अयोध्याकाण्ड - Ayōdhyākāṇḍa (भाग - १३
;;; Part – 13)
|
Sarga
number as per Ramayana |
Shlokas extracted |
No. of shlokas |
Cumulative number of shlokas in this
Kanda |
|
52 |
प्रभातायां तु शर्वर्यां पृथु वृक्षा महायशाः | भास्करोदयकालोऽयं गता भगवती निशा | बर्हिणानां च निर्घोषः श्रूयते नदतां वने | विज्ञाय रामस्य वचः सौमित्रिर्मित्रनन्दनः | ततः
कलापान्संनह्य खड्गौ बद्ध्वा च धन्विनौ | राममेव तु धर्मज्ञमुपगम्य विनीतवत् | निवर्तस्वेत्युवाचैनमेतावद्धि कृतं मम | आत्मानं त्वभ्यनुज्ञातमवेक्ष्यार्तः स सारथिः | नातिक्रान्तमिदं लोके पुरुषेणेह केन चित् | न
मन्ये ब्रह्मचर्येऽस्ति स्वधीते वा फलोदयः | सह
राघव वैदेह्या भ्रात्रा चैव वने वसन् | वयं
खलु हता राम ये तयाप्युपवञ्चिताः | इति
ब्रुवन्नात्म समं सुमन्त्रः सारथिस्तदा | ततस्तु विगते बाष्पे सूतं स्पृष्टोदकं शुचिम् | इक्ष्वाकूणां त्वया तुल्यं सुहृदं नोपलक्षये | शोकोपहत चेताश्च वृद्धश्च जगतीपतिः | यद्यदाज्ञापयेत्किं चित्स महात्मा महीपतिः | एतदर्थं हि राज्यानि प्रशासति नरेश्वराः | तद्यथा स महाराजो नालीकमधिगच्छति | अदृष्टदुःखं राजानं वृद्धमार्यं जितेन्द्रियम् | नैवाहमनुशोचामि लक्ष्मणो न च मैथिली | चतुर्दशसु वर्षेषु निवृत्तेषु पुनः पुनः | एवमुक्त्वा तु राजानं मातरं च सुमन्त्र मे | आरोग्यं ब्रूहि कौसल्यामथ पादाभिवन्दनम् | ब्रूयाश्च हि महाराजं भरतं क्षिप्रमानय | भरतं
च परिष्वज्य यौवराज्येऽभिषिच्य च | भरतश्चापि वक्तव्यो यथा राजनि वर्तसे | यथा
च तव कैकेयी सुमित्रा चाविशेषतः | इत्युक्त्वा वचनं सूतं सान्त्वयित्वा पुनः पुनः | तत्क्षीरं राजपुत्राय गुहः क्षिप्रमुपाहरत् | तौ
तदा चीरवसनौ जटामण्डलधारिणौ | ततो
वैखानसं मार्गमास्थितः सहलक्ष्मणः | अप्रमत्तो बले कोशे दुर्गे जनपदे तथा | ततस्तं समनुज्ञाय गुहमिक्ष्वाकुनन्दनः | स
तु दृष्ट्वा नदीतीरे नावमिक्ष्वाकुनन्दनः | आरोह
त्वं नर व्याघ्र स्थितां नावमिमां शनैः | स
भ्रातुः शासनं श्रुत्वा सर्वमप्रतिकूलयन् | अथारुरोह तेजस्वी स्वयं लक्ष्मणपूर्वजः | अनुज्ञाय सुमन्त्रं च सबलं चैव तं गुहम् | ततस्तैश्चोदिता सा नौः कर्णधारसमाहिता | मध्यं
तु समनुप्राप्य भागीरथ्यास्त्वनिन्दिता | पुत्रो दशरथस्यायं महाराजस्य धीमतः | चतुर्दश हि वर्षाणि समग्राण्युष्य कानने | ततस्त्वां देवि सुभगे क्षेमेण पुनरागता | तथा
सम्भाषमाणा सा सीता गङ्गामनिन्दिता | तीरं
तु समनुप्राप्य नावं हित्वा नरर्षभः | अथाब्रवीन्महाबाहुः सुमित्रानन्दवर्धनम् | पृष्ठतोऽहं गमिष्यामि त्वां च सीतां च पालयन् | गतं
तु गङ्गापरपारमाशु |
49 |
930 |
|
Next morning, Guha arranges boat for transporting Shri Rama, Sita and Lakshmana to the other bank of the river Ganga. Then, Shri Rama bids farewell to Sumantra and conveys his words to King Dasaratha and others through him. After ascending the
boat, Shri Rama bids farewell to Guha also.
When the boat reached the middle of the river, Sita prayed to Ganga. |
|||
इत्यार्षे श्री रामायणे अयोध्याकाण्डे त्रयोदश: भाग:
No comments:
Post a Comment