Tuesday, December 23, 2025

अयोध्याकाण्ड - Ayōdhyākāṇḍa (भाग - १४ ;;; Part – 14)

 

अयोध्याकाण्ड - Ayōdhyākāṇḍa (भाग - ;;; Part – 14)

Sarga number as per Ramayana

Shlokas extracted

No. of shlokas

Cumulative number of shlokas in this Kanda

53

 

 

 

 

 

 

54

स तं वृक्षं समासाद्य सन्ध्यामन्वास्य पश्चिमाम् |
रामो रमयतां श्रेष्ठ इति होवाच लक्ष्मणम् || १||

अद्येयं प्रथमा रात्रिर्याता जनपदाद्बहिः |
या सुमन्त्रेण रहिता तां नोत्कण्ठितुमर्हसि || २||

जागर्तव्यमतन्द्रिभ्यामद्य प्रभृति रात्रिषु |
योगक्षेमो हि सीताया वर्तते लक्ष्मणावयोः || ३||

रात्रिं कथं चिदेवेमां सौमित्रे वर्तयामहे |
उपावर्तामहे भूमावास्तीर्य स्वयमार्जितैः || ४||

ते तु तस्मिन्महावृक्ष उषित्वा रजनीं शिवाम् |
विमलेऽभ्युदिते सूर्ये तस्माद्देशात्प्रतस्थिरे || ५||

यत्र भागीरथी गङ्गा यमुनाम् अभिवर्तते |
जग्मुस्तं देशमुद्दिश्य विगाह्य सुमहद्वनम् || ६||

ते भूमिमागान्विविधान्देशांश्चापि मनोरमान् |
अदृष्टपूर्वान्पश्यन्तस्तत्र तत्र यशस्विनः || ७||

यथाक्षेमेण गच्छन्स पश्यंश्च विविधान्द्रुमान् |
निवृत्तमात्रे दिवसे रामः सौमित्रिमब्रवीत् || ८||

प्रयागमभितः पश्य सौमित्रे धूममुन्नतम् |
अग्नेर्भगवतः केतुं मन्ये संनिहितो मुनिः || ९||

नूनं प्राप्ताः स्म सम्भेदं गङ्गायमुनयोर्वयम् |
तथा हि श्रूयते शम्ब्दो वारिणा वारिघट्टितः || १०||

दारूणि परिभिन्नानि वनजैरुपजीविभिः |
भरद्वाजाश्रमे चैते दृश्यन्ते विविधा द्रुमाः || ११||

धन्विनौ तौ सुखं गत्वा लम्बमाने दिवाकरे |
गङ्गायमुनयोः सन्धौ प्रापतुर्निलयं मुनेः || १२||

रामस्त्वाश्रममासाद्य त्रासयन्मृगपक्षिणः |
गत्वा मुहूर्तमध्वानं भरद्वाजमुपागमत् || १३||

ततस्त्वाश्रममासाद्य मुनेर्दर्शनकाङ्क्षिणौ |
सीतयानुगतौ वीरौ दूरादेवावतस्थतुः || १४||

हुताग्निहोत्रं दृष्ट्वैव महाभागं कृताञ्जलिः |
रामः सौमित्रिणा सार्धं सीतया चाभ्यवादयत् || १५||

न्यवेदयत चात्मानं तस्मै लक्ष्मणपूर्वजः |
पुत्रौ दशरथस्यावां भगवन्रामलक्ष्मणौ || १६||

भार्या ममेयं वैदेही कल्याणी जनकात्मजा |
मां चानुयाता विजनं तपोवनमनिन्दिता || १७||

पित्रा प्रव्राज्यमानं मां सौमित्रिरनुजः प्रियः |
अयमन्वगमद्भ्राता वनमेव दृढव्रतः || १८||

पित्रा नियुक्ता भगवन्प्रवेष्यामस्तपोवनम् |
धर्ममेवाचरिष्यामस्तत्र मूलफलाशनाः || १९||

तस्य तद्वचनं श्रुत्वा राजपुत्रस्य धीमतः |
उपानयत धर्मात्मा गामर्घ्यमुदकं ततः || २०||

मृगपक्षिभिरासीनो मुनिभिश्च समन्ततः |
राममागतमभ्यर्च्य स्वागतेनाह तं मुनिः || २१||

प्रतिगृह्य च तामर्चामुपविष्टं सराघवम् |
भरद्वाजोऽब्रवीद्वाक्यं धर्मयुक्तमिदं तदा || २२||

चिरस्य खलु काकुत्स्थ पश्यामि त्वामिहागतम् |
श्रुतं तव मया चेदं विवासनमकारणम् || २३||

अवकाशो विविक्तोऽयं महानद्योः समागमे |
पुण्यश्च रमणीयश्च वसत्विह भगान्सुखम् || २४||

एवमुक्तस्तु वचनं भरद्वाजेन राघवः |
प्रत्युवाच शुभं वाक्यं रामः सर्वहिते रतः || २५||

भगवन्नित आसन्नः पौरजानपदो जनः |
आगमिष्यति वैदेहीं मां चापि प्रेक्षको जनः |
अनेन कारणेनाहमिह वासं न रोचये || २६||

एकान्ते पश्य भगवन्नाश्रमस्थानमुत्तमम् |
रमते यत्र वैदेही सुखार्हा जनकात्मजा || २७||

एतच्छ्रुत्वा शुभं वाक्यं भरद्वाजो महामुनिः |
राघवस्य ततो वाक्यमर्थ ग्राहकमब्रवीत् || २८||

दशक्रोश इतस्तात गिरिर्यस्मिन्निवत्स्यसि |
महर्षिसेवितः पुण्यः सर्वतः सुख दर्शनः || २९||

गोलाङ्गूलानुचरितो वानरर्क्षनिषेवितः |
चित्रकूट इति ख्यातो गन्धमादनसंनिभः || ३०||

यावता चित्र कूटस्य नरः शृङ्गाण्यवेक्षते |
कल्याणानि समाधत्ते न पापे कुरुते मनः || ३१||

ऋषयस्तत्र बहवो विहृत्य शरदां शतम् |
तपसा दिवमारूढाः कपालशिरसा सह || ३२||

प्रविविक्तमहं मन्ये तं वासं भवतः सुखम् |
इह वा वनवासाय वस राम मया सह || ३३||

स रामं सर्वकामैस्तं भरद्वाजः प्रियातिथिम् |
सभार्यं सह च भ्रात्रा प्रतिजग्राह धर्मवित् || ३४||

तस्य प्रयागे रामस्य तं महर्षिमुपेयुषः |
प्रपन्ना रजनी पुण्या चित्राः कथयतः कथाः || ३५||

35

1222

Shri Rama and others crossed the river and spent that night under a big tree.  He told Lakshmana to be vigilant and keep watch over the safety of Sita.

Having spent the night under the big tree, Shri Rama, Lakshmana and Seetha started from that place, penetrated into a deep forest, and proceeded towards the confluence point of river Yamuna with river Ganga.

There they reached the hermitage of Bharadwaja, and greeted him with joined palms. Shri Rama introduced himself, Sita and Lakshmana to the sage and explained his oath to practise asceticism, living on roots and fruits for 14 years.

Sage Bharadwaja offered hospitality to them for that night.   Shri Rama requested him to suggest some secluded place in the Forest, where they can spend their time, without being observed by people. Sage Bharadwaja directed him to Chitrakuta, sacred mountain which lies Sixty miles away from there.  As that was a lonely place, they can spend their time there.

55

उषित्वा रजनीं तत्र राजपुत्रावरिन्दमौ |
महर्षिमभिवाद्याथ जग्मतुस्तं गिरिं प्रति || १||

प्रस्थितांश्चैव तान्प्रेक्ष्य पिता पुत्रानिवान्वगात् |
ततः प्रचक्रमे वक्तुं वचनं स महामुनिः || २||

अथासाद्य तु कालिन्दीं शीघ्रस्रोतसमापगाम् |
तत्र यूयं प्लवं कृत्वा तरतांशुमतीं नदीम् || ३||

ततो न्यग्रोधमासाद्य महान्तं हरितच्छदम् |
विवृद्धं बहुभिर्वृक्षैः श्यामं सिद्धोपसेवितम् || ४||

क्रोशमात्रं ततो गत्वा नीलं द्रक्ष्यथ काननम् |
पलाशबदरीमिश्रं राम वंशैश्च यामुनैः || ५||

स पन्थाश्चित्रकूटस्य गतः सुबहुशो मया |
रम्यो मार्दवयुक्तश्च वनदावैर्विवर्जितः |
इति पन्थानमावेद्य महर्षिः स न्यवर्तत || ६||

उपावृत्ते मुनौ तस्मिन्रामो लक्ष्मणमब्रवीत् |
कृतपुण्याः स्म सौमित्रे मुनिर्यन्नोऽनुकम्पते || ७||

इति तौ पुरुषव्याघ्रौ मन्त्रयित्वा मनस्विनौ |
सीतामेवाग्रतः कृत्वा कालिन्दीं जग्मतुर्नदीम् || ८||

तौ काष्ठसङ्घाटमथो चक्रतुः सुमहाप्लवम् |
चकार लक्ष्मणश्छित्त्वा सीतायाः सुखमानसं || ९||

तत्र श्रियमिवाचिन्त्यां रामो दाशरथिः प्रियाम् |
ईषत्संलज्जमानां तामध्यारोपयत प्लवम् || १०||

ततः प्लवेनांशुमतीं शीघ्रगामूर्मिमालिनीम् |
तीरजैर्बहुभिर्वृक्षैः सन्तेरुर्यमुनां नदीम् || ११||

ते तीर्णाः प्लवमुत्सृज्य प्रस्थाय यमुनावनात् |
श्यामं न्यग्रोधमासेदुः शीतलं हरितच्छदम् || १२||

कौसल्यां चैव पश्येयं सुमित्रां च यशस्विनीम् |
इति सीताञ्जलिं कृत्वा पर्यगछद्वनस्पतिम् || १३||

क्रोशमात्रं ततो गत्वा भ्रातरौ रामलक्ष्मणौ |
बहून्मेध्यान्मृगान्हत्वा चेरतुर्यमुनावने || १४||

विहृत्य ते बर्हिणपूगनादिते
शुभे वने वारणवानरायुते |
समं नदीवप्रमुपेत्य संमतं
निवासमाजग्मुरदीनदर्शनः || १५||

15

1237

After spending that night there at dawn bidding farewell to Sage Bharadwaja, they proceeded towards Chitrakuta.

56

अथ रात्र्यां व्यतीतायाम् अवसुप्तमनन्तरम् |
प्रबोधयामास शनैर्लक्ष्मणं रघुनन्दनः || १||

सौमित्रे शृणु वन्यानां वल्गु व्याहरतां स्वनम् |
सम्प्रतिष्ठामहे कालः प्रस्थानस्य परन्तप || २||

स सुप्तः समये भ्रात्रा लक्ष्मणः प्रतिबोधितः |
जहौ निद्रां च तन्द्रीं च प्रसक्तं च पथि श्रमम् || ३||

तत उत्थाय ते सर्वे स्पृष्ट्वा नद्याः शिवं जलम् |
पन्थानमृषिणोद्दिष्टं चित्रकूटस्य तं ययुः || ४||

ततः सम्प्रस्थितः काले रामः सौमित्रिणा सह |
सीतां कमलपत्राक्षीमिदं वचनमब्रवीत् || ५||

आदीप्तानिव वैदेहि सर्वतः पुष्पितान्नगान् |
स्वैः पुष्पैः किंशुकान्पश्य मालिनः शिशिरात्यये || ६||

पश्य भल्लातकान्फुल्लान्नरैरनुपसेवितान् |
फलपत्रैरवनतान्नूनं शक्ष्यामि जीवितुम् || ७||

पश्य द्रोणप्रमाणानि लम्बमानानि लक्ष्मण |
मधूनि मधुकारीभिः सम्भृतानि नगे नगे || ८||

एष क्रोशति नत्यूहस्तं शिखी प्रतिकूजति |
रमणीये वनोद्देशे पुष्पसंस्तरसङ्कटे || ९||

मातङ्गयूथानुसृतं पक्षिसङ्घानुनादितम् |
चित्रकूटमिमं पश्य प्रवृद्धशिखरं गिरिम् || १०||

ततस्तौ पादचारेण गच्छन्तौ सह सीतया |
रम्यमासेदतुः शैलं चित्रकूटं मनोरमम् || ११||

तं तु पर्वतमासाद्य नानापक्षिगणायुतम् |
अयं वासो भवेत्तावदत्र सौम्य रमेमहि || १२||

लक्ष्मणानय दारूणि दृढानि च वराणि च |
कुरुष्वावसथं सौम्य वासे मेऽभिरतं मनः || १३||

तस्य तद्वचनं श्रुत्वा सौमित्रिर्विविधान्द्रुमान् |
आजहार ततश्चक्रे पर्ण शालामरिं दम || १४||

शुश्रूषमाणमेकाग्रमिदं वचनमब्रवीत् |
ऐणेयं मांसमाहृत्य शालां यक्ष्यामहे वयम् || १५||

स लक्ष्मणः कृष्णमृगं हत्वा मेध्यं पतापवान् |
अथ चिक्षेप सौमित्रिः समिद्धे जातवेदसि || १६||

तं तु पक्वं समाज्ञाय निष्टप्तं छिन्नशोणितम् |
लक्ष्मणः पुरुषव्याघ्रमथ राघवमब्रवीत् || १७||

अयं कृष्णः समाप्ताङ्गः शृतः कृष्ण मृगो यथा |
देवता देवसङ्काश यजस्व कुशलो ह्यसि || १८||

रामः स्नात्वा तु नियतो गुणवाञ्जप्यकोविदः |
पापसंशमनं रामश्चकार बलिमुत्तमम् || १९||

तां वृक्षपर्णच्छदनां मनोज्ञां
यथाप्रदेशं सुकृतां निवाताम् |
वासाय सर्वे विविशुः समेताः
सभां यथा देव गणाः सुधर्माम् || २०||

अनेकनानामृगपक्षिसङ्कुले
विचित्रपुष्पस्तबलैर्द्रुमैर्युते |
वनोत्तमे व्यालमृगानुनादिते
तथा विजह्रुः सुसुखं जितेन्द्रियाः || २१||

सुरम्यमासाद्य तु चित्रकूटं
नदीं च तां माल्यवतीं सुतीर्थाम् |
ननन्द हृष्टो मृगपक्षिजुष्टां
जहौ च दुःखं पुरविप्रवासात् || २२||

22

1259

Thereafter, Shri Rama and Lakshmana along with Seetha traveling on foot, approached the mountain of Chitrakuta.  And, paying respects to Sage Valmiki near Chitrakuta, they constructed huts in that area and started living there.

57

कथयित्वा सुदुःखार्तः सुमन्त्रेण चिरं सह |
रामे दक्षिण कूलस्थे जगाम स्वगृहं गुहः || १||

अनुज्ञातः सुमन्त्रोऽथ योजयित्वा हयोत्तमान् |
अयोध्यामेव नगरीं प्रययौ गाढदुर्मनाः || २||

स वनानि सुगन्धीनि सरितश्च सरांसि च |
पश्यन्नतिययौ शीघ्रं ग्रामाणि नगराणि च || ३||

ततः सायाह्नसमये तृतीयेऽहनि सारथिः |
अयोध्यां समनुप्राप्य निरानन्दां ददर्श ह || ४||

स शून्यामिव निःशब्दां दृष्ट्वा परमदुर्मनाः |
सुमन्त्रश्चिन्तयामास शोकवेगसमाहतः || ५||

कच्चिन्न सगजा साश्वा सजना सजनाधिपा |
राम सन्तापदुःखेन दग्धा शोकाग्निना पुरी |
इति चिन्तापरः सूतस्त्वरितः प्रविवेश ह || ६||

सुमन्त्रमभियान्तं तं शतशोऽथ सहस्रशः |
क्व राम इति पृच्छन्तः सूतमभ्यद्रवन्नराः || ७||

तेषां शशंस गङ्गायामहमापृच्छ्य राघवम् |
अनुज्ञातो निवृत्तोऽस्मि धार्मिकेण महात्मना || ८||

ते तीर्णा इति विज्ञाय बाष्पपूर्णमुखा जनाः |
अहो धिगिति निःश्वस्य हा रामेति च चुक्रुशुः || ९||

शुश्राव च वचस्तेषां वृन्दं वृन्दं च तिष्ठताम् |
हताः स्म खलु ये नेह पश्याम इति राघवम् || १०||

दानयज्ञविवाहेषु समाजेषु महत्सु च |
न द्रक्ष्यामः पुनर्जातु धार्मिकं राममन्तरा || ११||

किं समर्थं जनस्यास्य किं प्रियं किं सुखावहम् |
इति रामेण नगरं पितृवत्परिपालितम् || १२||

वातायनगतानां च स्त्रीणामन्वन्तरापणम् |
रामशोकाभितप्तानां शुश्राव परिदेवनम् || १३||

स राजमार्गमध्येन सुमन्त्रः पिहिताननः |
यत्र राजा दशरथस्तदेवोपययौ गृहम् || १४||

सोऽवतीर्य रथाच्छीघ्रं राजवेश्म प्रविश्य च |
कक्ष्याः सप्ताभिचक्राम महाजनसमाकुलाः || १५||

ततो दशरथस्त्रीणां प्रासादेभ्यस्ततस्ततः |
रामशोकाभितप्तानां मन्दं शुश्राव जल्पितम् || १६||

सह रामेण निर्यातो विना राममिहागतः |
सूतः किं नाम कौसल्यां शोचन्तीं प्रतिवक्ष्यति || १७||

यथा च मन्ये दुर्जीवमेवं न सुकरं ध्रुवम् |
आच्छिद्य पुत्रे निर्याते कौसल्या यत्र जीवति || १८||

सत्य रूपं तु तद्वाक्यं राज्ञः स्त्रीणां निशामयन् |
प्रदीप्तमिव शोकेन विवेश सहसा गृहम् || १९||

स प्रविश्याष्टमीं कक्ष्यां राजानं दीनमातुलम् |
पुत्रशोकपरिद्यूनमपश्यत्पाण्डरे गृहे || २०||

अभिगम्य तमासीनं नरेन्द्रमभिवाद्य च |
सुमन्त्रो रामवचनं यथोक्तं प्रत्यवेदयत् || २१||

स तूष्णीमेव तच्छ्रुत्वा राजा विभ्रान्त चेतनः |
मूर्छितो न्यपतद्भूमौ रामशोकाभिपीडितः || २२||

ततोऽन्तःपुरमाविद्धं मूर्छिते पृथिवीपतौ |
उद्धृत्य बाहू चुक्रोश नृपतौ पतिते क्षितौ || २३||

सुमित्रया तु सहिता कौसल्या पतितं पतिम् |
उत्थापयामास तदा वचनं चेदमब्रवीत् || २४||

इमं तस्य महाभाग दूतं दुष्करकारिणः |
वनवासादनुप्राप्तं कस्मान्न प्रतिभाषसे || २५||

अद्येममनयं कृत्वा व्यपत्रपसि राघव |
उत्तिष्ठ सुकृतं तेऽस्तु शोके न स्यात्सहायता || २६||

देव यस्या भयाद्रामं नानुपृच्छसि सारथिम् |
नेह तिष्ठति कैकेयी विश्रब्धं प्रतिभाष्यताम् || २७||

सा तथोक्त्वा महाराजं कौसल्या शोकलालसा |
धरण्यां निपपाताशु बाष्पविप्लुतभाषिणी || २८||

एवं विलपतीं दृष्ट्वा कौसल्यां पतितां भुवि |
पतिं चावेक्ष्य ताः सर्वाः सस्वरं रुरुदुः स्त्रियः || २९||

ततस्तमन्तःपुरनादमुत्थितं
समीक्ष्य वृद्धास्तरुणाश्च मानवाः |
स्त्रियश्च सर्वा रुरुदुः समन्ततः
पुरं तदासीत्पुनरेव सङ्कुलम् || ३०||

30

1289

After the departure of Shri Rama, Sita and Lakshmana towards the Forest, Sumantra returned to Ayodhya in the evening time of the third day.

Beholding Ayodhya as if deserted in silence, Sumantra, being very much distressed in mind.

After consoling the citizens, who gathered around him, Sumantra reached King Dasaratha’s palace, King Dasaratha and his wives started weeping.

इत्यार्षे श्री रामायणे अयोध्याकाण्डे चतुर्दश: भाग:

 

Ayōdhyākāṇḍa Part-13

Ayōdhyākāṇḍa Part-15

 

No comments:

Post a Comment