Monday, December 22, 2025

अयोध्याकाण्ड - Ayōdhyākāṇḍa (भाग - १२ ;;; Part – 12)

 

अयोध्याकाण्ड - Ayōdhyākāṇḍa (भाग - १२ ;;; Part – 12)

Sarga number as per Ramayana

Shlokas extracted

No. of shlokas

Cumulative number of shlokas in this Kanda

45

अनुरक्ता महात्मानं रामं सत्यपरक्रमम् |
अनुजग्मुः प्रयान्तं तं वनवासाय मानवाः || १||

निवर्तितेऽपि च बलात्सुहृद्वर्गे च राजिनि |
नैव ते संन्यवर्तन्त रामस्यानुगता रथम् || २||

अयोध्यानिलयानां हि पुरुषाणां महायशाः |
बभूव गुणसम्पन्नः पूर्णचन्द्र इव प्रियः || ३||

स याच्यमानः काकुत्स्थः स्वाभिः प्रकृतिभिस्तदा |
कुर्वाणः पितरं सत्यं वनमेवान्वपद्यत || ४||

अवेक्षमाणः सस्नेहं चक्षुषा प्रपिबन्निव |
उवाच रामः स्नेहेन ताः प्रजाः स्वाः प्रजा इव || ५||

या प्रीतिर्बहुमानश्च मय्ययोध्यानिवासिनाम् |
मत्प्रियार्थं विशेषेण भरते सा निवेश्यताम् || ६||

स हि कल्याण चारित्रः कैकेय्यानन्दवर्धनः |
करिष्यति यथावद्वः प्रियाणि च हितानि च || ७||

ज्ञानवृद्धो वयोबालो मृदुर्वीर्यगुणान्वितः |
अनुरूपः स वो भर्ता भविष्यति भयापहः || ८||

स हि राजगुणैर्युक्तो युवराजः समीक्षितः |
अपि चापि मया शिष्टैः कार्यं वो भर्तृशासनम् || ९||

न च तप्येद्यथा चासौ वनवासं गते मयि |
महाराजस्तथा कार्यो मम प्रियचिकीर्षया || १०||

यथा यथा दाशरथिर्धर्ममेवास्थितोऽभवत् |
तथा तथा प्रकृतयो रामं पतिमकामयन् || ११||

बाष्पेण पिहितं दीनं रामः सौमित्रिणा सह |
चकर्षेव गुणैर्बद्ध्वा जनं पुनरिवासनम् || १२||

एवमार्तप्रलापांस्तान्वृद्धान्प्रलपतो द्विजान् |
अवेक्ष्य सहसा रामो रथादवततार ह ||१३ ||

पद्भ्यामेव जगामाथ ससीतः सहलक्ष्मणः |
संनिकृष्टपदन्यासो रामो वनपरायणः ||१४ ||

गच्छन्तमेव तं दृष्ट्वा रामं सम्भ्रान्तमानसाः |
ऊचुः परमसन्तप्ता रामं वाक्यमिदं द्विजाः || १५||

ब्राह्मण्यं कृत्स्नमेतत्त्वां ब्रह्मण्यमनुगच्छति |
द्विजस्कन्धाधिरूढास्त्वामग्नयोऽप्यनुयान्त्यमी || १६||

न पुनर्निश्चयः कार्यस्त्वद्गतौ सुकृता मतिः |
त्वयि धर्मव्यपेक्षे तु किं स्याद्धर्ममवेक्षितुम् ||१७||

याचितो नो निवर्तस्व हंसशुक्लशिरोरुहैः |
शिरोभिर्निभृताचार महीपतनपांशुलैः ||१८ ||

बहूनां वितता यज्ञा द्विजानां य इहागताः |
तेषां समाप्तिरायत्ता तव वत्स निवर्तने ||१९||

भक्तिमन्ति हि भूतानि जङ्गमाजङ्गमानि च |
याचमानेषु तेषु त्वं भक्तिं भक्तेषु दर्शय ||२०||

अनुगन्तुमशक्तास्त्वां मूलैरुद्धृतवेगिभिः |
उन्नता वायुवेगेन विक्रोशन्तीव पादपाः ||२१||

निश्चेष्टाहारसञ्चारा वृक्षैकस्थानविष्ठिताः |
पक्षिणोऽपि प्रयाचन्ते सर्वभूतानुकम्पिनम् ||२२||

एवं विक्रोशतां तेषां द्विजातीनां निवर्तने |
ददृशे तमसा तत्र वारयन्तीव राघवम् || २३||

ततः सुमन्त्रोऽपि रथाद्विमुच्य |
श्रान्तान्हयान्सम्परिवर्त्य श्रीघ्राम् |
पीतोदकांस्तोयपरिप्लुताङ्गा |
नचारयद्वै तमसाविदूरे ||२४||

24

1015

The people devoted to Shri Rama accompanied him on his way to the forest for exile. Those brahmanas, who were revered for their learning, their age and their spirituality, their heads shaking with advanced years, cried out following the chariot, to Shri Rama to come back.

Seeing those aged brahmanas uttering those painful words, Shri Rama quickly got down from the chariot. Shri Rama with Sita and Lakshmana, taking close strides, proceeded on foot towards the forest. And, they finally reached river Tamasa. Thereafter, Sumantra the charioteer too released the horses, from the chariot and allowed them to graze not very far from the bank of Tamasa.

46

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 47

ततस्तु तमसा तीरं रम्यमाश्रित्य राघवः |
सीतामुद्वीक्ष्य सौमित्रिमिदं वचनमब्रवीत् || १||

इयमद्य निशा पूर्वा सौमित्रे प्रस्थिता वनम् |
वनवासस्य भद्रं ते स नोत्कण्ठितुमर्हसि || २||

पश्य शून्यान्यरण्यानि रुदन्तीव समन्ततः |
यथानिलयमायद्भिर्निलीनानि मृगद्विजैः || ३||

अद्यायोध्या तु नगरी राजधानी पितुर्मम |
सस्त्रीपुंसा गतानस्माञ्शोचिष्यति न संशयः || ४||

भरतः खलु धर्मात्मा पितरं मातरं च मे |
धर्मार्थकामसहितैर्वाक्यैराश्वासयिष्यति || ५||

भरतस्यानृशंसत्वं सञ्चिन्त्याहं पुनः पुनः |
नानुशोचामि पितरं मातरं चापि लक्ष्मण || ६||

त्वया कार्यं नरव्याघ्र मामनुव्रजता कृतम् |
अन्वेष्टव्या हि वैदेह्या रक्षणार्थे सहायता || ७||

अद्भिरेव तु सौमित्रे वत्स्याम्यद्य निशामिमाम् |
एतद्धि रोचते मह्यं वन्येऽपि विविधे सति || ८||

एवमुक्त्वा तु सौमित्रं सुमन्त्रमपि राघवः |
अप्रमत्तस्त्वमश्वेषु भव सौम्येत्युवाच ह || ९||

सोऽश्वान्सुमन्त्रः संयम्य सूर्येऽस्तं समुपागते |
प्रभूतयवसान्कृत्वा बभूव प्रत्यनन्तरः || १०||

उपास्यतु शिवां सन्ध्यां दृष्ट्वा रात्रिमुपस्थिताम् |
रामस्य शयनं चक्रे सूतः सौमित्रिणा सह || ११||

तां शय्यां तमसातीरे वीक्ष्य वृक्षदलैः कृताम् |
रामः सौमित्रिणां सार्धं सभार्यः संविवेश ह || १२||

सभार्यं सम्प्रसुप्तं तं भ्रातरं वीक्ष्य लक्ष्मणः |
कथयामास सूताय रामस्य विविधान्गुणान् || १३||

जाग्रतो ह्येव तां रात्रिं सौमित्रेरुदितो रविः |
सूतस्य तमसातीरे रामस्य ब्रुवतो गुणान् || १४||

गोकुलाकुलतीरायास्तमसाया विदूरतः |
अवसत्तत्र तां रात्रिं रामः प्रकृतिभिः सह || १५||

उत्थाय तु महातेजाः प्रकृतीस्ता निशाम्य च |
अब्रवीद्भ्रातरं रामो लक्ष्मणं पुण्यलक्षणम् || १६||

अस्मद्व्यपेक्षान्सौमित्रे निरपेक्षान्गृहेष्वपि |
वृक्षमूलेषु संसुप्तान्पश्य लक्ष्मण साम्प्रतम् || १७||

यथैते नियमं पौराः कुर्वन्त्यस्मन्निवर्तने |
अपि प्राणानसिष्यन्ति न तु त्यक्ष्यन्ति निश्चयम् || १८||

यावदेव तु संसुप्तास्तावदेव वयं लघु |
रथमारुह्य गच्छामः पन्थानमकुतोभयम् || १९||

अतो भूयोऽपि नेदानीमिक्ष्वाकुपुरवासिनः |
स्वपेयुरनुरक्ता मां वृक्षमूलानि संश्रिताः || २०||

पौरा ह्यात्मकृताद्दुःखाद्विप्रमोच्या नृपात्मजैः |
न तु खल्वात्मना योज्या दुःखेन पुरवासिनः || २१||

अब्रवील्लक्ष्मणो रामं साक्षाद्धर्ममिव स्थितम् |
रोचते मे महाप्राज्ञ क्षिप्रमारुह्यताम् इति || २२||

सूतस्ततः सन्त्वरितः स्यन्दनं तैर्हयोत्तमैः |
योजयित्वाथ रामाय प्राञ्जलिः प्रत्यवेदयत् || २३||

मोहनार्थं तु पौराणां सूतं रामोऽब्रवीद्वचः |
उदङ्मुखः प्रयाहि त्वं रथमास्थाय सारथे || २४||

मुहूर्तं त्वरितं गत्वा निर्गतय रथं पुनः |
यथा न विद्युः पौरा मां तथा कुरु समाहितः || २५||

रामस्य वचनं श्रुत्वा तथा चक्रे स सारथिः |
प्रत्यागम्य च रामस्य स्यन्दनं प्रत्यवेदयत् || २६||

तं स्यन्दनमधिष्ठाय राघवः सपरिच्छदः |
शीघ्रगामाकुलावर्तां तमसामतरन्नदीम् || २७||

स सन्तीर्य महाबाहुः श्रीमाञ्शिवमकण्टकम् |
प्रापद्यत महामार्गमभयं भयदर्शिनाम् || २८||

प्रभातायां तु शर्वर्यां पौरास्ते राघवो विना |
शोकोपहतनिश्चेष्टा बभूवुर्हतचेतसः || २९||

शोकजाश्रुपरिद्यूना वीक्षमाणास्ततस्ततः |
आलोकमपि रामस्य न पश्यन्ति स्म दुःखिताः || ३०||

ततो मार्गानुसारेण गत्वा किं चित्क्षणं पुनः |
मार्गनाशाद्विषादेन महता समभिप्लुतः || ३१||

रथस्य मार्गनाशेन न्यवर्तन्त मनस्विनः |
किमिदं किं करिष्यामो दैवेनोपहता इति || ३२||

ततो यथागतेनैव मार्गेण क्लान्तचेतसः |
अयोध्यामगमन्सर्वे पुरीं व्यथितसज्जनाम् || ३३||

33

1048

Shri Rama and others spent that night on the banks of Tamasa River.  And, Shri Rama, Sita and Lakshmana woke up in the early hours of the next day, while the citizens who followed them were still sleeping, ascended the chariot and departed quickly towards the Forest.

When the citizens woke up, the citizens found that Shri Rama already had left towards their destination, returned to Ayodhya in a dejected mood.

49

रामोऽपि रात्रिशेषेण तेनैव महदन्तरम् |
जगाम पुरुषव्याघ्रः पितुराज्ञाम् अनुस्मरन् || १||

तथैव गच्छतस्तस्य व्यपायाद्रजनी शिवा |
उपास्य स शिवां सन्ध्यां विषयान्तं व्यगाहत || २||

ग्रामान्विकृष्टसीमांस्तान्पुष्पितानि वनानि च |
पश्यन्नतिययौ शीघ्रं शरैरिव हयोत्तमैः || ३||

शृण्वन्वाचो मनुष्याणां ग्रामसंवासवासिनाम् |
राजानं धिग्दशरथं कामस्य वशमागतम् || ४||

हा नृशंसाद्य कैकेयी पापा पापानुबन्धिनी |
तीक्ष्णा सम्भिन्नमर्यादा तीक्ष्णे कर्मणि वर्तते || ५||

या पुत्रमीदृशं राज्ञः प्रवासयति धार्मिकम् |
वन वासे महाप्राज्ञं सानुक्रोशमतन्द्रितम् || ६||

एता वाचो मनुष्याणां ग्रामसंवासवासिनाम् |
शृण्वन्नतिययौ वीरः कोसलान्कोसलेश्वरः || ७||

ततो वेदश्रुतिं नाम शिववारिवहां नदीम् |
उत्तीर्याभिमुखः प्रायादगस्त्याध्युषितां दिशम् || ८||

गत्वा तु सुचिरं कालं ततः शीतजलां नदीम् |
गोमतीं गोयुतानूपामतरत्सागरङ्गमाम् || ९||

गोमतीं चाप्यतिक्रम्य राघवः शीघ्रगैर्हयैः |
मयूरहंसाभिरुतां ततार स्यन्दिकां नदीम् || १०||

10

1058

Shri Rama continued his journey, crossed the Vedashruti river, while discussing with Lakshmana.

50

विशालान्कोसलान्रम्यान्यात्वा लक्ष्मणपूर्वजः |
आससाद महाबाहुः शृङ्गवेरपुरं प्रति || १||

तत्र त्रिपथगां दिव्यां शिवतोयामशैवलाम् |
ददर्श राघवो गङ्गां पुण्यामृषिनिसेविताम् || २||

हंससारससङ्घुष्टां चक्रवाकोपकूजिताम् |
शिंशुमरैश्च नक्रैश्च भुजङ्गैश्च निषेविताम् || ३||

तामूर्मिकलिलावर्तामन्ववेक्ष्य महारथः |
सुमन्त्रमब्रवीत्सूतमिहैवाद्य वसामहे || ४||

अविदूरादयं नद्या बहुपुष्पप्रवालवान् |
सुमहानिङ्गुदीवृक्षो वसामोऽत्रैव सारथे || ५||

लक्षणश्च सुमन्त्रश्च बाढमित्येव राघवम् |
उक्त्वा तमिङ्गुदीवृक्षं तदोपययतुर्हयैः || ६||

रामोऽभियाय तं रम्यं वृक्षमिक्ष्वाकुनन्दनः |
रथादवातरत्तस्मात्सभार्यः सहलक्ष्मणः || ७||

सुमन्त्रोऽप्यवतीर्यैव मोचयित्वा हयोत्तमान् |
वृक्षमूलगतं राममुपतस्थे कृताञ्जलिः || ८||

तत्र राजा गुहो नाम रामस्यात्मसमः सखा |
निषादजात्यो बलवान्स्थपतिश्चेति विश्रुतः || ९||

स श्रुत्वा पुरुषव्याघ्रं रामं विषयमागतम् |
वृद्धैः परिवृतोऽमात्यैर्ज्ञातिभिश्चाप्युपागतः || १०||

ततो निषादाधिपतिं दृष्ट्वा दूरादवस्थितम् |
सह सौमित्रिणा रामः समागच्छद्गुहेन सः || ११||

तमार्तः सम्परिष्वज्य गुहो राघवमब्रवीत् |
यथायोध्या तथेदं ते राम किं करवाणि ते || १२||

ततो गुणवदन्नाद्यमुपादाय पृथग्विधम् |
अर्घ्यं चोपानयत्क्षिप्रं वाक्यं चेदमुवाच ह || १३||

स्वागतं ते महाबाहो तवेयमखिला मही |
वयं प्रेष्या भवान्भर्ता साधु राज्यं प्रशाधि नः || १४||

भक्ष्यं भोज्यं च पेयं च लेह्यं चेदमुपस्थितम् |
शयनानि च मुख्यानि वाजिनां खादनं च ते || १५||

गुहमेव ब्रुवाणं तं राघवः प्रत्युवाच ह |
अर्चिताश्चैव हृष्टाश्च भवता सर्वथा वयम् || १६||

पद्भ्यामभिगमाच्चैव स्नेहसन्दर्शनेन च |
भुजाभ्यां साधुवृत्ताभ्यां पीडयन्वाक्यमब्रवीत् || १७||

दिष्ट्या त्वां गुह पश्यामि अरोगं सह बान्धवैः |
अपि ते कूशलं राष्ट्रे मित्रेषु च धनेषु च || १८||

यत्त्विदं भवता किं चित्प्रीत्या समुपकल्पितम् |
सर्वं तदनुजानामि न हि वर्ते प्रतिग्रहे || १९||

कुशचीराजिनधरं फलमूलाशनं च माम् |
विद्धि प्रणिहितं धर्मे तापसं वनगोचरम् || २०||

अश्वानां खादनेनाहमर्थी नान्येन केन चित् |
एतावतात्रभवता भविष्यामि सुपूजितः || २१||

एते हि दयिता राज्ञः पितुर्दशरथस्य मे |
एतैः सुविहितैरश्वैर्भविष्याम्यहमर्चितः || २२||

अश्वानां प्रतिपानं च खादनं चैव सोऽन्वशात् |
गुहस्तत्रैव पुरुषांस्त्वरितं दीयताम् इति || २३||

ततश्चीरोत्तरासङ्गः सन्ध्यामन्वास्य पश्चिमाम् |
जलमेवाददे भोज्यं लक्ष्मणेनाहृतं स्वयम् || २४||

तस्य भूमौ शयानस्य पादौ प्रक्षाल्य लक्ष्मणः |
सभार्यस्य ततोऽभ्येत्य तस्थौ वृक्षमुपाश्रितः || २५||

गुहोऽपि सह सूतेन सौमित्रिमनुभाषयन् |
अन्वजाग्रत्ततो राममप्रमत्तो धनुर्धरः || २६||

तथा शयानस्य ततोऽस्य धीमतो
यशस्विनो दाशरथेर्महात्मनः |
अदृष्टदुःखस्य सुखोचितस्य सा
तदा व्यतीयाय चिरेण शर्वरी || २७||

27

1085

Having crossed Kosala territory, Shri Rama reached the river of Ganga and directed Sumantra to stop near a sacred fig tree. There, a king named Guha, a Nishada by birth and the ruler of Nishadas, and who was Shri Rama's dear friend heard about Shri Rama’s arrival, came there alongwith elderly ministers and relatives.  Shri Rama spent that night there.

इत्यार्षे श्री रामायणे अयोध्याकाण्डे द्वादश: भाग:

 

Ayōdhyākāṇḍa Part-11

Ayōdhyākāṇḍa Part-13

 

No comments:

Post a Comment