Sunday, December 21, 2025

अयोध्याकाण्ड - Ayōdhyākāṇḍa (भाग - १० ;;; Part – 10)

 

अयोध्याकाण्ड - Ayōdhyākāṇḍa (भाग - १० ;;; Part – 10)

Sarga number as per Ramayana

Shlokas extracted

No. of shlokas

Cumulative number of shlokas in this Kanda

34

स रामप्रेषितः क्षिप्रं सन्तापकलुषेन्द्रियः |
प्रविश्य नृपतिं सूतो निःश्वसन्तं ददर्श ह || १||

आलोक्य तु महाप्राज्ञः परमाकुल चेतसं |
राममेवानुशोचन्तं सूतः प्राञ्जलिरासदत् || २||

अयं स पुरुषव्याघ्र द्वारि तिष्ठति ते सुतः |
ब्राह्मणेभ्यो धनं दत्त्वा सर्वं चैवोपजीविनाम् || ३||

स त्वा पश्यतु भद्रं ते रामः सत्यपराक्रमः |
सर्वान्सुहृद आपृच्छ्य त्वामिदानीं दिदृक्षते || ४||

गमिष्यति महारण्यं तं पश्य जगतीपते |
वृतं राजगुणैः सर्वैरादित्यमिव रश्मिभिः || ५||

स सत्यवादी धर्मात्मा गाम्भीर्यात्सागरोपमः |
आकाश इव निष्पङ्को नरेन्द्रः प्रत्युवाच तम् || ६||

सुमन्त्रानय मे दारान्ये के चिदिह मामकाः |
दारैः परिवृतः सर्वैर्द्रष्टुमिच्छामि राघवम् || ७||

सोऽन्तःपुरमतीत्यैव स्त्रियस्ता वाक्यमब्रवीत् |
आर्यो ह्वयति वो राजा गम्यतां तत्र माचिरम् || ८||

एवमुक्ताः स्त्रियः सर्वाः सुमन्त्रेण नृपाज्ञया |
प्रचक्रमुस्तद्भवनं भर्तुराज्ञाय शासनम् || ९||

अर्धसप्तशतास्तास्तु प्रमदास्ताम्रलोचनाः |
कौसल्यां परिवार्याथ शनैर्जग्मुर्धृतव्रताः || १०||

आगतेषु च दारेषु समवेक्ष्य महीपतिः |
उवाच राजा तं सूतं सुमन्त्रानय मे सुतम् || ११||

स सूतो राममादाय लक्ष्मणं मैथिलीं तदा |
जगामाभिमुखस्तूर्णं सकाशं जगतीपतेः || १२||

स राजा पुत्रमायान्तं दृष्ट्वा दूरात्कृताञ्जलिम् |
उत्पपातासनात्तूर्णमार्तः स्त्रीजनसंवृतः || १३||

सोऽभिदुद्राव वेगेन रामं दृष्ट्वा विशां पतिः |
तमसम्प्राप्य दुःखार्तः पपात भुवि मूर्छितः || १४||

तं रामोऽभ्यपातत्क्षिप्रं लक्ष्मणश्च महारथः |
विसंज्ञमिव दुःखेन सशोकं नृपतिं तदा || १५||

स्त्रीसहस्रनिनादश्च सञ्जज्ञे राजवेश्मनि |
हाहा रामेति सहसा भूषणध्वनिमूर्छितः || १६||

तं परिष्वज्य बाहुभ्यां तावुभौ रामलक्ष्मणौ |
पर्यङ्के सीतया सार्धं रुदन्तः समवेशयन् || १७||

अथ रामो मुहूर्तेन लब्धसंज्ञं महीपतिम् |
उवाच प्राञ्जलिर्भूत्वा शोकार्णवपरिप्लुतम् || १८||

आपृच्छे त्वां महाराज सर्वेषामीश्वरोऽसि नः |
प्रस्थितं दण्डकारण्यं पश्य त्वं कुशलेन माम् || १९||

लक्ष्मणं चानुजानीहि सीता चान्वेति मां वनम् |
कारणैर्बहुभिस्तथ्यैर्वार्यमाणौ न चेच्छतः || २०||

अनुजानीहि सर्वान्नः शोकमुत्सृज्य मानद |
लक्ष्मणं मां च सीतां च प्रजापतिरिव प्रजाः || २१||

प्रतीक्षमाणमव्यग्रमनुज्ञां जगतीपतेः |
उवाच रर्जा सम्प्रेक्ष्य वनवासाय राघवम् || २२||

अहं राघव कैकेय्या वरदानेन मोहितः |
अयोध्यायास्त्वमेवाद्य भव राजा निगृह्य माम् || २३||

एवमुक्तो नृपतिना रामो धर्मभृतां वरः |
प्रत्युवाचाञ्जलिं कृत्वा पितरं वाक्यकोविदः || २४||

भवान्वर्षसहस्राय पृथिव्या नृपते पतिः |
अहं त्वरण्ये वत्स्यामि न मे कार्यं त्वयानृतम् || २५||

श्रेयसे वृद्धये तात पुनरागमनाय च |
गच्छस्वारिष्टमव्यग्रः पन्थानमकुतोभयम् || २६||

अद्य त्विदानीं रजनीं पुत्र मा गच्छ सर्वथा |
मातरं मां च सम्पश्यन्वसेमामद्य शर्वरीम् |
तर्पितः सर्वकामैस्त्वं श्वःकाले साधयिष्यसि || २७||

अथ रामस्तथा श्रुत्वा पितुरार्तस्य भाषितम् |
लक्ष्मणेन सह भ्रात्रा दीनो वचनमब्रवीत् || २८||

प्राप्स्यामि यानद्य गुणान्को मे श्वस्तान्प्रदास्यति |
अपक्रमणमेवातः सर्वकामैरहं वृणे || २९||

इयं सराष्ट्रा सजना धनधान्यसमाकुला |
मया विसृष्टा वसुधा भरताय प्रदीयताम् || ३०||

अपगच्छतु ते दुःखं मा भूर्बाष्पपरिप्लुतः |
न हि क्षुभ्यति दुर्धर्षः समुद्रः सरितां पतिः || ३१||

नैवाहं राज्यमिच्छामि न सुखं न च मैथिलीम् |
त्वामहं सत्यमिच्छामि नानृतं पुरुषर्षभ || ३२||

पुरं च राष्ट्रं च मही च केवला
मया निसृष्टा भरताय दीयताम् |
अहं निदेशं भवतोऽनुपालयन्
वनं गमिष्यामि चिराय सेवितुम् || ३३||

मया निसृष्टां भरतो महीमिमां
सशैलखण्डां सपुरां सकाननाम् |
शिवां सुसीमामनुशास्तु केवलं
त्वया यदुक्तं नृपते यथास्तु तत् || ३४||

न मे तथा पार्थिव धीयते मनो
महत्सु कामेषु न चात्मनः प्रिये |
यथा निदेशे तव शिष्टसंमते
व्यपैतु दुःखं तव मत्कृतेऽनघ || ३५||

तदद्य नैवानघ राज्यमव्ययं
न सर्वकामान्न सुखं न मैथिलीम् |
न जीवितं त्वामनृतेन योजयन्
वृणीय सत्यं व्रतमस्तु ते तथा || ३६||

फलानि मूलानि च भक्षयन्वने
गिरींश्च पश्यन्सरितः सरांसि च |
वनं प्रविश्यैव विचित्रपादपं
सुखी भविष्यामि तवास्तु निर्वृतिः || ३७||

37

810

When Sumantra announced the arrival of Shri Rama, King Dasaratha orders all his wives to be present there.  And, his 350 wives alongwith Kausalya arrived there.

Thereafter, while trying to embrace Shri Rama, Dasaratha faints.  After regaining consciousness, Shri Rama consoles him.  He also stated that Lakshmana and Sita are following him to the Forest.

Though Dasaratha requests him to stay for 1 more day, Shri Rama was adamant on moving to the Forest on that day itself, as per the word given to Kaikeyi.

36

ततः सुमन्त्रमैक्ष्वाकः पीडितोऽत्र प्रतिज्ञया |
सबाष्पमतिनिःश्वस्य जगादेदं पुनः पुनः || १||

सूत रत्नसुसम्पूर्णा चतुर्विधबला चमूः |
रागवस्यानुयात्रार्थं क्षिप्रं प्रतिविधीयताम् || २||

रूपाजीवा च शालिन्यो वणिजश्च महाधनाः |
शोभयन्तु कुमारस्य वाहिनीं सुप्रसारिताः || ३||

ये चैनमुपजीवन्ति रमते यैश्च वीर्यतः |
तेषां बहुविधं दत्त्वा तानप्यत्र नियोजय || ४||

निघ्नन्मृगान्कुञ्जरांश्च पिबंश्चारण्यकं मधु |
नदीश्च विविधाः पश्यन्न राज्यं संस्मरिष्यति || ५||

धान्यकोशश्च यः कश्चिद्धनकोशश्च मामकः |
तौ राममनुगच्छेतां वसन्तं निर्जने वने || ६||

यजन्पुण्येषु देशेषु विसृजंश्चाप्तदक्षिणाः |
ऋषिभिश्च समागम्य प्रवत्स्यति सुखं वने || ७||

भरतश्च महाबाहुरयोध्यां पालयिष्यति |
सर्वकामैः पुनः श्रीमान्रामः संसाध्यताम् इति || ८||

एवं ब्रुवति काकुत्स्थे कैकेय्या भयमागतम् |
मुखं चाप्यगमाच्छेषं स्वरश्चापि न्यरुध्यत || ९||

सा विषण्णा च सन्त्रस्ता कैकेयी वाक्यमब्रवीत् |
राज्यं गतजनं साधो पीतमण्डां सुराम् इव |
निरास्वाद्यतमं शून्यं भरतो नाभिपत्स्यते || १०||

कैकेय्यां मुक्तलज्जायां वदन्त्यामतिदारुणम् |
राजा दशरथो वाक्यमुवाचायतलोचनाम् |
वहन्तं किं तुदसि मां नियुज्य धुरि माहिते || ११||

कैकेयी द्विगुणं क्रुद्धा राजानमिदमब्रवीत् |
तवैव वंशे सगरो ज्येष्ठं पुत्रमुपारुधत् |
असमञ्ज इति ख्यातं तथायं गन्तुमर्हति || १२||

एवमुक्तो धिगित्येव राजा दशरथोऽब्रवीत् || १३||

व्रीडितश्च जनः सर्वः सा च तन्नावबुध्यत |
तत्र वृद्धो महामात्रः सिद्धार्थो नाम नामतः |
शुचिर्बहुमतो राज्ञः कैकेयीमिदमब्रवीत् || १४||

असमञ्जो गृहीत्वा तु क्रीडितः पथि दारकान् |
सरय्वाः प्रक्षिपन्नप्सु रमते तेन दुर्मतिः || १५||

तं दृष्ट्वा नागरः सर्वे क्रुद्धा राजानमब्रुवन् |
असमञ्जं वृषीण्वैकमस्मान्वा राष्ट्रवर्धन || १६||

तानुवाच ततो राजा किंनिमित्तमिदं भयम् |
ताश्चापि राज्ञा सम्पृष्टा वाक्यं प्रकृतयोऽब्रुवन् || १७||

क्रीडितस्त्वेष नः पुत्रान्बालानुद्भ्रान्तचेतनः |
सरय्वां प्रक्षिपन्मौर्ख्यादतुलां प्रीतिमश्नुते || १८||

स तासां वचनं श्रुत्वा प्रकृतीनां नराधिप |
तं तत्याजाहितं पुत्रं तासां प्रियचिकीर्षया || १९||

इत्येवमत्यजद्राजा सगरो वै सुधार्मिकः |
रामः किमकरोत्पापं येनैवमुपरुध्यते || २०||

श्रुत्वा तु सिद्धार्थवचो राजा श्रान्ततरस्वनः |
शोकोपहतया वाचा कैकेयीमिदमब्रवीत् || २१||

अनुव्रजिष्याम्यहमद्य रामं
राज्यं परित्यज्य सुखं धनं च |
सहैव राज्ञा भरतेन च त्वं
यथा सुखं भुङ्क्ष्व चिराय राज्यम् || २२||

22

832

When King Dasaratha tried to send many servants, all material required for luxurious life to Shri Rama in the Forest, Kaikeyi objects to it.  Even Shri Rama did not accept to that proposal.

37

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 38

महामात्रवचः श्रुत्वा रामो दशरथं तदा |
अन्वभाषत वाक्यं तु विनयज्ञो विनीतवत् || १||

त्यक्तभोगस्य मे राजन्वने वन्येन जीवतः |
किं कार्यमनुयात्रेण त्यक्तसङ्गस्य सर्वतः || २||

यो हि दत्त्वा द्विपश्रेष्ठं कक्ष्यायां कुरुते मनः |
रज्जुस्नेहेन किं तस्य त्यजतः कुञ्जरोत्तमम् || ३||

तथा मम सतां श्रेष्ठ किं ध्वजिन्या जगत्पते |
सर्वाण्येवानुजानामि चीराण्येवानयन्तु मे || ४||

खनित्रपिटके चोभे ममानयत गच्छतः |
चतुर्दश वने वासं वर्षाणि वसतो मम || ५||

अथ चीराणि कैकेयी स्वयमाहृत्य राघवम् |
उवाच परिधत्स्वेति जनौघे निरपत्रपा || ६||

स चीरे पुरुषव्याघ्रः कैकेय्याः प्रतिगृह्य ते |
सूक्ष्मवस्त्रमवक्षिप्य मुनिवस्त्राण्यवस्त ह || ७||

लक्ष्मणश्चापि तत्रैव विहाय वसने शुभे |
तापसाच्छादने चैव जग्राह पितुरग्रतः || ८||

अथात्मपरिधानार्थं सीता कौशेयवासिनी |
समीक्ष्य चीरं सन्त्रस्ता पृषती वागुराम् इव || ९||

सा व्यपत्रपमाणेव प्रतिगृह्य च दुर्मनाः |
गन्धर्वराजप्रतिमं भर्तारमिदमब्रवीत् |
कथं नु चीरं बध्नन्ति मुनयो वनवासिनः || १०||

कृत्वा कण्ठे च सा चीरमेकमादाय पाणिना |
तस्थौ ह्यकुषला तत्र व्रीडिता जनकात्मज || ११||

तस्यास्तत्क्षिप्रमागम्य रामो धर्मभृतां वरः |
चीरं बबन्ध सीतायाः कौशेयस्योपरि स्वयम् || १२||

तस्यां चीरं वसानायां नाथवत्यामनाथवत् |
प्रचुक्रोश जनः सर्वो धिक्त्वां दशरथं त्विति || १३||

स निःश्वस्योष्णमैक्ष्वाकस्तां भार्यामिदमब्रवीत् |
कैकेयि कुशचीरेण न सीता गन्तुमर्हति || १४||

ननु पर्याप्तमेतत्ते पापे रामविवासनम् |
किमेभिः कृपणैर्भूयः पातकैरपि ते कृतैः || १५||

एवं ब्रुवन्तं पितरं रामः सम्प्रस्थितो वनम् |
अवाक्षिरसमासीनमिदं वचनमब्रवीत् || १६||

इयं धार्मिक कौसल्या मम माता यशस्विनी |
वृद्धा चाक्षुद्रशीला च न च त्वां देवगर्हिते || १७||

मया विहीनां वरद प्रपन्नां शोकसागरम् |
अदृष्टपूर्वव्यसनां भूयः संमन्तुमर्हसि || १८||

इमां महेन्द्रोपमजातगर्भिणीं
तथा विधातुं जनमीं ममार्हसि |
यथा वनस्थे मयि शोककर्शिता
न जीवितं न्यस्य यमक्षयं व्रजेत् || १९||

19

851

Jute-cloths that are befitting to sages and saints are brought in for the three at the behest of Kaikeyi. Shri Rama and Lakshmana accept and wear them. However, Seetha could not wear it, as she does not know how to wear it.  Shri Rama himself shows as to how to wear them.

39

रामस्य तु वचः श्रुत्वा मुनिवेषधरं च तम् |
समीक्ष्य सह भार्याभी राजा विगतचेतनः || १||

नैनं दुःखेन सन्तप्तः प्रत्यवैक्षत राघवम् |
न चैनमभिसम्प्रेक्ष्य प्रत्यभाषत दुर्मनाः || २||

स मुहूर्तमिवासंज्ञो दुःखितश्च महीपतिः |
विललाप महाबाहू राममेवानुचिन्तयन् || ३||

मन्ये खलु मया पूर्वं विवत्सा बहवः कृताः |
प्राणिनो हिंसिता वापि तस्मादिदमुपस्थितम् || ४||

न त्वेवानागते काले देहाच्च्यवति जीवितम् |
कैकेय्या क्लिश्यमानस्य मृत्युर्मम न विद्यते || ५||

योऽहं पावकसङ्काशं पश्यामि पुरतः स्थितम् |
विहाय वसने सूक्ष्मे तापसाच्छादमात्मजम् || ६||

एकस्याः खलु कैकेय्याः कृतेऽयं क्लिश्यते जनः |
स्वार्थे प्रयतमानायाः संश्रित्य निकृतिं त्विमाम् || ७||

एवमुक्त्वा तु वचनं बाष्पेण पिहितेक्ष्णह |
रामेति सकृदेवोक्त्वा व्याहर्तुं न शशाक ह || ८||

संज्ञां तु प्रतिलभ्यैव मुहूर्तात्स महीपतिः |
नेत्राभ्यामश्रुपूर्णाभ्यां सुमन्त्रमिदमब्रवीत् || ९||

औपवाह्यं रथं युक्त्वा त्वमायाहि हयोत्तमैः |
प्रापयैनं महाभागमितो जनपदात्परम् || १०||

एवं मन्ये गुणवतां गुणानां फलमुच्यते |
पित्रा मात्रा च यत्साधुर्वीरो निर्वास्यते वनम् || ११||

राज्ञो वचनमाज्ञाय सुमन्त्रः शीघ्रविक्रमः |
योजयित्वाययौ तत्र रथमश्वैरलङ्कृतम् || १२||

तं रथं राजपुत्राय सूतः कनकभूषितम् |
आचचक्षेऽञ्जलिं कृत्वा युक्तं परमवाजिभिः || १३||

राजा सत्वरमाहूय व्यापृतं वित्तसञ्चये |
उवाच देशकालज्ञो निश्चितं सर्वतः शुचि || १४||

वासांसि च महार्हाणि भूषणानि वराणि च |
वर्षाण्येतानि सङ्ख्याय वैदेह्याः क्षिप्रमानय || १५||

नरेन्द्रेणैवमुक्तस्तु गत्वा कोशगृहं ततः |
प्रायच्छत्सर्वमाहृत्य सीतायै क्षिप्रमेव तत् || १६||

सा सुजाता सुजातानि वैदेही प्रस्थिता वनम् |
भूषयामास गात्राणि तैर्विचित्रैर्विभूषणैः || १७||

व्यराजयत वैदेही वेश्म तत्सुविभूषिता |
उद्यतोऽंशुमतः काले खं प्रभेव विवस्वतः || १८||

तां भुजाभ्यां परिष्वज्य श्वश्रूर्वचनमब्रवीत् |
अनाचरन्तीं कृपणं मूध्न्युपाघ्राय मैथिलीम् || १९||

असत्यः सर्वलोकेऽस्मिन्सततं सत्कृताः प्रियैः |
भर्तारं नानुमन्यन्ते विनिपातगतं स्त्रियः || २०||

स त्वया नावमन्तव्यः पुत्रः प्रव्राजितो मम |
तव दैवतमस्त्वेष निर्धनः सधनोऽपि वा || २१||

विज्ञाय वचनं सीता तस्या धर्मार्थसंहितम् |
कृताञ्जलिरुवाचेदं श्वश्रूमभिमुखे स्थिता || २२||

करिष्ये सर्वमेवाहमार्या यदनुशास्ति माम् |
अभिज्ञास्मि यथा भर्तुर्वर्तितव्यं श्रुतं च मे || २३||

न मामसज्जनेनार्या समानयितुमर्हति |
धर्माद्विचलितुं नाहमलं चन्द्रादिव प्रभा || २४||

नातन्त्री वाद्यते वीणा नाचक्रो वर्तते रथः |
नापतिः सुखमेधते या स्यादपि शतात्मजा || २५||

मितं ददाति हि पिता मितं माता मितं सुतः |
अमितस्य हि दातारं भर्तारं का न पूजयेत् || २६||

साहमेवङ्गता श्रेष्ठा श्रुतधर्मपरावरा |
आर्ये किमवमन्येयं स्त्रीणां भर्ता हि दैवतम् || २७||

सीताया वचनं श्रुत्वा कौसल्या हृदयङ्गमम् |
शुद्धसत्त्वा मुमोचाश्रु सहसा दुःखहर्षजम् || २८||

तां प्राञ्जलिरभिक्रम्य मातृमध्येऽतिसत्कृताम् |
रामः परमधर्मज्ञो मातरं वाक्यमब्रवीत् || २९||

अम्ब मा दुःखिता भूस्त्वं पश्य त्वं पितरं मम |
क्षयो हि वनवासस्य क्षिप्रमेव भविष्यति || ३०||

सुप्तायास्ते गमिष्यन्ति नववर्षाणि पञ्च च |
सा समग्रमिह प्राप्तं मां द्रक्ष्यसि सुहृद्वृतम् || ३१||

एतावदभिनीतार्थमुक्त्वा स जननीं वचः |
त्रयः शतशतार्धा हि ददर्शावेक्ष्य मातरः || ३२||

ताश्चापि स तथैवार्ता मातॄर्दशरथात्मजः |
धर्मयुक्तमिदं वाक्यं निजगाद कृताञ्जलिः || ३३||

संवासात्परुषं किं चिदज्ञानाद्वापि यत्कृतम् |
तन्मे समनुजानीत सर्वाश्चामन्त्रयामि वः || ३४||

जज्ञेऽथ तासां संनादः क्रौञ्चीनामिव निःस्वनः |
मानवेन्द्रस्य भार्याणामेवं वदति राघवे || ३५||

35

886

As the ascetic life is only for Shri Rama, King Dasaratha orders beautiful clothes, ornaments may be given to Sita and the same were arranged.

Then, the king orders a chariot to be fetched, which can drop Shri Rama, Sita and Lakshmana at the borders of the kingdom.

इत्यार्षे श्री रामायणे अयोध्याकाण्डे दशम: भाग:

 

Ayōdhyākāṇḍa Part-9

Ayōdhyākāṇḍa Part-11

 

No comments:

Post a Comment