Wednesday, December 24, 2025

अयोध्याकाण्ड - Ayōdhyākāṇḍa (भाग - १८ ;;; Part – 18)

 

अयोध्याकाण्ड - Ayōdhyākāṇḍa (भाग - ;;; Part – 18)

Sarga number as per Ramayana

Shlokas extracted

No. of shlokas

Cumulative number of shlokas in this Kanda

72

अपश्यंस्तु ततस्तत्र पितरं पितुरालये |
जगाम भरतो द्रष्टुं मातरं मातुरालये || १||

अनुप्राप्तं तु तं दृष्ट्वा कैकेयी प्रोषितं सुतम् |
उत्पपात तदा हृष्टा त्यक्त्वा सौवर्णमानसं || २||

स प्रविश्यैव धर्मात्मा स्वगृहं श्रीविवर्जितम् |
भरतः प्रेक्ष्य जग्राह जनन्याश्चरणौ शुभौ || ३||

तं मूर्ध्नि समुपाघ्राय परिष्वज्य यशस्विनम् |
अङ्के भरतमारोप्य प्रष्टुं समुपचक्रमे || ४||

अद्य ते कति चिद्रात्र्यश्च्युतस्यार्यकवेश्मनः |
अपि नाध्वश्रमः शीघ्रं रथेनापततस्तव || ५||

आर्यकस्ते सुकुशलो युधाजिन्मातुलस्तव |
प्रवासाच्च सुखं पुत्र सर्वं मे वक्तुमर्हसि || ६||

एवं पृष्ठस्तु कैकेय्या प्रियं पार्थिवनन्दनः |
आचष्ट भरतः सर्वं मात्रे राजीवलोचनः || ७||

अद्य मे सप्तमी रात्रिश्च्युतस्यार्यकवेश्मनः |
अम्बायाः कुशली तातो युधाजिन्मातुलश् च मे || ८||

यन्मे धनं च रत्नं च ददौ राजा परन्तपः |
परिश्रान्तं पथ्यभवत्ततोऽहं पूर्वमागतः || ९||

राजवाक्यहरैर्दूतैस्त्वर्यमाणोऽहमागतः |
यदहं प्रष्टुमिच्छामि तदम्बा वक्तुमर्हसि || १०||

शून्योऽयं शयनीयस्ते पर्यङ्को हेमभूषितः |
न चायमिक्ष्वाकुजनः प्रहृष्टः प्रतिभाति मे || ११||

राजा भवति भूयिष्ठ्गमिहाम्बाया निवेशने |
तमहं नाद्य पश्यामि द्रष्टुमिच्छन्निहागतः || १२||

पितुर्ग्रहीष्ये चरणौ तं ममाख्याहि पृच्छतः |
आहोस्विदम्ब ज्येष्ठायाः कौसल्याया निवेशने || १३||

तं प्रत्युवाच कैकेयी प्रियवद्घोरमप्रियम् |
अजानन्तं प्रजानन्ती राज्यलोभेन मोहिता |
या गतिः सर्वभूतानां तां गतिं ते पिता गतः || १४||

तच्छ्रुत्वा भरतो वाक्यं धर्माभिजनवाञ्शुचिः |
पपात सहसा भूमौ पितृशोकबलार्दितः || १५||

ततः शोकेन संवीतः पितुर्मरणदुःखितः |
विललाप महातेजा भ्रान्ताकुलितचेतनः || १६||

एतत्सुरुचिरं भाति पितुर्मे शयनं पुरा |
तदिदं न विभात्यद्य विहीनं तेन धीमता || १७||

तमार्तं देवसङ्काशं समीक्ष्य पतितं भुवि |
उत्थापयित्वा शोकार्तं वचनं चेदमब्रवीत् || १८||

उत्तिष्ठोत्तिष्ठ किं शेषे राजपुत्र महायशः |
त्वद्विधा न हि शोचन्ति सन्तः सदसि संमताः || १९||

स रुदत्या चिरं कालं भूमौ विपरिवृत्य च |
जननीं प्रत्युवाचेदं शोकैर्बहुभिरावृतः || २०||

अभिषेक्ष्यति रामं तु राजा यज्ञं नु यक्ष्यति |
इत्यहं कृतसङ्कल्पो हृष्टो यात्रामयासिषम् || २१||

तदिदं ह्यन्यथा भूतं व्यवदीर्णं मनो मम |
पितरं यो न पश्यामि नित्यं प्रियहिते रतम् || २२||

अम्ब केनात्यगाद्राजा व्याधिना मय्यनागते |
धन्या रामादयः सर्वे यैः पिता संस्कृतः स्वयम् || २३||

न नूनं मां महाराजः प्राप्तं जानाति कीर्तिमान् |
उपजिघ्रेद्धि मां मूर्ध्नि तातः संनम्य सत्वरम् || २४||

क्व स पाणिः सुखस्पर्शस्तातस्याक्लिष्टकर्मणः |
येन मां रजसा ध्वस्तमभीक्ष्णं परिमार्जति || २५||

यो मे भ्राता पिता बन्धुर्यस्य दासोऽस्मि धीमतः |
तस्य मां शीघ्रमाख्याहि रामस्याक्लिष्ट कर्मणः || २६||

पिता हि भवति ज्येष्ठो धर्ममार्यस्य जानतः |
तस्य पादौ ग्रहीष्यामि स हीदानीं गतिर्मम || २७||

आर्ये किमब्रवीद्राजा पिता मे सत्यविक्रमः |
पश्चिमं साधुसन्देशमिच्छामि श्रोतुमात्मनः || २८||

इति पृष्टा यथातत्त्वं कैकेयी वाक्यमब्रवीत् |
रामेति राजा विलपन्हा सीते लक्ष्मणेति च |
स महात्मा परं लोकं गतो गतिमतां वरः || २९||

इमां तु पश्चिमां वाचं व्याजहार पिता तव |
काल धर्मपरिक्षिप्तः पाशैरिव महागजः || ३०||

सिद्धार्थास्तु नरा राममागतं सीतया सह |
लक्ष्मणं च महाबाहुं द्रक्ष्यन्ति पुनरागतम् || ३१||

तच्छ्रुत्वा विषसादैव द्वितीया प्रियशंसनात् |
विषण्णवदनो भूत्वा भूयः पप्रच्छ मातरम् || ३२||

क्व चेदानीं स धर्मात्मा कौसल्यानन्दवर्धनः |
लक्ष्मणेन सह भ्रात्रा सीतया च समं गतः || ३३||

तथा पृष्टा यथातत्त्वमाख्यातुमुपचक्रमे |
मातास्य युगपद्वाक्यं विप्रियं प्रियशङ्कया || ३४||

स हि राजसुतः पुत्र चीरवासा महावनम् |
दण्डकान्सह वैदेह्या लक्ष्मणानुचरो गतः || ३५||

तच्छ्रुत्वा भरतस्त्रस्तो भ्रातुश्चारित्रशङ्कया |
स्वस्य वंशस्य माहात्म्यात्प्रष्टुं समुपचक्रमे || ३६||

कच्चिन्न ब्राह्मणवधं हृतं रामेण कस्य चित् |
कच्चिन्नाढ्यो दरिद्रो वा तेनापापो विहिंसितः || ३७||

कच्चिन्न परदारान्वा राजपुत्रोऽभिमन्यते |
कस्मात्स दण्डकारण्ये भ्रूणहेव विवासितः || ३८||

अथास्य चपला माता तत्स्वकर्म यथातथम् |
तेनैव स्त्रीस्वभावेन व्याहर्तुमुपचक्रमे || ३९||

न ब्राह्मण धनं किञ्चिद्धृतं रामेण कस्य चित् |
कश्चिन्नाढ्यो दरिद्रो वा तेनापापो विहिंसितः |
न रामः परदारांश्च चक्षुर्भ्यामपि पश्यति || ४०||

मया तु पुत्र श्रुत्वैव रामस्यैवाभिषेचनम् |
याचितस्ते पिता राज्यं रामस्य च विवासनम् || ४१||

स स्ववृत्तिं समास्थाय पिता ते तत्तथाकरोत् |
रामश्च सहसौमित्रिः प्रेषितः सह सीतया || ४२||

तमपश्यन्प्रियं पुत्रं महीपालो महायशाः |
पुत्रशोकपरिद्यूनः पञ्चत्वमुपपेदिवान् || ४३||

त्वया त्विदानीं धर्मज्ञ राजत्वमवलम्ब्यताम् |
त्वत्कृते हि मया सर्वमिदमेवंविधं कृतम् || ४४||

तत्पुत्र शीघ्रं विधिना विधिज्ञैर्
वसिष्ठमुख्यैः सहितो द्विजेन्द्रैः |
सङ्काल्य राजानमदीनसत्त्वम्
आत्मानमुर्व्यामभिषेचयस्व || ४५||

45

1649

Not finding his father there in his father's palace, Bharata went to his mother's apartment to see his mother. Beholding his son who was absent from home for long and returned, Kaikeyi was delighted and then sprang up, embraced him.

When Bharata enquired about his father, Kaikeyi told him that the king Dasaratha had passed away. That news left him in deep sorrow.

Recovering from grief, he asked about Shri Rama, Sita and Lakshmana.  Kaikeyi told him that as per the boons granted by his father, they went to the Forest.  And, she told him to perform the final rites of his father, and get him anointed as the King of Kosala Kingdom.

73

श्रुत्वा तु पितरं वृत्तं भ्रातरु च विवासितौ |
भरतो दुःखसन्तप्त इदं वचनमब्रवीत् || १||

किं नुण्कार्यं हतस्येह मम राज्येन शोचतः |
विहीनस्याथ पित्रा च भ्रात्रा पितृसमेन च || २||

दुःखे मे दुःखमकरोर्व्रणे क्षारमिवादधाः |
राजानं प्रेतभावस्थं कृत्वा रामं च तापसं || ३||

कुलस्य त्वमभावाय कालरात्रिरिवागता |
अङ्गारमुपगूह्य स्म पिता मे नावबुद्धवान् || ४||

कौसल्या च सुमित्रा च पुत्रशोकाभिपीडिते |
दुष्करं यदि जीवेतां प्राप्य त्वां जननीं मम || ५||

ननु त्वार्योऽपि धर्मात्मा त्वयि वृत्तिमनुत्तमाम् |
वर्तते गुरुवृत्तिज्ञो यथा मातरि वर्तते || ६||

तथा ज्येष्ठा हि मे माता कौसल्या दीर्घदर्शिनी |
त्वयि धर्मं समास्थाय भगिन्याम् इव वर्तते || ७||

तस्याः पुत्रं कृतात्मानं चीरवल्कलवाससं |
प्रस्थाप्य वनवासाय कथं पापे न शोचसि || ८||

अपापदर्शिनं शूरं कृतात्मानं यशस्विनम् |
प्रव्राज्य चीरवसनं किं नु पश्यसि कारणम् || ९||

लुब्धाया विदितो मन्ये न तेऽहं राघवं प्रति |
तथा ह्यनर्थो राज्यार्थं त्वया नीतो महानयम् || १०||

अहं हि पुरुषव्याघ्रावपश्यन्रामलक्ष्मणौ |
केन शक्तिप्रभावेन राज्यं रक्षितुमुत्सहे || ११||

तं हि नित्यं महाराजो बलवन्तं महाबलः |
अपाश्रितोऽभूद्धर्मात्मा मेरुर्मेरुवनं यथा || १२||

सोऽहं कथमिमं भारं महाधुर्यसमुद्यतम् |
दम्यो धुरमिवासाद्य सहेयं केन चौजसा || १३||

अथ वा मे भवेच्छक्तिर्योगैर्बुद्धिबलेन वा |
सकामां न करिष्यामि त्वामहं पुत्रगर्धिनीम् |
निवर्तयिष्यामि वनाद्भ्रातरं स्वजनप्रियम् || १४||

इत्येवमुक्त्वा भरतो महात्मा
प्रियेतरैर्वाक्यगणैस्तुदंस्ताम् |
शोकातुरश्चापि ननाद भूयः
सिंहो यथा पर्वतगह्वरस्थः || १५||

15

1664

Hearing that his father was dead and both his brothers were exiled, Bharata was tormented with grief and started accusing his mother Kaikeyi for the calamity befallen on their family.

74

तां तथा गर्हयित्वा तु मातरं भरतस्तदा |
रोषेण महताविष्टः पुनरेवाब्रवीद्वचः || १||

राज्याद्भ्रंशस्व कैकेयि नृशंसे दुष्टचारिणि |
परित्यक्ता च धर्मेण मा मृतं रुदती भव || २||

किं नु तेऽदूषयद्राजा रामो वा भृशधार्मिकः |
ययोर्मृत्युर्विवासश्च त्वत्कृते तुल्यमागतौ || ३||

भ्रूणहत्यामसि प्राप्ता कुलस्यास्य विनाशनात् |
कैकेयि नरकं गच्छ मा च भर्तुः सलोकताम् || ४||

यत्त्वया हीदृशं पापं कृतं घोरेण कर्मणा |
सर्वलोकप्रियं हित्वा ममाप्यापादितं भयम् || ५||

त्वत्कृते मे पिता वृत्तो रामश्चारण्यमाश्रितः |
अयशो जीवलोके च त्वयाहं प्रतिपादितः || ६||

मातृरूपे ममामित्रे नृशंसे राज्यकामुके |
न तेऽहमभिभाष्योऽस्मि दुर्वृत्ते पतिघातिनि || ७||

कौसल्या च सुमित्रा च याश्चान्या मम मातरः |
दुःखेन महताविष्टास्त्वां प्राप्य कुलदूषिणीम् || ८||

न त्वमश्वपतेः कन्या धर्मराजस्य धीमतः |
राक्षसी तत्र जातासि कुलप्रध्वंसिनी पितुः || ९||

यत्त्वया धार्मिको रामो नित्यं सत्यपरायणः |
वनं प्रस्थापितो दुःखात्पिता च त्रिदिवं गतः || १०||

यत्प्रधानासि तत्पापं मयि पित्रा विनाकृते |
भ्रातृभ्यां च परित्यक्ते सर्वलोकस्य चाप्रिये || ११||

कौसल्यां धर्मसंयुक्तां वियुक्तां पापनिश्चये |
कृत्वा कं प्राप्स्यसे त्वद्य लोकं निरयगामिनी || १२||

किं नावबुध्यसे क्रूरे नियतं बन्धुसंश्रयम् |
ज्येष्ठं पितृसमं रामं कौसल्यायात्मसम्भवम् || १३||

अङ्गप्रत्यङ्गजः पुत्रो हृदयाच्चापि जायते |
तस्मात्प्रियतरो मातुः प्रियत्वान्न तु बान्धवः || १४||

अन्यदा किल धर्मज्ञा सुरभिः सुरसंमता |
वहमानौ ददर्शोर्व्यां पुत्रौ विगतचेतसौ || १५||

तावर्धदिवसे श्रान्तौ दृष्ट्वा पुत्रौ महीतले |
रुरोद पुत्र शोकेन बाष्पपर्याकुलेक्षणा || १६||

अधस्ताद्व्रजतस्तस्याः सुरराज्ञो महात्मनः |
बिन्दवः पतिता गात्रे सूक्ष्माः सुरभिगन्धिनः || १७||

तां दृष्ट्वा शोकसन्तप्तां वज्रपाणिर्यशस्विनीम् |
इन्द्रः प्राञ्जलिरुद्विग्नः सुरराजोऽब्रवीद्वचः || १८||

भयं कच्चिन्न चास्मासु कुतश् चिद्विद्यते महत् |
कुतो निमित्तः शोकस्ते ब्रूहि सर्वहितैषिणि || १९||

एवमुक्ता तु सुरभिः सुरराजेन धीमता |
पत्युवाच ततो धीरा वाक्यं वाक्यविशारदा || २०||

शान्तं पातं न वः किं चित्कुतश्चिदमराधिप |
अहं तु मग्नौ शोचामि स्वपुत्रौ विषमे स्थितौ || २१||

एतौ दृष्ट्वा कृषौ दीनौ सूर्यरश्मिप्रतापिनौ |
वध्यमानौ बलीवर्दौ कर्षकेण सुराधिप || २२||

मम कायात्प्रसूतौ हि दुःखितौ भार पीडितौ |
यौ दृष्ट्वा परितप्येऽहं नास्ति पुत्रसमः प्रियः || २३||

यस्याः पुत्र सहस्राणि सापि शोचति कामधुक् |
किं पुनर्या विना रामं कौसल्या वर्तयिष्यति || २४||

एकपुत्रा च साध्वी च विवत्सेयं त्वया कृता |
तस्मात्त्वं सततं दुःखं प्रेत्य चेह च लप्स्यसे || २५||

अहं ह्यपचितिं भ्रातुः पितुश्च सकलामिमाम् |
वर्धनं यशसश्चापि करिष्यामि न संशयः || २६||

आनाययित्वा तनयं कौसल्याया महाद्युतिम् |
स्वयमेव प्रवेक्ष्यामि वनं मुनिनिषेवितम् || २७||

इति नाग इवारण्ये तोमराङ्कुशचोदितः |
पपात भुवि सङ्क्रुद्धो निःश्वसन्निव पन्नगः || २८||

संरक्तनेत्रः शिथिलाम्बरस्तदा
विधूतसर्वाभरणः परन्तपः |
बभूव भूमौ पतितो नृपात्मजः
शचीपतेः केतुरिवोत्सवक्षये || २९||

29

1693

Reproaching Kaikeyi in that manner, Bharata declared that he would not become the king and instead go to the Forest, request and bring back Shri Rama to Ayodhya and see that Shri Rama becomes the king and serve him.

इत्यार्षे श्री रामायणे अयोध्याकाण्डे अष्टादश: भाग:

 

Ayōdhyākāṇḍa Part-17

Ayōdhyākāṇḍa Part-19

No comments:

Post a Comment