्याणां सहस्राणि चतुर्दश |
निहतानि शरैस्तीक्ष्णैस्तेनैकेन पदातिना || ९||

अर्धाधिकमुहूर्तेन खरश्च सहदूषणः |
ऋषीणामभयं दत्तं कृतक्षेमाश्च दण्डकाः || १०||

एका कथं चिन्मुक्ताहं परिभूय महात्मना |
स्त्रीवधं शङ्कमानेन रामेण विदितात्मना || ११||

भ्राता चास्य महातेजा गुणतस्तुल्यविक्रमः |
अनुरक्तश्च भक्तश्च लक्ष्मणो नाम वीर्यवान् || १२||

अमर्षी दुर्जयो जेता विक्रान्तो बुद्धिमान्बली |
रामस्य दक्षिणे बाहुर्नित्यं प्राणो बहिष्चरः || १३||

रामस्य तु विशालाक्षी धर्मपत्नी यशस्विनी |
सीता नाम वरारोहा वैदेही तनुमध्यमा || १४||

नैव देवी न गन्धर्वा न यक्षी न च किंनरी |
तथारूपा मया नारी दृष्टपूर्वा महीतले || १५||

यस्य सीता भवेद्भार्या यं च हृष्टा परिष्वजेत् |
अतिजीवेत्स सर्वेषु लोकेष्वपि पुरन्दरात् || १६||

सा सुशीला वपुःश्लाघ्या रूपेणाप्रतिमा भुवि |
तवानुरूपा भार्या सा त्वं च तस्यास्तथा पतिः || १७||

तां तु विस्तीर्णजघनां पीनोत्तुङ्गपयोधराम् |
भार्यार्थे तु तवानेतुमुद्यताहं वराननाम् || १८||

तां तु दृष्ट्वाद्य वैदेहीं पूर्णचन्द्रनिभाननाम् |
मन्मथस्य शराणां च त्वं विधेयो भविष्यसि || १९||

यदि तस्यामभिप्रायो भार्यार्थे तव जायते |
शीघ्रमुद्ध्रियतां पादो जयार्थमिह दक्षिणः || २०||

कुरु प्रियं तथा तेषां रक्षसां राक्षसेश्वर |
वधात्तस्य नृशंसस्य रामस्याश्रमवासिनः || २१||

तं शरैर्निशितैर्हत्वा लक्ष्मणं च महारथम् |
हतनाथां सुखं सीतां यथावदुपभोक्ष्यसे || २२||

रोचते यदि ते वाक्यं ममैतद्राक्षसेश्वर |
क्रियतां निर्विशङ्केन वचनं मम राघव || २३||

निशम्य रामेण शरैरजिह्मगैर्
हताञ्जनस्थानगतान्निशाचरान् |
खरं च बुद्ध्वा निहतं च दूषणं
त्वमद्य कृत्यं प्रतिपत्तुमर्हसि || २४||

24

747

Ravana enquires about Shri Rama's valour and weaponry for which Shurpanakha narrates about Shri Rama, Seetha, and Lakshmana and what had transpired in Janasthaana. By praising Seetha’s beauty, she indirectly instigates Ravana to abduct her and make Sita as his wife.

इत्यार्षे श्री रामायणे अरण्यकाण्डे अष्टम: भाग:

 

Araṇyakāṇḍa Part-7

Araṇyakāṇḍa Part-9

No comments:

Post a Comment