Tuesday, December 23, 2025

अयोध्याकाण्ड - Ayōdhyākāṇḍa (भाग - १६ ;;; Part – 16)

 

अयोध्याकाण्ड - Ayōdhyākāṇḍa (भाग - ;;; Part – 16)

Sarga number as per Ramayana

Shlokas extracted

No. of shlokas

Cumulative number of shlokas in this Kanda

64

तदज्ञानान्महत्पापं कृत्वा सङ्कुलितेन्द्रियः |
एकस्त्वचिन्तयं बुद्ध्या कथं नु सुकृतं भवेत् || ||

ततस्तं घटमादय पूर्णं परमवारिणा |
आश्रमं तमहं प्राप्य यथाख्यातपथं गतः || ||

तत्राहं दुर्बलावन्धौ वृद्धावपरिणायकौ |
अपश्यं तस्य पितरौ लूनपक्षाविव द्विजौ || ||

तन्निमित्ताभिरासीनौ कथाभिरपरिक्रमौ |
तामाशां मत्कृते हीनावुदासीनावनाथवत् || ||

पदशब्दं तु मे श्रुत्वा मुनिर्वाक्यमभाषत |
किं चिरायसि मे पुत्र पानीयं क्षिप्रमानय || ||

यन्निमित्तमिदं तात सलिले क्रीडितं त्वया |
उत्कण्ठिता ते मातेयं प्रविश क्षिप्रमाश्रमम् || ||

यद्व्यलीकं कृतं पुत्र मात्रा ते यदि वा मया |
तन्मनसि कर्तव्यं त्वया तात तपस्विना || ||

त्वं गतिस्त्वगतीनां चक्षुस्त्वं हीनचक्षुषाम् |
समासक्तास्त्वयि प्राणाः किं चिन्नौ नाभिभाषसे || ||

मुनिमव्यक्तया वाचा तमहं सज्जमानया |
हीनव्यञ्जनया प्रेक्ष्य भीतो भीत इवाब्रुवम् || ||

मनसः कर्म चेष्टाभिरभिसंस्तभ्य वाग्बलम् |
आचचक्षे त्वहं तस्मै पुत्रव्यसनजं भयम् || १०||

क्षत्रियोऽहं दशरथो नाहं पुत्रो महात्मनः |
सज्जनावमतं दुःखमिदं प्राप्तं स्वकर्मजम् || ११||

भगवंश्चापहस्तोऽहं सरयूतीरमागतः |
जिघांसुः श्वापदं किं चिन्निपाने वागतं गजम् || १२||

तत्र श्रुतो मया शब्दो जले कुम्भस्य पूर्यतः |
द्विपोऽयमिति मत्वा हि बाणेनाभिहतो मया || १३||

गत्वा नद्यास्ततस्तीरमपश्यमिषुणा हृदि |
विनिर्भिन्नं गतप्राणं शयानं भुवि तापसं || १४||

भगवञ्शब्दमालक्ष्य मया गजजिघांसुना |
विसृष्टोऽम्भसि नाराचस्तेन ते निहतः सुतः || १५||

चोद्धृतेन बाणेन तत्रैव स्वर्गमास्थितः |
भगवन्तावुभौ शोचन्नन्धाविति विलप्य || १६||

अज्ञानाद्भवतः पुत्रः सहसाभिहतो मया |
शेषमेवङ्गते यत्स्यात्तत्प्रसीदतु मे मुनिः || १७||

तच्छ्रुत्वा वचः क्रूरं निःश्वसञ्शोककर्शितः |
मामुवाच महातेजाः कृताञ्जलिमुपस्थितम् || १८||

यद्येतदशुभं कर्म स्म मे कथयेः स्वयम् |
फलेन्मूर्धा स्म ते राजन्सद्यः शतसहस्रधा || १९||

क्षत्रियेण वधो राजन्वानप्रस्थे विशेषतः |
ज्ञानपूर्वं कृतः स्थानाच्च्यावयेदपि वज्रिणम् || २०||

अज्ञानाद्धि कृतं यस्मादिदं तेनैव जीवसि |
अपि ह्यद्य कुलं नस्याद्राघवाणां कुतो भवान् || २१||

नय नौ नृप तं देशमिति मां चाभ्यभाषत |
अद्य तं द्रष्टुमिच्छावः पुत्रं पश्चिमदर्शनम् || २२||

रुधिरेणावसिताङ्गं प्रकीर्णाजिनवाससं |
शयानं भुवि निःसंज्ञं धर्मराजवशं गतम् || २३||

अथाहमेकस्तं देशं नीत्वा तौ भृशदुःखितौ |
अस्पर्शयमहं पुत्रं तं मुनिं सह भार्यया || २४||

तौ पुत्रमात्मनः स्पृष्ट्वा तमासाद्य तपस्विनौ |
निपेततुः शरीरेऽस्य पिता चास्येदमब्रवीत् || २५||

न्वहं ते प्रियः पुत्र मातरं पश्य धार्मिक |
किं नु नालिङ्गसे पुत्र सुकुमार वचो वद || २६||

कस्य वापररात्रेऽहं श्रोष्यामि हृदयङ्गमम् |
अधीयानस्य मधुरं शास्त्रं वान्यद्विशेषतः || २७||

को मां सन्ध्यामुपास्यैव स्नात्वा हुतहुताशनः |
श्लाघयिष्यत्युपासीनः पुत्रशोकभयार्दितम् || २८||

कन्दमूलफलं हृत्वा को मां प्रियमिवातिथिम् |
भोजयिष्यत्यकर्मण्यमप्रग्रहमनायकम् || २९||

इमामन्धां वृद्धां मातरं ते तपस्विनीम् |
कथं पुत्र भरिष्यामि कृपणां पुत्रगर्धिनीम् || ३०||

तिष्ठ मा मा गमः पुत्र यमस्य सदनं प्रति |
श्वो मया सह गन्तासि जनन्या समेधितः || ३१||

उभावपि शोकार्तावनाथौ कृपणौ वने |
क्षिप्रमेव गमिष्यावस्त्वया हीनौ यमक्षयम् || ३२||

ततो वैवस्वतं दृष्ट्वा तं प्रवक्ष्यामि भारतीम् |
क्षमतां धर्मराजो मे बिभृयात्पितरावयम् || ३३||

अपापोऽसि यथा पुत्र निहतः पापकर्मणा |
तेन सत्येन गच्छाशु ये लोकाः शस्त्रयोधिनाम् || ३४||

यान्ति शूरा गतिं यां सङ्ग्रामेष्वनिवर्तिनः |
हतास्त्वभिमुखाः पुत्र गतिं तां परमां व्रज || ३५||

यां गतिं सगरः शैब्यो दिलीपो जनमेजयः |
नहुषो धुन्धुमारश्च प्राप्तास्तां गच्छ पुत्रक || ३६||

या गतिः सर्वसाधूनां स्वाध्यायात्पतसश्च या |
भूमिदस्याहिताग्नेश्च एकपत्नीव्रतस्य || ३७||

गोसहस्रप्रदातॄणां या या गुरुभृताम् अपि |
देहन्यासकृतां या तां गतिं गच्छ पुत्रक |
हि त्वस्मिन्कुले जातो गच्छत्यकुशलां गतिम् || ३८||

एवं कृपणं तत्र पर्यदेवयतासकृत् |
ततोऽस्मै कर्तुमुदकं प्रवृत्तः सह भार्यया || ३९||

तु दिव्येन रूपेण मुनिपुत्रः स्वकर्मभिः |
आश्वास्य मुहूर्तं तु पितरौ वाक्यमब्रवीत् || ४०||

स्थानमस्मि महत्प्राप्तो भवतोः परिचारणात् |
भवन्तावपि क्षिप्रं मम मूलमुपैष्यतः || ४१||

एवमुक्त्वा तु दिव्येन विमानेन वपुष्मता |
आरुरोह दिवं क्षिप्रं मुनिपुत्रो जितेन्द्रियः || ४२||

कृत्वा तूदकं तूर्णं तापसः सह भार्यया |
मामुवाच महातेजाः कृताञ्जलिमुपस्थितम् || ४३||

अद्यैव जहि मां राजन्मरणे नास्ति मे व्यथा |
यच्छरेणैकपुत्रं मां त्वमकार्षीरपुत्रकम् || ४४||

त्वया तु यदविज्ञानान्निहतो मे सुतः शुचिः |
तेन त्वामभिशप्स्यामि सुदुःखमतिदारुणम् || ४५||

पुत्रव्यसनजं दुःखं यदेतन्मम साम्प्रतम् |
एवं त्वं पुत्रशोकेन राजन्कालं करिष्यसि || ४६||

तस्मान्मामागतं भद्रे तस्योदारस्य तद्वचः |
यदहं पुत्रशोकेन सन्त्यक्ष्याम्यद्य जीवितम् || ४७||

यदि मां संस्पृशेद्रामः सकृदद्यालभेत वा |
तन्मे सदृशं देवि यन्मया राघवे कृतम् || ४८||

चक्षुषा त्वां पश्यामि स्मृतिर्मम विलुप्यते |
दूता वैवस्वतस्यैते कौसल्ये त्वरयन्ति माम् || ४९||

अतस्तु किं दुःखतरं यदहं जीवितक्षये |
हि पश्यामि धर्मज्ञं रामं सत्यपराक्यमम् || ५०||

ते मनुष्या देवास्ते ये चारुशुभकुण्डलम् |
मुखं द्रक्ष्यन्ति रामस्य वर्षे पञ्चदशे पुनः || ५१||

पद्मपत्रेक्षणं सुभ्रु सुदंष्ट्रं चारुनासिकम् |
धन्या द्रक्ष्यन्ति रामस्य ताराधिपनिभं मुखम् || ५२||

सदृशं शारदस्येन्दोः फुल्लस्य कमलस्य |
सुगन्धि मम नाथस्य धन्या द्रक्ष्यन्ति तन्मुखम् || ५३||

निवृत्तवनवासं तमयोध्यां पुनरागतम् |
द्रक्ष्यन्ति सुखिनो रामं शुक्रं मार्गगतं यथा || ५४||

अयमात्मभवः शोको मामनाथमचेतनम् |
संसादयति वेगेन यथा कूलं नदीरयः || ५५||

हा राघव महाबाहो हा ममायास नाशन |
राजा दशरथः शोचञ्जीवितान्तमुपागमत् || ५६||

तथा तु दीनं कथयन्नराधिपः
प्रियस्य पुत्रस्य विवासनातुरः |
गतेऽर्धरात्रे भृशदुःखपीडितस्
तदा जहौ प्राणमुदारदर्शनः || ५७||

57

1461

Then the young Dasaratha, taking the water fully in that pitcher, went to that hermitage by the path as directed by the young sage. There he saw the frail, blind and aged parents of the young sage. They were without a guide to support them, as birds whose wings were cut-off. Then he told the father of the young sage about what transpired to his son and prayed for his forgiveness.

Hearing that cruel news pronounced by him, confessing his   sin, that venerable sage could not resist his severe anger. Thereafter, he took both of them to their son’s dead body, who were weeping profusely, and made that sage and his wife to touch their son. Approaching their son, that miserable couple touched their son's body and fell on it.  

Then, the sage cursed the young Dasaratha that as he was suffering from agony then because of the loss of his son, in the same manner; Dasaratha will also die due to agony caused by the loss of his son.

Pronouncing the curse thus on young Dasaratha, that couple wept many times pitiably, placed their body on the funeral pile and proceeded to heaven. Narrating that old story, and weeping for his son, King Dasaratha left his mortal body in that night.

65

अथ रात्र्यां व्यतीतायां प्रातरेवापरेऽहनि |
बन्दिनः पर्युपातिष्ठंस्तत्पार्थिवनिवेशनम् || ||

ततः शुचिसमाचाराः पर्युपस्थान कोविदः |
स्त्रीवर्षवरभूयिष्ठा उपतस्थुर्यथापुरम् || ||

हरिचन्दनसम्पृक्तमुदकं काञ्चनैर्घटैः |
आनिन्युः स्नानशिक्षाज्ञा यथाकालं यथाविधि || ||

मङ्गलालम्भनीयानि प्राशनीयानुपस्करान् |
उपनिन्युस्तथाप्यन्याः कुमारी बहुलाः स्त्रियः || ||

अथ याः कोसलेन्द्रस्य शयनं प्रत्यनन्तराः |
ताः स्त्रियस्तु समागम्य भर्तारं प्रत्यबोधयन् || ||

ता वेपथुपरीताश्च राज्ञः प्राणेषु शङ्किताः |
प्रतिस्रोतस्तृणाग्राणां सदृशं सञ्चकम्पिरे || ||

अथ संवेपमनानां स्त्रीणां दृष्ट्वा पार्थिवम् |
यत्तदाशङ्कितं पापं तस्य जज्ञे विनिश्चयः || ||

ततः प्रचुक्रुशुर्दीनाः सस्वरं ता वराङ्गनाः |
करेणव इवारण्ये स्थानप्रच्युतयूथपाः || ||

तासामाक्रन्द शब्देन सहसोद्गतचेतने |
कौसल्या सुमित्राच त्यक्तनिद्रे बभूवतुः || ||

कौसल्या सुमित्रा दृष्ट्वा स्पृष्ट्वा पार्थिवम् |
हा नाथेति परिक्रुश्य पेततुर्धरणीतले || १०||

सा कोसलेन्द्रदुहिता वेष्टमाना महीतले |
बभ्राज रजोध्वस्ता तारेव गगनच्युता || ११||

तत्समुत्त्रस्तसम्भ्रान्तं पर्युत्सुकजनाकुलम् |
सर्वतस्तुमुलाक्रन्दं परितापार्तबान्धवम् || १२||

सद्यो निपतितानन्दं दीनविक्लवदर्शनम् |
बभूव नरदेवस्य सद्म दिष्टान्तमीयुषः || १३||

अतीतमाज्ञाय तु पार्थिवर्षभं
यशस्विनं सम्परिवार्य पत्नयः |
भृशं रुदन्त्यः करुणं सुदुःखिताः
प्रगृह्य बाहू व्यलपन्ननाथवत् || १४||

14

1475

At the dawn, the servants tried to wake up the king by singing praises but in vain.  Later, when the wives of the King Dasaratha tried to wake him up, but there was no movement.  Finally, Kausalya and Sumitra had been woken up, who were in deep slumber.  Then, it was concluded that the King Dasaratha was no more.  All the wives of king Dasaratha started wailing for him.

66

तमग्निमिव संशान्तमम्बुहीनमिवार्णवम् |
हतप्रभमिवादित्यं स्वर्गथं प्रेक्ष्य भूमिपम् || ||

कौसल्या बाष्पपूर्णाक्षी विविधं शोककर्शिता |
उपगृह्य शिरो राज्ञः कैकेयीं प्रत्यभाषत || ||

सकामा भव कैकेयि भुङ्क्ष्व राज्यमकण्टकम् |
त्यक्त्वा राजानमेकाग्रा नृशंसे दुष्टचारिणि || ||

विहाय मां गतो रामो भर्ता स्वर्गतो मम |
विपथे सार्थहीनेव नाहं जीवितुमुत्सहे || ||

भर्तारं तं परित्यज्य का स्त्री दैवतमात्मनः |
इच्छेज्जीवितुमन्यत्र कैकेय्यास्त्यक्तधर्मणः || ||

लुब्धो बुध्यते दोषान्किं पाकमिव भक्षयन् |
कुब्जानिमित्तं कैकेय्या राघवाणान्कुलं हतम् || ||

अनियोगे नियुक्तेन राज्ञा रामं विवासितम् |
सभार्यं जनकः श्रुत्वा पतितप्स्यत्यहं यथा || ||

रामः कमलपत्राक्षो जीवनाशमितो गतः |
विदेहराजस्य सुता तहा सीता तपस्विनी |
दुःखस्यानुचिता दुःखं वने पर्युद्विजिष्यति || ||

नदतां भीमघोषाणां निशासु मृगपक्षिणाम् |
निशम्य नूनं संस्त्रस्ता राघवं संश्रयिष्यति || ||

वृद्धश्चैवाल्पपुत्रश्च वैदेहीम् अनिचिन्तयन् |
सोऽपि शोकसमाविष्टो ननु त्यक्ष्यति जीवितम् || १०||

तां ततः सम्परिष्वज्य विलपन्तीं तपस्विनीम् |
व्यपनिन्युः सुदुःखार्तां कौसल्यां व्यावहारिकाः || ११||

तैलद्रोण्यामथामात्याः संवेश्य जगतीपतिम् |
राज्ञः सर्वाण्यथादिष्टाश्चक्रुः कर्माण्यनन्तरम् || १२||

तु सङ्कलनं राज्ञो विना पुत्रेण मन्त्रिणः |
सर्वज्ञाः कर्तुमीषुस्ते ततो रक्षन्ति भूमिपम् || १३||

तैलद्रोण्यां तु सचिवैः शायितं तं नराधिपम् |
हा मृतोऽयमिति ज्ञात्वा स्त्रियस्ताः पर्यदेवयन् || १४||

बाहूनुद्यम्य कृपणा नेत्रप्रस्रवणैर्मुखैः |
रुदन्त्यः शोकसन्तप्ताः कृपणं पर्यदेवयन् || १५||

निशानक्षत्रहीनेव स्त्रीव भर्तृविवर्जिता |
पुरी नाराजतायोध्या हीना राज्ञा महात्मना || १६||

बाष्पपर्याकुलजना हाहाभूतकुलाङ्गना |
शून्यचत्वरवेश्मान्ता बभ्राज यथापुरम् || १७||

गतप्रभा द्यौरिव भास्करं विना
व्यपेतनक्षत्रगणेव शर्वरी |
पुरी बभासे रहिता महात्मना
चास्रकण्ठाकुलमार्गचत्वरा || १८||

नराश्च नार्यश्च समेत्य सङ्घशो
विगर्हमाणा भरतस्य मातरम् |
तदा नगर्यां नरदेवसङ्क्षये
बभूवुरार्ता शर्म लेभिरे || १९||

19

1494

All the women accused Kaikeyi for the passing of King Dasaratha. The ministers assigned for the job kept the king in an oil trough and did all the acts that were to be done thereafter. The ministers who were knowing all such matters were not willing to do cremation for the king in the absence of his sons and that is why preserved the king's body.(in an oil through).

Entire city of Ayodhya had plunged into deep sorrow.

इत्यार्षे श्री रामायणे अयोध्याकाण्डे षोडश: भाग:

 

Ayōdhyākāṇḍa Part-15

Ayōdhyākāṇḍa Part-17

No comments:

Post a Comment