Tuesday, December 23, 2025

अयोध्याकाण्ड - Ayōdhyākāṇḍa (भाग - १५ ;;; Part – 15)

 

अयोध्याकाण्ड - Ayōdhyākāṇḍa (भाग - ;;; Part – 15)

Sarga number as per Ramayana

Shlokas extracted

No. of shlokas

Cumulative number of shlokas in this Kanda

58

प्रत्याश्वस्तो यदा राजा मोहात्प्रत्यागतः पुनः |
अथाजुहाव तं सूतं रामवृत्तान्तकारणात् || १||

वृद्धं परमसन्तप्तं नवग्रहमिव द्विपम् |
विनिःश्वसन्तं ध्यायन्तमस्वस्थमिव कुञ्जरम् || २||

राजा तु रजसा सूतं ध्वस्ताङ्गं समुपस्थितम् |
अश्रु पूर्णमुखं दीनमुवाच परमार्तवत् || ३||

क्व नु वत्स्यति धर्मात्मा वृक्षमूलमुपाश्रितः |
सोऽत्यन्तसुखितः सूत किमशिष्यति राघवः |
भूमिपालात्मजो भूमौ शेते कथमनाथवत् || ४||

यं यान्तमनुयान्ति स्म पदाति रथकुञ्जराः |
स वत्स्यति कथं रामो विजनं वनमाश्रितः || ५||

व्यालैर्मृगैराचरितं कृष्णसर्पनिषेवितम् |
कथं कुमारौ वैदेह्या सार्धं वनमुपस्थितौ || ६||

सुकुमार्या तपस्विन्या सुमन्त्र सह सीतया |
राजपुत्रौ कथं पादैरवरुह्य रथाद्गतौ || ७||

सिद्धार्थः खलु सूत त्वं येन दृष्टौ ममात्मजौ |
वनान्तं प्रविशन्तौ तावश्विनाविव मन्दरम् || ८||

किमुवाच वचो रामः किमुवाच च लक्ष्मणः |
सुमन्त्र वनमासाद्य किमुवाच च मैथिली |
आसितं शयितं भुक्तं सूत रामस्य कीर्तय || ९||

इति सूतो नरेन्द्रेण चोदितः सज्जमानया |
उवाच वाचा राजानं सबाष्पपरिरब्धया || १०||

अब्रवीन्मां महाराज धर्ममेवानुपालयन् |
अञ्जलिं राघवः कृत्वा शिरसाभिप्रणम्य च || ११||

सूत मद्वचनात्तस्य तातस्य विदितात्मनः |
शिरसा वन्दनीयस्य वन्द्यौ पादौ महात्मनः || १२||

सर्वमन्तःपुरं वाच्यं सूत मद्वचनात्त्वया |
आरोग्यमविशेषेण यथार्हं चाभिवादनम् || १३||

माता च मम कौसल्या कुशलं चाभिवादनम् |
देवि देवस्य पादौ च देववत्परिपालय || १४||

भरतः कुशलं वाच्यो वाच्यो मद्वचनेन च |
सर्वास्वेव यथान्यायं वृत्तिं वर्तस्व मातृषु || १५||

वक्तव्यश्च महाबाहुरिक्ष्वाकुकुलनन्दनः |
पितरं यौवराज्यस्थो राज्यस्थमनुपालय || १६||

इत्येवं मां महाराज ब्रुवन्नेव महायशाः |
रामो राजीवताम्राक्षो भृशमश्रूण्यवर्तयत् || १७||

लक्ष्मणस्तु सुसङ्क्रुद्धो निःश्वसन्वाक्यमब्रवीत् |
केनायमपराधेन राजपुत्रो विवासितः || १८||

यदि प्रव्राजितो रामो लोभकारणकारितम् |
वरदाननिमित्तं वा सर्वथा दुष्कृतं कृतम् |
रामस्य तु परित्यागे न हेतुमुपलक्षये || १९||

असमीक्ष्य समारब्धं विरुद्धं बुद्धिलाघवात् |
जनयिष्यति सङ्क्रोशं राघवस्य विवासनम् || २०||

अहं तावन्महाराजे पितृत्वं नोपलक्षये |
भ्राता भर्ता च बन्धुश्च पिता च मम राघवः || २१||

सर्वलोकप्रियं त्यक्त्वा सर्वलोकहिते रतम् |
सर्वलोकोऽनुरज्येत कथं त्वानेन कर्मणा || २२||

जानकी तु महाराज निःश्वसन्ती तपस्विनी |
भूतोपहतचित्तेव विष्ठिता वृष्मृता स्थिता || २३||

अदृष्टपूर्वव्यसना राजपुत्री यशस्विनी |
तेन दुःखेन रुदती नैव मां किं चिदब्रवीत् || २४||

उद्वीक्षमाणा भर्तारं मुखेन परिशुष्यता |
मुमोच सहसा बाष्पं मां प्रयान्तमुदीक्ष्य सा || २५||

तथैव रामोऽश्रुमुखः कृताञ्जलिः
स्थितोऽभवल्लक्ष्मणबाहुपालितः |
तथैव सीता रुदती तपस्विनी
निरीक्षते राजरथं तथैव माम् || २६||

26

1315

Thereafter, the king Dasaratha, who was repenting about Shri Rama alone, filled with pain and sorrow, advanced in age, greatly anguished, asked Sumantra about Shri Rama’s life in the forest.

Sumantra explained everything and conveyed the salutations offered by Shri Rama to his father, but added that Lakshmana was very angry and questioned the actions of the King.He had further stated that Shri Rama and Sita were in full of tears when they took leave from Sumantra.

60

ततो भूतोपसृष्टेव वेपमाना पुनः पुनः |
धरण्यां गतसत्त्वेव कौसल्या सूतमब्रवीत् || १||

नय मां यत्र काकुत्स्थः सीता यत्र च लक्ष्मणः |
तान्विना क्षणमप्यत्र जीवितुं नोत्सहे ह्यहम् || २||

निवर्तय रथं शीघ्रं दण्डकान्नय माम् अपि |
अथ तान्नानुगच्छामि गमिष्यामि यमक्षयम् || ३||

बाष्पवेगौपहतया स वाचा सज्जमानया |
इदमाश्वासयन्देवीं सूतः प्राञ्जलिरब्रवीत् || ४||

त्यज शोकं च मोहं च सम्भ्रमं दुःखजं तथा |
व्यवधूय च सन्तापं वने वत्स्यति राघवः || ५||

लक्ष्मणश्चापि रामस्य पादौ परिचरन्वने |
आराधयति धर्मज्ञः परलोकं जितेन्द्रियः || ६||

विजनेऽपि वने सीता वासं प्राप्य गृहेष्विव |
विस्रम्भं लभतेऽभीता रामे संन्यस्त मानसा || ७||

नास्या दैन्यं कृतं किं चित्सुसूक्ष्ममपि लक्षये |
उचितेव प्रवासानां वैदेही प्रतिभाति मा || ८||

नगरोपवनं गत्वा यथा स्म रमते पुरा |
तथैव रमते सीता निर्जनेषु वनेष्वपि || ९||

बालेव रमते सीता बालचन्द्रनिभानना |
रामा रामे ह्यदीनात्मा विजनेऽपि वने सती || १०||

तद्गतं हृदयं ह्यस्यास्तदधीनं च जीवितम् |
अयोध्यापि भवेत्तस्या राम हीना तथा वनम् || ११||

पथि पृच्छति वैदेही ग्रामांश्च नगराणि च |
गतिं दृष्ट्वा नदीनां च पादपान्विविधानपि || १२||

अध्वना वात वेगेन सम्भ्रमेणातपेन च |
न हि गच्छति वैदेह्याश्चन्द्रांशुसदृशी प्रभा || १३||

सदृशं शतपत्रस्य पूर्णचन्द्रोपमप्रभम् |
वदनं तद्वदान्याया वैदेह्या न विकम्पते || १४||

अलक्तरसरक्ताभावलक्तरसवर्जितौ |
अद्यापि चरणौ तस्याः पद्मकोशसमप्रभौ || १५||

नूपुरोद्घुष्टहेलेव खेलं गच्छति भामिनी |
इदानीमपि वैदेही तद्रागा न्यस्तभूषणा || १६||

गजं वा वीक्ष्य सिंहं वा व्याघ्रं वा वनमाश्रिता |
नाहारयति सन्त्रासं बाहू रामस्य संश्रिता || १७||

न शोच्यास्ते न चात्मा ते शोच्यो नापि जनाधिपः |
इदं हि चरितं लोके प्रतिष्ठास्यति शाश्वतम् || १८||

विधूय शोकं परिहृष्टमानसा
महर्षियाते पथि सुव्यवस्थिताः |
वने रता वन्यफलाशनाः पितुः
शुभां प्रतिज्ञां परिपालयन्ति ते || १९||

तथापि सूतेन सुयुक्तवादिना
निवार्यमाणा सुतशोककर्शिता |
न चैव देवी विरराम कूजितात्
प्रियेति पुत्रेति च राघवेति च || २०||

20

1335

Sumantra consoled Kausalya, who was in anguish about her son Shri Rama and Sita.  He had praised Shri Rama and Sita, so that Kausalya will get calmed, but in vain.

61

वनं गते धर्मपरे रामे रमयतां वरे |
कौसल्या रुदती स्वार्ता भर्तारमिदमब्रवीत् || १||

यद्यपित्रिषु लोकेषु प्रथितं ते मयद्यशः |
सानुक्रोशो वदान्यश्च प्रियवादी च राघवः || २||

कथं नरवरश्रेष्ठ पुत्रौ तौ सह सीतया |
दुःखितौ सुखसंवृद्धौ वने दुःखं सहिष्यतः || ३||

सा नूनं तरुणी श्यामा सुकुमारी सुखोचिता |
कथमुष्णं च शीतं च मैथिली प्रसहिष्यते || ४||

भुक्त्वाशनं विशालाक्षी सूपदंशान्वितं शुभम् |
वन्यं नैवारमाहारं कथं सीतोपभोक्ष्यते || ५||

गीतवादित्रनिर्घोषं श्रुत्वा शुभमनिन्दिता |
कथं क्रव्यादसिंहानां शब्दं श्रोष्यत्यशोभनम् || ६||

महेन्द्रध्वजसङ्काशः क्व नु शेते महाभुजः |
भुजं परिघसङ्काशमुपधाय महाबलः || ७||

पद्मवर्णं सुकेशान्तं पद्मनिःश्वासमुत्तमम् |
कदा द्रक्ष्यामि रामस्य वदनं पुष्करेक्षणम् || ८||

वज्रसारमयं नूनं हृदयं मे न संशयः |
अपश्यन्त्या न तं यद्वै फलतीदं सहस्रधा || ९||

गतिरेवाक्पतिर्नार्या द्वितीया गतिरात्मजः |
तृतीया ज्ञातयो राजंश्चतुर्थी नेह विद्यते || १०||

तत्र त्वं चैव मे नास्ति रामश्च वनमाश्रितः |
न वनं गन्तुमिच्छामि सर्वथा हि हता त्वया || ११||

हतं त्वया राज्यमिदं सराष्ट्रं
हतस्तथात्मा सह मन्त्रिभिश् च |
हता सपुत्रास्मि हताश्च पौराः
सुतश्च भार्या च तव प्रहृष्टौ || १२||

इमां गिरं दारुणशब्दसंश्रितां
निशम्य राजापि मुमोह दुःखितः |
ततः स शोकं प्रविवेश पार्थिवः
स्वदुष्कृतं चापि पुनस्तदास्मरत् || १३||

13

1348

Kausalya in a fit of anger, accused King Dasaratha for sending Shri Rama to the forest, by taking side of Kaikeyi.  The king then looking back on his own evil act, was entangled in grief.

62

एवं तु क्रुद्धया राजा राममात्रा सशोकया |
श्रावितः परुषं वाक्यं चिन्तयामास दुःखितः || १||

तस्य चिन्तयमानस्य प्रत्यभात्कर्म दुष्कृतम् |
यदनेन कृतं पूर्वमज्ञानाच्छब्दवेधिना || २||

अमनास्तेन शोकेन रामशोकेन च प्रभुः |
दह्यमानस्तु शोकाभ्यां कौसल्यामाह भूपतिः || ३||

प्रसादये त्वां कौसल्ये रचितोऽयं मयाञ्जलिः |
वत्सला चानृशंसा च त्वं हि नित्यं परेष्वपि || ४||

भर्ता तु खलु नारीणां गुणवान्निर्गुणोऽपि वा |
धर्मं विमृशमानानां प्रत्यक्षं देवि दैवतम् || ५||

सा त्वं धर्मपरा नित्यं दृष्टलोकपरावर |
नार्हसे विप्रियं वक्तुं दुःखितापि सुदुःखितम् || ६||

तद्वाक्यं करुणं राज्ञः श्रुत्वा दीनस्य भाषितम् |
कौसल्या व्यसृजद्बाष्पं प्रणालीव नवोदकम् || ७||

स मूद्र्ह्णि बद्ध्वा रुदती राज्ञः पद्ममिवाञ्जलिम् |
सम्भ्रमादब्रवीत्त्रस्ता त्वरमाणाक्षरं वचः || ८||

प्रसीद शिरसा याचे भूमौ निततितास्मि ते |
याचितास्मि हता देव हन्तव्याहं न हि त्वया || ९||

नैषा हि सा स्त्री भवति श्लाघनीयेन धीमता |
उभयोर्लोकयोर्वीर पत्या या सम्प्रसाद्यते || १०||

जानामि धर्मं धर्मज्ञ त्वां जाने सत्यवादिनम् |
पुत्रशोकार्तया तत्तु मया किमपि भाषितम् || ११||

शोको नाशयते धैर्यं शोको नाशयते श्रुतम् |
शोको नाशयते सर्वं नास्ति शोकसमो रिपुः || १२||

शयमापतितः सोढुं प्रहरो रिपुहस्ततः |
सोढुमापतितः शोकः सुसूक्ष्मोऽपि न शक्यते || १३||

वनवासाय रामस्य पञ्चरात्रोऽद्य गण्यते |
यः शोकहतहर्षायाः पञ्चवर्षोपमो मम || १४||

तं हि चिन्तयमानायाः शोकोऽयं हृदि वर्धते |
अदीनामिव वेगेन समुद्रसलिलं महत् || १५||

एवं हि कथयन्त्यास्तु कौसल्यायाः शुभं वचः |
मन्दरश्मिरभूत्सुर्यो रजनी चाभ्यवर्तत || १६||

अथ प्रह्लादितो वाक्यैर्देव्या कौसल्यया नृपः |
शोकेन च समाक्रान्तो निद्राया वशमेयिवान् || १७||

17

1365

Unable to bear the harsh words of Kausalya, the King Dasaratha, tormented by the afflictions, was trembling, bent his head down, joined his palms in salutation, desirous of getting her grace and asked for forgiveness.

Hearing those miserable words spoken by the distressed king, Kausalya shed tears, and consoled him and get reconciled.

While Kausalya was telling auspicious words indeed as aforesaid the sun became feeble and turned towards night too. The king, thus cheered up by the queen Kausalya, got subjected to slumber, after having been overcome by grief.

63

प्रतिबुद्धो मुहुर्तेन शोकोपहतचेतनः |
अथ राजा दशरथः स चिन्ताम् अभ्यपद्यत || १||

रामलक्ष्मणयोश्चैव विवासाद्वासवोपमम् |
आविवेशोपसर्गस्तं तमः सूर्यमिवासुरम् || २||

स राजा रजनीं षष्ठीं रामे प्रव्रजिते वनम् |
अर्धरात्रे दशरथः संस्मरन्दुष्कृतं कृतम् |
कौसल्यां पुत्रशोकार्तामिदं वचनमब्रवीत् || ३||

यदाचरति कल्याणि शुभं वा यदि वाशुभम् |
तदेव लभते भद्रे कर्ता कर्मजमात्मनः || ४||

गुरु लाघवमर्थानामारम्भे कर्मणां फलम् |
दोषं वा यो न जानाति स बाल इति होच्यते || ५||

कश्चिदाम्रवणं छित्त्वा पलाशांश्च निषिञ्चति |
पुष्पं दृष्ट्वा फले गृध्नुः स शोचति फलागमे || ६||

सोऽहमाम्रवणं छित्त्वा पलाशांश्च न्यषेचयम् |
रामं फलागमे त्यक्त्वा पश्चाच्छोचामि दुर्मतिः || ७||

लब्धशब्देन कौसल्ये कुमारेण धनुष्मता |
कुमारः शब्दवेधीति मया पापमिदं कृतम् |
तदिदं मेऽनुसम्प्राप्तं देवि दुःखं स्वयं कृतम् || ८||

संमोहादिह बालेन यथा स्याद्भक्षितं विषम् |
एवं ममाप्यविज्ञातं शब्दवेध्यमयं फलम् || ९||

देव्यनूढा त्वमभवो युवराजो भवाम्यहम् |
ततः प्रावृडनुप्राप्ता मदकामविवर्धिनी || १०||

उपास्यहि रसान्भौमांस्तप्त्वा च जगदंशुभिः |
परेताचरितां भीमां रविराविशते दिशम् || ११||

उष्णमन्तर्दधे सद्यः स्निग्धा ददृशिरे घनाः |
ततो जहृषिरे सर्वे भेकसारङ्गबर्हिणः || १२||

पतितेनाम्भसा छन्नः पतमानेन चासकृत् |
आबभौ मत्तसारङ्गस्तोयराशिरिवाचलः || १३||

तस्मिन्नतिसुखे काले धनुष्मानिषुमान्रथी |
व्यायाम कृतसङ्कल्पः सरयूमन्वगां नदीम् || १४||

निपाने महिषं रात्रौ गजं वाभ्यागतं नदीम् |
अन्यं वा श्वापदं कं चिज्जिघांसुरजितेन्द्रियः || १५||

अथान्धकारे त्वश्रौषं जले कुम्भस्य पर्यतः |
अचक्षुर्विषये घोषं वारणस्येव नर्दतः || १६||

ततोऽहं शरमुद्धृत्य दीप्तमाशीविषोपमम् |
अमुञ्चं निशितं बाणमहमाशीविषोपमम् || १७||

तत्र वागुषसि व्यक्ता प्रादुरासीद्वनौकसः |
हा हेति पततस्तोये वागभूत्तत्र मानुषी |
कथमस्मद्विधे शस्त्रं निपतेत्तु तपस्विनि || १८||

प्रविविक्तां नदीं रात्रावुदाहारोऽहमागतः |
इषुणाभिहतः केन कस्य वा किं कृतं मया || १९||

ऋषेर्हि न्यस्त दण्डस्य वने वन्येन जीवतः |
कथं नु शस्त्रेण वधो मद्विधस्य विधीयते || २०||

जटाभारधरस्यैव वल्कलाजिनवाससः |
को वधेन ममार्थी स्यात्किं वास्यापकृतं मया || २१||

एवं निष्फलमारब्धं केवलानर्थसंहितम् |
न कश्चित्साधु मन्येत यथैव गुरुतल्पगम् || २२||

नेमं तथानुशोचामि जीवितक्षयमात्मनः |
मातरं पितरं चोभावनुशोचामि मद्विधे || २३||

तदेतान्मिथुनं वृद्धं चिरकालभृतं मया |
मयि पञ्चत्वमापन्ने कां वृत्तिं वर्तयिष्यति || २४||

वृद्धौ च मातापितरावहं चैकेषुणा हतः |
केन स्म निहताः सर्वे सुबालेनाकृतात्मना || २५||

तं गिरं करुणां श्रुत्वा मम धर्मानुकाङ्क्षिणः |
कराभ्यां सशरं चापं व्यथितस्यापतद्भुवि || २६||

तं देशमहमागम्य दीनसत्त्वः सुदुर्मनाः |
अपश्यमिषुणा तीरे सरय्वास्तापसं हतम् || २७||

स मामुद्वीक्ष्य नेत्राभ्यां त्रस्तमस्वस्थचेतसं |
इत्युवाच वचः क्रूरं दिधक्षन्निव तेजसा || २८||

किं तवापकृतं राजन्वने निवसता मया |
जिहीर्षिउरम्भो गुर्वर्थ.म् यदह.म् ता.दितस्त्वया || २९||

एकेन खलु बाणेन मर्मण्यभिहते मयि |
द्वावन्धौ निहतौ वृद्धौ माता जनयिता च मे || ३०||

तौ नूनं दुर्बलावन्धौ मत्प्रतीक्षौ पिपासितौ |
चिरमाशाकृतां तृष्णां कष्टां सन्धारयिष्यतः || ३१||

न नूनं तपसो वास्ति फलयोगः श्रुतस्य वा |
पिता यन्मां न जानाति शयानं पतितं भुवि || ३२||

जानन्नपि च किं कुर्यादशक्तिरपरिक्रमः |
भिद्यमानमिवाशक्तस्त्रातुमन्यो नगो नगम् || ३३||

पितुस्त्वमेव मे गत्वा शीघ्रमाचक्ष्व राघव |
न त्वामनुदहेत्क्रुद्धो वनं वह्निरिवैधितः || ३४||

इयमेकपदी राजन्यतो मे पितुराश्रमः |
तं प्रसादय गत्वा त्वं न त्वां स कुपितः शपेत् || ३५||

विशल्यं कुरु मां राजन्मर्म मे निशितः शरः |
रुणद्धि मृदु सोत्सेधं तीरमम्बुरयो यथा || ३६||

न द्विजातिरहं राजन्मा भूत्ते मनसो व्यथा |
शूद्रायामस्मि वैश्येन जातो जनपदाधिप || ३७||

इतीव वदतः कृच्छ्राद्बाणाभिहतमर्मणः |
तस्य त्वानम्यमानस्य तं बाणमहमुद्धरम् || ३८||

जलार्द्रगात्रं तु विलप्य कृच्छान्
मर्मव्रणं सन्ततमुच्छसन्तम् |
ततः सरय्वां तमहं शयानं
समीक्ष्य भद्रे सुभृशं विषण्णः || ३९||

39

1404

The king Dasaratha, awakened after some time, with his mind afflicted with grief, got into an anxious thinking. On the sixth night at mid-night, Shri Rama was sent into exile to the forest, King Dasaratha suddenly remembered his sin committed when he was still young and narrated that story to Kausalya.

He started saying that a doer reaps surely the fruit of his own deeds corresponding to the nature of work either good or bad, of that which he does!

When he was the Prince Regent he went out for hunting in a rainy season along Sarayu River, in a chariot, wearing bow and arrows. Without my senses under control and with an intent to kill a (wild) buffalo or an elephant or any other wild animal coming in the night at that place for the purpose of drinking water, he was ready with my bow at a solitary place.

He learnt the art of hitting the target with an arrow towards the sound where it emanated from. In that darkness and not within the reach of the eye, he heard the sound of a pitcher being filled up, the sound of which appeared like that of an elephant. With an intent to hit that elephant, he drew out a shining arrow resembling a serpent, targeted towards the direction of sound and discharged it.

Instantly, he heard a distant voice of human being, dropping down in water after his vital part was hit by the arrow.

Distressed in mind and with much sorrowful feeling, young Dasaratha reached that place and saw the ascetic, hit by the arrow at the bank of Sarayu River, with his tresses of hair scattered, his pitcher of water thrown asunder, having his limbs anointed with sand and blood lying down as he was, hurt by the arrow.

That ascetic, who was carrying water for his parents, was hit by Dasaratha. He questioned what the harm did he commit to Dasaratha? Then, that dying ascetic asked Dasaratha to inform the news to his parents and to remove that from his body.

He further informed that he was not a brahmana, but was through a Sudra woman by a Vysya. When Dasaratha removed that arrow, that ascetic relinquished his life.

इत्यार्षे श्री रामायणे अयोध्याकाण्डे पञ्चदश: भाग:

 

Ayōdhyākāṇḍa Part-14

Ayōdhyākāṇḍa Part-16

No comments:

Post a Comment