Monday, December 22, 2025

अयोध्याकाण्ड - Ayōdhyākāṇḍa (भाग - १३ ;;; Part – 13)

 

अयोध्याकाण्ड - Ayōdhyākāṇḍa (भाग - ;;; Part – 13)

 

Sarga number as per Ramayana

Shlokas extracted

No. of shlokas

Cumulative number of shlokas in this Kanda

52

प्रभातायां तु शर्वर्यां पृथु वृक्षा महायशाः |
उवाच रामः सौमित्रिं लक्ष्मणं शुभलक्षणम् || १||

भास्करोदयकालोऽयं गता भगवती निशा |
असौ सुकृष्णो विहगः कोकिलस्तात कूजति || २||

बर्हिणानां च निर्घोषः श्रूयते नदतां वने |
तराम जाह्नवीं सौम्य शीघ्रगां सागरङ्गमाम् || ३||

विज्ञाय रामस्य वचः सौमित्रिर्मित्रनन्दनः |
गुहमामन्त्र्य सूतं च सोऽतिष्ठद्भ्रातुरग्रतः || ४||

ततः कलापान्संनह्य खड्गौ बद्ध्वा च धन्विनौ |
जग्मतुर्येन तौ गङ्गां सीतया सह राघवौ || ५||

राममेव तु धर्मज्ञमुपगम्य विनीतवत् |
किमहं करवाणीति सूतः प्राञ्जलिरब्रवीत् || ६||

निवर्तस्वेत्युवाचैनमेतावद्धि कृतं मम |
यानं विहाय पद्भ्यां तु गमिष्यामो महावनम् || ७||

आत्मानं त्वभ्यनुज्ञातमवेक्ष्यार्तः स सारथिः |
सुमन्त्रः पुरुषव्याघ्रमैक्ष्वाकमिदमब्रवीत् || ८||

नातिक्रान्तमिदं लोके पुरुषेणेह केन चित् |
तव सभ्रातृभार्यस्य वासः प्राकृतवद्वने || ९||

न मन्ये ब्रह्मचर्येऽस्ति स्वधीते वा फलोदयः |
मार्दवार्जवयोर्वापि त्वां चेद्व्यसनमागतम् || १०||

सह राघव वैदेह्या भ्रात्रा चैव वने वसन् |
त्वं गतिं प्राप्स्यसे वीर त्रीँल्लोकांस्तु जयन्निव || ११||

वयं खलु हता राम ये तयाप्युपवञ्चिताः |
कैकेय्या वशमेष्यामः पापाया दुःखभागिनः || १२||

इति ब्रुवन्नात्म समं सुमन्त्रः सारथिस्तदा |
दृष्ट्वा दुर गतं रामं दुःखार्तो रुरुदे चिरम् || १३||

ततस्तु विगते बाष्पे सूतं स्पृष्टोदकं शुचिम् |
रामस्तु मधुरं वाक्यं पुनः पुनरुवाच तम् || १४||

इक्ष्वाकूणां त्वया तुल्यं सुहृदं नोपलक्षये |
यथा दशरथो राजा मां न शोचेत्तथा कुरु || १५||

शोकोपहत चेताश्च वृद्धश्च जगतीपतिः |
काम भारावसन्नश्च तस्मादेतद्ब्रवीमि ते || १६||

यद्यदाज्ञापयेत्किं चित्स महात्मा महीपतिः |
कैकेय्याः प्रियकामार्थं कार्यं तदविकाङ्क्षया || १७||

एतदर्थं हि राज्यानि प्रशासति नरेश्वराः |
यदेषां सर्वकृत्येषु मनो न प्रतिहन्यते || १८||

तद्यथा स महाराजो नालीकमधिगच्छति |
न च ताम्यति दुःखेन सुमन्त्र कुरु तत्तथा || १९||

अदृष्टदुःखं राजानं वृद्धमार्यं जितेन्द्रियम् |
ब्रूयास्त्वमभिवाद्यैव मम हेतोरिदं वचः || २०||

नैवाहमनुशोचामि लक्ष्मणो न च मैथिली |
अयोध्यायाश्च्युताश्चेति वने वत्स्यामहेति वा || २१||

चतुर्दशसु वर्षेषु निवृत्तेषु पुनः पुनः |
लक्ष्मणं मां च सीतां च द्रक्ष्यसि क्षिप्रमागतान् || २२||

एवमुक्त्वा तु राजानं मातरं च सुमन्त्र मे |
अन्याश्च देवीः सहिताः कैकेयीं च पुनः पुनः || २३||

आरोग्यं ब्रूहि कौसल्यामथ पादाभिवन्दनम् |
सीताया मम चार्यस्य वचनाल्लक्ष्मणस्य च || २४||

ब्रूयाश्च हि महाराजं भरतं क्षिप्रमानय |
आगतश्चापि भरतः स्थाप्यो नृपमते पदे || २५||

भरतं च परिष्वज्य यौवराज्येऽभिषिच्य च |
अस्मत्सन्तापजं दुःखं न त्वामभिभविष्यति || २६||

भरतश्चापि वक्तव्यो यथा राजनि वर्तसे |
तथा मातृषु वर्तेथाः सर्वास्वेवाविशेषतः || २७||

यथा च तव कैकेयी सुमित्रा चाविशेषतः |
तथैव देवी कौसल्या मम माता विशेषतः || २८||

इत्युक्त्वा वचनं सूतं सान्त्वयित्वा पुनः पुनः |
गुहं वचनमक्लीबं रामो हेतुमदब्रवीत् |
जटाः कृत्वा गमिष्यामि न्यग्रोधक्षीरमानय || २९||

तत्क्षीरं राजपुत्राय गुहः क्षिप्रमुपाहरत् |
लक्ष्मणस्यात्मनश्चैव रामस्तेनाकरोज्जटाः || ३०||

तौ तदा चीरवसनौ जटामण्डलधारिणौ |
अशोभेतामृषिसमौ भ्रातरौ रामलक्ष्मणौ || ३१||

ततो वैखानसं मार्गमास्थितः सहलक्ष्मणः |
व्रतमादिष्टवान्रामः सहायं गुहमब्रवीत् || ३२||

अप्रमत्तो बले कोशे दुर्गे जनपदे तथा |
भवेथा गुह राज्यं हि दुरारक्षतमं मतम् || ३३||

ततस्तं समनुज्ञाय गुहमिक्ष्वाकुनन्दनः |
जगाम तूर्णमव्यग्रः सभार्यः सहलक्ष्मणः || ३४||

स तु दृष्ट्वा नदीतीरे नावमिक्ष्वाकुनन्दनः |
तितीर्षुः शीघ्रगां गङ्गामिदं लक्ष्मणमब्रवीत् || ३५||

आरोह त्वं नर व्याघ्र स्थितां नावमिमां शनैः |
सीतां चारोपयान्वक्षं परिगृह्य मनस्विनीम् || ३६||

स भ्रातुः शासनं श्रुत्वा सर्वमप्रतिकूलयन् |
आरोप्य मैथिलीं पूर्वमारुरोहात्मवांस्ततः || ३७||

अथारुरोह तेजस्वी स्वयं लक्ष्मणपूर्वजः |
ततो निषादाधिपतिर्गुहो ज्ञातीनचोदयत् || ३८||

अनुज्ञाय सुमन्त्रं च सबलं चैव तं गुहम् |
आस्थाय नावं रामस्तु चोदयामास नाविकान् || ३९||

ततस्तैश्चोदिता सा नौः कर्णधारसमाहिता |
शुभस्फ्यवेगाभिहता शीघ्रं सलिलमत्यगात् || ४०||

मध्यं तु समनुप्राप्य भागीरथ्यास्त्वनिन्दिता |
वैदेही प्राञ्जलिर्भूत्वा तां नदीमिदमब्रवीत् || ४१||

पुत्रो दशरथस्यायं महाराजस्य धीमतः |
निदेशं पालयत्वेनं गङ्गे त्वदभिरक्षितः || ४२||

चतुर्दश हि वर्षाणि समग्राण्युष्य कानने |
भ्रात्रा सह मया चैव पुनः प्रत्यागमिष्यति || ४३||

ततस्त्वां देवि सुभगे क्षेमेण पुनरागता |
यक्ष्ये प्रमुदिता गङ्गे सर्वकामसमृद्धये || ४४||

तथा सम्भाषमाणा सा सीता गङ्गामनिन्दिता |
दक्षिणा दक्षिणं तीरं क्षिप्रमेवाभ्युपागमत् || ४५||

तीरं तु समनुप्राप्य नावं हित्वा नरर्षभः |
प्रातिष्ठत सह भ्रात्रा वैदेह्या च परन्तपः || ४६||

अथाब्रवीन्महाबाहुः सुमित्रानन्दवर्धनम् |
अग्रतो गच्छ सौमित्रे सीता त्वाम् अनुगच्छतु || ४७||

पृष्ठतोऽहं गमिष्यामि त्वां च सीतां च पालयन् |
अद्य दुःखं तु वैदेही वनवासस्य वेत्स्यति || ४||

गतं तु गङ्गापरपारमाशु
रामं सुमन्त्रः प्रततं निरीक्ष्य |
अध्वप्रकर्षाद्विनिवृत्तदृष्टिर्
मुमोच बाष्पं व्यथितस्तपस्वी || ४९||

49

930

Next morning, Guha arranges boat for transporting Shri Rama, Sita and Lakshmana to the other bank of the river Ganga. Then, Shri Rama bids farewell to Sumantra and conveys his words to King Dasaratha and others through him.

After ascending the boat, Shri Rama bids farewell to Guha also.  When the boat reached the middle of the river, Sita prayed to Ganga.

इत्यार्षे श्री रामायणे अयोध्याकाण्डे त्रयोदश: भाग: 

 

Ayōdhyākāṇḍa Part-12

Ayōdhyākāṇḍa Part-14

 

No comments:

Post a Comment