Saturday, December 27, 2025

अरण्यकाण्ड - Araṇyakāṇḍa (भाग - ८ ;;; Part – 8)

 

अरण्यकाण्ड - Arayakāṇḍa (भाग - ;;; Part – 8)

 

Sarga number as per Ramayana

Shlokas extracted

No. of shlokas

Cumulative number of shlokas in this Kanda

30

भित्त्वा तु तां गदां बाणै राघवो धर्मवत्सलः |
स्मयमानः खरं वाक्यं संरब्धमिदमब्रवीत् || १||

एतत्ते बलसर्वस्वं दर्शितं राक्षसाधम |
शक्तिहीनतरो मत्तो वृथा त्वमुपगर्जितम् || २||

एषा बाणविनिर्भिन्ना गदा भूमितलं गता |
अभिधानप्रगल्भस्य तव प्रत्ययघातिनी || ३||

यत्त्वयोक्तं विनष्टानामिदमश्रुप्रमार्जनम् |
राक्षसानां करोमीति मिथ्या तदपि ते वचः || ४||

एवमुक्त्वा ततो रामं संरुध्य भृकुटिं ततः |
स ददर्श महासालमविदूरे निशाचरः || ५||

रणे प्रहरणस्यार्थे सर्वतो ह्यवलोकयन् |
स तमुत्पाटयामास सन्दृश्य दशनच्छदम् || ६||

तं समुत्क्षिप्य बाहुभ्यां विनर्दित्वा महाबलः |
राममुद्दिश्य चिक्षेप हतस्त्वमिति चाब्रवीत् || ७||

तमापतन्तं बाणौघैश्छित्त्वा रामः प्रतापवान् |
रोषमाहारयत्तीव्रं निहन्तुं समरे खरम् || ८||

जातस्वेदस्ततो रामो रोषाद्रक्तान्तलोचनः |
निर्बिभेद सहस्रेण बाणानां समरे खरम् || ९||

तस्य बाणान्तराद्रक्तं बहु सुस्राव फेनिलम् |
गिरेः प्रस्रवणस्येव तोयधारापरिस्रवः || १०||

विह्वलः स कृतो बाणैः खरो रामेण संयुगे |
मत्तो रुधिरगन्धेन तमेवाभ्यद्रवद्द्रुतम् || ११||

तमापतन्तं संरब्धं कृतास्त्रो रुधिराप्लुतम् |
अपसर्पत्प्रतिपदं किं चित्त्वरितविक्रमः ||१२||

ततः पावकसङ्काशं बधाय समरे शरम् |
खरस्य रामो जग्राह ब्रह्मदण्डमिवापरम् || १३||

स तद्दत्तं मघवता सुरराजेन धीमता |
सन्दधे च स धर्मात्मा मुमोच च खरं प्रति || १४||

स विमुक्तो महाबाणो निर्घातसमनिःस्वनः |
रामेण धनुरुद्यम्य खरस्योरसि चापतत् || १५||

स पपात खरो भूमौ दह्यमानः शराग्निना |
रुद्रेणैव विनिर्दग्धः श्वेतारण्ये यथान्धकः || १६||

स वृत्र इव वज्रेण फेनेन नमुचिर्यथाअ |
बलो वेन्द्राशनिहतो निपपात हतः खरः || १७||

एतस्मिन्नन्तरे वीरो लक्ष्मणः सह सीतया |
गिरिदुर्गाद्विनिष्क्रम्य संविवेशाश्रमं सुखी ||१८ ||

ततो रामस्तु विजयी पूज्यमानो महर्षिभिः |
प्रविवेशाश्रमं वीरो लक्ष्मणेनाभिवादितः || १९||

तं दृष्ट्वा शत्रुहन्तारं महर्षीणां सुखावहम् |
बभूव हृष्टा वैदेही भर्तारं परिषस्वजे ||२० ||

20

504

Shri Rama eliminates Khara and Seetha and Lakshmana return from their hiding cave. Seetha becomes very happy on seeing her victorious and indefatigable husband.

31

त्वरमणः ततो गत्वा जनस्थानात् अकंपनः |
प्रविश्य लंकाम् वेगेन रावणम् वाक्यम् अब्रवीत् || 

जनस्थान स्थिता राजन् रक्षसा बहवो हताः |
खरः च निहतः संख्ये क्थंचित् अहम् आगतः || 

एवम् उक्तो दशग्रीवः क्रुद्धः सम्‌रक्त लोचनः |
अकंपनम् उवाच इदम् निर्दहन् इव तेजसा ||

केन भीमम् जनस्थानम् हतम् मम परासुना |
को हि सर्वेषु लोकेषु गतिम् न अधिगमिष्यति || 

न हि मे विप्रियम् कृता शक्यम् मघवता सुखम् |
प्रप्तुम् वैश्रवणेन अपि न यमेन च विष्णुना ||

कालस्य च अपि अहम् कलो दहेयम् अपि पावकम् |

मृत्युम् मरण धर्मेण संयोजयितुम् उत्सहे ||

वातस्य तरसा वेगम् निहन्तुम् अपि च उत्सहे |

दहेयम् अपि संक्रुद्धः तेजसा आदित्य पावकौ ||

तथा क्रुद्धम् दशग्रीवम् कृतांजलिः अकंपनः |

भयात् संदिग्धया वचा रावणम् याचते अभयम् ||

दशग्रीवो अभयम् तस्मै प्रददौ रक्षसाम् वरः |

स विस्रब्धो अब्रवीत् वाक्यम् असंदिग्धम् अकंपनः ||

पुत्रो दशरथः ते सिंह संहननो युवा |

रामो नाम महास्कंधो वृत्त आयत महाभुजः ||

श्यामः पृथुयशाः श्रीमान् अतुल्य बल विक्रमः |

हतः तेन जनस्थाने खरः च सह दूषणः ||

अकंपन वचः श्रुत्वा रावणो राक्षसाधिप |

नागेन्द्र इव निःश्वस्य इदम् वचनम् अब्रवीत् ||

स सुरेन्द्रेण संयुक्तो रामः सर्व अमरैः सह |

उपयातो जनस्थानम् ब्रूहि कच्चित् अकंपन ||

रावणस्य पुनर् वाक्यम् निशम्य तद् अकंपनः |

आचचक्षे बलम् तस्य विक्रमम् च महात्मनः ||

रामो नाम महातेजाः श्रेष्टः सर्व धनुष्मताम् |

दिव्य अस्त्र गुण संपन्नः पुरंदरसमो युधि ||

तस्य अनुरूपो बलब्वान् रक्ताक्षो दुन्दुभि स्वनः |

कनीयान् लक्ष्मणो भ्राता राका शशि निभ आननः ||

स तेन सह संयुक्तः पावकेन अनिलो यथा |

श्रीमान् राज वरः तेन जनस्थानम् निपातितम् ||

न एव देवा महत्मनो न अत्र कार्या विचारणा |

शरा रामेण तु उत्सृष्टा रुक्मपुंखाः पतत्रिणः ||

सर्पाः पंचानना भूत्वा भक्षयन्ति स्म राक्षसान् |

येन येन च गच्छन्ति राक्षसा भय कर्शिताः ||

तेन तेन स्म पश्यन्ति रामम् एव अग्रतः स्थितम् |

इत्थम् विनाशितम् जनस्थानम् तेन तव अनघ ||

अकंपन अचः श्रुत्वा रावणो वाक्यम् अब्रवीत् |

गमिष्यामि जनस्थनम् रामम् हन्तुम् स लक्ष्मणम् ||

अथ एवम् उक्ते वचने प्रोवाच इदम् अकंपनः |

श्रुणु राजन् यथा वृत्तम् रामस्य बल पौरुषम् ||

असाध्यः कुपितो रामो विक्रमेण महायशाः |

आप गायाः तु पूर्णाया वेगम् परिहरेत् शरैः ||

स तारा ग्रह नक्षत्रम् नभः च अपि अवसादयेत् |

असौ रामः तु सीदन्तीम् श्रीमान् अभ्युद्धरेत् महीम् ||

भित्वा वेलाम् समुद्रस्य लोकान् आप्लावयेत् विभुः |

वेगम् वा अपि समुद्रस्य वाअयुम् वा विधमेत् शरैः ||

संहृत्य वा पुनर् लोकान् विक्रमेण महायशाः |

शकतः श्रेष्ठः स पुरुषः स्रष्टुम् पुनर् अपि प्रजाः ||

न हि रामो दशग्रीव शक्यो जेतुम् रणे त्वया |

रक्षसाम् वा अपि लोकेन स्वर्गः पाप जनैः इव ||

न तम् वध्यम् अहम् मन्ये सर्वैः देव असुरैः अपि |

अयम् अस्य वध उपाय तत् एकमनाः शृउणु ||

भार्या तस्य उत्तमा लोके सीता नाम सुमध्यमा |

श्यामा सम विभक्त अंगी स्त्री रत्नम् रत्न बूषिता ||

न एव देवी न गन्धर्वी न अप्सरा न च पन्नगी |

तुल्या सीमन्तिनी तस्या मानुषी तु कुतो भवेत् ||

तस्य अपहर भार्याम् त्वम् तम् प्रमथ्य महावने |

सीताया रहितो रामो न च एव हि भविष्यति ||

अरोचयत् तद् वाक्यम् रावणो राक्षस अधिपः |

चिंतयित्वा महाबाहुः अकंपनम् उवाच ||

बाढम् कल्यम् गमिष्यामि हि एकः सारथिना सह |

आनेष्यामि च वैदेहीम् इमाम् हृष्टो महा पुरीम् ||

33

537

A spy of Ravana, named Akampana, rushes to him to break the news of annihilation of army stationed at Janasthaana by Shri Rama. He suggests Ravana to abduct Seeta, as parting with Seetha causes grief to Shri Rama and thereby, he dies. On thinking for a while, Ravana decides to abduct Seeta.

इत्यार्षे श्री रामायणे अरण्यकाण्डे अष्टम: भाग:

 

Araṇyakāṇḍa Part-7

Araṇyakāṇḍa Part-9

No comments:

Post a Comment