अयोध्याकाण्ड - Ayōdhyākāṇḍa (भाग - १७
;;; Part – 17)
|
Sarga
number as per Ramayana |
Shlokas extracted |
No. of shlokas |
Cumulative number of shlokas in this
Kanda |
|
67 |
व्यतीतायां तु शर्वर्यामादित्यस्योदये ततः | मार्कण्डेयोऽथ मौद्गल्यो वामदेवश्च काश्यपः | एते
द्विजाः सहामात्यैः पृथग्वाचमुदीरयन् | अतीता
शर्वरी दुःखं या नो वर्षशतोपमा | स्वर्गतश्च महाराजो रामश्चारण्यमाश्रितः | उभौ
भरतशत्रुघ्नौ क्केकयेषु परन्तपौ | इक्ष्वाकूणामिहाद्यैव कश्चिद्राजा विधीयताम् | नाराजले जनपदे विद्युन्माली महास्वनः | नाराजके जनपदे बीजमुष्टिः प्रकीर्यते | अराजके धनं नास्ति नास्ति भार्याप्यराजके | नाराजके जनपदे कारयन्ति सभां नराः | नाराजके जनपदे यज्ञशीला द्विजातयः | नाराजके जनपदे प्रभूतनटनर्तकाः | नारजके जनपदे सिद्धार्था व्यवहारिणः | नाराजके जनपदे वाहनैः शीघ्रगामिभिः | नाराकजे जनपदे धनवन्तः सुरक्षिताः | नाराजके जनपदे वणिजो दूरगामिनः | नाराजके जनपदे चरत्येकचरो वशी | नाराजके जनपदे योगक्षेमं प्रवर्तते | यथा
ह्यनुदका नद्यो यथा वाप्यतृणं वनम् | नाराजके जनपदे स्वकं भवति कस्य चित् | येहि
सम्भिन्नमर्यादा नास्तिकाश्छिन्नसंशयाः | अहो
तम इवेदं स्यान्न प्रज्ञायेत किं चन | जीवत्यपि महाराजे तवैव वचनं वयम् | स
नः समीक्ष्य द्विजवर्यवृत्तं |
25 |
1519 |
|
The Brahmanas in the
Royal Assembly met on the next day, and suggested to Sage Vasishtha to anoint
one among the 4 sons of King Dasaratha as the king, so that anarchy should
not prevail in the kingdom due to sudden demise of the King Dasaratha. |
|||
|
68 |
तेषां
तद्वचनं श्रुत्वा वसिष्ठः प्रत्युवाच ह | यदसौ
मातुलकुले पुरे राजगृहे सुखी | तच्छीघ्रं जवना दूता गच्छन्तु त्वरितैर्हयैः | गच्छन्त्विति ततः सर्वे वसिष्ठं वाक्यमब्रुवन् | एहि
सिद्धार्थ विजय जयन्ताशोकनन्दन | पुरं
राजगृहं गत्वा शीघ्रं शीघ्रजवैर्हयैः | पुरोहितस्त्वां कुशलं प्राह सर्वे च मन्त्रिणः | मा
चास्मै प्रोषितं रामं मा चास्मै पितरं मृतम् | कौशेयानि च वस्त्राणि भूषणानि वराणि च | ते
हस्तिन पुरे गङ्गां तीर्त्वा प्रत्यङ्मुखा ययुः | ते
प्रसन्नोदकां दिव्यां नानाविहगसेविताम् | निकूलवृक्षमासाद्य दिव्यं सत्योपयाचनम् | अभिकालं ततः प्राप्य तेजोऽभिभवनाच्च्युताः | ते
श्रान्तवाहना दूता विकृष्टेन सता पथा | भर्तुः प्रियार्थं कुलरक्षणार्थं |
15 |
1534 |
|
Hearing their words,
Vasistha told his opinion to bring Bharata, who was given kingdom (by
Dasaratha) and is staying very happily in his maternal uncle's home, along
with Satrughna, quickly to Ayodhya. That proposal was agreed to by all.
Messengers have quickly reached Kekeya kingdom. |
|||
|
69 |
यामेव
रात्रिं ते दूताः प्रविशन्ति स्म तां पुरीम् | व्युष्टामेव तु तां रात्रिं दृष्ट्वा तं स्वप्नमप्रियम् | तप्यमानं समाज्ञाय वयस्याः प्रियवादिनः | वादयन्ति तथा शान्तिं लासयन्त्यपि चापरे | स
तैर्महात्मा भरतः सखिभिः प्रिय वादिभिः | तमब्रवीत्प्रियसखो भरतं सखिभिर्वृतम् | एवं
ब्रुवाणं सुहृदं भरतः प्रत्युवाच ह | स्वप्ने पितरमद्राक्षं मलिनं मुक्तमूर्धजम् | प्लवमानश्च मे दृष्टः स तस्मिन्गोमयह्रदे | ततस्तिलोदनं भुक्त्वा पुनः पुनरधःशिराः | स्वप्नेऽपि सागरं शुष्कं चन्द्रं च पतितं भुवि | अवदीर्णां च पृथिवीं शुष्कांश्च विविधान्द्रुमान् | पीठे
कार्ष्णायसे चैनं निषण्णं कृष्णवाससं | त्वरमाणश्च धर्मात्मा रक्तमाल्यानुलेपनः | एवमेतन्मया दृष्टमिमां रात्रिं भयावहाम् | नरो
यानेन यः स्वप्ने खरयुक्तेन याति हि | शुष्यतीव च मे कण्ठो न स्वस्थमिव मे मनः | इमां
हि दुःस्वप्नगतिं निशाम्य ताम् |
18 |
1552 |
|
On that very night those
messengers entered the city; Bharata also had experienced an unpleasant dream,
in respect of his father. And, he had
a premonition that something bad is going to occur to someone in the family. |
|||
|
70 |
भरते
ब्रुवति स्वप्नं दूतास्ते क्लान्तवाहनाः | समागम्य तु राज्ञा च राजपुत्रेण चार्चिताः | पुरोहितस्त्वा कुशलं प्राह सर्वे च मन्त्रिणः | अत्र
विंशतिकोट्यस्तु नृपतेर्मातुलस्य ते | प्रतिगृह्य च तत्सर्वं स्वनुरक्तः सुहृज्जने | कच्चित्सुकुशली राजा पिता दशरथो मम | आर्या
च धर्मनिरता धर्मज्ञा धर्मदर्शिनी | कच्चित्सुमित्रा धर्मज्ञा जननी लक्ष्मणस्य या | आत्मकामा सदा चण्डी क्रोधना प्राज्ञमानिनी | एवमुक्तास्तु ते दूता भरतेन महात्मना | भरतश्चापि तान्दूतानेवमुक्तोऽभ्यभाषत | एवमुक्त्वा तु तान्दूतान्भरतः पार्थिवात्मजः | राजन्पितुर्गमिष्यामि सकाशं दूतचोदितः | भरतेनैवमुक्तस्तु नृपो मातामहस्तदा | गच्छ
तातानुजाने त्वां कैकेयी सुप्रजास्त्वया | पुरोहितं च कुशलं ये चान्ये द्विजसत्तमाः | तस्मै
हस्त्युत्तमांश्चित्रान्कम्बलानजिनानि च | रुक्म
निष्कसहस्रे द्वे षोडशाश्वशतानि च | तथामात्यानभिप्रेतान्विश्वास्यांश्च गुणान्वितान् | ऐरावतानैन्द्रशिरान्नागान्वै प्रियदर्शनान् | अन्तःपुरेऽतिसंवृद्धान्व्याघ्रवीर्यबलान्वितान् | स
मातामहमापृच्छ्य मातुलं च युधाजितम् | रथान्मण्डलचक्रांश्च योजयित्वा परःशतम् | बलेन
गुप्तो भरतो महात्मा |
24 |
1576 |
|
The messengers from
Ayodhya approached Bharata and Shatrugna and communicated the message of Sage
Vasistha to come back to Ayodhya quickly.
Taking permission of his maternal grand father and uncle, Bharata and
Shatrugna travelled quickly towards Ayodhya. |
|||
|
71 |
स
प्राङ्मुखो राजगृहादभिनिर्याय वीर्यवान् | एलधाने नदीं तीर्त्वा प्राप्य चापरपर्पटान् | सत्यसन्धः शुचिः श्रीमान्प्रेक्षमाणः शिलावहाम् | वेगिनीं च कुलिङ्गाख्यां ह्रादिनीं पर्वतावृताम् | शीतीकृत्य तु गात्राणि क्लान्तानाश्वास्य वाजिनः | राजपुत्रो महारण्यमनभीक्ष्णोपसेवितम् | तोरणं
दक्षिणार्धेन जम्बूप्रस्थमुपागमत् | तत्र
रम्ये वने वासं कृत्वासौ प्राङ्मुखो ययौ | सालांस्तु प्रियकान्प्राप्य शीघ्रानास्थाय वाजिनः | वासं
कृत्वा सर्वतीर्थे तीर्त्वा चोत्तानकां नदीम् | हस्तिपृष्ठकमासाद्य कुटिकाम् अत्यवर्तत | कलिङ्ग नगरे चापि प्राप्य सालवनं तदा | वनं
च समतीत्याशु शर्वर्यामरुणोदये | तां
पुरीं पुरुषव्याघ्रः सप्तरात्रोषिटः पथि | एषा
नातिप्रतीता मे पुण्योद्याना यशस्विनी | यज्वभिर्गुणसम्पन्नैर्ब्राह्मणैर्वेदपारगैः | अयोध्यायां पुराशब्दः श्रूयते तुमुलो महान् | उद्यानानि हि सायाह्ने क्रीडित्वोपरतैर्नरैः | तान्यद्यानुरुदन्तीव परित्यक्तानि कामिभिः | न
ह्यत्र यानैर्दृश्यन्ते न गजैर्न च वाजिभिः | अनिष्टानि च पापानि पश्यामि विविधानि च | द्वारेण वैजयन्तेन प्राविशच्छ्रान्तवाहनः | स
त्वनेकाग्रहृदयो द्वाःस्थं प्रत्यर्च्य तं जनम् | श्रुता नो यादृशाः पूर्वं नृपतीनां विनाशने | मलिनं
चाश्रुपूर्णाक्षं दीनं ध्यानपरं कृशम् | इत्येवमुक्त्वा भरतः सूतं तं दीनमानसः | तां
शून्यशृङ्गाटकवेश्मरथ्यां बहूनि
पश्यन्मनसोऽप्रियाणि |
28 |
1604 |
|
After performing a tedious
journey, Bharata and Shatrugna finally reached Ayodhya. Bharata could find the city to be in a
dejected mood, but could not comprehend as to what had happened. Finally, he reached his father’s palace and
entered into it. |
|||
इत्यार्षे श्री
रामायणे अयोध्याकाण्डे सप्तदश: भाग:
No comments:
Post a Comment